वैश्वानरः साधारणशब्दविशेषात् ।
प्राचीन शालसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्य मीमांसां चक्रुः -
को न आत्मा किं ब्रह्मेति ।
आत्मेत्युक्ते जीवात्मनि प्रत्ययो मा भूदत उक्तं किं ब्रह्मेति । ते च मीमांसमाना निश्चयमनधिगच्छन्तः कैकेयराजं वैश्वानरविद्याविदमुपसेदुः ।
उपसद्य चोचुः -
आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि
स्मरसि
तमेव नो ब्रूहीत्युपक्रम्य द्युसूर्वाय्वाकाशवारिपृथिवीनामिति ।
अयमर्थः - वैश्वानरस्य भगवतो द्यौर्मूर्धा सुतेजाः । चक्षुश्च विश्वरूपः सूर्यः । प्राणो वायुः पृथग्वर्त्मात्मा पृथक् वर्त्म यस्य वायोः स पृथग्वर्त्मा स एवात्मा स्वभावो यस्य स पृथग्वर्त्मात्मा । सन्देहो देहस्य मध्यभागः स आकाशो बहुलः सर्वगतत्वात् । बस्तिरेव रयिः आपः, यतोऽद्भ्योऽन्नमन्नाच्च रयिर्धनं तस्मादापो रयिरुक्तास्तासां च मूत्रीभूतानां बस्तिः स्थानमिति बस्तिरेव रयिरित्युक्तम् । पादौ पृथिवी तत्र प्रतिष्ठानात् । तदेवं वैश्वानरावयवेषु द्युसूर्यानिलाकाशजलावनिषु मूर्धचक्षुःप्राणसन्देहबस्तिपादेष्वेकैकस्मिन् वैश्वानरबुद्ध्या विपरीततयोपासकानां प्राचीनशालादीनां मूर्धपातान्धत्वप्राणोत्क्रमणदेहशीर्णताबस्तिभेदपादश्लथीभावदूषणैरुपासनानां निन्दया मूर्धादिसमस्तभावमुपदिश्याम्नायते “यस्त्वेतमेवं प्रादेशमात्रमभिविमानम्”(छा. उ. ५ । १८ । १) इति । स सर्वेषु लोकेषु द्युपृभृतिषु, सर्वेषु भूतेषु स्थावरजङ्गमेषु, सर्वेष्वात्मसु देहेन्द्रियमनोबुद्धिजीवेष्वन्नमत्ति । सर्वसम्बन्धिफलमाप्नोतीत्यर्थः ।
अथास्य वैश्वानरस्य भोक्तुर्भोजनस्याग्निहोत्रतासम्पिपादयिषयाह श्रुतिः -
उर एव वेदिः
वेदिसारूप्यात् ।
लोमानि बर्हिः
आस्तीर्णब्रहिःसारूप्यात् ।
हृदयं गार्हपत्यः ।
हृदयानन्तरं -
मनोऽन्वाहार्यपचनः ।
आस्यमाहवनीयः ।
तत्र हि तदन्नं हूयते । ननु “को न आत्मा किं ब्रह्म”(छा. उ. ५ । ११ । १) इत्युपक्रमे आत्मब्रह्मशब्दयोः परमात्मनि रूढत्वेन तदुपरक्तायां बुद्धौ वैश्वानराग्न्यादयः शब्दास्तदनुरोधेन परमात्मन्येव कथञ्चिन्नेतुं युज्यन्ते नतु प्रथमावगतौ ब्रह्मात्मशब्दौ चरमावगतवैश्वानरादिपदानुरोधेनान्यथयितुं युज्येते । यद्यपि च वाजसनेयिनां वैश्वानरविद्योपक्रमे “वैश्वानरं ह वै भगवान् सम्प्रति वेद तं नो ब्रूहि” इत्यत्र नात्मब्रह्मशब्दौ स्तः, तथापि