कर्म नित्यं नैमित्तिकं च । काम्पानां कर्मणाम् इति आरभ्य श्लोकाभ्यां कर्मिणः अकर्मिणः अधिकृतान् अनधिकृतांश्च अपेक्ष्य दर्शितविकल्पानां प्रवृत्तिः इति आशङ्क्य आह -
कर्मिणः इति ।
एवकारव्यवच्छेद्यम् आह -
न त्विति ।
तदेव स्फुटयति -
ज्ञानेति ।