त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥
कर्मिणः एव अधिकृताः, तान् अपेक्ष्य एते विकल्पाः, न तु ज्ञाननिष्ठान् व्युत्थायिनः संन्यासिनः अपेक्ष्य । ‘ज्ञानयोगेन साङ्ख्यानां निष्ठा मया पुरा प्रोक्ता’ (भ. गी. ३ । ३) इति कर्माधिकारात् अपोद्धृताः ये, न तान् प्रति चिन्ता ॥