भामतीव्याख्या
वेदान्तकल्पतरुः
 
अन्तर्याम्यधिकरणविषयाः

अन्तर्याम्याधिदैवादिषु तद्धर्मव्यपदेशात् ।

'स्वकर्मोपार्जितं देहं तेनान्यच्च नियच्छति । तक्षादिरशरीरस्तु नात्मान्तर्यमितां भजेत्” ॥ १ ॥ प्रवृत्तिनियमलक्षणं हि कार्यं चेतनस्य शरीरिणः स्वशरीरेन्द्रियादौ वा शरीरेण वा वास्यादौ दृष्टं नाशरीरस्य ब्रह्मणो भवितुमर्हति । नहि जातु वटाङ्कुरः कुटजबीजाज्जायते । तदनेन “जन्माद्यस्य यतः”(ब्र.सू. १-१-२) इत्येदप्याक्षिप्तं वेदितव्यम् । तस्मात्परमात्मनः शरीरेन्द्रियादिरहितस्यान्तर्यामित्वाभावात् , प्रधानस्य वा पृथिव्याद्यभिमानवत्या देवताया वाणिमाद्यैश्वर्ययोगिनो योगिनो वा जीवात्मनो वान्तर्यामिता स्यात् । तत्र यद्यपि प्रधानस्यादृष्टत्वाश्रुतत्वामतत्वविज्ञातत्वानि सन्ति, तथापि तस्याचेतनस्य द्रष्टृत्वश्रोतृत्वमन्तृत्वविज्ञातृत्वानां श्रुतानामभावात् , अनात्मत्वाच्च “एष त आत्मा”(बृ. उ. ३ । ७ । ३) इति श्रुतेरनुपपत्तेर्न प्रधानस्यान्तर्यामिता । यद्यपि पृथिव्याद्यभिमानिनो देवस्यात्मत्वमस्ति, अदृष्टत्वादयश्च सह दृष्टृत्वादिभिरुपपद्यन्ते, शरीरेन्द्रियादियोगाच्च, “पृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिः”(बृ. उ. ३ । ९ । १०) इत्यादिश्रुतेः, तथापि तस्य प्रतिनियतनियमनात् “यः सर्वांल्लोकानन्तरो यमयति यः सर्वाणि भूतान्यन्तरो यमयति”(बृ. उ. ३ । ७ । १) इति श्रुतिविरोधादनुपपत्तेः, योगी तु यद्यपि लोकभूतवशितया सर्वांल्लोकान्सर्वाणि च भूतानि नियन्तुमर्हति तत्र तत्रानेकविधदेहेन्द्रियादिनिर्माणेन “स एकधा भवति त्रिधा भवति” (छा. उ. ७ । २६ । २) इत्यादिश्रुतिभ्यः, तथापि “जगद्व्यापारवर्जं प्रकरणात्” (ब्र.सू. ४-४-१७) इति वक्ष्यमाणेन न्यायेन विकारविषये विद्यासिद्धानां व्यापारभावात्सोऽपि नान्तर्यामी । तस्मात्पारिशेष्याज्जीव एव चेतनो देहेन्द्रियादिमान् दृष्टृत्वादिसम्पन्नः स्वयमदृश्यादिः स्वात्मनि वृत्तिविरोधात् । अमृतश्च, देहेन्द्रियादिनाशेऽप्यनाशात् । अन्यथामुष्मिकफलोपभोगाभावेन कृतविप्रणाशाकृताभ्यागमप्रसङ्गात् । “य आत्मनि तिष्ठन्” इति चाभेदेऽपि कथञ्चिद्भेदोपचारात् “स भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्नि”(छा. उ. ७ । २४ । १) इतिवत् । “यमात्मा न वेद” इति च स्वात्मनि वृत्तिविरोधाभिप्रायम् । “यस्यात्मा शरीरम्” इत्यादि च सर्वं “स्वे महिम्नि” इतिवद्योजनीयम् । यदि पुनरात्मनोऽपि नियन्तुरन्यो नियन्ता भवेत् वेदिता वा ततस्तस्याप्यन्य इत्यनवस्था स्यात् । सर्वलोकभूतनियन्तृत्वं च जीवस्यादृष्टद्वारा । तदुपार्जितौ हि धर्माधर्मौ नियच्छत इत्यनया द्वारा जीवो नियच्छति । एकवचनं च जात्यभिप्रायम् । तस्माज्जीवात्मैवान्तर्यामी, न परमात्मेति । एवं प्राप्तेऽभिधीयते - “देहेन्द्रियादिनियमे नास्य देहेन्द्रियान्तरम् । तत्कर्मोपार्जितं तच्चेत्तदविद्यार्जितं जगत्” ॥ श्रुतिस्मृतीतिहासपुराणेषु तावदत्रभवतः सर्वज्ञस्य सर्वशक्तेः परमेश्वरस्य जगद्योनित्वमवगम्यते । न तत्पृथग्जनसाधाण्यानुमानाभासेनागमविरोधिना शक्यमपह्नोतुम् । तथाच सर्वं विकारजातं तदविद्याशक्तिपरिणामस्तस्य शरीरेन्द्रियस्थाने वर्तत इति यथायथं पृथिव्यादिदेवतादिकार्यकरणैस्तानेव पृथिव्यादिदेवतादीञ्छक्नोति नियन्तुम् । न चानवस्था । नहि नियन्त्रन्तरं तेन नियम्यते, किन्तु यो जीवो नियन्ता लोकसिद्धः स परमात्मैवोपाध्यवच्छेदकल्पितभेदस्तथा व्याख्यायत इत्यसकृदावेदितं, तत्कुतो नियन्त्रन्तरं कुतश्चानवस्था । तथाच “नान्योऽतोऽस्ति द्रष्टा” (बृ. उ. ३ । ७ । २३) इत्याद्या अपि श्रुतय उपपन्नार्थाः । परमार्थतोऽन्तर्यामिणोऽन्यस्य जीवात्मनो द्रष्टुरभावात् । अविद्याकल्पितजीवपरमात्मभेदाश्रयास्तु ज्ञातृज्ञेयभेदश्रुतयः, प्रत्यक्षादीनि प्रमाणानि, संसारानुभवः, विधिनिषेधशास्त्राणि च । एवं चाधिदैवादिष्वेकस्यैवान्तर्यामिणः प्रत्यभिज्ञानं समञ्जसं भवति, “यः सर्वांल्लोकान्”(बृ. उ. ३ । ७ । १) “यः सर्वाणि भूतानि” इत्यत्र य इत्येकवचनमुपपद्यते । अमृतत्वं च परमात्मनि समञ्जसं नान्यत्र । “य आत्मनि तिष्ठन्” इत्यादौ चाभेदेऽपि भेदोपचारक्लेशो न भविष्यति । तस्मात्परमात्मान्तर्यामी न जीवादिरिति सिद्धम् । पृथिव्यादि स्तनयित्न्वन्तमधिदैवम् । “यः सर्वेषु लोकेषु” इत्याधिलोकम् । “यः सर्वेषु वेदेषु” इत्यधिवेदम् । “यः सर्वेषु यज्ञेषु” इत्यधियज्ञम् । “यः सर्वेषु भूतेषु” इत्यधिभूतम् । प्राणाद्यात्मान्तमध्यात्मम् । संज्ञाया अप्रसिद्धत्वादित्युपक्रममात्रं पूर्वः पक्षः ॥ १८ ॥॥ १९ ॥

