भूमा सम्प्रसादादध्युपदेशात् ।
नारदः खलु देवर्षिः कर्मविदनात्मवित्तया शोच्यमात्मानं मन्यमानो भगवन्तमात्मज्ञमाजानसिद्धं महायोगिनं सनत्कुमारमुपससाद । उपसद्य चोवाच , भगवन् , अनात्मज्ञताजनितशोकसागरपारमुत्तारयतु मां भगवानिति । तदुपश्रुत्य सनत्कुमारेण ‘नाम ब्रह्मेत्युपास्स्व’ इत्युक्ते नारदेन पृष्टं किंनाम्नोऽस्ति भूय इति । तत्र सनत्कुमारस्य प्रतिवचनम् - “वाग्वाव नाम्नो भूयसी”(छा. उ. ७ । २ । १) इति तदेवं नारदसनत्कुमारयोर्भूयसी । प्रश्नोत्तरे वागिन्द्रियमुपक्रम्य मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नतोयवायुसहिततेजोनभःस्मराशाप्राणेषु पर्यवसिते । कर्तव्याकर्तव्यविवेकः सङ्कल्पः, तस्य कारणं पूर्वापरविषयनिमित्तप्रयोजननिरूपणं चित्तम् । स्मरः स्मरणम् । प्राणस्य च समस्तक्रियाकारकफलभेदेन पित्राद्यात्मत्वेन च रथारनाभिदृष्टान्तेन सर्वप्रतिष्ठत्वेन च प्राणभूयस्त्वदर्शिनोऽतिवादित्वेन च नामादिप्रपञ्चादाशान्ताद्भूयस्त्वमुक्त्वापृष्ट एव नारदेन सनत्कुमार एकग्रन्थेन “एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १५ । १) इति सत्यादीन्कृतिपर्यन्तानुक्त्वोपदिदेश - “सुखं त्वेव विजिज्ञासितव्यम्”(छा. उ. ७ । २२ । १) इति । तदुपश्रुत्य नारदेन - “सुखं त्वेव भगवो विजिज्ञासे”(छा. उ. ७ । २१ । १) इत्युक्ते सनत्कुमारः “यो वै भूमा तत्सुखम्”(छा. उ. ७ । २३ । १) इत्युपक्रम्य भूमानं व्युत्पादयाम्बभूव - “यत्र नान्यत्पश्यति”(छा. उ. ७ । २४ । १) इत्यादिना । तदीदृशे विषये विचार आरभ्यते । तत्र संशयःकिं प्राणो भूमा स्यादाहो परमात्मेति । भावभवित्रोस्तादात्म्यविवक्षया सामानाधिकरण्यं संशयस्य बीजमुक्तं भाष्यकृता । तत्र “एतस्मिन् ग्रन्थसन्दर्भे यदुक्ताद्भूयसोऽन्यतः । उच्यमानं तु तद्भूय उच्यते प्रश्नपूर्वकम्” ॥ नच प्राणात्किं भूय इति पृष्टम् । नापि भूमा वास्माद्भूयानिति प्रत्युक्तम् । तस्मात्प्राणभूयस्त्वाभिधानानन्तरमपृष्ठेन भूमोच्यमानः प्राणस्यैव भवितुमर्हति । अपिच भूमेति भावो न भवितारमन्तरेण शक्यो निरूपयितुमिति भवितारमपेक्षमाणः प्राणस्यानन्तर्येण बुद्धिसंनिधानात्तमेव भवितारं प्राप्य निर्वृणोति । “यस्योभयं हविरार्तिमार्च्छेत्” इत्यत्रार्तिरिवार्तं हविः । यथाहुः “मृष्यामहे हविषा विशेषणम्” इति । न चात्मनः प्रकरणादात्मैव बुद्धिस्थ इति तस्यैव भूमा स्यादिति युक्तम् । सनत्कुमारस्य ‘नाम ब्रह्मेत्युपास्स्व’ इति प्रतीकोपदेशरूपेणोत्तरेण नारदप्रश्नस्यापि तद्विषयत्वेन परमात्मोपदेशप्रकरणस्यानुत्थानात् । अतद्विषयत्वे चोत्तरस्य प्रश्नोत्तरयोर्वैयधिकरण्येन विप्रतिपत्तेरप्रामाण्यप्रसङ्गात् । तस्मादसति प्रकरणे प्राणस्यानन्तर्यात्तस्यैव भूमेति युक्तम् । तदेतत्संशयबीजं दर्शयता भाष्यकारेण सूचितं पूर्वपक्षसाधनमिति न पुनरुक्तम् । नच भूयोभूयः प्रश्नात्परमात्मैव नारदेन जिज्ञासित इति युक्तम् । प्राणोपदेशानन्तरं तस्योपरमात् । तदेवं प्राण एव भूमेति स्थिते यद्यत्तद्विरोधितया वचः प्रतिभाति तत्तदनुगुणतया नेयम् । नीतं च भाष्यकृता ।
