माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अन्तःस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् ।
यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥ ४ ॥
जाग्रद्दृश्यानां भावानां वैतथ्यमिति प्रतिज्ञा । दृश्यत्वादिति हेतुः । स्वप्नदृश्यभाववदिति दृष्टान्तः । यथा तत्र स्वप्ने दृश्यानां भावानां वैतथ्यम् , तथा जागरितेऽपि दृश्यत्वमविशिष्टमिति हेतूपनयः । तस्माज्जागरितेऽपि वैतथ्यं स्मृतमिति निगमनम् । अन्तःस्थानात्संवृतत्वेन च स्वप्नदृश्यानां भावानां जाग्रद्दृश्येभ्यो भेदः । दृश्यत्वमसत्यत्वं चाविशिष्टमुभयत्र ॥

उक्तन्यायेन दृष्टान्ते सिद्धे फलितमनुमानमाह –

अन्तःस्थानादिति ।

भेदानामित्यत्र सूचितमनुमानमारचयति –

जाग्रदिति ।

तृतीयेन पादेन पक्षधर्मत्वं व्याप्तस्य हेतोरुच्यते, तद् दर्शयति –

यथेति ।

द्वितीयेन पादेन प्रतिकूलप्रमाणाभावसूचकं प्रतिज्ञोपसंहारवचनं निगमनं सूत्रितमित्याह –

तस्मादिति ।

सर्वद्वैतवैतथ्यवादिनां केन विशेषेण पक्षसपक्षविभागसिद्धिरित्याशङ्क्यान्तःस्थानात्तु संवृतत्वेन भिद्यत इत्यत्र विवक्षितमर्थमाह –

अन्तःस्थानादिति ।

स्वप्नदृश्यानामन्तःस्थानं संवृतत्त्वं च, न तथा जाग्रद्दृश्यानाम्, तेनोचितदेशाद्यभावात्तेषां तेभ्यो वैषम्यं स्फुटम् । सिद्धं हि योग्यदेशाद्यभावेन स्वप्नस्य मिथ्यात्वमिति सपक्षत्वम् । जागरितस्य पुनरुचितदेशादिसद्भावादस्फुटं मिथ्यात्वमिति पक्षत्वमित्यर्थः ।

तर्हि सर्वथा वैषम्याद् दृष्टान्तदार्ष्टान्तिकभावासिद्धिरित्याशङ्क्याऽऽह –

दृश्यत्वमिति ॥४॥