ननु विज्ञानं नाम वेदार्थविषयो निश्चय इत्युक्तम् , अतस्तस्य कथं कर्तृत्वनिर्देश इत्याशङ्क्य, उपचारादित्याह –
विज्ञानवान्हीति ।
'य एवं विद्वान्यजते’ इत्यादौ वेदार्थज्ञानवतो यज्ञादिकर्तृत्वं प्रसिद्धमिति सूचनार्थो हि-शब्दः ।
कर्माणि चेति ।
लौकिकानीति शेषः, वैदिककर्मणां यज्ञशब्देन सङ्गृहीतत्वात् । अत्र विज्ञानमयस्य मुख्यं लौकिकवैदिककर्मकर्तृत्वम् , विज्ञानस्य तु तदौपचारिकमिति व्यवस्था दर्शिता । स च विज्ञानमयो नानाविधानि कर्माण्युपासनानि च कुर्वन्नपरब्रह्मवज्जगतः कारणं भवति । इयांस्तु विशेषः - विज्ञानमयो ह्यदृष्टद्वारा कारणम् , अपरब्रह्म तु साक्षादेवेश्वरवत्कारणमिति ।
तथा च ‘विज्ञानं यज्ञं तनुते’ इति वाक्योक्तं सर्वकर्मकर्तृत्वं विज्ञानमयकोशे जगत्कारणत्वसाम्यसम्पादनद्वारा अपरब्रह्मारोपे निमित्तमित्याशयेनाह –
यस्मादिति ।
विज्ञानपदं कोशपरम् ।
इतश्च विज्ञानमयोऽपरब्रह्माभेदेनोपास्य इत्याह –
किं च विज्ञानमिति ।
विज्ञानमयमित्यर्थः ।
ज्येष्ठपदं कारणपरं वेत्याह –
सर्वप्रवृत्तीनामिति ।
सर्वप्राणिचेष्टानां सूत्ररूपब्रह्मकारणकत्वाद्वा ब्रह्म ज्येष्ठमित्यर्थः ।
ध्यायन्तीति ।
पूर्वजन्मनि यजमानावस्थायामिति शेषः ।
अभिमानमिति ।
अहम्बुद्धिमित्यर्थः ।
पूर्वं ब्रह्मोपासनं देवैरनुष्ठितमित्यत्र देवत्वावस्थायां ज्ञानाद्यैश्वर्यदर्शनं लिङ्गमित्याशयेनाह –
तस्मादिति ।
इदानीमुपासनविधिं दर्शयति –
तच्च विज्ञानमिति ।
विज्ञानमयमित्यर्थः । अत्र चेच्छब्दः प्रकृतोपासनदौर्लभ्यसूचनार्थः, कथञ्चिदुपासने प्रवृत्तावपि तत्र प्रमादसम्भवस्यावश्यकत्वात् । अप्रमाददौर्लभ्यसूचनार्थो द्वितीयश्चेच्छब्दः ।
प्रमादप्रसक्तिमाह –
बाह्येष्विति ।
विज्ञानमयापेक्षया बाह्यानां मनोमयप्राणमयान्नमयानामपि पूर्वमात्मत्वेन भावितत्वादित्यर्थः ।
प्रमदनमिति ।
विज्ञानमये ब्रह्मण्यात्मभावनायाः सकाशात्प्रमदनं नाम पूर्वकोशेषु पुनरात्मभावनमित्यर्थः ।
फलितमाह –
अन्नमयादिष्विति ।
सूक्ष्मशारीराभिन्ने ब्रह्मणि विषये क्रियमाणादुपासनात्पाप्महानं भवतीत्यत्र युक्तिमाह –
शरीराभिमाननिमित्ता हीति ।
मनुष्यत्वब्राह्मणत्वगृहस्थत्वादिधर्मवति शरीरे ‘मनुष्योऽहम्’, ’ब्राह्मणोऽहम्’, ’गृहस्थोऽहम्’ इत्याद्यभिमानं निमित्तीकृत्य मनुष्यादीनां प्रतिषिद्धैः कर्मभिः पाप्मानो भवन्ति । अत्रार्थे लोकवेदप्रसिद्धिद्योतको हि-शब्दः ।
ततः किम् ? तत्राह –
तेषां चेति ।
चोऽवधारणे । तेषां हानमुपपद्यत इति सम्बन्धः । विज्ञानमयब्रह्मण्येवाहमभिमानात्पाप्मनिमित्तस्य शरीरात्माभिमानस्यापाये सतीत्यर्थः ।
