तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीं श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
अन्नब्रह्मविदः फलमुच्यते - सर्वं वै ते समस्तमन्नजातम् आप्नुवन्ति । के ? ये अन्नं ब्रह्म यथोक्तम् उपासते । कथम् ? अन्नजोऽन्नात्मान्नप्रलयोऽहम् , तस्मादन्नं ब्रह्म इति । कुतः पुनः सर्वान्नप्राप्तिफलमन्नात्मोपासनमिति, उच्यते - अन्नं हि भूतानां ज्येष्ठं भूतेभ्यः पूर्वमुत्पन्नत्वाज्ज्येष्ठं हि यस्मात् , तस्मात्सर्वौषधमुच्यते ; तस्मादुपपन्ना सर्वान्नात्मोपासकस्य सर्वान्नप्राप्तिः । अन्नाद्भूतानि जायन्ते, जातान्यन्नेन वर्धन्ते इति उपसंहारार्थं पुनर्वचनम् । इदानीमन्नशब्दनिर्वचनमुच्यते - अद्यते भुज्यते चैव यद्भूतैः अत्ति च भूतानि स्वयम् , तस्मात् भूतैर्भुज्यमानत्वाद्भूतभोक्तृत्वाच्च अन्नं तत् उच्यते । इति शब्दः प्रथमकोशपरिसमाप्त्यर्थः । अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्यः अभ्यन्तरतमं ब्रह्म विद्यया प्रत्यगात्मत्वेन दिदर्शयिषु शास्त्रम् अविद्याकृतपञ्चकोशापनयनेन अनेकतुषकोद्रववितुषीकरणेनेव तण्डुलान् प्रस्तौति - तस्माद्वा एतस्मादन्नरसमयादित्यादि । तस्माद्वै एतस्मात् यथोक्तात् अन्नरसमयात्पिण्डात् अन्यः व्यतिरिक्तः अन्तरः अभ्यन्तरः आत्मा पिण्डवदेव मिथ्यापरिकल्पित आत्मत्वेन प्राणमयः, प्राणः वायुः, तन्मयः तत्प्रायः । तेन प्राणमयेन एषः अन्नरसमय आत्मा पूर्णः वायुनेव दृतिः । स वै एष प्राणमय आत्मा पुरुषविध एव पुरुषाकार एव शिरःपक्षादिभिः । किं स्वत एव ? नेत्याह - प्रसिद्धं तावदन्नरसमयस्यात्मनः पुरुषविधत्वम् ; तस्य अन्नरसमयस्य पुरुषविधतां पुरुषाकारताम् अनु अयं प्राणमयः पुरुषविधः मूषानिषिक्तप्रतिमावत् , न स्वत एव । एवं पूर्वस्य पूर्वस्य पुरुषविधता ; तामनु उत्तरोत्तरः पुरुषविधो भवति, पूर्वः पूर्वश्चोत्तरोत्तरेण पूर्णः । कथं पुनः पुरुषविधता अस्येति, उच्यते - तस्य प्राणमयस्य प्राण एव शिरः प्राणमयस्य वायुविकारस्य प्राणः मुखनासिकानिःसरणो वृत्तिविशेषः शिर इति कल्प्यते, वचनात् । सर्वत्र वचनादेव पक्षादिकल्पना । व्यानः व्यानवृत्तिः दक्षिणः पक्षः । अपानः उत्तरः पक्षः । आकाश आत्मा, य आकाशस्थो वृत्तिविशेषः समानाख्यः, स आत्मेव आत्मा प्राणवृत्त्यधिकारात् । मध्यस्थत्वादितराः पर्यन्ता वृत्तीरपेक्ष्य आत्मा ; ‘मध्यं ह्येषामङ्गानामात्मा’ इति प्रसिद्धं मध्यस्थस्यात्मत्वम् । पृथिवी पुच्छं प्रतिष्ठा । पृथिवीति पृथिवीदेवता आध्यात्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात् । ‘सैषा पुरुषस्यापानमवष्टभ्य’ (प्र. उ. ३ । ८) इति हि श्रुत्यन्तरम् । अन्यथा उदानवृत्त्या ऊर्ध्वगमनं गुरुत्वात्पतनं वा स्याच्छरीरस्य । तस्मात्पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्य आत्मनः । तत् तस्मिन्नेवार्थे प्राणमयात्मविषये एष श्लोको भवति ॥

उत्तरवाक्यतात्पर्यमाह –

अन्नब्रह्मविद इति ।

ननु कथमन्नस्य ब्रह्मत्वं कथं वा तदुपासनमिति पृच्छति –

कथमिति ।

उत्तरम् – अन्नज इत्यादि । यस्मादन्नं प्रथमकोशजातस्य जन्मस्थितिप्रलयकारणं तस्मादन्नं ब्रह्म, तच्चान्नात्मकं ब्रह्माहमस्मीति चिन्तयेत् , उपास्यविराड्देवभावापत्तिं विना सर्वान्नप्राप्त्यसम्भवात् देवभावस्य चाहङ्ग्रहं विना प्राप्तुमशक्यत्वादित्यर्थः ।

