तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मात्प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
प्राणं देवा अनु प्राणन्ति । अग्न्यादयः देवाः प्राणं वाय्वात्मानं प्राणनशक्तिमन्तम् अनु तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति, प्राणनक्रियया क्रियावन्तो भवन्ति । अध्यात्माधिकारात् देवाः इन्द्रियाणि प्राणमनु प्राणन्ति । मुख्यप्राणमनु चेष्टन्त इति वा । तथा मनुष्याः पशवश्च ये, ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति । अतश्च नान्नमयेनैव परिच्छिन्नात्मना आत्मवन्तः प्राणिनः । किं तर्हि ? तदन्तर्गतप्राणमयेनापि साधारणेनैव सर्वपिण्डव्यापिना आत्मवन्तो मनुष्यादयः । एवं मनोमयादिभिः पूर्वपूर्वव्यापिभिः उत्तरोत्तरैः सूक्ष्मैः आनन्दमयान्तैराकाशादिभूतारब्धैरविद्याकृतैः आत्मवन्तः सर्वे प्राणिनः ; तथा, स्वाभाविकेनाप्याकाशादिकारणेन नित्येनाविकृतेन सर्वगतेन सत्यज्ञानानन्तलक्षणेन पञ्चकोशातिगेन सर्वात्मना आत्मवन्तः ; स हि परमार्थत आत्मा सर्वेषामित्येतदप्यर्थादुक्तं भवति । प्राणं देवा अनु प्राणन्तीत्याद्युक्तम् ; तत्कस्मादित्याह - प्राणः हि यस्मात् भूतानां प्राणिनाम् आयुः जीवनम् , ‘यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदेवायुः’ (कौ. उ. ३ । २) इति श्रुत्यन्तरात् । तस्मात् सर्वायुषम् , सर्वेषामायुः सर्वायुः, सर्वायुरेव सर्वायुषम् इत्युच्यते ; प्राणापगमे मरणप्रसिद्धेः । प्रसिद्धं हि लोके सर्वायुष्ट्वं प्राणस्य । अतः अस्माद्बाह्यादसाधारणादन्नमयादात्मनोऽपक्रम्य अन्तः साधारणं प्राणमयमात्मानं ब्रह्म उपासते ये ‘अहमस्मि प्राणः सर्वभूतानामात्मा आयुः, जीवनहेतुत्वात्’ इति, ते सर्वमेव आयुः अस्मिंल्लोके यन्ति ; नापमृत्युना म्रियन्ते प्राक्प्राप्तादायुष इत्यर्थः । शतं वर्षाणीति तु युक्तम् , ‘सर्वमायुरेति’ (छा. उ. २ । ११ । २)(छा. उ. ४ । ११ । २) इति श्रुतिप्रसिद्धेः । किं कारणम् ? - प्राणो हि भूतानामायुः तस्मात्सर्वायुषमुच्यत इति । यो यद्गुणकं ब्रह्मोपास्ते, स तद्गुणभाग्भवतीति विद्याफलप्राप्तेर्हेत्वर्थं पुनर्वचनम् - प्राणो हीत्यादि । तस्य पूर्वस्य अन्नमयस्य एष एव शरीरे अन्नमये भवः शारीरः आत्मा । कः ? य एष प्राणमयः । तस्माद्वा एतस्मादित्याद्युक्तार्थमन्यत् । अन्योऽन्तर आत्मा मनोमयः । मन इति सङ्कल्पविकल्पात्मकमन्तःकरणम् , तन्मयो मनोमयः ; सोऽयं प्राणमयस्याभ्यन्तर आत्मा । तस्य यजुरेव शिरः । यजुरिति अनियताक्षरपादावसानो मन्त्रविशेषः ; तज्जातीयवचनो यजुःशब्दः ; तस्य शिरस्त्वम् , प्राधान्यात् । प्राधान्यं च यागादौ संनिपत्योपकारकत्वात् यजुषा हि हविर्दीयते स्वाहाकारादिना ॥
तदात्मभूता इति ; अध्यात्माधिकारात्त्विति ; मुख्यप्राणमन्विति ; तथा मनुष्या इति ; अतश्चेति ; परिच्छिन्नेनेति ; किं तर्हीति ; तदन्तर्गतेति ; सर्वपिण्डेति ; एवं मनोमयादिभिरिति ; आकाशादीति ; अविद्याकृतैरिति ; यथेति ; तथा स्वाभाविकेनापीति ; आकाशादीति ; सत्येति ; स हीति ; अर्थादिति ; तत्कस्मादित्याहेति ; यावद्ध्यस्मिन्निति ; प्राणापगम इति ; अत इत्यादिना ; असाधारणादिति ; अपक्रम्येति ; आयुरिति ; जीवनहेतुत्वादिति ; प्रागिति ; सर्वमायुरितीति ; श्रुतिप्रसिद्धेरिति ; किं कारणमिति ; प्राणो हीति ; यो यद्गुणकमिति ; तस्य पूर्वस्येति ; अन्यदिति ; यथेति ; यजुरितीत्यादिना ; प्राधान्यादिति ; संनिपत्येति ; यजुषा हीति ;

