पूर्वापरालोचनातः गीताशास्त्रं व्याख्याय उपसंहृत्य, तत्तात्पर्यार्थं निर्धारितम् अपि विचारद्वारा निर्धारयितुं विचारम् अवतारयति -
अस्मिन्निति ।
किंशब्दार्थमेव त्रेधा विभजते -
ज्ञानमिति ।
निमित्ताभावे संशयस्य आभासत्वात् न निरस्यतेति मत्वा पृच्छति -
कुत इति ।
तत्तदर्थावद्योतकानेकवाक्यदर्शनं तन्निमित्तम् इत्याह -
यज्ज्ञात्वेति ।
कर्मणाम् अवश्यकर्तव्यत्वोपलम्भात् तेभ्योऽपि निःश्रेयसप्राप्तिः भाति इत्याह -
कर्मण्येवेति ।
तथापि समुच्चप्रापकं नास्ति इति आशङ्क्य, आह -
एवमिति ।
सत्यां सामग्र्यां कार्यम् अवश्यंभावि इति उपसंहरति -
इति भवेदिति ।
सन्दिग्धं सफलं च विचार्यम् इति स्थितेः, असति फले सन्दिग्धमपि न विचार्यम् इति बुद्ध्या पृच्छति -
किं पुनरिति ।
प्रत्येकं ज्ञानकर्मणोः समुच्चितयोर्वा मुक्तिं प्रति परमसाधनता ? इति अवधारणमेव विचारफलमिति परिहरति -
नन्विति ।
सन्देहप्रयोजनयोः विचारप्रयोजकयोः भावात् विचारद्वारा परममुक्तिसाधनं निर्धारणीयम् इति निगमयति -
अत इति ।