अन्नं हीति पुनर्वचनमन्नब्रह्मविदः सर्वान्नप्राप्तौ हेतुपरमिति मत्वा तदवतारयति –

कुतः पुनरिति ।

अन्नस्य ज्येष्ठत्वे हेतुमाह –

भूतेभ्य इति ।

भूतेभ्यः पूर्वं निष्पन्नत्वादन्नं ज्येष्ठम् , तच्च ज्येष्ठमन्नं हि यस्माद्भूतानां जन्मजीवनादिकारणं तस्मादन्नं सर्वौषधमुच्यते लोकैरिति योजना । अनेन हि पुनर्वचनेन अन्नदेवतात्मनो विराजः स्वकार्येषु सर्वप्राणिषु व्याप्तिस्तात्पर्येण प्रतिपाद्यते लोके कारणस्य मृदादेः कार्येषु व्याप्तेः प्रसिद्धत्वात् ।

सा च व्याप्तिर्विराडात्मभावमापन्नस्यान्नब्रह्मविदः सर्वप्राण्यात्मना सर्वान्नात्तृत्वे हेतुर्भवतीति मत्वाह –

तस्मादिति ।

अन्नब्रह्मविदो विराडात्मना सर्वप्राणिव्यापित्वादित्यर्थः । अस्य पुनर्वचनस्यायमभिप्रायो वार्त्तिके स्पष्टमभिहितः - ‘कार्यं सर्वं यतो व्याप्तं कारणेनात्तृरूपिणा । इति हेतूपदेशाय त्वन्नं हीत्युच्यते पुनः’ इति ।

ननु ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्युक्तत्वात्पुनः ‘अन्नाद्भूतानि जायन्ते’ इत्यादिवचनं व्यर्थमित्याशङ्क्याह –

उपसंहारार्थमिति ।

अद्यत इत्यादेस्तात्पर्यमाह –

इदानीमिति ।

तच्च निर्वचनमुपास्यस्यान्नरूपप्रजापतेरद्यत्वात्तृत्वरूपगुणद्वयविधानार्थमिति मन्तव्यम् । यस्मात्प्रकृतं व्रीहियवादिलक्षणं वस्तु भूतैरद्यते तस्मादन्नशब्दवाच्यं भवति, यस्माच्च तद्भूतान्यत्ति संहरति तस्मादपि तदन्नमुच्यते ; अन्नस्य चापथ्यादिरूपस्य प्राणिसंहारसाधनत्वं लोके प्रसिद्धमिति मन्तव्यम् ।

इत्थमन्नमयकोशं निरूप्य तस्यानात्मत्वसिद्धये प्राणमयकोशवाक्यप्रवृत्तिः ; एवमुत्तरत्रापीति तात्पर्यमाह –

अन्नमयादिभ्य इति ।

आत्मभ्य इति ।

कल्पितात्मभ्य इत्यर्थः ।

अत एवाह –

अविद्याकृतेति ।

यथा लोकोऽनेकतुषकोद्रववितुषीकरणेन कोद्रवतण्डुलान्दर्शयितुं प्रवर्तते तथा प्रत्यगात्मावरणभूताविद्याकृतपञ्चकोशापनयनेनान्नमयादिभ्य आनन्दमयान्तेभ्य अन्तरतमं ब्रह्म कोशापनयनशब्दितविवेकजनितया विद्यया प्रत्यक्तया दर्शयितुमिच्छु शास्त्रं प्रस्तौति प्रवर्तत इत्यर्थः । तस्माद्वा एतस्माद्यथोक्तादिति । अत्र ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्यादौ दूरदेशे भूतकारणत्वेन प्रकृतं विराजं वै-शब्देन स्मारितं तस्मादित्यनेनानूद्य एतस्मादित्यनेनान्नमयकोशस्य विराडात्मत्वं प्रबोध्यते । एवमुत्तरत्रापि । तदुक्तं वार्तिके – 'वै-शब्देनैव संस्मार्य दवीयोदेशवर्तिनम् । तस्माच्छब्देन वैराजमादायाध्यात्मरूपिणः । एतस्मादिति शब्देन वैराजत्वं प्रबोध्यते । कार्याणां कारणात्मत्वमेवं स्यादुत्तरेष्वपि’ इति । कार्याण्याध्यात्मिकाः कोशाः, तेषां विराडाद्यात्मत्वबोधनं च प्रागानन्दमयपर्यायाद्विराडाद्यभेदेनोपासनसूचनार्थम् ; आनन्दमयपर्याये तु तदेतच्छब्दयोरुक्तार्थपरत्वेऽपि न चिन्तनविवक्षास्ति, किं त्वध्यात्माधिदैवतलक्षणाद्द्विविधादप्यानन्दमयतत्कारणकोशाच्चिदेकरसस्य पुच्छह्मणो विवेकमात्रं विवक्षितम् ; तत्पर्याये पक्षपुच्छादिकल्पनस्यान्यदेव प्रयोजनमिति वक्ष्यते । यथोक्तादित्यस्य सुपर्णाकारेणोक्तादित्यर्थः । आत्मत्वेन परिकल्पित इति योजना ।