तत्समानार्थं छान्दोग्यवाक्यं तदुपक्रममिति तेन निश्चितार्थेन तदविरोधेन वाजसनेयिवाक्यार्थो निश्चीयते । निश्चितार्थेन ह्यनिश्चितार्थं व्यवस्थाप्यते, नानिश्चितार्थेन निश्चितार्थम् । कर्मवच्च ब्रह्मापि सर्वशाखाप्रत्ययमेकमेव । नच द्युमूर्धत्वादिकं जाठरभूताग्निदेवताजीवात्मनामन्यतमस्यापि सम्भवति । नच सर्वलोकाश्रयफलभागिता ।
न च सर्वपाप्मप्रदाह इति पारिशेष्यात्परमात्मैव वैश्वानर इति निश्चिते कुतः पुनरियमाशङ्का -
शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेदिति ।
उच्यते - तदेवोपक्रमानुरोधेनान्यथा नीयते, यन्नेतुं शक्यम् । अशक्यौ च वैश्वानराग्निशब्दावन्यथा नेतुमिति शङ्कितुरभिमानः । अपि चान्तःप्रतिष्ठितत्वं च प्रादेशमात्रत्वं च न सर्वव्यापिनोऽपरिमाणस्य च परब्रह्मणः सम्भवतः । नच प्राणाहुत्यधिकरणताऽन्यत्र जाठराग्नेर्युज्यते । नच गार्हपत्यादिहृदयादिता ब्रह्मणः सम्भविनी । तस्माद्यथायोगं जाठरभूताग्निदेवताजीवानामन्यतमो वैश्वानरः, नतु ब्रह्म । तथा च ब्रह्मात्मशब्दावुपक्रमगतावप्यन्यथा नेतव्यौ । मूर्धत्वादयश्च स्तुतिमात्रम् । अथवा अग्निशरीराया देवताया ऐश्वर्ययोगात् द्युमूर्धत्वादय उपपद्यन्त इति शङ्कितुरभिसन्धिः ।
अत्रोत्तरम् -
न ।
कुतः,
तथा दृष्ट्युपदेशात् ।
अद्धा चरममनन्यथासिद्धं प्रथमावगतमन्यथयति । न त्वत्र चरमस्यानन्यथासिद्धिः, प्रतीकोपदेशेन वा मनो ब्रह्मेतिवत् , तदुपाध्युपदेशेन वा मनोमयः प्राणशरीरो भारूप इतिवदुपपत्तेः । व्युत्पत्त्या वा वैश्वानराग्निशब्दयोर्ब्रह्मवचनत्वान्नान्यथासिद्धिः । तथाच ब्रह्माश्रयस्य प्रत्ययस्याश्रयान्तरे जाठरवैश्वानराह्वये क्षेपेण वा जाठरवैश्वानरोपाधिनि वा ब्रह्मण्युपास्ये वैश्वानरधर्माणां ब्रह्मधर्माणां च समावेश उपपद्यते ।
असम्भवादिति सूत्रावयवं व्याचष्टे -
यदि चेह परमेश्वरो न विवक्ष्येतेति ।
पुरुषमपि चैनमधीयत इति सूत्रावयवं व्याचष्टे -
यदि च केवल एवेति ।
न ब्रह्मोपाधितया नापि प्रतीकतयेत्यर्थः । न केवलमन्तःप्रतिष्ठितं पुरुषमपीत्यपेरर्थः । अत एव यत्पुरुष इति पुरुषमनूद्य न वैश्वानरो विधीयते । तथासति पुरुषे वैश्वानरदृष्टिरुपदिश्येत । एवं च परमेश्वरदृष्टिर्हि जाठरे वैश्वानर इहोपदिश्यत इति भाष्यं विरुध्येत । श्रुतिविरोधश्च । “स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद” इति वैश्वानरस्य हि पुरुषत्ववेदनमत्रानूद्यते, नतु पुरुषस्य वैश्वानरत्ववेदनम् । तस्मात् “स एषोऽग्निर्वैश्वानरो यत्” (श. ब्रा. १० । ६ । १ । ११) इति यदः पूर्वेण सम्बन्धः, पुरुष इति तु तत्र पुरुषदृष्टेरुपदेश इति युक्तम् ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥
अत एव न देवता भूतं च ।
अत एवैतेभ्यः श्रुतिस्मृत्यवगतद्युमूर्धत्वादिसम्बन्धसर्वलोकाश्रयफलभागित्वसर्वपाप्मप्रदाहात्मब्रह्मपदोक्रमेभ्यो हेतुभ्य इत्यर्थः । “यो भानुना पृथिवीं द्यामुतेमाम्” (ऋ. सं. १० । ८८ । ३) इति मन्त्रवर्णोऽपि न केवलौष्ण्यप्रकाशविभवमात्रस्य भूताग्नेरिममीदृशं महिमानमाह, अपि तु ब्रह्मविकारतया ताद्रूप्येणेति भावः ॥ २७ ॥
साक्षादप्यविरोधं जैमिनिः ।
यदेतत्प्रकृतं मूर्धादिषु चुबुकान्तेषु पुरुषावयवेषु द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवान् सम्पाद्य पुरुषविधत्वं कल्पितं तदभिप्रायेणेदमुच्यते “पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद” (श. ब्रा. १० । ६ । १ । ११) इति । अत्रावयवसम्पत्त्या पुरुषविधत्वं कार्यकारणसमुदायरूपपुरुषावयवमूर्धादिचुबुकान्तःप्रतिष्ठानाच्च पुरुषेऽन्तःप्रतिष्ठितत्वं समुदायमध्यपतितत्वात्तदवयवानां समुदायिनाम् ।
अत्रैव निदर्शनमाह -
यथा वृक्षे शाखामिति ।
शाखाकाण्डमूलस्कन्धसमुदाये प्रतिष्ठिता शाखा तन्मध्यपतिता भवतीत्यर्थः ।
समाधानान्तरमाह -
अथवेति ।
अन्तःप्रतिष्ठत्वं माध्यस्थ्यं तेन साक्षित्वं लक्षयति । एतदुक्तं भवति - वैश्वानरःपरमात्मा चराचरसाक्षीति ।
पूर्वपक्षिणोऽनुशयमुन्मूलयति -
निश्चिते चेति ।
विश्वात्मकत्वात् वैश्वानरः प्रत्यागात्मा । विश्वेषां वायं नरः, तद्विकारत्वाद्विश्वप्रपञ्चस्य । विश्वे नरा जीवा वात्मानोऽस्य तादात्म्येनेति ॥ २८ ॥
अभिव्यक्तेरित्याश्मरथ्यः ।
साकल्येनोपलम्भासम्भवादुपासकानामनुग्रहायानन्तोऽपि परमेश्वरः प्रादेशमात्रमात्मानमभिव्यनक्तीत्याह -
अतिमात्रस्यापीति ।
अतिक्रान्तो मात्रां परिमाणमतिमात्रः ।
उपासकानां कृते ।
उपासकार्थमिति यावत् ।
व्याख्यान्तरमाह -
प्रदेशेषु वेति ॥ २९ ॥ ॥ ३० ॥
सम्पत्तेरिति जैमिनिः ।
मूर्धानमुपक्रम्य चुबुकान्तो हि कायप्रदेशः प्रादेशमात्रः । तत्रैव त्रैलोक्यात्मनो वैश्वानरस्यावयवान्सम्पादयन्प्रादेशमात्रं वैश्वानरं दर्शयति ॥ ३१ ॥
अत्रैव जाबालश्रुतिसंवादमाह सूत्रकारः -
