प्रयत्नाद्यन्तरेणैव मनआदेः प्रवर्तकम् ।
विदिताविदितान्यत्वसिद्धं ब्रह्माहमद्वयम् ॥ १ ॥
केनेषितमित्यादिकां सामवेदशाखाभेदब्राह्मणोपनिषदं पदशो व्याख्यायापि न तुतोष भगवान्भाष्यकारः शारीरकैर्न्यायैरनिर्णीतार्थत्वादिति न्यायप्रधानश्रुत्यर्थसङ्ग्राहकैर्वाक्यैर्व्याचिख्यासुः पूर्वकाण्डेन सम्बन्धमभिधित्सुः पूर्वकाण्डार्थं सङ्क्षेपतो दर्शयति –
समाप्तमिति ।
कर्मणामात्मभूत आश्रयभूतः प्राणस्तस्य शुद्धत्वादिगुणविशिष्टस्योपासनं पूर्वत्रातिवृत्तं कर्म च नित्यनैमित्तिकाद्यनेकप्रकारमविदुषामतिक्रान्तमित्यर्थः ।
ताभ्यां ज्ञानकर्मभ्यामेव मोक्षसिद्धेर्न मुमुक्षोः पृथगुपनिषदारभ्येतिशङ्कानिरासाय ज्ञानकर्मणी विशिनष्टि –
ययोरिति ।
ज्ञानमनादृत्य कर्मण एव निरपेक्षसाधनतयाऽनुष्ठानं विकल्पस्ततश्चन्द्रमण्डलं प्राप्याऽऽवर्तते । केवलस्य ज्ञानस्य कर्मसमुच्चितस्य वाऽनुष्ठानाद्ब्रह्मलोकं प्राप्य स्थित एव तस्मान्नाऽऽवर्तत इत्यापेक्षिक्यनावृत्तिर्भवति न पुनरात्यन्तिकी । कृतकत्वपरिच्छेदाभ्यामनित्यत्वानुमानात् । अतः संसारफलकमेव कर्मकाण्डमित्यर्थः ।
अस्त्वयं कर्मकाण्डार्थस्तथाऽपि नियतपूर्वोत्तरभावानुपपत्तिलभ्यः कथं हेतुहेतुमद्भावः सम्बन्धः कर्मकाण्डेन ज्ञानकाण्डस्येत्याकाङ्क्षायामाह –
अत ऊर्ध्वमिति ।
कामिनाऽनुष्ठितं कर्म यद्यपि संसाराय भवति तदेव तु निष्कामेना[णा]नुष्ठितं सत्त्वशुद्धये स्यात् । शुद्धसत्त्वस्य चानात्मज्ञानाभिमुख्यं न जायते । अनात्माभिनिवेशस्यानर्थसाधनतयाऽवधारितत्वादात्मविषयैव जिज्ञासा जायते । जीज्ञासोश्चाऽऽत्मनिरूपणायोपनिषदारभ्यत इति हेतुहेतुमद्भाव इत्यर्थः ।
आत्मस्वरूपब्रह्मतत्त्वविज्ञानायायमध्याय आरभ्यते चेत्किं तेन विज्ञानेन फलं स्यादित्यत आह –
तेन चेति ।
यतोऽन्वयव्यतिरेकाभ्यामज्ञानतन्त्रा संसारप्रसिद्धिस्तदुच्छेदेनाऽऽत्यन्तिकसंसारोच्छेदः फलमित्यर्थः ।
मृत्युकारणमात्माज्ञानमुच्छेत्तुमिच्छत आत्मजिज्ञासा जायत इत्युक्तं ; तदसत् । अहंप्रत्ययेनैवाऽऽत्मनोऽधिगतत्वादधिगते जिज्ञासानुपपत्तेरित्याशङ्क्याऽऽह –
अनधिगतत्वादिति ।
अहंप्रत्ययस्य मनुष्यत्वादिसमानाधिकृतस्य व्यतिरिक्तात्मप्रमापकत्वासिद्धेर्वादिनां विप्रतिपत्तिदर्शनाच्च युक्ता जिज्ञासेत्यर्थः ।
तथाऽपि कर्मकाण्डे देहव्यतिरिक्तस्याऽऽत्मनो विध्यपेक्षितत्वेन निरूपितत्वात्पुनर्जिज्ञासानुपपत्तौ कथं जिज्ञासोरुपनिषदारभ्यत इत्याशङ्क्याऽऽह –
कर्मविषय इति ।
