श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः
यज्ञदानतपःकर्म त्याज्यमिति चापरे ॥ ३ ॥
कर्मिणः एव अधिकृताः, तान् अपेक्ष्य एते विकल्पाः, तु ज्ञाननिष्ठान् व्युत्थायिनः संन्यासिनः अपेक्ष्यज्ञानयोगेन साङ्ख्यानां निष्ठा मया पुरा प्रोक्ता’ (भ. गी. ३ । ३) इति कर्माधिकारात् अपोद्धृताः ये, तान् प्रति चिन्ता

कर्म नित्यं नैमित्तिकं च । काम्पानां कर्मणाम् इति आरभ्य श्लोकाभ्यां कर्मिणः अकर्मिणः अधिकृतान् अनधिकृतांश्च अपेक्ष्य दर्शितविकल्पानां प्रवृत्तिः इति आशङ्क्य आह -

कर्मिणः इति ।

एवकारव्यवच्छेद्यम् आह -

न त्विति ।

तदेव स्फुटयति -

ज्ञानेति ।