आमनन्ति चैनमस्मिन् ।
अविमुक्ते अविद्योपाधिकल्पितावच्छेदे जीवात्मनि स खल्वविमुक्तः । तस्मिन्प्रतिष्ठितः परमात्मा, तादात्म्यात् । अत एव हि श्रुतिः - “अनेन जीवेनात्मना” (छा. उ. ६ । ३ । २) इति । अविद्याकल्पितं तु भेदमाश्रित्याधाराधेयभावः । वरणा भ्रूः । शेषमतिरोहितार्थम् ॥ ३२ ॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमंसाभाष्यविभागे भामत्यां प्रथमस्याध्यायस्य द्वितीयः पादः ॥ २ ॥
॥ इति प्रथमाध्यायस्य उपास्यब्रह्मवाचकास्पष्टश्रुतिसमन्वयाख्यो द्वितीयः पादः ॥
वैश्वानरः साधारणशब्दविशेषात्॥२४॥ अत्र वैश्वानरः किमनात्मा, किं वा आत्मा, अनात्मत्वे जाठरोऽन्यो वा, आत्मत्वेऽपि जीवः परो वेति संदेहः । सार्वात्म्यरूपोपन्यासादक्षरं ब्रह्म वर्णितम् । जाठरादावनैकान्त्यशङ्का तस्य निरस्यते॥ को न आत्मेत्युदाहरणभाष्यं छान्दोग्याख्यायिकार्थानुसन्धानेन व्याचष्टे —
प्राचीनशालेत्यादिना ।
उद्दालकोऽप्युपलक्ष्यते । जन इति ऋषिनामैव ।
आत्मेत्युक्ते इति ।
ब्रह्मेत्युक्ते तत्परोक्ष्यनिवृत्त्यर्थमात्मपदमित्यपि द्रष्टव्यम् । इक् स्मरण इत्यस्य रूपमध्येषीति ।
द्युसूर्येत्यादिभाष्यमादाय व्याचष्टे —
वैश्वानरस्येत्यादिना ।
सुतेजस्त्वगुणा द्यौर्वैश्वानरस्य मूर्धा विश्वरूपत्वगुणः सूर्यः; एष शुक्ल एष नील इत्यादिश्रुतेः । स वैश्वानरस्य चक्षुः । पृथग्गतिमत्त्वगुणो वायुः प्राणः । बहुलत्वगुण आकाशो देहमध्यम् । रयिर्धनम् । तद्गुणा आपो वस्तिस्थम् उदकम् ; तत्र पृथिव्यां वैश्वानरस्य प्रतिष्ठानात् । मूर्धापातादिदूषणैरुपासनानां निन्दयेति । मूर्धा ते व्यपतिष्यदित्यादिनैकैकोपासननिन्दया तस्य ह वा एतस्येत्यादिना वैश्वानरस्य द्युलोकादयो मूर्धादय इति कथनेनावयविनः समस्तभावमुपदिश्येत्यर्थः । उपासक एव वैश्वानरोऽहमिति मन्यत इति — वैश्वानरस्य भोक्तृरित्युक्तम् । हृदयाद्धि मनः प्रणीतमिव ।
इतः प्रणयनावधित्वाद् हृदयं गार्हपत्यः, अतएव तदनन्तरत्वान्मनोऽन्वाहार्यपचन इत्याह —
हृदयानन्तरमिति॥२४॥
पूर्वपक्षमाक्षिपति —
नन्वित्यादिना ।
निश्चितार्थच्छान्दोग्यवाक्येन तदेकार्थं वाजसनेयिवाक्यं निर्णीयते, न विपर्यय इत्यत्र न्यायमाह —
निश्चितार्थेन हीति ।
यथा हि तं चतुर्धा कृत्वा बर्हिषदं करोतीति पुरोडाशमात्रचतुर्धाकरणवाक्यमेकार्थसंबन्धिना शाखान्तरीयेणाग्नेयं चतुर्धा करोतीति विशेषविषयत्वेन निश्चितार्थेनाग्नेय एव पुरोडाशो व्यवस्थाप्यते, एवमत्रापीत्यर्थः ।
