कच्चिदेतच्छ्रुतं पार्थ
त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसंमोहः
प्रणष्टस्ते धनञ्जय ॥ ७२ ॥
कच्चित् किम् एतत् मया उक्तं श्रुतं श्रवणेन अवधारितं पार्थ, त्वया एकाग्रेण चेतसा चित्तेन ? किं वा अप्रमादतः ? कच्चित् अज्ञानसंमोहः अज्ञाननिमित्तः संमोहः अविविक्तभावः अविवेकः स्वाभाविकः किं प्रणष्टः ? यदर्थः अयं शास्त्रश्रवणायासः तव, मम च उपदेष्टृत्वायासः प्रवृत्तः, ते तुभ्यं हे धनञ्जय ॥ ७२ ॥