सक्तत्वमेव व्यनक्ति -
एतावानिति ।
एकस्मिन् कार्ये ज्ञानस्य सक्तत्वमेव दृष्टान्तेन साधयति -
यथेत्यादिना ।
यत् निर्युक्तिकत्वं, तदेव ज्ञानस्य आभासत्वे कारणम् इत्याह -
अहैतुकत्वादिति ।
स्वरूपतो विषयतश्च आभासत्वं फलतो वा इत्याह -
अल्पेति ।
तामसं ज्ञानम् उक्तलक्षणम् इत्यत्र अनुभवं प्रमाणयति -
तामसानां हीति
॥ २२ ॥