भामतीव्याख्या
वेदान्तकल्पतरुः
 
द्युभ्वाद्यधिकरणविषयाः

द्युभ्वाद्यायतनं स्वशब्दात् ।

इह ज्ञेयत्वेन ब्रह्मोपक्षिप्यते । तत् “पारवत्त्वेन सेतुत्वाद्भेदे षष्ठ्याः प्रयोगतः । द्युभ्वाद्यायतनं युक्तं नामृतं ब्रह्म कर्हिचित्” ॥ पारावारमध्यपाती हि सेतुः ताभ्यामवच्छिद्यमानो जलविधारको लोके दृष्टः, नतु बन्धनहेतुमात्रम् । हडिनिगडादिष्वपि प्रयोगप्रसङ्गात् । न चानवच्छिन्नं ब्रह्म सेतुभावमनुभवति । न चामृतं सद्ब्रह्मामृतस्य सेतुरिति युज्यते । नच ब्रह्मणोऽन्यदमृतमस्ति, यस्य तत्सेतुः स्यात् । न चाभेदे षष्ठ्याः प्रयोगो दृष्टपूर्वः ।

तदिदमुक्तम् -

अमृतस्यैष सेतुरिति श्रवणादिति ।

अमृतस्येति श्रवणात् , सेतुरिति च श्रवणात् , इति योजना । तत्रामृतस्येति श्रवणादिति विशदतया न व्याख्यातम् ।

सेतुरिति श्रवणादिति व्याचष्टे -

पारवानिति ।

तथाच पारवत्यमृतव्यतिरिक्ते सेतावनुश्रियमाणे प्रधानं वा साङ्ख्यपरिकल्पितं भवेत् । तत्खलु स्वकार्योपहितमर्यादतया पुरुषं यावदगच्छद्भवतीति पारवत् , भवति च द्युभ्वाद्यायतनं, तत्प्रकृतित्वात् , प्रकृत्यायतनत्वाच्च विकाराणां, भवति चात्मात्मशब्दस्यस्वभाववचनत्वात् , प्रकाशात्मा प्रदीप इतिवत् । भवति चास्य ज्ञानमपवर्गोपयोगि, तदभावे प्रधानाद्विवेकेन पुरुषस्यानवधारणादपवनुपर्गापत्तेः । यदि त्वस्मिन्प्रमाणाभावेन न परितुष्यसि, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं द्युभ्वाद्यायतनं, तस्मिन् प्रामाणिके सर्वस्योक्तस्योपपत्तेः । एतदपि प्रधानोपन्यासेन सूचितम् । अथ तु साक्षाच्छुत्युक्तं द्युभ्वाद्यायतनमाद्रियसे, ततो वायुरेवास्तु । “वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति”(बृ. उ. ३ । ७ । २) इति श्रुतेः । यदि त्वात्मशब्दाभिधेयत्वं न विद्यत इति न परितुष्यसि, भवतु तर्हि शारीरः, तस्य भोक्तुर्भोग्यान् द्युप्रभृतीन्प्रत्यायतनत्वात् । यदि पुनरस्य द्युभ्वाद्यायतनस्य सार्वज्ञ्यश्रुतेरत्रापि न परितुष्यसि, भवतु ततो हिरण्यगर्भ एव भगवान् सर्वज्ञः सूत्रात्मा द्युभ्वाद्यायतनम् । तस्य हि कार्यत्वेन पारवत्त्वं चामृतात्परब्रह्मणो भेदश्चेत्यादि सर्वमुपपद्यते । अयमपि “वायुना वै गौतम सूत्रेण”(बृ. उ. ३ । ७ । २) इति श्रुतिमुपन्यस्यता सूचितः । तस्मादयं द्युप्रभृतीनामायतनमित्येवं प्राप्तेऽभिधीयते । द्युभ्वाद्यायतनं परं ब्रह्मैव, न प्रधानाव्याकृतवायुशारीरहिरण्यगर्भाः । कुतः, स्वशब्दात् । “धारणाद्वामृतत्वस्य साधनाद्वास्य सेतुता । पूर्वपक्षेऽपि मुख्यार्थः सेतुशब्दो हि नेष्यते” ॥ नहि मृद्दारुमयो मूर्तः पारावारमध्यवर्ती पाथसां विधारको लोकसिद्धः सेतुः प्रधानं वाव्याकृतं वा वायुर्वा जीवो वा सूत्रात्मा वाभ्युपेयते । किन्तु पारवत्तामात्रपरो लाक्षणिकः सेतुशब्दोऽभ्युपेयः । सोऽस्माकं पारवत्तावर्जं विधरणत्वमात्रेण योगमात्राद्रूढिं परित्यज्य प्रवर्त्स्यति । जीवानाममृतत्वपदप्राप्तिसाधनत्वं वात्मज्ञानस्य पारवत एव लक्षयिष्यति । अमृतशब्दश्च भावप्रधानः । यथा “द्व्येकयोर्द्विवचनैकवचने”(पा.सू. १।४।२२) इत्यत्र द्वित्वैकत्वे द्व्येकशब्दार्थौ, अन्यथा द्व्येकेष्विति स्यात् ।