निमित्तापाये नैमित्तिकापाय इत्यत्र दृष्टान्तमाह –
छत्रापाय इति ।
एवं पाप्महानफलवचनस्योपपत्तिमुक्त्वा तस्यार्थमाह –
तस्मादिति ।
शरीरात्माभिमानस्य निमित्तस्य निवृत्तत्वादित्यर्थः ।
शरीर एवेति ।
जीवद्दशायामेवेति यावत् ।
विज्ञानमयेनैवात्मनेति ।
इहैव साक्षात्कारेण विज्ञानमयब्रह्मस्वरूपापन्नो विद्वान्सर्वान्पाप्मनो हित्वा देहपातानन्तरं विज्ञानमयब्रह्मात्मभावेनैव स्थित्वा तल्लोकस्थान्सर्वान्भोग्याननुभवतीत्यर्थः ॥
अत्रानन्दमयः प्रकरणी पर एव न संसारीति केचित् ; तान्प्रत्याह –
आनन्दमय इतीति ।
आनन्दमय इति पदेन कार्यात्मन एव प्रतीतिर्भवति न तु कारणस्य परमात्मन इत्यर्थः । यद्यप्यानन्दमयो न कार्यभूतः अविद्योपाधिकस्य जीवस्यानन्दमयत्वाभ्युपगमेनानादित्वात् , तथापि मयडर्थवर्णनावसरे तस्य प्रियमोदादिविशिष्टतया प्रकृत्यर्थभूतानन्दविकारत्वस्य वक्ष्यमाणत्वात्कार्यात्मेत्युक्तम् ।
अधिकारं विवृणोति –
अन्नादिमया हीति ।
तेषां कार्यात्मत्वं प्रसिद्धमिति हि-शब्दार्थः ।
नन्वानन्दमय इत्यत्र मयटः प्राचुर्यार्थकत्वाभ्युपगमान्न तस्य मयट्च्छ्रुत्या कार्यात्मत्वमित्याशङ्क्य द्वितीयहेतुमपि विवृणोति –
मयट् चेति ।
प्राचुर्यार्थत्वपक्षे प्राचुर्यस्य प्रतियोग्यल्पतापेक्षत्वादानन्दप्रचुरस्य ब्रह्मणो दुःखाल्पत्वमपि प्रसज्येत, तस्माद्विकारार्थ एव मयट् न प्राचुर्यार्थ इत्यर्थः ।
किं च विकारे प्राचुर्ये च मयटो विधानाविशेषात्संशये विकारार्थकमयट्प्रवाहपतितत्वाद्विकारार्थकत्वमेवात्र निश्चीयत इत्याशयेनाह –
यथेति ।
एवमनात्मप्रायपाठाद्विकारार्थकमयट्च्छ्रुतिबलाच्चानन्दमयः कार्यात्मेत्युपसंहरति –
तस्मादिति ।
सङ्क्रमणाच्चेति ।
आनन्दमयस्य सङ्क्रमणं प्रति कर्मत्वश्रवणाच्च कार्यात्मत्वमित्यर्थः ।
हेत्वसिद्धिं परिहरति –
आनन्दमयमिति ।
व्याप्तिमाह –
कार्यात्मनां चेति ।
चोऽवधारणे । अत्र प्रकरणे यत्र यत्र सङ्क्रमणकर्मत्वं तत्र तत्र कार्यात्मत्वमेवेति व्याप्तिर्दृष्टेत्यर्थः ।
अनात्मनामिति ।
मुख्यात्मभिन्नानामन्नमयादीनामिति यावत् ।
हेतोः पक्षधर्मत्वमाह –
सङ्क्रमणकर्मत्वेन चेति ।
तदेव दृष्टान्तेन साधयति –
यथेति ।
आनन्दमयस्य सङ्क्रमणकर्मत्वलिङ्गेनाब्रह्मत्वमुक्तम् ।
विपक्षे बाधकं वदन्नप्रयोजकत्वशङ्कां निराकरोति –
न चात्मन एवेति ।
सङ्क्रमितुरेवंविदः परब्रह्मस्वरूपत्वादानन्दमयस्यापि ब्रह्मत्वे स्वस्यैव स्वेनोपसङ्क्रमणिति प्रसज्जेत, तच्च न युक्तमित्यर्थः ।
