केनोपनिषद्वाक्यभाष्यम्
प्रथमः खण्डः
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
समाप्तं कर्मात्मभूतप्राणविषयं विज्ञानं कर्म चानेकप्रकारम् , ययोर्विकल्पसमुच्चयानुष्ठानाद्दक्षिणोत्तराभ्यां सृतिभ्यामावृत्त्यनावृत्ती भवतः । अत ऊर्ध्वं फलनिरपेक्षज्ञानकर्मसमुच्चयानुष्ठानात्कृतात्मसंस्कारस्य उच्छिन्नात्मज्ञानप्रतिबन्धकस्य द्वैतविषयदोषदर्शिनः निर्ज्ञाताशेषबाह्यविषयत्वात् संसारबीजमज्ञानमुच्चिच्छित्सतः प्रत्यगात्मविषयजिज्ञासोः ‘केनेषितम् . . . ’ इत्यात्मस्वरूपतत्त्वविज्ञानाय अयमध्याय आरभ्यते । तेन च मृत्युपदमज्ञानमुच्छेत्तव्यम् ; तत्तन्त्रो हि संसारो यतः । अनधिगतत्वादात्मनो युक्ता तदधिगमाय तद्विषया जिज्ञासा । कर्मविषये चानुक्तिस्तद्विरोधित्वात् । अस्य विजिज्ञासितव्यस्यात्मतत्त्वस्य कर्मविषयेऽवचनं कस्मादिति चेत् , आत्मनो हि यथावद्विज्ञानं कर्मणा विरुध्यते । निरतिशयब्रह्मस्वरूपो ह्यात्मा विजिज्ञापयिषितः, ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदम्’ (के. उ. १ । ४) इत्यादिश्रुतेः । न हि स्वाराज्येऽभिषिक्तो ब्रह्मत्वं गमितः कञ्चन नमितुमिच्छति । अतो ब्रह्मास्मीति सम्बुद्धौ न कर्म कारयितुं शक्यते । न ह्यात्मानमवाप्तार्थं ब्रह्म मन्यमानः प्रवृत्तिं प्रयोजनवतीं पश्यति । न च निष्प्रयोजना प्रवृत्तिः । अतो विरुध्यत एव कर्मणा ज्ञानम् । अतः कर्मविषयेऽनुक्तिः । विज्ञानविशेषविषयैव जिज्ञासा । कर्मानारम्भ इति चेत् , न ; निष्कामस्य संस्कारार्थत्वात् । यदि ह्यात्मविज्ञानेन आत्माविद्याविषयत्वात्परितित्याजयिषितं कर्म, ततः ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ ( ? ) इत्यनारम्भ एव कर्मणः श्रेयान् अल्पफलत्वात् आयासबहुलत्वात् तत्त्वज्ञानादेवं च श्रेयःप्राप्तेः इति चेत् , सत्यम् एतदविद्याविषयं कर्म अल्पफलत्वादिदोषवद्बन्धरूपं च सकामस्य ; ‘कामान्यः कामयते’ (मु. उ. ३ । २ । २) ‘इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) इत्यादिश्रुतिभ्यः । न निष्कामस्य । तस्य तु संस्कारार्थान्येव कर्माणि भवन्ति तन्निर्वर्तकप्राणविज्ञानसहितानि । ‘देवयाजी श्रेयानात्मयाजी वा’इत्युपक्रम्य ‘आत्मयाजी तु करोतीदं मेऽनेनाङ्गं संस्क्रियते’ इति संस्कारार्थमेव कर्माणीति वाजसनेयके ; ‘महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः । ’ (मनु. २ । २८)‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’ (भ. गी. १८ । ५) इत्यादिस्मृतेश्च । प्राणादिविज्ञानं च केवलं कर्मसमुच्चितं वा सकामस्य प्राणात्मप्राप्त्यर्थमेव भवति । निष्कामस्य त्वात्मज्ञानप्रतिबन्धकनिर्मृष्ट्यै भवत्यादर्शनिर्मार्जनवत् । उत्पन्नात्मविद्यस्य त्वनारम्भः, निरर्थकत्वात् । ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१_७) इति, क्रियापथश्चैव पुरस्तात्संन्यासश्च तयोः संन्यास एवात्यरेचयत् इति, ‘त्यागेनैके’ (तै. ना. २८) ‘नान्यः पन्था विद्यते’ (श्वे. उ. ३ । ८) इत्यादिश्रुतिभ्यश्च । न्यायाच्च । उपायभूतानि हि कर्माणि संस्कारद्वारेण ज्ञानस्य । ज्ञानेन त्वमृतत्वप्राप्तिः, ‘अमृतत्वं हि विन्दते’ (के. उ. २ । ४) ‘विद्यया विन्दतेऽमृतम्’ (के. उ. २ । ४) इत्यादिश्रुतिस्मृतिभ्यश्च । न हि नद्याः पारगो नावं न मुञ्चति यथेष्टदेशगमनं प्रति स्वातन्त्र्ये सति । न हि स्वभावसिद्धं वस्तु सिषाधयिषति साधनैः । स्वभावसिद्धश्चात्मा । तथा नापिपयिषितः, आत्मत्वे सति नित्याप्तत्वात् । नापि विचिकारयिषितः, आत्मत्वे सति नित्यत्वादविकारित्वादविषयत्वादमूर्तत्वाच्च ; श्रुतेश्च ‘न वर्धते कर्मणा’ (बृ. उ. ४ । ४ । २३) इत्यादि ; स्मृतेश्च ‘अविकार्योऽयमुच्यते’ (भ. गी. २ । २५) इति । न च सञ्चिस्कीर्षितः, ‘शुद्धमपापविद्धम्’ (ई. उ. ८) इत्यादिश्रुतिभ्यः । अनन्यत्वाच्च । अन्येनान्यत्संस्क्रियते । न चात्मनोऽन्यभूता क्रियास्ति । न च स्वेनैवात्मना स्वमात्मानं सञ्चिस्कीर्षेत् । न च वस्त्वन्तराधानं नित्यप्राप्तिर्वा वस्त्वन्तरस्य नित्या । नित्यत्वं चेष्टं मोक्षस्य । अत उत्पन्नविद्यस्य कर्मारम्भोऽनुपपन्नः । अतो व्यावृत्तबाह्यबुद्धेरात्मविज्ञानाय ‘केनेषितम्’ इत्याद्यारम्भः ॥

