श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यतः प्रवृत्तिर्भूतानां
येन सर्वमिदं ततम्
स्वकर्मणा तमभ्यर्च्य
सिद्धिं विन्दति मानवः ॥ ४६ ॥
यतः यस्मात् प्रवृत्तिः उत्पत्तिः चेष्टा वा यस्मात् अन्तर्यामिणः ईश्वरात् भूतानां प्राणिनां स्यात् , येन ईश्वरेण सर्वम् इदं ततं जगत् व्याप्तं स्वकर्मणा पूर्वोक्तेन प्रतिवर्णं तम् ईश्वरम् अभ्यर्च्य पूजयित्वा आराध्य केवलं ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं विन्दति मानवः मनुष्यः ॥ ४६ ॥

तमेव प्रकारं स्फुटयति -

यत इति ।

यतःशब्दार्थं यस्मात् इत्युक्तं व्यक्तीकरोति -

यस्मादिति ।

प्राणिनाम् उत्पत्तिः यस्मात् - ईश्वरात् तेषां चेष्टा च यस्मात् अन्तर्यामिणः, येन च सर्वं व्याप्तं, मृदा इव घटादि, कार्यस्य कारणातिरिक्तस्वरूपाभावात् , तं स्वकर्मणा अभ्यर्च्य मानवः संसिद्धिं विन्दति इति सम्बन्धः । न हि ब्राह्मणादीनां यथोक्तधर्मनिष्ठया साक्षात् मोक्षः लभ्यते, तस्य ज्ञानैकलभ्यत्वात् ।

किन्तु, तन्निष्ठानां शुद्धबुद्धीनां कर्मसु फलम् अपश्यताम् ईश्वरप्रसादासादितविवेकवैराग्यवतां संन्यासिनां ज्ञाननिष्ठायोग्यतावतां ज्ञानप्राप्त्या मुक्तिः इति अभिप्रेत्य आह -

केवलमिति

॥ ४६ ॥