तदिदमुक्तं भाष्यकृता -

अमृतत्वसाधनत्वादिति ।

तथा चामृतस्येति च सेतुरिति च ब्रह्मणि द्युभ्वाद्यायतने उपपत्स्येते । अत्र च स्वशब्दादिति तन्त्रोच्चरितमात्मशब्दादिति च सदायतना इति सच्छब्दादिति च ब्रह्मशब्दादिति च सूचयति । सर्वे ह्येतेऽस्य स्वशब्दाः ।

स्यादेतत् । आयतनायतनवद्भावः सर्वं ब्रह्मेति च सामानाधिकरण्यं हिरण्यगर्भेप्युपपद्यते । तथाच स एवात्रास्त्वमृतत्वस्य सेतुरित्याशङ्क्य श्रुतिवाक्येन सावधारणेनोत्तरमाह -

तत्रायतनायतनवद्भावश्रवणादिति ।

विकाररूपेऽनृतेऽनिर्वाच्येऽभिसन्धानं यस्याभिसन्धानपुरुषस्य स तथोक्तः । भेदप्रपञ्चं सत्यमभिमन्यमान इति यावत् ।

तस्यापवादो दोषः श्रूयते -

मृत्योरिति ।

सर्वं ब्रह्मेति त्विति ।

यत्सर्वमविद्यारोपितं तत्सर्वं परमार्थतो ब्रह्म । न तु यद्ब्रह्म तत्सर्वमित्यर्थः ।

अपर आहेति ।

नात्र द्युभ्वाद्यायतनस्य सेतुतोच्यते येन पारवत्ता स्यात् । किन्तु“जानथ” इति यज्ज्ञानं कीर्तितं, यश्च”वाचो विमुञ्चथ” इति वाग्विमोकः, तस्यामृतत्वसाधनत्वेन सेतुतोच्यते । तच्चोभयमपि पारवदेव । नच प्राधान्यादेष इति सर्वनाम्ना द्युभ्वाद्यायतनमात्मैव परामृश्यते, न तु तज्ज्ञानवाग्विमोचने इति साम्प्रतम् । वाग्विमोचनात्मज्ञानभावनयोरेव विधेयत्वेन प्राधान्यात् । आत्मनस्तु द्रव्यस्याव्यापारतयाऽविधेयत्वात् । विधेयस्य व्यापारस्यैव व्यापारवतोऽमृतत्वसाधनत्वात्न चेदमैकान्तिकं यत्प्रधानमेव सर्वनाम्ना परामृश्यते । क्वचिदयोग्यतया प्रधानमुत्सृज्य योग्यतया गुणोऽपि परामृश्यते ॥ १ ॥

