तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेत्यादि । तस्य पूर्वस्य प्राणमयस्य एष एव आत्मा शारीरः शरीरे प्राणमये भवः शरीरः । कः ? य एष मनोमयः । तस्माद्वा एतस्मादिति पूर्ववत् । अन्योऽन्तर आत्मा विज्ञानमयः मनोमयस्याभ्यन्तरो विज्ञानमयः । मनोमयो वेदात्मा उक्तः । वेदार्थविषया बुद्धिर्निश्चयात्मिका विज्ञानम् , तच्चाध्यवसायलक्षणमन्तःकरणस्य धर्मः, तन्मयः निश्चयविज्ञानैः प्रमाणस्वरूपैर्निर्वर्तितः आत्मा विज्ञानमयः प्रमाणविज्ञानपूर्वको हि यज्ञादिः तायते । यज्ञादिहेतुत्वं च वक्ष्यति श्लोकेन । निश्चयविज्ञानवतो हि कर्तव्येष्वर्थेषु पूर्वं श्रद्धा उपपद्यते । सा सर्वकर्तव्यानां प्राथम्यात् शिर इव शिरः । ऋतसत्ये यथाव्याख्याते एव । योगः युक्तिः समाधानम् आत्मैव आत्मा । आत्मवतो हि युक्तस्य समाधानवतः अङ्गानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति । तस्मात्समाधानं योग आत्मा विज्ञानमयस्य । महः पुच्छं प्रतिष्ठा । मह इति महत्तत्त्वं प्रथमजम् , ‘महद्यक्षं प्रथमजं वेद’ (बृ. उ. ५ । ४ । १) इति श्रुत्यन्तरात् , पुच्छं प्रतिष्ठा कारणत्वात् । कारणं हि कार्याणां प्रतिष्ठा, यथा वृक्षवीरुधां पृथिवी । सर्वविज्ञानानां च महत्तत्त्वं कारणम् । तेन तद्विज्ञानमयस्यात्मनः प्रतिष्ठा । तदप्येष श्लोको भवति पूर्ववत् । यथा अन्नमयादीनां ब्राह्मणोक्तानां प्रकाशकाः श्लोकाः, एवं विज्ञानमयस्यापि ॥

तथा च यतश्चिदेकरसादानन्दान्मनसा सह वाचस्तमप्राप्य निवर्तन्ते तं ब्रह्मणः स्वरूपभूतमानन्दं मनोमयस्य शिरःपक्षादिरूपं विद्वानुपासीनः कदापि न बिभेतीति योजना । यद्वा मनोमयात्मप्रकाशक इति भाष्यं यथाश्रुतमेव । न चैवमब्रह्मस्वरूपस्य मनोमयात्मनः श्लोकप्रतिपाद्यब्रह्मात्मत्वासम्भवादसङ्गतिरिति वाच्यम् ; अब्रह्मण्यपि तस्मिन्ब्रह्मत्वमध्यारोप्य श्लोकप्रवृत्त्युपपत्तेः । न चारोपे निमित्तप्रयोजनयोरभाव इति वाच्यम् ; ब्रह्मविज्ञानसाधनत्वेन निमित्तेन तस्मिन्ब्रह्मत्वारोपाभ्युपगमादारोपस्य चात्रोपास्यस्य मनोमयकोशस्य स्तुतिरूपप्रयोजनसम्भवाच्च ; तथा च वक्ष्यति - ‘मनोमये चोदाहृतो मन्त्रो मनसो ब्रह्मविज्ञानसाधनत्वात्तत्र ब्रह्मत्वमध्यारोप्येति’ ; तथा च अवाङ्मनसगोचरब्रह्मत्वेन स्तुतस्य मनोमयस्य स्वरूपं यजुराद्यवयवोपेतं विद्वानुपासीनः सौत्रं पदं प्राप्य आनन्दमनुभवन्न बिभेति कादचनेत्यध्याहारेण योजना । अथवा मन्त्रे ब्रह्मण इति मनस एव निर्देशः । मनोमयकोशस्यात्रापरब्रह्मदृष्टिभाक्त्वेन विवक्षितत्वात् वागाद्यगोचरत्वं च तस्यैव विशेषणम् , मनसः साक्षिप्रत्यक्षसिद्धस्याज्ञातत्वाभावेन शब्दगम्यत्वाभावात् स्वस्य स्वविषयत्वाभावेन मनोगोचरत्वाभावाच्च । तथा च अवाङ्मनसगोचरस्य मनोमयाख्यस्य ब्रह्मणः स्वरूपं विद्वान् क्रमेणानन्दं प्राप्य न बिभेतीति योजना पूर्ववदेव द्रष्टव्या । वेदात्मनि मनोमय उक्ते सति वेदार्थस्य बुद्धिस्थत्वाद्विज्ञानमय इत्यत्र वेदार्थज्ञानमेव प्रकृत्यर्थ इत्याशयेनाह –

