तस्य असत्त्वं साधयति -
मत्प्राप्तीति ।
ऐहिकामुष्मिकं वा फलम् अश्रद्धितेनापि कर्मणा सम्पत्स्यते । कुतः अस्य असत्त्वमिति आशङ्क्य आह -
न चेति ।
तस्य उभयविधफलाहेतुत्वे हेतुम् आह -
साधुभिरिति ।
निन्दन्ति हि साधवः श्रद्धारहितं कर्म । अतः न एतत् उभयफलौपयिकम् इत्यर्थः । तत् अनेन शास्त्रानभिज्ञानामपि श्रद्धावतां श्रद्धया सात्त्विकत्वादित्रैविध्यभाजां राजसतामसाहारादित्यागेन सात्त्विकाहारादिसेवया सत्त्वैकशरणानां प्राप्तमपि यज्ञादिवैगुण्यं ब्रह्मनामनिर्देशेन परिहरतां परिशुद्धबुद्धीनां श्रवणादिसामग्रीसञ्जाततत्त्वसाक्षात्कारवतां मोक्षोपपत्तिरिति स्थितम्
॥ २८ ॥
इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवदुगीताशाङ्करभाष्यव्याख्याने सप्तदशोऽध्यायः
॥ २७ ॥