प्रकरणार्थम् उपसंहृतम् अनुवदति -
सर्व इति ।
तस्य अनेकात्मत्वेन हेयत्वं सूचयति -
क्रियेति ।
निर्गुणात् आत्मनः वैलक्षण्याच्च तस्या हेयता, इति आह -
सत्त्वेति ।
अनर्थत्वाच्च तस्य त्याज्यत्वम् , अनर्थत्वं च अविद्याकल्पितत्वेन, अवस्तुनो वस्तुवत् भानात् इत्याह -
अविद्येति ।
न केवलम् अष्टादशे संसारो दर्शितः, किन्तु पञ्चदशेऽपीत्याह -
वृक्षेति ।
चकारात् उक्तः संसारः अनुकृष्यते ।
संसारध्वस्तिसाधनं सम्यक् ज्ञानं च तत्रैव उक्तम् इत्याह -
असङ्गेति ।
वृत्तम् अनूद्य अनन्तरसन्दर्भतात्पर्यम् आह -
तत्र चेति ।
उक्तः निवर्तयिषितः संसारः सतिसप्तम्या परामृश्यते । सर्वो हि संसारो गुणत्रयात्मकः । न च गुणानां प्रकृत्यात्मकानां संसारकारणीभूतानां निवृत्तिः युक्ता, प्रकृतेः नित्यत्वात् इति आशङ्कायां, स्वधर्मानुष्ठानात् तत्त्वज्ञानोत्पत्त्या गुणानाम् अज्ञानात्मकानां निवृत्तिर्यथा भवति, तथा स्वधर्मजातं वक्तव्यम् इति उत्तरग्रन्थप्रवृत्तिः इत्यर्थः ।
तत्तद्वर्णप्रयुक्तधर्मजातानुपदेशे च उपसंहारप्रकरणप्रकोपः स्यात् , इति आह -
सर्वश्चेति ।
उपसंहृते गीताशास्त्रे यद्यपि सर्वो वेदार्थः स्मृत्यर्थश्च सर्वः उपसंहृतः, तथापि मुमुक्षुभिः अनुष्ठेयम् अस्ति वक्तवयम् अवशिष्टम् इति आशङ्क्य आह -
एतावानिति ।
अनुष्ठेयपरिमाणनिर्धारणवत् उक्तशङ्कानिवर्तनं शास्त्रार्थोपसंहारश्च इति एतत् उभयं चकारार्थः ।