अधिकारेति ।
सङ्क्रमणकर्तुरेवंविदः सकाशादन्यस्यैवान्नमयादेः सङ्क्रमणकर्मत्वं प्रकृतम् ; अत्र स्वस्यैव स्वेनोपसङ्क्रमणाभ्युपगमे कर्तृकर्मणोर्भेदाधिकारविरोध इत्यर्थः ।
असम्भवं विवृणोति –
न हीति ।
एवंविद्ब्रह्मणोर्भेदमाशङ्क्याह –
आत्मभूतं चेति ।
अत्र सङ्क्रमणं प्राप्तिर्बाधो वा, उभयथाप्यानन्दमयस्य ब्रह्मत्वे सङ्क्रमणकर्मत्वायोगात्कार्यात्मत्वमेवेति भावः ।
आनन्दमयस्य कार्यात्मत्वे हेत्वन्तरमाह –
शिरआदीति ।
ननु ब्रह्मण्यप्युपासनार्थं शिरआदिकल्पनमुपपद्यत इत्याशङ्क्यानुपपत्तिमेव साधयति –
न हि यथोक्तलक्षण इति ।
सत्यज्ञानानन्ताख्यस्वरूपलक्षणवतीत्यर्थः ।
तटस्थलक्षणमप्याह –
आकाशादीति ।
कार्यकोटिप्रविष्ट एवान्नमयादौ शिरआदिकल्पनदर्शनाच्च तद्विलक्षणे ब्रह्मणि न तत्कल्पनमुपपद्यत इत्याशयेनाह –
अकार्यपतित इति ।
इत्थं मुमुक्षुज्ञेये निर्विशेषे ब्रह्मण्यनुपास्ये शिरआदिकल्पनमनुपपन्नम् , निर्विशेषत्वे च यथोक्तलक्षण इत्यादिनोपक्रमस्वारस्यं प्रमाणत्वेन सूचितम् ।
तत्रैव वाक्यशेषं श्रुत्यन्तराणि च प्रमाणयति –
अदृश्य इत्यादिना ।
आनन्दमयः कार्यात्मा शिरआदिकल्पनावत्त्वादन्नमयादिवत् , विपक्षे हेतूच्छित्तिरेव बाधिकेति निष्कर्षः ।
आनन्दमयस्य ब्रह्मत्वे विवक्षिते सति तद्विषयश्लोके तस्यैवासत्त्वाशङ्का वाच्या, सा च न सम्भवति, अतो नानन्दमयो ब्रह्मेत्याह –
मन्त्रोदाहरणेति ।
न हि मन्त्रोदाहरणमुपपद्यत इति सम्बन्धः ।
इतश्च नानन्दमयो ब्रह्मेत्याह –
ब्रह्म पुच्छमिति ।
आनन्दमयस्य ब्रह्मत्वे ब्रह्मणोऽवयवित्वेन गृहीतत्वात्पृथक्तस्यैव ब्रह्मणः पुच्छत्वेन प्रतिष्ठात्वेन च ग्रहणमनुपपन्नम् एकत्रावयवावयविभावादिकल्पनस्यानुचित्तत्वादिति भावः ।
तस्मादिति ।
उक्तहेतुसमुदायादित्यर्थः ।
न पर एवेति ।
न साक्षात्परमात्मैवानन्दमय इत्यर्थः ।
आनन्दमय इत्यत्र प्रकृत्यर्थमाह –
आनन्द इतीति ।
आनन्द इति प्रकृत्यंशेनोपासनाकर्मफलभूतं प्रियमोदादिलक्षणं सुखमुच्यते आनन्दपदस्य लोके विषयसुखेषु प्रसिद्धत्वादित्यर्थः ।
मयडर्थमाह –
तद्विकार इति ।
विशिष्टस्य विशेषणविकारत्वात्प्रकृत्यर्थभूतानन्दविशिष्ट आत्मा तद्विकार इत्यर्थः ।
आनन्दमयस्य विज्ञानमयादान्तरत्वं श्रुत्युक्तमुपपादयति –
ज्ञानकर्मणोर्हि फलमिति ।
तयोः फलशब्दितसुखसाधनत्वं प्रसिद्धमिति हि-शब्दार्थः । भोक्त्रर्थत्वादित्यत्र भोक्तृपदं भावप्रधानं सत्फलत्वेन विवक्षितं सुखरूपं भोगमाह ; तथा च कर्तुर्विज्ञानमयस्य भोक्तृशब्दितफलसाधनत्वाज्ज्ञानकर्मफलभूतं सुखं साधनभूतविज्ञानमयाद्यपेक्षया अन्तरतममित्यर्थः ।