तदात्मभूता इति ।

सूत्रात्मभूता इत्यर्थः । अग्न्यादिदेवानां सूत्रात्मविभूतितया तदात्मकतायाः शाकल्यब्राह्मणसिद्धत्वादिति मन्तव्यम् । यद्वा सूत्रात्मोपास्त्या तदात्मकतां प्राप्ता इत्यर्थः । अथवा अस्मदादय इवाग्न्यादयोऽपि तदात्मभूताः क्रियाशक्तिमत्प्राणोपाधिकाः सन्त इत्यर्थः ।

देवशब्दस्य प्रसिद्धिमाश्रित्याग्न्यादिपरत्वमुक्तम् ; इदानीमिन्द्रियपरो देवशब्द इति सयुक्तिकमाह –

अध्यात्माधिकारात्त्विति ।

तु-शब्दोऽवधारणार्थः सन्निन्द्रियाणीत्यत्र सम्बध्यते । प्राणमयकोशाधिकारादित्यर्थः ।

मुख्यप्राणमन्विति ।

तस्मिन्निरुद्धे इन्द्रियाणां प्रवृत्त्यदर्शनादिति भावः ।

न केवलमिन्द्रियाणामेव प्राणाधीना चेष्टा, अपि तु शरीरादीनामपीत्याह –

तथा मनुष्या इति ।

'प्राणं देवा अनु प्राणन्ति’ इत्यादिनां केवलदेहात्मवादो निरस्त इति तात्पर्यमाह –

अतश्चेति ।

प्राणाधीनचेष्टाकत्वाच्छरीराणामित्यर्थः ।

तस्य वस्तुतोऽनात्मत्वं सूचयति –

परिच्छिन्नेनेति ।

आत्मशब्दः स्वरूपपरः ।

नन्वन्नमयातिरिक्तं स्वरूपं नोपलभ्यत इति शङ्कते –

किं तर्हीति ।

'प्राणं देवा अनु प्राणन्ति’ इत्यादिश्रुतिमाश्रित्याह –

तदन्तर्गतेति ।

तस्य पिण्डवत्परिच्छेदं व्यावर्तयन्साधारणपदं व्याचष्टे –

सर्वपिण्डेति ।

सर्वपदमेकैकस्यैव पिण्डस्यावयवसाकल्याभिप्रायम् । अथ वा सूत्रात्मरूपेण प्राणमयस्य सर्वपिण्डव्यापित्वमुक्तमिति मन्तव्यम् ।

एवमान्तरत्वेन निरूपणीय आत्मा प्राणमय एवेति शङ्कानिरासार्थमुत्तरकोशानामप्यात्मतामाह –

एवं मनोमयादिभिरिति ।

अत्रापि प्राणमयाद्यन्तर्गतैरिति मनोमयादेर्विशेषणं द्रष्टव्यम् , तदन्तर्गतेति प्राणमयस्योक्तत्वात् प्रतिपर्यायं श्रुतावन्तरशब्दप्रयोगाच्च । तथा चोत्तरोत्तरकोशेषु पूर्वपूर्वापेक्षयान्तरत्वसूक्ष्मत्वव्यापित्वविशेषणानि तानि यत्र काष्ठां गच्छन्ति, स एव मुख्य आत्मेति ज्ञापनार्थानीति मन्तव्यम् ।

