श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
स्वे स्वे कर्मण्यभिरतः
संसिद्धिं लभते नरः
स्वकर्मनिरतः सिद्धिं
यथा विन्दति तच्छृणु ॥ ४५ ॥
स्वे स्वे यथोक्तलक्षणभेदे कर्मणि अभिरतः तत्परः संसिद्धिं स्वकर्मानुष्ठानात् अशुद्धिक्षये सति कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां संसिद्धिं लभते प्राप्नोति नरः अधिकृतः पुरुषः ; किं स्वकर्मानुष्ठानत एव साक्षात् संसिद्धिः ? ; कथं तर्हि ? स्वकर्मनिरतः सिद्धिं यथा येन प्रकारेण विन्दति, तत् शृणु ॥ ४५ ॥

मोक्षोपायेषु शमदिषु सात्त्विकेषु ब्राह्मणधर्मेषु क्षत्रियादीनाम् अनधिकारात् ब्राह्मणानामेव मोक्षः, न क्षत्रियादीनाम् , इति आशङ्क्य आह -

स्वे स्वे इति ।

यथा स्वे कर्मणि अभिरतस्य बुद्धिशुद्धिद्वारा ज्ञाननिष्ठायोग्यतया प्राप्तज्ञानस्य मोक्षोपपत्तेः ब्राह्मणातिरिक्तस्यापि ज्ञानवतः मुक्तिः इति मत्वा पूर्वार्धं व्याचष्टे -

स्वे स्वे इत्यादिना ।

संसिद्धिशब्दस्य मोक्षार्थत्वं गृहीत्वा स्वधर्मनिष्ठत्वमात्रेण तल्लाभे, तादर्थ्येन संन्यासादिविधानानर्थक्यम् इति मन्वानः शङ्कते -

किमिति ।

न तावन्मात्रेण साक्षान्मोक्षः, ज्ञाननिष्ठायोग्यता वा इति परिहरति -

नेति ।

तर्हि कथं स्वधर्मनिष्ठस्य संसिद्धिरिति पृच्छति -

कथं तर्हि इति ।

उत्तरार्धेन उत्तरम् आह -

स्वकर्मेति ।

तत् श्रृणु - तं प्रकारम् एकाग्रचेता भूत्वा श्रुत्वा, अवधारय इत्यर्थः

॥ ४५ ॥