कार्यस्य अत्यन्तासत्त्वानभ्युपगमात् कारणसम्बन्धः स्यात् इति शङ्कते -
नन्विति ।
सतामेव द्व्यणुकादीनां कारणसम्बन्धं शङ्कितं दूषयति -
न सम्बन्धादिति ।
अनभ्युपगममेव विशदयति -
नहीति ।
सदेव कारणं कार्याकारम् आपद्य कार्यव्यवहारं निर्वहति इति अभ्युपगमात् नास्ति सम्बन्धानुपपत्तिः इति आशङ्क्य अपराद्वान्तात् मैवम् इत्याह -
न चेति ।
कार्यस्य कारणसम्बन्धात् पूर्वं सत्त्वाभावे परिशेषसिद्धम् अर्थं दर्शयति -
ततश्चेति ।
तत्र च अनुपपत्तिः उक्ता इति शेषः ।