माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अजातेस्त्रसतां तेषामुपलम्भाद्वियन्ति ये ।
जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति ॥ ४३ ॥
ये च एवमुपलम्भात्समाचाराच्च अजातेः अजातिवस्तुनः त्रसन्तः अस्ति वस्त्विति अद्वयादात्मनः, वियन्ति विरुद्धं यन्ति द्वैतं प्रतिपद्यन्त इत्यर्थः । तेषाम् अजातेः त्रसतां श्रद्दधानानां सन्मार्गावलम्बिनां जातिदोषाः जात्युपलम्भकृता दोषाः न सेत्स्यन्ति सिद्धिं नोपयास्यन्ति, विवेकमार्गप्रवृत्तत्वात् । यद्यपि कश्चिद्दोषः स्यात् , सोऽप्यल्प एव भविष्यति, सम्यग्दर्शनाप्रतिपत्तिहेतुक इत्यर्थः ॥

“उदरमन्तरं कुरुते। अथ तस्य भयं भवति” (तै. उ. २ । ७ । १) इत्यादिश्रुतिभ्यो ब्रह्मणि विकारदर्शिनां भयप्राप्तिः श्रूयते। तथा च श्रोत्रियाणामपि भेददर्शिनां नानुग्राह्यतेत्याशङ्क्याऽऽह –

अजातेरिति ।

“न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति” (भ. गी. ६ । ४०) इति स्मृतेस्तेषामात्यन्तिकपतनाभावेऽपि निन्दानुपपत्त्या कश्चिद्दोषलेशः सम्भवतीत्याशङ्क्य सम्यग्दर्शनाप्राप्तिप्रयुक्तं गर्भवासादिदोषमभ्यनुजानाति –

दोषोऽपीति ।

अन्वयमादर्शयन् पादत्रयगतान्यक्षराणि योजयति –

ये चेत्यादिना ।

चतुर्थपादं व्याचष्टे –

यद्यपीति ।

कश्चिन्निन्दानुपपत्तिसूचित इति यावत् ॥४३॥