“उदरमन्तरं कुरुते। अथ तस्य भयं भवति” (तै. उ. २ । ७ । १) इत्यादिश्रुतिभ्यो ब्रह्मणि विकारदर्शिनां भयप्राप्तिः श्रूयते। तथा च श्रोत्रियाणामपि भेददर्शिनां नानुग्राह्यतेत्याशङ्क्याऽऽह –
अजातेरिति ।
“न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति” (भ. गी. ६ । ४०) इति स्मृतेस्तेषामात्यन्तिकपतनाभावेऽपि निन्दानुपपत्त्या कश्चिद्दोषलेशः सम्भवतीत्याशङ्क्य सम्यग्दर्शनाप्राप्तिप्रयुक्तं गर्भवासादिदोषमभ्यनुजानाति –
दोषोऽपीति ।
अन्वयमादर्शयन् पादत्रयगतान्यक्षराणि योजयति –
ये चेत्यादिना ।
चतुर्थपादं व्याचष्टे –
यद्यपीति ।
कश्चिन्निन्दानुपपत्तिसूचित इति यावत् ॥४३॥