मुक्तोपसृप्यव्यपदेशात् ।

द्युभ्वाद्यायतनं प्रकृत्याविद्यादिदोषमुक्तैरुपसृप्यं व्यपदिश्यते - “भिद्यते हृदयग्रन्थिः” ( मु.उ. २-२-९)इत्यादिना । तेन तत् द्युभ्वाद्यायतनविषयमेव । ब्रह्मणश्च मुक्तोपसृप्यत्वं “यदा सर्वे प्रमुच्यन्ते”(क. उ. २ । ३ । १४) इत्यादौ श्रुत्यन्तरे प्रसिद्धम् । तस्मान्मुक्तोपसृप्यत्वात् । द्युभ्वाद्यायतनं ब्रह्मेति निश्चीयते । हृदयग्रन्थिश्चाविद्यारागाद्वेषभयमोहाः । मोहश्च विषादः, शोकः । परं हिरण्यगर्भाद्यवरं यस्य तद्ब्रह्म तथोक्तम् । तस्मिन्ब्रह्मणि यद्दृष्टं दर्शनं तस्मिंस्तदर्थमिति यावत् । यथा ‘चर्मणि द्वीपिनं हन्ति’ इति चर्मार्थमिति गम्यते । नामरूपादित्यप्यविद्याभिप्रायम् ।

कामा येऽस्य हृदि श्रिता इति ।

कामा इत्यविद्यामुपलक्षयति ॥ २ ॥

नानुमानमतच्छब्दात् ।

नानुमानमित्युपलक्षणम् । नाव्याकृतमित्यपि द्रष्टव्यं, हेतोरुभयत्रापि साम्यात् ॥ ३ ॥

प्राणभृच्च ।

चेनातच्छब्दत्वं हेतुरनुकृष्यते । स्वयं च भाष्यकृदत्र हेतुमाह -

न चोपाधिपरिच्छिन्नस्येति ।

न सम्यक्सम्भवति । नाञ्जसमित्यर्थः । भोग्यत्वेन हि आयतनत्वमिति क्लिष्टम् ।

स्यादेतत् । यद्यतच्छब्दत्वादित्यत्रापि हेतुरनुक्रष्टव्यः, हन्त कस्मात्पृथग्योगकरणं, यावता ‘न प्राणभृदनुमाने’ इत्येक एव योगः कस्मान्न कृत इत्यत आह -

पृथगिति ।

'भेदव्यपदेशात्” इत्यादिना हि प्राणभृदेव निषिध्यते, न प्रधानं, तच्चैकयोगकरणे दुर्विज्ञानं स्यादिति ॥ ४ ॥ ॥ ५ ॥

प्रकरणात् ।

न खलु हिरण्यगर्भादिषु ज्ञातेषु सर्वं ज्ञातं भवति किन्तु ब्रह्मण्येवेति ॥ ६ ॥

स्थित्यदनाभ्यां च ।

यदि जीवो हिरण्यगर्भो वा द्युभ्वाद्यायतनं भवेत् , ततस्तत्प्रकृत्या “अनश्नन्नन्योऽअभिचाकशीति”(मु. उ. ३ । १ । १) इति परमात्माभिधानमाकस्मिकं प्रसज्येत । नच हिरण्यगर्भ उदासीनः, तस्यापि भोक्तृत्वात् । नच जीवात्मैव द्युभ्वाद्यायतनं, तथा सति स एवात्र कथ्यते, तत्कथनाय च ब्रह्मापि कथ्यते, अन्यथा सिद्धान्तेऽपि जीवात्मकथनमाकस्मिकं स्यादिति वाच्यम् ।

यतोऽनधिगतार्थावबोधनस्वरसेनाम्नायेन प्राणभृन्मात्रप्रसिद्धजीवात्माधिगमायात्यन्तानवगतमलौकिकं ब्रह्मावबोध्यत इति सुभाषितम् -

यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनेति ।

तत्र हि “अनश्नन्नन्योऽअभिचाकशीति”(मु. उ. ३ । १ । १) इति जीव उपाधिरहितेन रूपेण ब्रह्मस्वभाव उदासीनोऽभोक्ता दर्शितः । तदर्थमेवाचेतनस्य बुद्धिसत्त्वस्यापारमार्थिकं भोक्तृत्वमुक्तम् । तथा चेत्थम्भूतं जीवं कथयतानेन मन्त्रवर्णेन द्युभ्वाद्यायतनं ब्रह्मैव कथितं भवति, उपाध्यवच्छिन्नश्च जीवः प्रतिषिद्धो भवतीति । न पैङ्गिब्राह्मणविरोध इत्यर्थः ।

प्रपञ्चार्थमिति ।

तन्मध्ये न पठितमिति कृत्वाचिन्तयेदमधिकरणं प्रवृत्तमित्यर्थः ॥ ७ ॥

अथ वेदान्तकल्पतरौ प्रथमाध्यायस्य तृतीयः पादः। द्युभ्वाद्यायतनं स्वशब्दात्॥१॥ निर्विशेषब्रह्मलिङ्गनिरूपणं पादार्थमाह –