तथाप्यानन्दमयस्यान्तरत्वे किमायातम् ? तत्राह –
अन्तरतमश्चेति ।
चोऽवधारणार्थः । अन्तरतमफलविशिष्टः सन्नानन्दमय आत्मा पूर्वेभ्यो विज्ञानमयान्तेभ्यः कोशेभ्योऽन्तरतमो भवत्येवेत्यर्थः ।
नन्वानन्दमयो न विद्याकर्मफलविशिष्टः किं तु प्रियादिविशिष्टः ‘तस्य प्रियमेव शिरः’ इत्यादिश्रवणादित्याशङ्क्याह –
विद्याकर्मणोः प्रियाद्यर्थत्वाच्चेति ।
च-शब्दः शङ्कानिवृत्त्यर्थः । प्रियादेः सुखरूपत्वान्न विद्याकर्मफलात्प्रियादेर्भेद इति भावः ।
तयोः प्रियाद्यर्थत्वं प्रसिद्धमित्याह –
प्रियादिप्रयुक्ते हीति ।
प्रियाद्युद्देश्यके इत्यर्थः ।
आनन्दमयस्यान्तरत्वप्रतिपादनमुपसंहरति –
तस्मादिति ।
आत्मसंनिकर्षादिति ।
आत्मविशेषणत्वादिति यावत् ।
अस्येति ।
आन्तरैः प्रियादिभिर्विशिष्टस्यात्मन इत्यर्थः ।
इत्थमानन्दमयस्य विज्ञानमयादभ्यन्तरत्वं प्रसाध्य तस्मादन्यत्वं साधयति –
प्रियादिवासनेति ।
जाग्रति प्रियाद्यनुभवजनिताभिर्वासनाभिर्निर्वर्तितः ; वासनाविशिष्ट इति यावत् । एवंभूत आनन्दमय आत्मा विज्ञानमयाश्रिते स्वप्ने प्रियादिविशिष्टतयोपलभ्यते । स च विज्ञानमयादन्यः विज्ञानमयस्य जाग्रति यज्ञादिकर्मकर्तृत्वेन व्यवस्थितत्वात् स्वप्ने चात्मनः कर्मक्रतृत्वाभावात् स्वप्ने कर्मकरणादिव्यापारस्य वासनामात्रत्वात् । किं च स्वप्नप्रपञ्चस्य विज्ञानमयशब्दितसाभासान्तःकर्णपरिणामत्वाद्विज्ञानमयो विषयत्वेनैवोपक्षीणः ; ततो विषयभूताद्विज्ञानमयादानन्दमयस्य स्वप्नद्रष्टुरन्यत्वमावश्यकमित्याशयेन विज्ञानमयाश्रिते स्वप्न इत्युक्तमिति मन्तव्यम् ।
स एव चेति ।
लाभनिमित्त एव हर्षो लब्धस्योपभोगादिना प्रकर्षं प्राप्तः सन्प्रमोदशब्दवाच्यो भवतीत्यर्थः । आनन्द इति पदेन सुखसामान्यमुच्यते ; तच्च शिरआद्यवयवरूपेण कल्पितानां प्रियादीनामात्मा मध्यकाय इत्यर्थः ।
आनन्दस्य सामान्यरूपत्वे युक्तिमाह –
तेष्विति ।
प्रियादिषु सुखविशेषेष्वित्यर्थः ।
ननु सुखसामान्यं नाम किं जातिरूपम् ? नेत्याह –
आनन्द इतीति ।
सुखसामान्यवाचिना आनन्द इति पदेन परं सुखरूपतयोत्कृष्टं ब्रह्मोच्यत इत्यर्थः । यथा घटाद्युपहितानि च्छिद्राण्याकाशविशेषाः तेषु स्वरूपेणानुस्यूतमाकाशमाकाशसामान्यमिति प्रसिद्धम् , तथा वृत्तिविशेषोपहितानि ब्रह्मस्वरूपसुखान्येव सुखविशेषाः तेषु स्वरूपेणानुस्यूतं ब्रह्मसुखमेव सुखसामान्यमुच्यते, न जातिरूपमिति भावः ।
वृत्तिविशेषैरभिव्यक्तं तदुपहितस्वरूपसुखमेव विषयसुखं सदत्र प्रियमोदादिशब्दैरभिधीयत इतीममेवाभिप्रायं प्रकटयति –
