श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शमो दमस्तपः शौचं
क्षान्तिरार्जवमेव
ज्ञानं विज्ञानमास्तिक्यं
ब्रह्मकर्म स्वभावजम् ॥ ४२ ॥
शमः दमश्च यथाव्याख्यातार्थौ, तपः यथोक्तं शारीरादि, शौचं व्याख्यातम् , क्षान्तिः क्षमा, आर्जवम् ऋजुता एव ज्ञानं विज्ञानम् , आस्तिक्यम् आस्तिकभावः श्रद्दधानता आगमार्थेषु, ब्रह्मकर्म ब्राह्मणजातेः कर्म स्वभावजम्यत् उक्तं स्वभावप्रभवैर्गुणैः प्रविभक्तानि इति तदेवोक्तं स्वभावजम् इति ॥ ४२ ॥

‘अन्तःकरणोपशमः - शमः', दमः - बाह्यकरणोपरतिः इत्यक्तं स्मारयति-

यथेति ।

त्रिविधं तपः सप्तदशे दर्शितम् इत्याह - तप इति ।

शौचमपि बाह्यान्तरभेदेन प्रागेव उक्तम् इत्याह -

शौचमिति ।

क्षमा नाम आक्रुष्टस्य ताडितस्य वा मनसि विकारराहित्यम् । ज्ञानं - शास्त्रीयपदार्थज्ञानम् । विज्ञानं शास्त्रार्थस्य स्वानुभवायत्तत्वापादनम् ।

त्रिधा व्याख्यातं स्वभावशब्दार्थम् उपेत्य आह -

यदुक्तमिति

॥ ४२ ॥