तमेव प्रकारं स्फुटयति -
यत इति ।
यतःशब्दार्थं यस्मात् इत्युक्तं व्यक्तीकरोति -
यस्मादिति ।
प्राणिनाम् उत्पत्तिः यस्मात् - ईश्वरात् तेषां चेष्टा च यस्मात् अन्तर्यामिणः, येन च सर्वं व्याप्तं, मृदा इव घटादि, कार्यस्य कारणातिरिक्तस्वरूपाभावात् , तं स्वकर्मणा अभ्यर्च्य मानवः संसिद्धिं विन्दति इति सम्बन्धः । न हि ब्राह्मणादीनां यथोक्तधर्मनिष्ठया साक्षात् मोक्षः लभ्यते, तस्य ज्ञानैकलभ्यत्वात् ।
किन्तु, तन्निष्ठानां शुद्धबुद्धीनां कर्मसु फलम् अपश्यताम् ईश्वरप्रसादासादितविवेकवैराग्यवतां संन्यासिनां ज्ञाननिष्ठायोग्यतावतां ज्ञानप्राप्त्या मुक्तिः इति अभिप्रेत्य आह -
केवलमिति
॥ ४६ ॥