तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मात्प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
वाचनिकी वा शिरआदिकल्पना सर्वत्र । मनसो हि स्थानप्रयत्ननादस्वरवर्णपदवाक्यविषया तत्सङ्कल्पात्मिका तद्भाविता वृत्तिः श्रोत्रकरणद्वारा यजुःसङ्केतेन विशिष्टा यजुरित्युच्यते । एवम् ऋक् ; एवं साम च । एवं च मनोवृत्तित्वे मन्त्राणाम् , वृत्तिरेव आवर्त्यत इति मानसो जप उपपद्यते । अन्यथा अविषयत्वान्मन्त्रो नावर्तयितुं शक्यः घटादिवत् इति मानसो जपो नोपपद्यते । मन्त्रावृत्तिश्चोद्यते बहुशः कर्मसु । अक्षरविषयस्मृत्यावृत्त्या मन्त्रावृत्तिः स्यात् इति चेत् , न ; मुख्यार्थासम्भवात् । ‘त्रिः प्रथमामन्वाह त्रिरुत्तमाम्’ इति ऋगावृत्तिः श्रूयते । तत्र ऋचः अविषयत्वे तद्विषयस्मृत्यावृत्त्या मन्त्रावृत्तौ च क्रियमाणायाम् ‘त्रिः प्रथमामन्वाह’ इति ऋगावृत्तिर्मुख्योऽर्थश्चोदितः परित्यक्तः स्यात् । तस्मान्मनोवृत्त्युपाधिपरिच्छिन्नं मनोवृत्तिनिष्ठमात्मचैतन्यमनादिनिधनं यजुःशब्दवाच्यम् आत्मविज्ञानं मन्त्रा इति । एवं च नित्यत्वोपपत्तिर्वेदानाम् । अन्यथाविषयत्वे रूपादिवदनित्यत्वं च स्यात् ; नैतद्युक्तम् । ‘सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा’ इति च श्रुतिः नित्यात्मनैकत्वं ब्रुवन्ती ऋगादीनां नित्यत्वे समञ्जसा स्यात् । ‘ऋचोऽक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः’ (श्वे. उ. ४ । ८) इति च मन्त्रवर्णः । आदेशः अत्र ब्राह्मणम् , आदेष्टव्यविशेषानादिशतीति । अथर्वणाङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणं च शान्तिकपौष्टिकादिप्रतिष्ठाहेतुकर्मप्रधानत्वात् पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति मनोमयात्मप्रकाशकः पूर्ववत् ॥

ननु देवतोद्देशेन द्रव्यत्यागात्मकस्य यागस्य स्वरूपोत्पत्तिर्मन्त्रं विनापि सम्भवत्येव, परं त्वपूर्वीयस्य तस्य तेन विनोत्पत्तिर्न सम्भवति ; तथा च विचक्षितविवेकेन यजुषोऽपि ऋक्सामयोरिवादृष्टार्थत्वपर्यवसानाद्यजुषः प्राधान्यमसिद्धम् , प्रत्युत ‘वेदानां सामवेदोऽस्मि’ इति भगवतोक्तत्वात्तस्यैव प्राधान्यं युक्तमित्यस्वरसात्पूर्वोक्तां वस्तुगतिं स्मारयति –

वाचनिकी वेति ।

ननु यजुःशब्दस्य शब्दराशिविशेषे प्रसिद्धत्वात्तस्य च शब्दराशिविशेषस्य मनोमयकोशं प्रत्यवयवत्वाभावात्कथं प्रसिद्धयजुषि शिरस्त्वकल्पनम् , पूर्वोत्तरपर्यायेषु प्रायेण कोशावयवेष्वेव शिरस्त्वादिकल्पनादर्शनादित्याशङ्क्य, तर्हि यजुरादौ मनोमयं प्रति शिरआदिदृष्टिविधिबलादेव वेदानां मनोवृत्तिविशेषरूपत्वेन तदवयवत्वं कल्प्यते प्रमाणभूतायाः श्रुतेरनतिशङ्कनीयत्वादित्याशयेनाह –

मनसो हीत्यादिना ।

हि-शब्दः प्रसिद्धिद्योतनार्थः अवधारणार्थो वा । तथा च मनसोऽवयवत्वेन प्रसिद्धा वृत्तिरेव यजुरित्युच्यत इति सम्बन्धः ।