अथ दर्शपूर्णमासकर्मणः शाखाभेदेऽ प्यभेदात्तत्र तथा, तर्ह्यत्रापि सममित्याह —
कर्मवदिति ।
न केवलमुपक्रमाद्ब्रह्मनिर्णयः, उपसंहारादपीत्याह —
न च द्युमूर्धत्वादिकमित्यादिना ।
प्रतीकोपदेशमुपाध्यवच्छिन्नस्योपास्त्युपदेशं च प्रपञ्चयति —
तथाचेति ।
पञ्चपादीकृतस्तु वाजसनेयिवाक्यस्याप्यात्मोपक्रमत्वलाभे किं शाखान्तरालोचनयेति पश्यन्तः पुरुषमनूद्य वैश्वानरत्वं विधेयमिति व्याचक्षते, तद्दूषयति —
अत एवेति ।
यत एवान्तःप्रतिष्ठितत्वेन सह समुच्चयः सूत्रगतापिशब्दार्थोऽत एवान्तःप्रतिष्ठितत्ववत्पुरुषत्वमपि वैश्वानरमुद्दिश्य विधेयं न विपर्यय इत्यर्थः ।
यदि पुरुषमनूद्य वैश्वानरो विधीयते, तदा पुरुषस्य दृष्ट्याश्रयत्वं स्यादित्याह —
तथासतीति ।
किमतस्तत्राह —
एवमिति ।
न केवलं सूत्रविरोधोऽपि तु भाष्यविरोधोऽपीत्यर्थः । स यो हैतमिति वाक्ये प्रथमनिर्दिष्टाग्न्युद्देशेन पुरुषत्ववेदनं स एषोऽग्निरिति वाक्यस्यार्थत्वेनानूद्यते । तथा च तस्यायमेवार्थः स्थित इति श्रुतिविरोध इत्यर्थः ।
पुरुषस्य विधेयत्वे यच्छब्दायोगमाशङ्क्याह —
तस्मादिति ।
पञ्चपाद्यां तु जाठरे ईश्वरदृष्टिपक्षमुक्त्वा योगादग्निवैश्वानरशब्दयोरीश्वरे वृत्तिरिति पक्षान्तरं वक्तुमयम् उद्देश्यविधेयभावव्यत्यय आश्रित इति चिन्त्यमिदं दूषणमिति॥२४॥२५॥२६॥२७॥
मूर्धादिचिबुकान्तावयवेषु संपादितस्य कथं पुरुषविधत्वं? तेषां पुरुषैकदेशत्वादित्याशङ्क्य वैश्वानरपुरुषस्य पादादिमूर्धान्तावयवानामेषु संपादनात्पुरुषसादृश्यमित्याह —
अत्रावयवसंपत्त्येति ।
मूर्धचिबुकान्तरालस्थस्य पुरुषावयवस्थत्वात्कथं पुरुषेऽन्तःप्रतिष्ठितत्वमित्याशङ्क्याह —
कार्यकरणेति ।
कार्यकरणसमुदाय एव पुरुषस्तस्यावयवा मूर्धादिचिबुकान्तास्तेष्वन्तःप्रतिष्ठानात्पुरुषेऽन्तःप्रतिष्ठितत्वम् ।
अत्र हेतुः —
समुदायेति ।
अवयविन्यवयवस्यान्तर्भावादवयवस्थोप्यवयव्याश्रितः, गृहस्थ इव ग्रामस्थ इत्यर्थः ।
ननु — अवयवाश्रितस्यावयव्याश्रितत्वव्यपदेशे दृष्टान्तो वक्तव्यो भाष्यकारस्त्ववयवस्यावयविनिष्ठताव्यपदेशमुदाहरति, ततो न निदर्शनतेत्याशङ्क्याह —
अत्रैवेति ।
