श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वं गीताशास्त्रार्थमुपसंहृत्य अस्मिन्नध्याये, विशेषतश्च अन्ते, इह शास्त्रार्थदार्ढ्याय सङ्क्षेपतः उपसंहारं कृत्वा, अथ इदानीं शास्त्रसम्प्रदायविधिमाह
सर्वं गीताशास्त्रार्थमुपसंहृत्य अस्मिन्नध्याये, विशेषतश्च अन्ते, इह शास्त्रार्थदार्ढ्याय सङ्क्षेपतः उपसंहारं कृत्वा, अथ इदानीं शास्त्रसम्प्रदायविधिमाह

शास्त्रीतात्पर्यार्थं विचारद्वारा निर्धार्य अनन्तरश्लोकम् अवतारयति -

सर्वमिति ।

प्रकृते खलु अष्टादशाध्याये गीताशास्त्रीार्थं सर्वं प्रतिपत्तिसौकर्यार्थम् उपसंहृत्य, अन्ते च सर्वधर्मान् परित्यज्य इत्यादौ विशेषतः तस्य सङ्क्षेपेण उपसंहारं कृत्वा सम्प्रदायविधिवचनस्यावसरे सति इदानीम् इति योजना ।

किमिति विस्तरेण उपसंहृतः शास्त्रार्थः सङ्क्षिप्य उपसंह्रियते ? तत्राह -

शास्त्रार्थेति ।

सङ्क्षेपविस्तराभ्याम् उक्तः अर्थः सर्वेषां दृढतया बुद्धिम् अधिरोहति इत्यर्थः ।