श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्
अतत्त्वार्थवदल्पं तत्तामसमुदाहृतम् ॥ २२ ॥
यत् ज्ञानं कृत्स्नवत् समस्तवत् सर्वविषयमिव एकस्मिन् कार्ये देहे बहिर्वा प्रतिमादौ सक्तम्एतावाने आत्मा ईश्वरो वा, अतः परम् अस्तिइति, यथा नग्नक्षपणकादीनां शरीरान्तर्वर्ती देहपरिमाणो जीवः, ईश्वरो वा पाषाणदार्वादिमात्रम् , इत्येवम् एकस्मिन् कार्ये सक्तम् अहैतुकं हेतुवर्जितं निर्युक्तिकम् , अतत्त्वार्थवत् अयथाभूतार्थवत् , यथाभूतः अर्थः तत्त्वार्थः, सः अस्य ज्ञेयभूतः अस्तीति तत्त्वार्थवत् , तत्त्वार्थवत् अतत्त्वार्थवत् ; अहैतुकत्वादेव अल्पं , अल्पविषयत्वात् अल्पफलत्वाद्वातत् तामसम् उदाहृतम्तामसानां हि प्राणिनाम् अविवेकिनाम् ईदृशं ज्ञानं दृश्यते ॥ २२ ॥

सक्तत्वमेव व्यनक्ति -

एतावानिति ।

एकस्मिन् कार्ये ज्ञानस्य सक्तत्वमेव दृष्टान्तेन साधयति -

यथेत्यादिना ।

यत् निर्युक्तिकत्वं, तदेव ज्ञानस्य आभासत्वे कारणम् इत्याह -

अहैतुकत्वादिति ।

स्वरूपतो विषयतश्च आभासत्वं फलतो वा इत्याह -

अल्पेति ।

तामसं ज्ञानम् उक्तलक्षणम् इत्यत्र अनुभवं प्रमाणयति -

तामसानां हीति

॥ २२ ॥