वायुरिति ।

अत्र हिरण्यगर्भोपाधिभूते समष्टिकारणात्मनि क्रियाशक्तिमदंशः प्राणो विवक्षित इति मत्वा वायुरित्युक्तम् । तत्रैव ज्ञानशक्तिमदंशभूतं समष्ट्यन्तःकरणं मनोमय इत्यत्र मनःशब्दार्थ इत्यपि बोध्यम् ।

तत्प्राय इति ।

तद्विकार इत्यर्थः ।

अत एवानुवादावसरे वक्ष्यति –

वायुविकारस्येति ।

प्राणमयस्यान्नमयं प्रत्यात्मत्वं तद्व्यापित्वादित्युपपादनार्थम् ‘तेनैष पूर्णः’ इत्युक्तम् ।

तत्र प्राणेन देहो व्याप्त इत्यत्रानुरूपं दृष्टान्तमाह –

वायुनेवेति ।

शिरःपक्षादिभिरिति ।

शिरःपक्षपुच्छादिकल्पनालम्बनभूतैरवयवैः पुरुषाकारः प्राण इत्यर्थः ।

ननु पञ्चवृत्तेः प्राणस्यामूर्तत्वात्स्वयमेव तस्य पुरुषविधत्वं न सम्भवतीति शङ्कते –

किं स्वयमेवेति ।

'तस्य पुरुषविधताम् ‘ इति श्रुत्या परिहरति –

नेत्याहेति ।

श्रुतिरिति शेषः ।

नन्वन्नमयस्य वा कथं पुरुषविधत्वम् ? तत्राह –

प्रसिद्धमिति ।

प्राणमये उक्तं न्यायं मनोमयादिष्वतिदिशति –

एवमिति ।

कथं पुरुषविधतास्येति ।

अस्य प्राणमयस्य यद्यपि पुरुषविधता सिद्धा तथापि कथं पक्षपुच्छादिकल्पनाप्रकार इत्यर्थः ।

वृत्तिविशेष इति ।

वृत्तिमतः प्राणस्यावयवित्वेन विवक्षितत्वादिति भावः ।

ननु प्राणवृत्तौ शिरस्त्वकल्पनायां किं नियामकम् ? तत्राह –

वचनादिति ।

उत्तरत्रापि वचनमेव नियामकमित्याह –

सर्वत्रेति ।

यद्वा सर्वपर्यायेष्वपि वस्तुगत्या वचनमेव तत्कल्पने नियामकमित्याह –

सर्वत्रेति ।

आकाशपदेन शरीरमध्याकाशस्थसमानलक्षणायां कारणमाह –

प्राणवृत्त्यधिकारादिति ।

समानस्य मध्यभागत्वरूपात्मत्वकल्पनायां युक्तिमाह –

मध्यस्थत्वादिति ।

इतराः पर्यन्ता वृत्तीरपेक्ष्य मध्यस्थत्वात्समान आत्मेति योजना ।

ननु मध्यस्थस्यापि कथमात्मत्वम् ? तत्राह –

मध्यं हीति ।

पृथिवीदेवतेति ।

न च प्राणवृत्त्यधिकाराविशेषात्पृथिवीशब्देनोदानग्रहणं न्याय्यमिति वाच्यम् ; प्रतिष्ठात्वलिङ्गविरोधेन प्रकरणस्यानादरणीयत्वात् । न ह्युदानवृत्तेर्वृत्तिमन्तं प्राणमयं प्रति प्रतिष्ठात्वं सम्भवति ।

स्थितिहेतुत्वादिति ।

पृथिवीदेवताया आध्यात्मिकप्राणस्थितिहेतुत्वस्य श्रुत्यन्तरादवगतत्वादित्यर्थः । श्रुतावपानपदं प्राणमयकोशपरम् ।

अन्यथेति ।

देवताकृतावष्टम्भनाभाव इत्यर्थः । उदानवृत्तेरूर्ध्वगमनहेतुत्वम् ‘अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इत्यादिश्रुत्यन्तरादेव सिद्धमिति मन्तव्यम् , उदानवृत्तेः कालविशेषापेक्षत्वेन सदोर्ध्वगमनप्रसक्त्यभावेऽपि च्छिन्नकदलीस्तम्भादेरिव भूमौ पतनं वा प्रसज्यत इत्यर्थः ॥