श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सहजं कर्म कौन्तेय
सदोषमपि त्यजेत्
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ ४८ ॥
ननु नैवं वैशेषिकैः अभावस्य सम्बन्धः कल्प्यतेद्व्यणुकादीनां हि द्रव्याणां स्वकारणसमवायलक्षणः सम्बन्धः सतामेव उच्यते इति ; सम्बन्धात् प्राक् सत्त्वानभ्युपगमात् हि वैशेषिकैः कुलालदण्डचक्रादिव्यापारात् प्राक् घटादीनाम् अस्तित्वम् इष्यते मृद एव घटाद्याकारप्राप्तिम् इच्छन्तिततश्च असत एव सम्बन्धः पारिशेष्यात् इष्टो भवति

कार्यस्य अत्यन्तासत्त्वानभ्युपगमात् कारणसम्बन्धः स्यात् इति शङ्कते -

नन्विति ।

सतामेव द्व्यणुकादीनां कारणसम्बन्धं शङ्कितं दूषयति -

न सम्बन्धादिति ।

अनभ्युपगममेव विशदयति -

नहीति ।

सदेव कारणं कार्याकारम् आपद्य कार्यव्यवहारं निर्वहति इति अभ्युपगमात् नास्ति सम्बन्धानुपपत्तिः इति आशङ्क्य अपराद्वान्तात् मैवम् इत्याह -

न चेति ।

कार्यस्य कारणसम्बन्धात् पूर्वं सत्त्वाभावे परिशेषसिद्धम् अर्थं दर्शयति -

ततश्चेति ।

तत्र च अनुपपत्तिः उक्ता इति शेषः ।