उक्तन्यायेन दृष्टान्ते सिद्धे फलितमनुमानमाह –
अन्तःस्थानादिति ।
भेदानामित्यत्र सूचितमनुमानमारचयति –
जाग्रदिति ।
तृतीयेन पादेन पक्षधर्मत्वं व्याप्तस्य हेतोरुच्यते, तद् दर्शयति –
यथेति ।
द्वितीयेन पादेन प्रतिकूलप्रमाणाभावसूचकं प्रतिज्ञोपसंहारवचनं निगमनं सूत्रितमित्याह –
तस्मादिति ।
सर्वद्वैतवैतथ्यवादिनां केन विशेषेण पक्षसपक्षविभागसिद्धिरित्याशङ्क्यान्तःस्थानात्तु संवृतत्वेन भिद्यत इत्यत्र विवक्षितमर्थमाह –
अन्तःस्थानादिति ।
स्वप्नदृश्यानामन्तःस्थानं संवृतत्त्वं च, न तथा जाग्रद्दृश्यानाम्, तेनोचितदेशाद्यभावात्तेषां तेभ्यो वैषम्यं स्फुटम् । सिद्धं हि योग्यदेशाद्यभावेन स्वप्नस्य मिथ्यात्वमिति सपक्षत्वम् । जागरितस्य पुनरुचितदेशादिसद्भावादस्फुटं मिथ्यात्वमिति पक्षत्वमित्यर्थः ।
तर्हि सर्वथा वैषम्याद् दृष्टान्तदार्ष्टान्तिकभावासिद्धिरित्याशङ्क्याऽऽह –
दृश्यत्वमिति ॥४॥