तद्धीत्यादिना ।
प्रत्युपस्थाप्यमान इति पदं वृत्तिविशेष इत्यस्य विशेषणम् ; उत्पद्यमान इत्यर्थः । समस्तपाठे प्रत्युपस्थाप्यमानाः प्राप्यमाणाः पुत्रमित्रादिविषयविशेषा उपाधयः कारणानि यस्य वृत्तिविशेषस्येति विग्रहः ।
क्रोधादिवृत्तिवैलक्षण्यरूपं वृत्तेर्विशषमेवाह –
तमसेति ।
अप्रच्छादनफलमाह –
प्रसन्न इति ।
अभिव्यज्यत इति ।
निवृत्तावरणं भवतीत्यर्थः ।
ततः किमित्यत आह –
तद्विषयेति ।
तद्वृत्तिविशेषोपहितं तेनैवाभिव्यक्तं ब्रह्मस्वरूपसुखमेव लोके विषयजनितं सुखमिति प्रसिद्धं न तु वस्तुगत्या विषयजनितमन्यत्सुखमस्तीत्यर्थः ।
ननु विषयसुखस्य ब्रह्मानन्दस्वरूपत्वे क्षणिकत्वं न स्यात् ब्रह्मानन्दस्य नित्यत्वादित्याशङ्क्याह –
तद्वृत्तीति ।
स्वरूपसुखव्यञ्जकवृत्तिविशेषोत्पादककर्मणः क्षणिकत्वादित्यर्थः ।
नन्वेवमपि स्वरूपसुखस्य वृत्तिविशेषेष्वभिव्यक्तस्याप्येकरूपत्वात्कथं विषयसुखेषूत्कर्षतारतम्यमित्याशङ्क्याह –
तद्यदेति ।
तमोघ्नत्वविशेषणं दमादिसाधारणं बोध्यम् । विद्यया उपास्त्या ।
विविक्त इति ।
तमसेति शेषः । अन्तःकरणशुद्धितारतम्यात्तारतम्योपेतास्तद्वृत्तयो भवन्ति, वृत्तितारतम्याच्च तदभिव्यङ्ग्यमात्मसुखमपि तरतमभावेनाभिव्यज्यत इत्यर्थः ।
आनन्दविशेष इति ।
वृत्तिविशेषोपहितानन्द इत्यर्थः ।
विषयसुखानां ब्रह्मसुखावयवत्वे मानमाह –
वक्ष्यति चेति ।
सः प्रकृतः परमात्मा रसः सारः आनन्द इत्यर्थः ।
अयमिति ।
ब्रह्मादिस्तम्बपर्यन्तो लोक इत्यर्थः ।
एष ह्येवेति ।
आनन्दरूपः पर एव निजेनानन्देनानन्दयतीत्यर्थः ।
वाजसनेयश्रुतिमाह –
एतस्यैवेति ।
आत्मानन्दस्यैवेत्यर्थः । आत्मानं ब्रह्मणः सकाशादन्यत्वेन मन्यमानानि भूतानि प्राणिनो मात्रां लेशमेवानुभवन्तीत्यर्थः ।
सुखतारतम्यस्य चित्तशुद्धितारतम्यानुरोधित्वे सत्येव वाक्यशेषोऽप्युपपद्यत इत्याशयेनाह –
एवं चेति ।
कामोपशमः शुद्धिः ।
वक्ष्यत इति ।
'श्रोत्रियस्य चाकामहतस्य’ इत्यत्रेत्यर्थः ।
'ब्रह्म पुच्छं प्रतिष्ठा’ इति वाक्यं व्याचष्टे –
एवं चेति ।
उक्तरीत्यैवोत्कृष्यमाणस्य उत्कर्षतारतम्योपेतप्रियादिविशिष्टस्यानन्दमयात्मनः परमेव ब्रह्म पुच्छं प्रतिष्ठेति सम्बन्धः ।
नन्वानन्दमयं प्रति ब्रह्मणः प्रतिष्ठात्वं किमर्थमुपदिश्यते ? तत्राह –
परमार्थेति ।
परमार्थस्य ब्रह्मणः सर्वान्तरत्वज्ञानार्थमित्यर्थः ।
पुच्छशब्दप्रयोगेऽपि ब्रह्मणोऽत्र प्राधान्यसूचनार्थं प्रकरणित्वमाह –
यत्प्रकृतमिति ।
ब्रह्मप्रकरणस्य कोशवाक्यैर्विच्छेदमाशङ्क्य तेषां प्रकरणिब्रह्मसम्बन्धित्वमाह –