तामेव वृत्तिं विशिनष्टि –

स्थानेत्यादिना ।

ताल्वादिस्थानेषु वाय्वभिघातानुकूलेन प्रयत्नेन जनितो यो नादो ध्वनिः तद्व्यङ्ग्या ये उदात्तादिस्वरयुक्ता वर्णाः ते च पदानि च वाक्यानि च विषया यस्यां वृत्तौ सा तथोक्ता ।

तत्सङ्कल्पनात्मिकेति ।

तेषु वर्णपदवाक्येषु पूर्वोक्तानियताक्षरपादावसानत्वसङ्कल्परूपेत्यर्थः ।

तद्भावितेति ।

यजुर्वेदोऽयमित्याकारोपेतेत्यर्थः । श्रोत्राख्यं करणं द्वारं यस्याः सा तथोक्ता ।

प्रथमं शब्दराशिविशेषे गृहीतोऽपि सङ्केतः पश्चात्तद्विषयकवृत्तिविशेषविषयतया कल्प्यते, यथा प्रथमं चक्षुरादिशब्दानां गोलकेषु गृहीतोऽपि सङ्केतस्तदतिरिक्तचक्षुरादीन्द्रियविषयतया पश्चात्कल्प्यते तद्वदित्याशयेनाह –

यजुःसङ्केतविशिष्टेति ।

यजुष इव ऋगादेरपि तुल्यन्यायतया मनोवृत्तिविशेषरूपत्वमाह –

एवमिति ।

ऋक्सामग्रहणमथर्ववेदस्याप्युपलक्षणम् ।

श्रुत्यनुग्राहिकां युक्तिमाह –

एवं चेति ।

एवंशब्दार्थमेवाह –

मनोवृत्तित्वे मन्त्राणामिति ।

अन्यथेति ।

तेषां मानसक्रियारूपत्वानुपगम इत्यर्थः ।

मन्त्रो नावर्तयितुं शक्य इत्यत्र हेतुः –

अविषयत्वादिति ।

आवृत्तिविषयत्वादर्शनादित्यर्थः ।

मास्तु मन्त्रावृत्तिरिति वदन्तं प्रत्याह –

मन्त्रावृत्तिश्चोद्यत इति ।

मन्त्राणां घटादिवद्बाह्यद्रव्यत्वे तेषामावृत्तिर्नोपपद्यते लोके क्रियाया एवावर्त्यत्वदर्शनात् अत आवृत्तिविध्यनुपपत्त्या मन्त्राणां क्रियात्वं वाच्यमित्युक्तम् ।

तत्रान्यथाप्युपपत्तिं शङ्कते –

अक्षरविषयेति ।

अन्यथोपपत्तिं दूषयति –

न, मुख्यार्थेति ।

ननु कोऽसौ मुख्यार्थः कथं वा तदसम्भवप्रसङ्ग इत्याकाङ्क्षायामाह –

त्रिः प्रथमामित्यादिना ।

तत्रेति ।

आवृत्तावित्यर्थः । अविषयत्व इति च्छेदः । नन्वेवं ‘स्वाध्यायोऽध्येतव्यः’ इत्यादौ वाचनिके जपे च मन्त्राणामुच्चारणं तदावृत्तिश्चावगम्यते ; तेषां मनोवृत्तित्वपक्षे कथमुच्चारणकर्मत्वं सम्भवति ? तथा चाध्ययनविध्यादेर्मुख्यार्थपरित्यागप्रसङ्ग इति चेत् , न ; मानसजपविध्यनुसारेण मनोवृत्तिरूपवेदानामध्ययनादेर्बाह्यशब्दद्वारकतया गौणत्वोपपत्तेः । न चात्र विनिगमनाविरह इति वाच्यम् ; मानसजपस्य फलाधिक्यश्रवणेन तस्यैव मुख्यताया न्याय्यत्वात् । अनेनैवाशयेन मानसो जपो नोपपद्यत इति प्रागुक्तम् । वार्त्तिकेऽप्येतद्दर्शितम् - ‘भूयोल्पीयःफलत्वं च बाह्यमानसयोर्जपे । अतो मानसमुख्यत्वमितरस्यास्तु गौणता’ इति ।

नन्वस्मिन्पक्षे कथं वेदानां नित्यत्वनिर्वाहः वृत्तेः क्षणिकत्वादित्याशङ्कां परिहरन्नुपसंहरति –