इहेति ।

आद्याधिकरणमवतारयति –

तत्रेति ।

आयतनत्वसाधारणधर्मात् संदेहे पूर्वपक्षं सङ्गृह्णाति –

पारवत्त्वेनेति ।

अमृतं यद्ब्रह्म तद् द्युभ्वाद्यायतनं कर्हिचित् कदाचिदपि न युक्तम्।

आयतनस्य ब्रह्मत्वभावे हेतुमाह –

पारवत्त्वेनेति ।

सेतुत्वस्य पारवत्त्वेन व्याप्तेः ब्रह्मणश्चापरत्वादित्यर्थः।

अमृतत्वाभावे हेतुमाह –

भेद इति ।

भेदे हि सति संबन्धार्था षष्ठी प्रयुज्यते, ब्रह्म चामृतमिति नामृतस्येति षष्ठी युक्तेत्यर्थः। पारं परकूलम्। अवारम् अर्वाक्कूलम्।

ननु षिञो बन्धनार्थात् सेतुशब्दव्युत्पत्तेर्जन्मर्यादाया बन्धरि ब्रह्मणि प्रयोगः किं न स्यादत आह –

नत्विति ।

यत्र दारुणि च्छिद्रिते निग्राह्याणां पादप्रोतनं तत् हडिः। निगडः शृङ्खला।

ननु अमृतमपि ब्रह्म अमृतान्तरसंबन्धि, नेत्याह –

न च ब्रह्मण इति ।

अतोऽन्यदार्तमिति श्रुतेरित्यर्थः। पुरुषं प्रति यावत्तादात्म्यं तावदगच्छद्वस्तुतः परिच्छिन्नं भवति पारवत्।

अथ त्विति ।

साक्षादायतनत्वेन श्रुत्युक्तमिति योजना। अव्याकृतं हि कारणब्रह्मोपाधित्वेन प्रतिपाद्यते न प्राधान्येनेति।

तस्य हि कार्यत्वेनेति ।

देहाद्यवच्छिन्नरूपेणेत्यर्थः।

धारणाद्वेति ।

अस्य द्युभ्वाद्यायतनस्यास्य वा तज्ज्ञानस्य यथाक्रमममृतत्वस्य धारणात् साधनाद्वा सेतुता। यद्यपि ब्रह्मैवामृतम्; तथापि तदज्ञातं न मोक्ष इति ज्ञायमानत्वदशामभिप्रेत्य धारयितृत्वम्। अत एव षष्ठी।

नन्वेवं रूढिर्गतेत्याशङ्क्य साम्यमाह –

पूर्वपक्षेऽपीति ।

पारवत्तावर्जं पारवत्तां वर्जयित्वा।

योगमात्रादिति ।

षिञ्धात्वर्थयोगादित्यर्थः॥ विधारकत्वमेव सेतुगुणोऽपि स्यात्, तथा च पारवत्तया गौणी वृत्ती रूढ्यत्यागेन प्रवृत्ता योगात् बलिनीति च न शङ्क्यमिति।

अमृतस्य ब्रह्मणो हेत्वभावात् साधनत्वं ज्ञानस्यायुक्तम् इत्याशङ्क्य अविद्यानिवृत्तिः अमृतत्वशब्दार्थ इत्याह –

अमृतशब्दश्चेति ।

द्वयोरेकस्य च संख्येयानामुपादाने तेषां बहुत्वाद् द्व्येकेष्विति स्यात्। नानार्थसाधारण्येन सकृदुच्चारणमिह तन्त्रम्, एवं चावृत्तिलक्षणवाक्यभेदो व्युदस्तः। अस्य ब्रह्मणः स्वीयाः शब्दा एते इत्यर्थः।

तत्र त्वायतनवद्भावश्रवणादिति भाष्यं द्युभ्वाद्यायतनस्य ब्रह्मत्वे सिद्धे तस्य सविशेषत्वनिरासार्थम्; तत्प्रधानवादनिरासानुपयोगित्वात् प्रकृतासङ्गतम् इत्याशङ्क्य हिरण्यगर्भपूर्वपक्षनिरासार्थत्वेन प्रकृतेन सङ्गमयति –