यस्य चेति ।
यस्य ब्रह्मणः सर्वान्तरत्वप्रतिपत्त्यर्थमन्तर्बहिर्भावेन पञ्च कोशाः श्रुत्योपन्यस्ता इत्यर्थः ।
ननु सर्वान्तरत्वमानन्दमयकोशस्यैव न पुच्छब्रह्मणः तस्यान्तरत्वाश्रवणादित्याशङ्क्याह –
यच्चेति ।
अन्नमयादिवदानन्दमयस्यापि कार्यात्मकतायाः प्राक्साधितत्वान्न तस्य सर्वान्तरत्वम् ; पुच्छब्रह्मण्यान्तरत्ववाचिपदाभावेऽपि प्रतिष्ठात्वलिङ्गेनानन्दमयान्तकोशजातं प्रत्यान्तरत्वरूपं सर्वान्तरत्वं सिध्यतीति भावः ।
'आत्मन आकाशः’ इत्यादौ ब्रह्मण्येवात्मशब्दप्रयोगात्तदेव कोशानां वास्तवं स्वरूपमित्याह –
येन चेति ।
ननु प्रतिष्ठापदेन ब्रह्मण आनन्दमयं प्रत्याधारत्वोक्तौ पुच्छपदेन पौनरुक्त्यं प्रसज्येत तेनापि तदाधारस्य लक्षणीयत्वादित्याशङ्क्य प्रतिष्ठापदस्यानन्दमयोपलक्षितसर्वद्वैताधारपरत्वमाह –
तदेव चेति ।
आनन्दमयस्येति ।
यदद्वैतं ब्रह्म आनन्दमयस्य प्रितष्ठा प्रतिष्ठात्वेन श्रुतं तत्सर्वस्यैव द्वैतस्य अवसानभूतमधिष्ठानभूतमिह विवक्षितमित्यर्थः ।
द्वैतस्य सर्वस्य साधिष्ठानत्वे युक्तिं सूचयति –
अविद्यापरिकल्पितस्येति ।
शुक्तिरूप्यादिवन्मिथ्याभूतस्येत्यर्थः ।
पुच्छवाक्यनिर्दिष्टब्रह्मास्तित्वसाधनपरत्वेन श्लोकमवतारयितुं तदस्तित्वमुपक्षिपति –
एकत्वावसानत्वादस्तीत्यादिना ।
एकत्वमद्वैतमविद्यापरिकल्पितस्य द्वैतस्याद्वैतावसानत्वाद्धेतोर्यत्तस्यावसानभूतमद्वैतं ब्रह्म पुच्छप्रतिष्ठाशब्दितं तदेकमस्तीति योजना । ननु पुच्छपदेन ब्रह्मण आनन्दमयं प्रत्यवयवत्वावगमात्कथं श्लोकस्य तद्विषयत्वं पूर्वपर्यायेषु श्लोकानामवयविकोशविषयत्वदर्शनादिति चेत् , न ; पूर्वत्रापि मनोमयपर्यायस्थस्य ‘यतो वाचः’ इति श्लोकस्य मनोमयावयवभूतयजुरादिविषयत्वेन तथा नियमाभावात् पुच्छपदस्यापि प्रियादिविशिष्टानन्दमयाधारमात्रलक्षकस्यावयवपरत्वाभावेन तेन ब्रह्मणोऽवयवत्वप्रतीत्यभावाच्च । न च ब्रह्मणि पुच्छदृष्टिलक्षकस्य पुच्छपदस्य कथमाधारलक्षकत्वमिति वाच्यम् ; अत्र पर्याये पूर्वपर्यायेष्विवोपासनाविधिफलश्रवणयोरभावेनानन्दमयकोशस्यानुपास्यत्वात् प्रियादिषु शिरःपक्षादिकल्पनस्यानन्दमये कार्यात्मत्वप्रतिपत्तिमात्रप्रयोजनकत्वोपपत्तेः । एतच्च प्रयोजनं प्रागेव भाष्ये शिरआदिकल्पनानुपपत्तेश्चेत्यादिना प्रपञ्चितम् । अतोऽत्र पुच्छवाक्यनिर्दिष्टस्य ब्रह्मण एव प्राधान्यात् ‘असन्नेव स भवति’ इति श्लोकस्य तद्विषयत्वे नानुपपत्तिः ; प्रत्युत तस्यानन्दमयविषयत्व एवानुपपत्तिरुक्ता वक्ष्यते चेति सङ्क्षेपः ॥