अन्तर्याम्याधिदैवादिषु तद्धर्मव्यपदेशात्॥१८॥ अशरीरस्य नियन्तृत्वासंभवसम्भवाभ्यां संशयः । पूर्वत्र स्थाननिर्देशोपपादनाय पृथिव्यादिस्थाननिर्देशो दृष्टः , तस्याक्षेपात्सङ्गतिः । अशरीरः परमात्मा नान्तर्यामी घटवत् । ननु — स्वशरीरनियन्तरि शरीरान्तरहिते तक्षणि अनैकान्तिकताऽत आह —

स्वकर्मेति ।

न नियम्यातिरिक्तशरीरराहित्यं हेतुः किं तु शरीरेण भोक्तृत्वेनानन्वयः । तक्षा तु स्वकर्मज्ञदेहेन तादृक् संबन्धवानेव तं देहं द्वारेणान्यच्च वास्यादि नियच्छतीति न व्यभिचार इत्यर्थः ।

अचेतनत्वमुपाधिमाशङ्क्य मुक्ते  चेतने साध्यवत्यप्युपाध्यभावात्साध्याव्याप्तिमभिप्रेत्याह —

प्रवृत्तीति ।

नियमनं शरीरिणो, न चेतनमात्रस्य; मुक्ते तदभावादित्यर्थः ।

विपक्षे दण्डमाह —

न हीति ।

ननु जन्मादिसूत्रे उभयकारणत्वप्रतिपादनान्नियन्तृत्वं सिद्धमत आह —

तदनेनेति ।

पारिशेष्याज्जीव एवेति ।

अन्तर्यामीति वक्ष्यमाणेन संबन्धः ।

पूर्वपक्षमुपसंहरति —

तस्मादिति ।

किमिदमशरीरत्वं यतो नियन्तृत्वाभावः । नियम्यातिरिक्तदेहरहितत्वं वा, देहसंबन्धाभावो वा, देहे भोक्तृत्वाभावो वा ।

नाद्य इत्याह —

देहेति ।

देहादौ निर्दिष्टे तत्स्वामी तक्षादिर्बुद्धिस्थोऽस्येत्युक्तः । अथवा तस्माज्जीवात्मैवेत्युपसंहारस्थो जीवात्मा परामृष्टः । अस्य स्वदेहादिनियमे न देहाद्यन्तरमतोऽनैकान्तिकतेत्यर्थः ।

द्वितीयं शङ्कते —

तदिति ।

परस्यापि देहादिसंबन्धाभावोऽसिद्ध इत्याह —

तदविद्येति ।

तद्विषयत्वादविद्यायास्तदविद्यात्वम् । तृतीये तु सोपाधिकतैव; मुक्तस्य पराभेदेन पक्षत्वान्न साध्याव्याप्तिः ।

अतीतकालतां चाह —

श्रुतीति ।

यदवादि जीवस्य नियन्त्रन्तराभ्युपगमेऽनवस्थेति, तत्राह —

नचेति ।

औपाधिकस्य ह्यनौपाधिकेश्वरनियम्यत्वमभ्युपेतं नानुपहितेश्वरस्य नियन्त्रन्तरापादकमित्यर्थः ।

जीवपरभेदाभावे कथं लौकिकवैदिकव्यवहारोऽत आह —

अविद्याकल्पितेति ।

एवंचेति ।

बहुत्वाज्जीवानां नियम्याधिदैवादिषु प्रत्यभिज्ञा न स्यादित्यर्थः ।

एकत्वेऽ न्तर्यामिण एकवचनश्रुतिमाह —

एकवचनमिति ।

अभेदेपीति ।

औपाधिकभेदाभावेऽपीत्यर्थः ।

अधिकरणोपक्रमे विषयविवेचकमधिलोकमित्यादि भाष्यं तद्विभजते —

पृथिव्यादीति ।

यः पृथिव्यां तिष्ठन्नित्युपक्रम्य माध्यन्दिनपाठे यः स्तनयित्नौ तिष्ठन्नित्यन्तम्॥१८॥१९॥ शारीरश्चोभयेऽपीति सूत्रपातनिका । भाष्ये कर्तरीति आत्मनीत्यर्थः ।

लौकिके कर्तरि डित्थे कार्यकरणसंघाते दर्शनादिवृत्त्यविरोधादित्याह —

आत्मनीति ।

पृथिव्यां तिष्ठन्नन्तर्यामीत्युक्ते पृथिव्यवयवस्थावयविनोऽन्तर्यामित्वं स्यात्तन्निवृत्तयेऽन्तर इति । पृथिवीक्षेत्रज्ञवारणाय न वेदेति । स ह्यहमस्मि पृथिवीति न वेद ।

नियम्यदेह एवान्तर्यामिणो देहो नान्य इत्याह —

यस्येति ।

अप्रतर्क्यः तर्काविषयः । अविज्ञेयं प्रमाणाविषयः । सर्वासु दिक्षु प्रसुप्तमिव॥२०॥ इति पञ्चममन्तर्याम्यधिकरणम् ।