मोक्षोपायेषु शमदिषु सात्त्विकेषु ब्राह्मणधर्मेषु क्षत्रियादीनाम् अनधिकारात् ब्राह्मणानामेव मोक्षः, न क्षत्रियादीनाम् , इति आशङ्क्य आह -
स्वे स्वे इति ।
यथा स्वे कर्मणि अभिरतस्य बुद्धिशुद्धिद्वारा ज्ञाननिष्ठायोग्यतया प्राप्तज्ञानस्य मोक्षोपपत्तेः ब्राह्मणातिरिक्तस्यापि ज्ञानवतः मुक्तिः इति मत्वा पूर्वार्धं व्याचष्टे -
स्वे स्वे इत्यादिना ।
संसिद्धिशब्दस्य मोक्षार्थत्वं गृहीत्वा स्वधर्मनिष्ठत्वमात्रेण तल्लाभे, तादर्थ्येन संन्यासादिविधानानर्थक्यम् इति मन्वानः शङ्कते -
किमिति ।
न तावन्मात्रेण साक्षान्मोक्षः, ज्ञाननिष्ठायोग्यता वा इति परिहरति -
नेति ।
तर्हि कथं स्वधर्मनिष्ठस्य संसिद्धिरिति पृच्छति -
कथं तर्हि इति ।
उत्तरार्धेन उत्तरम् आह -
स्वकर्मेति ।
तत् श्रृणु - तं प्रकारम् एकाग्रचेता भूत्वा श्रुत्वा, अवधारय इत्यर्थः
॥ ४५ ॥