यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥
यत् ज्ञानं कृत्स्नवत् समस्तवत् सर्वविषयमिव एकस्मिन् कार्ये देहे बहिर्वा प्रतिमादौ सक्तम् ‘एतावानेव आत्मा ईश्वरो वा, न अतः परम् अस्ति’ इति, यथा नग्नक्षपणकादीनां शरीरान्तर्वर्ती देहपरिमाणो जीवः, ईश्वरो वा पाषाणदार्वादिमात्रम् , इत्येवम् एकस्मिन् कार्ये सक्तम् अहैतुकं हेतुवर्जितं निर्युक्तिकम् , अतत्त्वार्थवत् अयथाभूतार्थवत् , यथाभूतः अर्थः तत्त्वार्थः, सः अस्य ज्ञेयभूतः अस्तीति तत्त्वार्थवत् , न तत्त्वार्थवत् अतत्त्वार्थवत् ; अहैतुकत्वादेव अल्पं च, अल्पविषयत्वात् अल्पफलत्वाद्वा । तत् तामसम् उदाहृतम् । तामसानां हि प्राणिनाम् अविवेकिनाम् ईदृशं ज्ञानं दृश्यते ॥ २२ ॥