श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं यत्
असदित्युच्यते पार्थ तत्प्रेत्य नो इह ॥ २८ ॥
अश्रद्धया हुतं हवनं कृतम् , अश्रद्धया दत्तं ब्राह्मणेभ्यः, अश्रद्धया तपः तप्तम् अनुष्ठितम् , तथा अश्रद्धयैव कृतं यत् स्तुतिनमस्कारादि, तत् सर्वम् असत् इति उच्यते, मत्प्राप्तिसाधनमार्गबाह्यत्वात् पार्थ तत् बहुलायासमपि प्रेत्य फलाय नो अपि इहार्थम् , साधुभिः निन्दितत्वात् इति ॥ २८ ॥

तस्य असत्त्वं साधयति -

मत्प्राप्तीति ।

ऐहिकामुष्मिकं वा फलम् अश्रद्धितेनापि कर्मणा सम्पत्स्यते । कुतः अस्य असत्त्वमिति आशङ्क्य आह -

न चेति ।

तस्य उभयविधफलाहेतुत्वे हेतुम् आह -

साधुभिरिति ।

निन्दन्ति हि साधवः श्रद्धारहितं कर्म । अतः न एतत् उभयफलौपयिकम् इत्यर्थः । तत् अनेन शास्त्रानभिज्ञानामपि श्रद्धावतां श्रद्धया सात्त्विकत्वादित्रैविध्यभाजां राजसतामसाहारादित्यागेन सात्त्विकाहारादिसेवया सत्त्वैकशरणानां प्राप्तमपि यज्ञादिवैगुण्यं ब्रह्मनामनिर्देशेन परिहरतां परिशुद्धबुद्धीनां श्रवणादिसामग्रीसञ्जाततत्त्वसाक्षात्कारवतां मोक्षोपपत्तिरिति स्थितम्

॥ २८ ॥

इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवदुगीताशाङ्करभाष्यव्याख्याने सप्तदशोऽध्यायः

॥ २७ ॥