स्यादेतदित्यादिना ।

अप्रधानं ज्ञानं न सर्वनामपरामर्शार्हमिति कश्चित्, तं प्रत्याह –

न चेति ।

यत्तु - केनचिदुक्तं, ‘तं जानथेति ज्ञेयं प्रत्युपसर्जनं ज्ञानमेष इति पुंल्लिङ्गनिर्देशानर्हं च’ – इति, तन्न; सत्यपि ज्ञेयप्राधान्यनिर्देशे ज्ञानस्य फलसाधनत्वेन गुणकर्मत्वाभावात् प्राधान्यात्।

पुंल्लिङ्गं तु विधेयसापेक्षमिति न किंचिदेतत्। ‘‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा’’ इत्यादौ शब्दतोऽप्रधानस्यापि पय-आदेः सर्वनामनिर्देशात्, अनियतं सर्वनाम्नः प्रधानपरामर्शित्वम् इत्याह –

न चेति॥ १॥

अविद्यारागद्वेषादीति भाष्ये आदिग्रहणेन प्राङ्निर्दिष्टभयमोहावुक्तौ।

एतेऽविद्यादयः श्रुतौ हृदयग्रन्थिशब्दार्थ इत्याह –

हृदयग्रन्थिश्चेति ।

अज्ञानस्याविद्याशब्देन निर्दिष्टत्वात्, मोहश्च विषादः, शोक इति च विषादव्याख्या।

परावर इति श्रुतिपदं व्याचष्टे –

परमिति ।

भाष्ये सूत्रोपात्तम् उक्तपदव्याख्यानाय ‘भिद्यते हृदयग्रन्थिः’ इति मन्त्रमुदाहृत्य ज्ञानादज्ञाननिवृत्तौ ब्रह्मणः प्राप्यत्वम्, उपसृप्यपदार्थं इति च वक्तुं ‘‘तथा विद्वानिति’’ मन्त्र उदाहृतः ततश्च उत्तरमन्त्रे विद्वानिति अभिधास्यमानं ज्ञानं पूर्वमन्त्रे भिद्यत इत्यादिकर्मसंयोगे निमित्तार्थया दृष्टे इति सप्तम्या निर्दिष्टम्। निष्ठा च भावे।

दर्शनार्थश्चाविद्यादेः परोक्षज्ञानात् शिथिलीभावो भिद्यत इत्यादिनोक्त इत्यभिप्रेत्याह –

तस्मिन्ब्रह्मणीति ।

उत्तरमन्त्रस्थनामरूपशब्दार्थमाह –

नामेति॥२॥

यत्तु - कश्चिदाह - सूत्रेणाऽनिरस्तत्वात् न वाय्वादिपूर्वपक्ष इति, तत्राह –

नाव्याकृतमित्यपीति ।

साधारणहेतुनिर्देशाद् अव्याकृतवादाद्यपि पूर्वपक्षत्वेन सूचितमित्यर्थः॥३॥४॥५॥६॥ न चोपाधिपरिच्छिन्नस्येति भाष्ये चकारप्रयोगात् सौत्रचशब्दव्याख्यात्वभ्रममपाकरोति –

न चेति ।

जीवात्मैव द्युभ्वाद्यायतनमिति न वाच्यमित्यन्वयः।

जीवात्माधिगमयेति ।

प्रसिद्धं जीवस्वरूपमनूद्याज्ञस्य पारमार्थिकस्वरूपाधिगमायेत्यर्थः। प्रकरणे न पठितमिति कृत्वाचिन्ता न युक्ता; प्रकरणादिति सूत्रादिति केनचिदयुक्तमुक्तम्; कृत्वाचिन्ता उद्धाटनार्थत्वात् सूत्रस्य। इदं विश्वं पुरुष एव यस्मिन् पृथिव्यादि - ओतं समाश्रितं किं तदिति, अत आह - कर्म - अग्निहोत्रादि। तपो ज्ञानम्, अर्थात् तत्फलं च। स च पुरुषः परामृतं ब्रह्म॥७॥

इति प्रथमं द्युभ्वाद्यधिकरणम्॥