वेदात्मोक्त इति ।

ननु मनोमयावयवत्वेन निर्दिष्टं यजुरादि तदवयवभूतवृत्तिविशेषानुगतं चैतन्यमेव नान्यदित्युक्तम् , तथा च वेदार्थविषयकं निश्चयरूपं विज्ञानमपि चैतन्यमेवेति विज्ञानमयोऽपि वेदात्मा स्यादिति मन्दशङ्कां वारयति –

तच्चेति ।

यद्वा वेदार्थगोचरविज्ञानस्यात्मधर्मत्वाद्वक्ष्यमाणरीत्या तन्मयत्वमन्तःकरणस्य कथमित्याशङ्क्य हेत्वसिद्धिमाह –

तच्चेति ।

धर्म इति ।

अत्र प्रकृत्यर्थत्वेन विवक्षितं विज्ञानमन्तःकरणधर्म एव न चैतन्यमित्यर्थः । यद्वा अन्तःकरणस्यैव धर्मो नात्मनः तस्य कूटस्थनित्यत्वादित्यर्थः ।

तन्मय इति ।

ननु विज्ञानमयत्वं विज्ञानविकारत्वम् , तच्च कथमन्तःकरणस्य तद्धर्मिणश्चतुर्थकोशत्वेनात्र विवक्षितस्य सम्भवतीत्याशङ्क्याह –

निश्चयेति ।

यद्यपि मनोमयकोशोऽप्यन्तःकरणमेव तथापि संशयवृत्त्यवस्थमन्तःकरणं मनोमयः निश्चयवृत्त्यवस्थमन्तःकरणमेव विज्ञानमय इत्यवस्थाभेदेन भेद इति भावः । यद्वा केवलमन्तःकरणं मनोमयः तप्तायःपिण्डवच्चैतन्यतादात्म्यापन्नं तदेव विज्ञानमय इति भेदः ।

प्रमाणस्वरूपैरिति ।

प्रमारूपैर्विज्ञानैर्विशेषणभूतैस्तद्विशिष्टतया निर्वर्तितो निष्पादितोऽन्तःकरणात्मा धर्मी विज्ञानमयशब्दवाच्यतामापन्नः सन्मनोमयस्याभ्यन्तर आत्मा भवतीत्यर्थः । विशिष्टरूपस्य विशेषणायत्तत्वानुभवाद्विशिष्टस्य विशेषणविकारत्वं सम्भवतीति भावः ।

निश्चयरूपं वेदार्थविज्ञानमेव प्रकृत्यर्थ इत्यत्र हेत्वन्तरमाह –

प्रमाणविज्ञानेति ।

तायते, तनोतेरिदं रूपम् ; विस्तार्यत इत्यर्थः ।

ततः किम् ? अत आह –

यज्ञादीति ।

'विज्ञानं यज्ञं तनुते’ इति मन्त्रेण विज्ञानस्य यज्ञादिहेतुताया वक्ष्यमाणत्वादत्र ब्राह्मणेऽपि विज्ञानं यज्ञानुष्ठानहेतुवेदार्थज्ञानमेवेत्यर्थः । एतेन अन्नमयप्राणमयमनोमयशब्देषु प्रकृत्यर्थतया आधिदैविकानामन्नप्राणमनसां गृहीतत्वात् भृगुवल्ल्यां कोशवाक्यगतान्नप्राणमनोविज्ञानपदोपात्तानामाधिदैविकान्नादीनामिह प्रकृतिभिः प्रत्यभिज्ञायमानत्वाच्च विज्ञानमय इत्यत्र प्रकृत्यर्थतया निश्चयावस्थं समष्ट्यन्तःकरणमेव ग्राह्यम् , एवं सति मयडर्थभूतविकारत्वमप्यस्मदाद्यन्तःकरणस्य मुख्यमेव सम्भवतीति शङ्का निरस्ता ; अत्रैकार्थविषयतया प्रवृत्तयोर्मन्त्रब्राह्मणयोः श्रुतस्य विज्ञानपदस्यावश्यमेकार्थताया वक्तव्यत्वान्मन्त्रे च विज्ञानपदस्य वेदार्थज्ञानपरत्वस्य निश्चितत्वाद् मन्त्रेणैव प्रकृत्यर्थस्यान्यथा व्याख्याने क्रियमाणे सति पूर्वोक्ताधिदैविकप्रायपाठादेरकिञ्चित्करत्वादिति भावः । यद्वा विज्ञानपदस्याधिदैविकविज्ञानपरत्वमुक्तप्रमाणसिद्धं कृत्वा वेदार्थविज्ञानपरतयापि व्याख्यानं सम्भवतीत्याशयेनास्य भाष्यस्य प्रवृत्तिरुपपादनीया, मन्त्रब्राह्मणयोरेककोशोपास्तिविषयत्वमात्रेण सङ्गत्युपपत्तेः ; अत एव कोशवाक्यविवरणरूपयोर्भाष्यवार्त्तिकयोस्तात्पर्यनिरूपणावसरे श्रीमदानन्दगिर्याचार्यैरुक्तम् - ‘अत्र प्राणो मनो विज्ञानं चेति प्रकृत्यर्थभूतं कोशत्रयं सूत्रात्मरूपमन्नं विराट् कोश आनन्दः कारणकोशः’ इति । एतेन तुल्यन्यायतया आनन्दमय इत्यत्रापि प्रकृत्यर्थतया प्रियमोदादिग्रहणं व्याख्यानान्तराभिप्रायमेवेति सूचितं भवति । वस्तुतस्तु - भृगुवल्ल्यां पञ्चमपर्याये सर्वभूतकारणत्वेन वक्ष्यमाणमानन्दरूपं ब्रह्मैव कारणत्वविशिष्टवेषेणानन्दमय इत्यत्र प्रकृत्यर्थः ; ‘आनन्द आत्मा’ इत्यत्र च कारणत्वप्रयोजकमायोपहितत्ववेषेण तदेवानन्दपदार्थ इति सर्वमनवद्यम् ।