प्रयत्नाद्यन्तरेणैव मनआदेः प्रवर्तकम् ।
विदिताविदितान्यत्वसिद्धं ब्रह्माहमद्वयम् ॥ १ ॥

केनेषितमित्यादिकां सामवेदशाखाभेदब्राह्मणोपनिषदं पदशो व्याख्यायापि न तुतोष भगवान्भाष्यकारः शारीरकैर्न्यायैरनिर्णीतार्थत्वादिति न्यायप्रधानश्रुत्यर्थसङ्ग्राहकैर्वाक्यैर्व्याचिख्यासुः पूर्वकाण्डेन सम्बन्धमभिधित्सुः पूर्वकाण्डार्थं सङ्क्षेपतो दर्शयति –

समाप्तमिति ।

कर्मणामात्मभूत आश्रयभूतः प्राणस्तस्य शुद्धत्वादिगुणविशिष्टस्योपासनं पूर्वत्रातिवृत्तं कर्म च नित्यनैमित्तिकाद्यनेकप्रकारमविदुषामतिक्रान्तमित्यर्थः ।

ताभ्यां ज्ञानकर्मभ्यामेव मोक्षसिद्धेर्न मुमुक्षोः पृथगुपनिषदारभ्येतिशङ्कानिरासाय ज्ञानकर्मणी विशिनष्टि –

ययोरिति ।

ज्ञानमनादृत्य कर्मण एव निरपेक्षसाधनतयाऽनुष्ठानं विकल्पस्ततश्चन्द्रमण्डलं प्राप्याऽऽवर्तते । केवलस्य ज्ञानस्य कर्मसमुच्चितस्य वाऽनुष्ठानाद्ब्रह्मलोकं प्राप्य स्थित एव तस्मान्नाऽऽवर्तत इत्यापेक्षिक्यनावृत्तिर्भवति न पुनरात्यन्तिकी । कृतकत्वपरिच्छेदाभ्यामनित्यत्वानुमानात् । अतः संसारफलकमेव कर्मकाण्डमित्यर्थः ।

अस्त्वयं कर्मकाण्डार्थस्तथाऽपि नियतपूर्वोत्तरभावानुपपत्तिलभ्यः कथं हेतुहेतुमद्भावः सम्बन्धः कर्मकाण्डेन ज्ञानकाण्डस्येत्याकाङ्क्षायामाह –

अत ऊर्ध्वमिति ।

कामिनाऽनुष्ठितं कर्म यद्यपि संसाराय भवति तदेव तु निष्कामेना[णा]नुष्ठितं सत्त्वशुद्धये स्यात् । शुद्धसत्त्वस्य चानात्मज्ञानाभिमुख्यं न जायते । अनात्माभिनिवेशस्यानर्थसाधनतयाऽवधारितत्वादात्मविषयैव जिज्ञासा जायते । जीज्ञासोश्चाऽऽत्मनिरूपणायोपनिषदारभ्यत इति हेतुहेतुमद्भाव इत्यर्थः ।

आत्मस्वरूपब्रह्मतत्त्वविज्ञानायायमध्याय आरभ्यते चेत्किं तेन विज्ञानेन फलं स्यादित्यत आह –

तेन चेति ।

यतोऽन्वयव्यतिरेकाभ्यामज्ञानतन्त्रा संसारप्रसिद्धिस्तदुच्छेदेनाऽऽत्यन्तिकसंसारोच्छेदः फलमित्यर्थः ।

मृत्युकारणमात्माज्ञानमुच्छेत्तुमिच्छत आत्मजिज्ञासा जायत इत्युक्तं ; तदसत् । अहंप्रत्ययेनैवाऽऽत्मनोऽधिगतत्वादधिगते जिज्ञासानुपपत्तेरित्याशङ्क्याऽऽह –

