प्रेमोपदिष्टात्मज्ञानस्य अज्ञानसन्देहविपर्यासरहितस्य पृष्टस्य भगवदनुग्रहप्राप्तिकथनेन भगवन्तं परितोषयिष्यन् अर्जुनः विज्ञापितवान् इत्याह -
अर्जुन इति ।
अज्ञानोत्थस्य अविवेकस्य नष्टत्वमेव स्पष्टयति -
समस्त इति ।
स्वयञ्ज्योतिषि प्रतीचि ब्रह्मणि अविद्याभ्रमं विद्या अपनयति
। न अविदितं प्रकाशयति इति मत्वा आह-
स्मृतिश्चेति ।
स्मृतिलाभे किं स्यात् ? इति चेत् तत् आह -
यस्या इति ।
मोहनाशे स्मृतिप्रतिलम्भे च असाधारणं कारणम् आह -
त्वत्प्रसादादिति ।
प्रकृतेन प्रश्नप्रतिवचनेन लब्धम् अर्थं कथयति -
अनेनेति ।
यत् उक्तं स्मृतिप्रतिलम्भात् अशेषतः हृदयग्रन्थीनां विप्रमोक्षः स्यात् इति तत्र प्रमाणम् आह -
तथा चेति ।
ज्ञानात् अज्ञानतत्कार्यनिवृत्तौ श्रुत्यन्तरमपि संवादयति -
भिद्यते इति ।
भगवदनुग्रहात् अज्ञानकृतमोहदाहानन्तरम् आत्मज्ञाने प्रतिलब्धे त्वदाज्ञाप्रतीक्षः अहम् इति उत्तरार्धं व्याकरोति -
अथेति ।
तव वचनं करिष्ये अहम् इत्यत्र तात्पर्यम् आह -
अहमिति ।
॥ ७३ ॥