तस्मादिति ।

वृत्तिविशेषानुगतं चैतन्यमेव वेदा इत्यर्थः । यया वृत्त्या बह्यो वेदो विषयीक्रियते तद्वृत्त्यनुगतचैतन्येनापि स विषयीक्रियत इति प्रसिद्धवेदविषयकं चैतन्यमेव मुख्यवेदश्चैतन्यस्य तदुपाधिभूतवृत्तेश्च कल्पिततादात्म्यसत्त्वाद्वेदानां सृष्टिप्रलयादिश्रवणं पूर्वोक्तावृत्त्यादिकं सर्वं चैतन्यस्यैव भवतीति न पूर्वग्रन्थविरोधोऽपीति भावः ।

येनाभिप्रायेण वेदानां चैतन्यरूपत्वमुपसंहारावसरे दर्शितं तमेवाभिप्रायं प्रपञ्चयति –

एवं चेति ।

चैतन्यरूपत्वे सतीत्यर्थः । वेदानां चैतन्यरूपत्वाविशेषेऽप्युपाधिभूतवृत्तिभेदाद्यजुरादिभेद इत्यादिकमूह्यम् ।

अन्यथेति ।

अन्यथा मनोवृत्तिमात्रत्वे शब्दमात्रत्वे वा वेदानां विषयत्वशब्दितं जडत्वं प्रसज्येत, सति च विषयत्वे रूपादिवदनित्यत्वं भवेदित्यर्थः । ‘अतोऽन्यदार्तम्’ इत्यादिश्रुत्या चैतन्यातिरिक्तस्य सर्वस्य विनाशित्वावगमादिति युक्तिसूचनार्थश्चकारः ।

तत्रेष्टापत्तिं वारयति –

नैतद्युक्तमिति ।

एतद्वेदानित्यत्वं न युक्तम् ‘वाचा विरूप नित्यया’ ‘अनादिनिधना नित्या’ इत्यादिश्रुतिस्मृतिविरोधप्रसङ्गादित्यर्थः ।

वेदानां चैतन्यरूपत्वे श्रुत्यन्तरमनुकूलयति –

सर्वे वेदा इति ।

यत्र चिदेकरसे आत्मनि एकम् एकतां गच्छन्ति स मानसीनः मनसि साक्षितया वर्तमानः सर्वेषां जनानाम् आत्मा वास्तवस्वरूपमित्यर्थः ।

ऋगादीनां कार्यत्वेनानित्यत्वेऽपि कार्यकारणयोस्तादात्म्यादेकं भवन्तीति वचनं कथञ्चिदुपपद्यते ; तेषां नित्यत्वेन स्वरूपैक्ये तु जीवब्रह्मणोरिवैकत्ववचनं मुख्यार्थमेव भवतीत्याशयेनाह –

समञ्जसेति ।

सर्वकारणत्वात्परमे विभुत्वादिभिर्व्योमसदृशे अक्षरे नाशरहिते यस्मिन्ब्रह्मणि देवा ब्रह्मादयः सर्वे अधिनिषेदुः उपरिभावेन स्थिताः, सर्वसंसारास्पृष्टे ब्रह्मणि स्वरूपत्वेन स्थिता इति यावत् ; तथैव ऋचो वेदास्तस्मिन्स्थिता इति मन्त्रार्थः । अतिदेष्टव्यविशेषान्कर्तव्यविशेषान् इदमेवं कर्तव्यमिति अतिदिशति उपदिशतीत्यर्थः ।

ननु ब्राह्मणं चेति ब्राह्मणस्यापि प्रतिष्ठात्वेन ग्रहणं न युक्तम् आदेशपदेन ब्राह्मणस्यात्मत्वेन समर्पितत्वादित्याशङ्क्य अत्र ब्राह्मणपदं तद्विशेषपरम् अतो नोक्तदोष इत्याशयेन ब्राह्मणमपि विशिनष्टि –

शान्तीत्यादिना ।

प्रधाना इति पुंलिङ्गनिर्देशो मन्त्रपदाभिप्रायः, तदिति निर्देशः पुच्छपदाभिप्राय इति विभागः ।

मनोमयात्मप्रकाशक इति ।

मनोमयावयवयजुरादिप्रकाशक इत्यर्थः ॥