श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वः संसारः क्रियाकारकफललक्षणः सत्त्वरजस्तमोगुणात्मकः अविद्यापरिकल्पितः समूलः अनर्थः उक्तः, वृक्षरूपकल्पनया ऊर्ध्वमूलम्’ (भ. गी. १५ । १) इत्यादिना,तं असङ्गशस्त्रेण दृढेन च्छित्त्वा' 'ततः पदं तत्परिमार्गितव्यम्’ (भ. गी. १५ । ३), (भ. गी. १५ । ४) इति उक्तम्तत्र सर्वस्य त्रिगुणात्मकत्वात् संसारकारणनिवृत्त्यनुपपत्तौ प्राप्तायाम् , यथा तन्निवृत्तिः स्यात् तथा वक्तव्यम् , सर्वश्च गीताशास्त्रार्थः उपसंहर्तव्यः, एतावाने सर्ववेदस्मृत्यर्थः पुरुषार्थम् इच्छद्भिः अनुष्ठेयः इत्येवमर्थम्ब्राह्मणक्षत्रियविशाम्इत्यादिः आरभ्यते

प्रकरणार्थम् उपसंहृतम् अनुवदति -

सर्व इति ।

तस्य अनेकात्मत्वेन हेयत्वं सूचयति -

क्रियेति ।

निर्गुणात् आत्मनः वैलक्षण्याच्च तस्या हेयता, इति आह -

सत्त्वेति ।

अनर्थत्वाच्च तस्य त्याज्यत्वम् , अनर्थत्वं च अविद्याकल्पितत्वेन, अवस्तुनो वस्तुवत् भानात् इत्याह -

अविद्येति ।

न केवलम् अष्टादशे संसारो दर्शितः, किन्तु पञ्चदशेऽपीत्याह -

वृक्षेति ।

चकारात् उक्तः संसारः अनुकृष्यते ।

संसारध्वस्तिसाधनं सम्यक् ज्ञानं च तत्रैव उक्तम् इत्याह -

असङ्गेति ।

वृत्तम् अनूद्य अनन्तरसन्दर्भतात्पर्यम् आह -

तत्र चेति ।

उक्तः निवर्तयिषितः संसारः सतिसप्तम्या परामृश्यते । सर्वो हि संसारो गुणत्रयात्मकः । न च गुणानां प्रकृत्यात्मकानां संसारकारणीभूतानां निवृत्तिः युक्ता, प्रकृतेः नित्यत्वात् इति आशङ्कायां, स्वधर्मानुष्ठानात् तत्त्वज्ञानोत्पत्त्या गुणानाम् अज्ञानात्मकानां निवृत्तिर्यथा भवति, तथा स्वधर्मजातं वक्तव्यम् इति उत्तरग्रन्थप्रवृत्तिः इत्यर्थः ।

तत्तद्वर्णप्रयुक्तधर्मजातानुपदेशे च उपसंहारप्रकरणप्रकोपः स्यात् , इति आह -

सर्वश्चेति ।

उपसंहृते गीताशास्त्रे यद्यपि सर्वो वेदार्थः स्मृत्यर्थश्च सर्वः उपसंहृतः, तथापि मुमुक्षुभिः अनुष्ठेयम् अस्ति वक्तवयम् अवशिष्टम् इति आशङ्क्य आह -

एतावानिति ।

अनुष्ठेयपरिमाणनिर्धारणवत् उक्तशङ्कानिवर्तनं शास्त्रार्थोपसंहारश्च इति एतत् उभयं चकारार्थः ।