अनधिगतत्वादिति ।

अहंप्रत्ययस्य मनुष्यत्वादिसमानाधिकृतस्य व्यतिरिक्तात्मप्रमापकत्वासिद्धेर्वादिनां विप्रतिपत्तिदर्शनाच्च युक्ता जिज्ञासेत्यर्थः ।

तथाऽपि कर्मकाण्डे देहव्यतिरिक्तस्याऽऽत्मनो विध्यपेक्षितत्वेन निरूपितत्वात्पुनर्जिज्ञासानुपपत्तौ कथं जिज्ञासोरुपनिषदारभ्यत इत्याशङ्क्याऽऽह –

कर्मविषय इति ।

अस्ति देहादिव्यतिरिक्तः परलोकसम्बन्ध्यात्मेत्येतावदेव स्वर्गकामादिचोदनाभिरपेक्षितं नतु ब्रह्मात्मतत्त्वं तस्य कर्मविरुद्धत्वात्ततस्तज्जिज्ञासा युक्तेत्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति –

अस्येत्यादिना ।

निरतिशयब्रह्मस्वरूप आत्मोपनिषदि विजिज्ञापयिषितोऽस्तु ।

कथमेतावता कर्मणा विरोध इत्याकाङ्क्षायामाह –

न हीति ।

देवताराधनरूपो हि यागो ब्रह्मविच्च सर्वदेवतात्मभूतः पशुभावाच्च व्यावृत्तः कथं देवतां प्रणमेदित्यर्थः ।

ब्रह्मात्मतत्त्वज्ञानं कर्मविरुद्धं चेत्तर्हि श्रुत्या ब्रह्मात्मत्वोपदेशेनार्थात्कर्म तित्याजयिषितमित्यननुष्ठानमेव प्रसज्येतातो जिज्ञासाहेतुत्वेनाभिमतः कर्मकाण्डेन सम्बन्धोऽसङ्गत इत्याशङ्कामुद्भाव्याभिहितं सम्बन्धं समर्थयति –

कर्मानारम्भ इत्यादिसूत्रेण ।

उत्पत्तिविधिविहितानां कर्मणां संस्कारार्थत्वे प्रमाणमाह –

देवयाजी श्रेयानित्यादिना ।

फलकामनया देवान्यो यजते स किं श्रेयानुताऽऽत्मशुद्ध्यर्थमेव स्वर्गाद्यासङ्गं हित्वा यो यजते स आत्मयाजी श्रेयानिति प्रश्नं कृत्वाऽऽत्मयाजी श्रेयानिति निरूपितं शतपथे कामानुपघातसहितं मे ममाङ्गमनेन कर्मणा संस्क्रियत इति संस्कारार्थत्वेनैव करोति न कामवशग इत्यर्थः । ब्राह्मी ब्रह्मज्ञानार्हा । क्रियते तनुरिति । तनुस्थ आत्मा लक्ष्यते । ननु प्राणाद्युपासनं प्राणादिभावप्राप्त्यर्थमेव, “तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति”(बृ. उ. १।५।२३) इति श्रुतेः ।

कथमुक्तं कर्मनिर्वर्तकाश्रयप्राणोपासनसहितानि कर्माणि संस्कारार्थानीति तत्राऽऽह –

प्राणादिविज्ञानं चेति ।

विविदिषावाक्येन यज्ञाद्युपलक्षितस्य सर्वस्य कर्मण आत्मज्ञानार्थत्वेन विनियुक्तत्वादुपासनस्य च मानसकर्मत्वादात्मज्ञानप्रतिबन्धकस्य कल्मषस्य निबर्हणद्वारेण स्यादात्मज्ञानार्थत्वमित्यर्थः ।

अज्ञाभिप्रायेण सप्रयोजनत्वात्तं प्रत्यनारम्भप्रसङ्ग आश्रयहीन इत्युक्तम् । ज्ञान्यभिप्रायेण त्वनिष्टापादनस्येष्टापादनरूपत्वात्प्रसङ्गस्याऽऽभासत्वमाह –

उत्पन्नात्मविद्यस्येति ।

न केवलं श्रुतिप्रामाण्यादेव विवेकिनः कर्मानारम्भः साध्यसिद्धौ साधनं नाऽऽद्रियत इतिलौकिकन्यायाच्च कर्मानारम्भः सिद्ध इत्यर्थः ।

ज्ञानफले कैवल्येऽनुपयोगाच्च ज्ञानिनः कर्मानारम्भ इष्ट इत्याह –

नहि स्वभावसिद्धमित्यादिना ।

उत्पत्तिराप्तिर्विकृतिः संस्कृतिश्चेति चतुर्विधं क्रियाफलं स्वरूपावस्थाने कैवल्ये न सम्भवतीत्युक्तम् । यदि च परमानन्दगुणस्याऽऽत्मन्याधानं ब्रह्माण्डाद्बहिःस्थितब्रह्मप्राप्तिर्वा जीवस्य कैवल्यं कल्प्यते तर्ह्यनित्यत्वं दुर्वारमित्याह –

नच वस्त्वन्तराधानमिति ।