शाखादीनां समुदाये प्रतिष्ठिता शाखा समुदायमध्यपातिनी भवेत्, तावदेषां च मूर्धादिचिबुकान्तावयवानां कार्यकरणसमुदायान्तर्भावे निदर्शनम् । अवयवस्थस्य तु वैश्वानरस्यावयविपुरुषान्तःस्थत्वमर्थादेव सिद्ध्यतीत्यर्थः । विश्वेषां वाऽयं नरो नेता कारणम्॥२८॥२९॥३०॥३१॥
भाष्ये —
वरणानासीति ।
निरुप्येति ।
इमामेव प्रसिद्धां भ्रूसहितां नासिकां वारयति नाश्यतीति वरणासहिता नाशीति निरुच्येत्यर्थः ।
वरणाशब्दार्थमाह —
भ्रूरिति॥३२॥
अत्रिः किल याज्ञवल्क्यं पप्रच्छ य एषोऽनन्तोऽव्यक्त आत्मा तं कथं विजानीयामिति । प्रत्युवाचेतरः सोऽविमुक्ते प्रतिष्ठित इति ।
अविमुक्तस्य स्थानभूता का वै वरणा का च नाशीति प्रश्नस्य प्रत्युक्तिः सर्वानिन्द्रियकृतान्दोषान्वारयति —
तेन वरणेति ।
सर्वानिन्द्रियकृतान्पाप्मनो नाशयति इति नाशीति । नियम्य जीवाधिष्ठानत्वद्वारेण नियन्तुरीश्वरस्याधिष्ठानत्वान्नासाभ्रुवोः पाप्मवाकरत्वाद्युपपत्तिः । नासाभ्रुवोर्मध्येऽपि स्थानविशेषजिज्ञासया प्रश्नः कतमच्चेति ।
भ्रूमध्यमाहेतरो भ्रुवोरिति ।
प्राणस्य नासिक्यस्य । स च संधिर्द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य संधित्वेनोपास्यः॥ केचित्तु — उपासनाबुद्धिर्वारकत्वेन नाशकत्वेन च वरणा नाशी । सा हि प्रकृता, न भ्रूः, भ्रुवोरिति द्विवचनेन वक्ष्यमाणाया एकवचनायोगाच्च । अतः श्रुत्यनभिज्ञो वाचस्पतिः — इति वदन्ति । तन्न; अत्र ह्युपासना स्वशब्देन न प्रकृता । तं कथं विजातीयामित्युपसर्जनं विज्ञानं प्रकृतमपि न स्त्रीलिङ्गनिर्देशार्हम् । ततः शब्दोपात्तभ्रूप्रातिपदिकर्थं वक्ति वरणाशब्द इति श्रुत्यर्थज्ञो वाचस्पतिरेव । वैश्वानरमह्णां केतुं सूर्यं, वैश्वानरस्य शोभनमतौ विषया भवेम । स च कं सुखम् । अभिमुखा श्रीश्च । यो भानुरूपेण रोदसी द्यावापृथिव्यौ अन्तरिक्षं चाततान व्याप्तवान् ।
रोदसी एव दर्शयति —
इमां पृथिवीं द्यामिति ।
प्रादेशमात्रमिव । देवाः सूर्यादयः । अभिसंपन्नाः प्राप्ता उपासनया यदा ते सुविदिता भवन्ति । अहं कैकेयराजो युष्मभ्यम् औपमन्यवादिभ्यः एतान् देवास्तथा वक्ष्यामि यथा प्रादेशमात्रमेवाभिसंपादयिष्यामि । अधोलोकानतीत्य स्थिताऽतिष्ठा द्यौर्मूर्ध्न्याध्यात्ममारोप्या, एवं सुतेजस्त्वादिगुणवन्तो वैश्वानरावयवा आदित्यादयश्चक्षुरादिष्वारोप्याः॥ इति सप्तमं वैश्वानराधिकरणम्॥ इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकभगवदमलानन्दकृते वेदान्तकल्पतरौ प्रथमाध्यायस्य द्वितीयः पादः॥