अस्ति देहादिव्यतिरिक्तः परलोकसम्बन्ध्यात्मेत्येतावदेव स्वर्गकामादिचोदनाभिरपेक्षितं नतु ब्रह्मात्मतत्त्वं तस्य कर्मविरुद्धत्वात्ततस्तज्जिज्ञासा युक्तेत्यर्थः ।
सङ्ग्रहवाक्यं विवृणोति –
अस्येत्यादिना ।
निरतिशयब्रह्मस्वरूप आत्मोपनिषदि विजिज्ञापयिषितोऽस्तु ।
कथमेतावता कर्मणा विरोध इत्याकाङ्क्षायामाह –
न हीति ।
देवताराधनरूपो हि यागो ब्रह्मविच्च सर्वदेवतात्मभूतः पशुभावाच्च व्यावृत्तः कथं देवतां प्रणमेदित्यर्थः ।
ब्रह्मात्मतत्त्वज्ञानं कर्मविरुद्धं चेत्तर्हि श्रुत्या ब्रह्मात्मत्वोपदेशेनार्थात्कर्म तित्याजयिषितमित्यननुष्ठानमेव प्रसज्येतातो जिज्ञासाहेतुत्वेनाभिमतः कर्मकाण्डेन सम्बन्धोऽसङ्गत इत्याशङ्कामुद्भाव्याभिहितं सम्बन्धं समर्थयति –
कर्मानारम्भ इत्यादिसूत्रेण ।
उत्पत्तिविधिविहितानां कर्मणां संस्कारार्थत्वे प्रमाणमाह –
देवयाजी श्रेयानित्यादिना ।
फलकामनया देवान्यो यजते स किं श्रेयानुताऽऽत्मशुद्ध्यर्थमेव स्वर्गाद्यासङ्गं हित्वा यो यजते स आत्मयाजी श्रेयानिति प्रश्नं कृत्वाऽऽत्मयाजी श्रेयानिति निरूपितं शतपथे कामानुपघातसहितं मे ममाङ्गमनेन कर्मणा संस्क्रियत इति संस्कारार्थत्वेनैव करोति न कामवशग इत्यर्थः । ब्राह्मी ब्रह्मज्ञानार्हा । क्रियते तनुरिति । तनुस्थ आत्मा लक्ष्यते । ननु प्राणाद्युपासनं प्राणादिभावप्राप्त्यर्थमेव, “तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति”(बृ. उ. १।५।२३) इति श्रुतेः ।
कथमुक्तं कर्मनिर्वर्तकाश्रयप्राणोपासनसहितानि कर्माणि संस्कारार्थानीति तत्राऽऽह –
प्राणादिविज्ञानं चेति ।
विविदिषावाक्येन यज्ञाद्युपलक्षितस्य सर्वस्य कर्मण आत्मज्ञानार्थत्वेन विनियुक्तत्वादुपासनस्य च मानसकर्मत्वादात्मज्ञानप्रतिबन्धकस्य कल्मषस्य निबर्हणद्वारेण स्यादात्मज्ञानार्थत्वमित्यर्थः ।
अज्ञाभिप्रायेण सप्रयोजनत्वात्तं प्रत्यनारम्भप्रसङ्ग आश्रयहीन इत्युक्तम् । ज्ञान्यभिप्रायेण त्वनिष्टापादनस्येष्टापादनरूपत्वात्प्रसङ्गस्याऽऽभासत्वमाह –
उत्पन्नात्मविद्यस्येति ।
न केवलं श्रुतिप्रामाण्यादेव विवेकिनः कर्मानारम्भः साध्यसिद्धौ साधनं नाऽऽद्रियत इतिलौकिकन्यायाच्च कर्मानारम्भः सिद्ध इत्यर्थः ।
ज्ञानफले कैवल्येऽनुपयोगाच्च ज्ञानिनः कर्मानारम्भ इष्ट इत्याह –
नहि स्वभावसिद्धमित्यादिना ।
उत्पत्तिराप्तिर्विकृतिः संस्कृतिश्चेति चतुर्विधं क्रियाफलं स्वरूपावस्थाने कैवल्ये न सम्भवतीत्युक्तम् । यदि च परमानन्दगुणस्याऽऽत्मन्याधानं ब्रह्माण्डाद्बहिःस्थितब्रह्मप्राप्तिर्वा जीवस्य कैवल्यं कल्प्यते तर्ह्यनित्यत्वं दुर्वारमित्याह –
नच वस्त्वन्तराधानमिति ।