‘अन्तःकरणोपशमः - शमः', दमः - बाह्यकरणोपरतिः इत्यक्तं स्मारयति-
यथेति ।
त्रिविधं तपः सप्तदशे दर्शितम् इत्याह - तप इति ।
शौचमपि बाह्यान्तरभेदेन प्रागेव उक्तम् इत्याह -
शौचमिति ।
क्षमा नाम आक्रुष्टस्य ताडितस्य वा मनसि विकारराहित्यम् । ज्ञानं - शास्त्रीयपदार्थज्ञानम् । विज्ञानं शास्त्रार्थस्य स्वानुभवायत्तत्वापादनम् ।
त्रिधा व्याख्यातं स्वभावशब्दार्थम् उपेत्य आह -
यदुक्तमिति
॥ ४२ ॥