तस्येति ।

वेदार्थनिश्चयवतो या पूर्वं श्रद्धोत्पद्यते सा तस्य प्रकृतस्य विज्ञानमयस्य शिर इव शिर इति योजना । श्रद्धां विना वेदार्थानुष्ठानं विफलमिति शास्त्रीयप्रसिद्धिसूचनार्थो विज्ञावतो हीति हि-शब्दः ।

यथाव्याख्याते इति ।

'ऋतं वदिष्यामि, सत्यं वदिष्यामि’ इत्यत्र यथाव्याख्याते एव ऋतसत्ये विज्ञानमयस्य दक्षिणोत्तरपक्षावित्यर्थः ।

समाधानमिति ।

समाधानं समाधिः, स च तस्य आत्मा मध्यकायः ।

तत्र दृष्टान्तः –

आत्मेवेति ।

प्रसिद्धदेहमध्यकाय इवेत्यर्थः ।

समाधानस्य प्रसिद्धदेहमध्यकायस्य च किं साम्यम् ? अत आह –

आत्मवतो हीति ।

यथा आत्मवत आत्मशब्दितमध्यकायवतः प्रसिद्धदेहस्याङ्गानि शिरआदीनि स्वकार्यक्षमाणि भवन्ति हि प्रसिद्धमेतत् , तथा मुमुक्षोर्युक्तस्य श्रद्धा ऋतसत्यानि यथार्थशब्दितब्रह्मप्रतिपत्तिरूपस्वकार्यक्षमाणि भवन्तीत्यर्थः । एतदुक्तं भवति - देहावयवानां मध्ये मध्यकायस्य प्राधान्यं ब्रह्मप्रतिपत्तिसाधनश्रद्धादीनां मध्ये समाधेः प्राधान्यमित्यनेन साम्येन समाधौ मध्यकायत्वदृष्टिरत्र विवक्षितेति । एतच्च यत्र किञ्चिन्नियामकं सम्भाव्यते तत्र न त्वक्तव्यमित्याशयेनोक्तम् । वस्तुगतिस्तु प्रागेवासकृद्दर्शिता वाचनिकी वा शिरआदिकल्पना सर्वत्रेति ।

महत्तत्त्वमिति ।

समष्ट्यन्तःकरणाभिमानी हिरण्यगर्भ इत्यर्थः । हिरण्यगर्भस्य विराडपेक्षयापि प्रथममुत्पन्नत्वात्प्रथमजत्वम् ।

तत्र मानमाह –

महद्यक्षमिति ।

यक्षं पूज्यम् ।

ननु कारणत्वेऽपि कथं प्रतिष्ठात्वम् ? तत्राह –

कारणं हीति ।

हि-शब्दसूचितां प्रसिद्धिमुदाहरणेन दर्शयति –

यथेति ।

नन्वस्मदादिबुद्धिरूपाणां विज्ञानमयकोशानां हिरण्यगर्भः कारणं चेदस्तु तस्य प्रतिष्ठात्वम् , तदेवासिद्धमित्याशङ्क्याह –

सर्वबुद्धीति ।

'आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’ इत्यादिशास्त्रेण हिरण्यगर्भस्य सर्वभूतकारणत्वमवगम्यते ; न च भूतानां स्वतः कार्यत्वमस्ति ; अतो भूतशब्दितजीवोपाधिभूतानां लिङ्गशरीराणां ब्रह्मा कारणं सिद्धमिति भावः ।

फलितमाह –

तेनेति ।

कारणत्वेनेत्यर्थः ।

पूर्ववदित्युक्तं विवृणोति –

यथेति ।

विज्ञानमयस्यापीति ।

प्रकाशकः श्लोको भवतीति शेषः ॥