श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वधर्मान्परित्यज्य
मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
अस्मिन्गीताशास्त्रे परमनिःश्रेयससाधनं निश्चितं किं ज्ञानम् , कर्म वा, आहोस्वित् उभयम् ? इतिकुतः संशयः ? यज्ज्ञात्वामृतमश्नुते’ (भ. गी. १३ । १२) ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’ (भ. गी. १८ । ५५) इत्यादीनि वाक्यानि केवलाज्ज्ञानात् निःश्रेयसप्राप्तिं दर्शयन्तिकर्मण्येवाधिकारस्ते’ (भ. गी. २ । ४७) कुरु कर्मैव’ (भ. गी. ४ । १५) इत्येवमादीनि कर्मणामवश्यकर्तव्यतां दर्शयन्तिएवं ज्ञानकर्मणोः कर्तव्यत्वोपदेशात् समुच्चितयोरपि निःश्रेयसहेतुत्वं स्यात् इति भवेत् संशयः कस्यचित्किं पुनरत्र मीमांसाफलम् ? ननु एतदेवएषामन्यतमस्य परमनिःश्रेयससाधनत्वावधारणम् ; अतः विस्तीर्णतरं मीमांस्यम् एतत्

पूर्वापरालोचनातः गीताशास्त्रं व्याख्याय उपसंहृत्य, तत्तात्पर्यार्थं निर्धारितम् अपि विचारद्वारा निर्धारयितुं विचारम् अवतारयति -

अस्मिन्निति ।

किंशब्दार्थमेव त्रेधा विभजते -

ज्ञानमिति ।

निमित्ताभावे संशयस्य आभासत्वात् न निरस्यतेति मत्वा पृच्छति -

कुत इति ।

तत्तदर्थावद्योतकानेकवाक्यदर्शनं तन्निमित्तम् इत्याह -

यज्ज्ञात्वेति ।

कर्मणाम् अवश्यकर्तव्यत्वोपलम्भात् तेभ्योऽपि निःश्रेयसप्राप्तिः भाति इत्याह -

कर्मण्येवेति ।

तथापि समुच्चप्रापकं नास्ति इति आशङ्क्य, आह -

एवमिति ।

सत्यां सामग्र्यां कार्यम् अवश्यंभावि इति उपसंहरति -

इति भवेदिति ।

सन्दिग्धं सफलं च विचार्यम् इति स्थितेः, असति फले सन्दिग्धमपि न विचार्यम् इति बुद्ध्या पृच्छति -

किं पुनरिति ।

प्रत्येकं ज्ञानकर्मणोः समुच्चितयोर्वा मुक्तिं प्रति परमसाधनता ? इति अवधारणमेव विचारफलमिति परिहरति -

नन्विति ।

सन्देहप्रयोजनयोः विचारप्रयोजकयोः भावात् विचारद्वारा परममुक्तिसाधनं निर्धारणीयम् इति निगमयति -

अत इति ।