अविद्योपाधिकस्यानन्दमयशब्दितजीवस्यापि प्रियादिविशिष्टत्वाकारेण कार्यत्वं मत्वाह –

आकाशादीति ।

कोशानां स्वकारणैराकाशादिभूतैः सह मिथ्यात्वं सूचयति –

अविद्याकृतैरिति ।

स्वतश्चैतन्यस्वरूपाणां प्राणिनामन्तर्बहिर्भावेनावारकतया पञ्चकोशसद्भावे दृष्टान्तमाह –

यथेति ।

ननु अन्योऽन्तर आत्मा अन्योऽन्तर आत्मेति प्रकृत्य आन्तरत्वोक्तेरानन्दमये परिसमापनादानन्दमय एव परमात्मा, तथा च तस्याविद्याकृतत्वोक्तिरयुक्ता ; नेत्याह –

तथा स्वाभाविकेनापीति ।

स्वाभाविकत्वमकल्पितत्वम् ।

तत्र हेतुं सूचयति –

आकाशादीति ।

सर्वकल्पनाधिष्ठानभूतेनेत्यर्थः । तस्य विनाशित्वपरिच्छिन्नत्वपरिणामित्वानि वारयति – नित्येनेत्यादिना विशेषणत्रयेण ।

तस्य प्रकरणित्वं सूचयति –

सत्येति ।

आनन्त्यविवरणरूपाणि नित्येन सर्वगतेन सर्वात्मनेत्येतानि त्रीणि विशेषणानि । आत्मवन्तः मुख्यस्वरूपवन्तः ।

सर्वे प्राणिन इत्यत्र हेतुमाह –

स हीति ।

'अयमात्मा ब्रह्म’ इत्यादिश्रुतिभिर्यथोक्तात्मैव परपमार्थत आत्मा प्रतीयते यत इत्यर्थः ।

अर्थादिति ।

ब्रह्मण्यानन्दमयादान्तरत्वोक्त्यभावेऽपि तं प्रति ब्रह्मणः प्रतिष्ठात्वोक्तिसामर्थ्यादानन्दमयादप्यान्तरत्वं प्रतीयते ; तत एतदपि पुच्छवाक्यनिर्दिष्टस्य ब्रह्मणो मुख्यात्मत्वमप्यत्र कथितप्रायमेव भवति, तस्मान्नानन्दमयस्य मुख्यात्मत्वमिति भावः ।

तत्कस्मादित्याहेति ।

तत् प्राणस्य सर्वप्राणिचेष्टाहेतुत्वं कस्मादित्याकाङ्क्षायामाहेत्यर्थः ।

प्राणस्य सर्वभूतजीवनहेतुत्वे कौषीतकिश्रुतिसंवादमाह –

यावद्ध्यस्मिन्निति ।

'तस्मात्सर्वायुषमुच्यते’ इति वाक्येन प्राणस्य सर्वायुष्ट्वे लोकप्रसिद्धिरुच्यत इत्यभिरप्रेत्य तां विवृणोति –

प्राणापगम इति ।

'सर्वमेव त आयुर्यन्ति’ ‘ये प्राणं ब्रह्मोपासते’ इति वाक्यद्वयमर्थक्रमेणावतार्य व्याचष्टे –

अत इत्यादिना ।

प्राणमयस्यान्नमयं प्रत्यात्मत्वात्सर्वभूतायुष्ट्वाच्चेत्यतःशब्दार्थः । अस्मादित्यस्य चाक्षुषप्रत्यक्षसिद्धादित्यर्थः ।

असाधारणादिति ।

परिच्छिन्नादित्यर्थः ।

अपक्रम्येति ।

अपक्रमणमात्मत्वबुद्धिपरित्यागः । तत्र हेतुत्वेन चाक्षुषत्वबाह्यत्वपरिच्छिन्नत्वविशेषणान्युपात्तानीति मन्तव्यम् । सर्वभूतात्मत्वं सूत्रात्मरूपेण बोध्यम् , तेन रूपेण प्राणमयकोशस्येहोपास्यत्वात् ।

आयुष्ट्वमुपास्यो गुण इति मत्वाह –

आयुरिति ।

तस्य तद्गुणकत्वे हेतुः –

जीवनहेतुत्वादिति ।

तद्धेतुत्वस्य श्रुत्यनुभवसिद्धत्वादित्यर्थः ।

प्रागिति ।

वर्तमानदेहारम्भसमये यावदायुः सप्तत्यशीत्यादिलक्षणं विधिना कल्पितं तावदायुः प्राप्तायुःशब्दार्थः ।

सर्वमायुरितीति ।

'सर्वमेव च आयुर्यन्ति’ इत्यत्र सर्वशब्दसामर्थ्याच्छतं वर्षाणि यन्तीत्येव युक्तमित्यर्थः ।

परार्धसङ्ख्यां विहाय शतमित्यत्र हेतुमाह –

श्रुतिप्रसिद्धेरिति ।

'शतायुः पुरुषः’ इति श्रुतिप्रसिद्धेरित्यर्थः ।

आयुष्ट्वगुणकोपासनया आयुरेव प्राप्तव्यमित्यत्र किं विनिगमकमिति पृच्छति –

किं कारणमिति ।

श्रुतिरुत्तरमित्याशयेनाह –

प्राणो हीति ।

नन्वत्र किं नियामकं सूचितं भवतीत्यत आह –

यो यद्गुणकमिति ।

'तं यथा यथोपासते तदेव भवति’ इति न्यायेनायुष्ट्वगुणकोपासनादायुःप्राप्तिलक्षणं फलं युक्तमित्येवं विद्याफलप्राप्तौ हेतुसूचनार्थमिदम् ‘प्राणो हि’ इत्यादिपुनर्वचनमित्यर्थः ।

'तस्यैष एव’ इति वाक्यमानन्दमयो ब्रह्मेति वदतां वृत्तिकाराणां मतेन व्याचष्टे –

तस्य पूर्वस्येति ।

अत एवानन्दमयाधिकरणे वृत्तिकारमते स्थित्वा आनन्दमयपर्यायस्थमिदं वाक्यं तस्य पूर्वस्येति पदयोरित्यर्थमेव व्यवहितान्वयप्रदर्शनेन व्याख्यातमाचार्यैः । विवक्षितार्थस्तु - पूर्वस्यान्नमयस्य कल्पितस्य यः परमार्थरूप आत्मा आकाशादिद्वारा तत्कारणत्वेन प्रकृतः, एष एव तस्य ‘अन्योन्तर आत्मा प्राणमयः’ इति ब्राह्मणोक्तस्य प्राणमयस्य मुख्य आत्मा ; अस्य च शारीरत्वं शरीरे साक्षितयोपलभ्यमानत्वादुपपद्यते ; एवं च सति प्रकृतप्रधानपरामर्शकैतच्छब्द आत्मशब्दश्च मुख्यार्थौ भवतः ; वस्तुतः स्वरूपान्तरव्यवच्छेदकमवधारणं च सङ्गच्छते ; शरीरस्वामित्वरूपं मुख्यशारीरत्वं प्राणमयेऽपि न सम्भवतीति मन्तव्यम् । अत एव वार्त्तिके यथाभाष्यमिदं वाक्यं योजयित्वा पश्चादियं योजना मुख्यत्वेन प्रदर्शिता - ‘सत्यादिलक्षणो वात्मा गौणो ह्यात्मा ततोऽपरः । सर्वान्तरत्वान्न्याय्येयं यः पूर्वस्येति हि श्रुतिः’ इति । एवमुत्तरपर्यायेष्वपि द्रष्टव्यमिति सङ्क्षेपः ।

अन्यदिति ।

मनोमयपदव्यतिरिक्तमित्यर्थः ।

मयटो विकारार्थत्वे दृष्टान्तः –

यथेति ।

यजुःशब्दस्य प्रसिद्धमर्थमाह –

यजुरितीत्यादिना ।

मन्त्रपदात्पूर्वं य इति शेषः ।

प्राधान्यादिति ।

शरीराङ्गाणां मध्ये शिरस इव वेदानां मध्ये यजुषः प्राधान्यादित्यर्थः ।

संनिपत्येति ।

यागादौ स्वरूपोपकार्यङ्गत्वादित्यर्थः ।

तदेव विवृणोति –

यजुषा हीति ।

शास्त्रात्मिका ऋक् स्तोत्रात्मकं साम च स्तुतिद्वारा आरादुपकारकत्वादप्रधानमिति भावः ।