स्यादेतत् । “एष तु वा अतिवदति”(छा. उ. ७ । १७ । १) इति तुशब्देन प्राणदर्शिनोऽतिवादिनो व्यवच्छिद्य सत्येनातिवादित्वं वदन् कथं प्राणस्य भूमानमभिदधीतेत्यत आह -
प्राणमेव त्विति ।
प्राणदर्शिनश्चातिवादित्वमिति ।
नामाद्याशान्तमतीत्य वदनशीलत्वमित्यर्थः । एतदुक्तं भवति - नायं तुशब्दः प्राणातिवादित्वाद्वयवच्छिनत्ति, अपितु तदतिवादित्वमपरित्यज्य प्रत्युत तदनुकृष्य तस्यैव प्राणस्य सत्यस्य श्रवणमननश्रद्धानिष्ठाकृतिभिर्विज्ञानाय निश्चयाय सत्येनातिवदतीति प्राणव्रतमेवातिवादित्वमुच्यते । तुशब्दो नामाद्यतिवादित्वाद्व्यवच्छिनत्ति । न नामाद्याशान्तवाद्यतिवादि, अपितु सत्यप्राणवाद्यतिवादीत्यर्थः । अत्र चागमाचार्योपदेशाभ्यां सत्यस्य श्रवणम् । अथागमाविरोधिन्यायनिवेशनं मननं, मत्वा च गुरुशिष्यसब्रह्मचारिभिरनसूयुभिः सह संवाद्य तत्त्वं श्रद्धत्ते । श्रद्धानन्तरं च विषयान्तरदर्शी विरक्तस्ततो व्यावृत्तस्तत्त्वज्ञानाभ्यासं करोति, सेयमस्य कृतिः प्रयत्नः । अथ तत्त्वज्ञानाभ्यासनिष्ठा भवति, यदनन्तरमेव तत्त्वविज्ञानमनुभवः प्रादुर्भवति । तदेतद्बाह्या । अप्याहुः - “भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम्” इति भावनाप्रकर्षस्य पर्यन्तो निष्ठा तस्माज्जायते तत्त्वानुभव इति । तस्मात्प्राण एव भूमेति प्राप्तेऽभिधीयते “एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १७ । १) इत्युक्त्वा भूमोच्यते । तत्र सत्यशब्दः परमार्थे निरूढवृत्तिः श्रुत्या परमार्थमाह । परमार्थश्च परमात्मैव । ततो ह्यन्यत्सर्वं विकारजातमनृतं कयाचिदपेक्षया कथञ्चित्सत्यमुच्यते । तथाच “एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १७ । १) इति ब्रह्मणोऽतिवादित्वं श्रुत्यान्यनिरपेक्षया लिङ्गादिभ्यो बलीयस्यावगमितं कथमिव संनिधानमात्रात् श्रुत्याद्यपेक्षादतिदुर्बलात्कथं चित्प्राणविषयत्वेन शक्यं व्याख्यातुम् । एवं च प्राणादूर्ध्वं ब्रह्मणि भूमावगम्यमानो न प्राणविषयो भवितुमर्हति, किन्तु सत्यस्य परमात्मन एव । एवं चानात्मविद आत्मानं विविदिषोर्नारदस्य प्रश्ने परमात्मानमेवास्मै व्याख्यास्यामीत्यभिसन्धिमान्सनत्कुमारः सोपानारोहणन्यायेन स्थूलादारभ्य तत्तद्भूमव्युत्पादनक्रमेण भूमानमतिदुर्ज्ञानतया परमसूक्ष्मं व्युत्पादयामास । नच प्रश्नपूर्वताप्रवाहपतितेनोत्तरेण सर्वेण प्रश्नपूर्वेणैव भवितव्यमिति नियमोऽस्तीत्यादिसुगमेन भाष्येण व्युत्पादितम् । विज्ञानादिसाधनपरम्परा मननश्रद्धादिः, प्राणान्ते चानुशासने तावन्मात्रेणैव प्रकरणसमाप्तेर्न प्राणस्यान्यायत्ततोच्येत । तदभिधाने हि सापेक्षत्वेन न प्रकरणं समाप्येत । तस्मान्नेदं प्राणस्य प्रकरणमपि तु यदायत्तः प्राणस्तस्य, स चात्मेत्यात्मन एव प्रकरणम् ।
शङ्कते -
प्रकरणान्त इति ।
प्राणप्रकरणसमाप्तावित्यर्थः ।
निराकरोति -
न ।
स भगव इति ।
सन्दंशन्यायेन हि भूम्न एतत्प्रकरणं, स चेद्भूमा प्राणः, प्राणस्यैतत्प्रकरणं भवेत् । तच्चायुक्तमित्युक्तम् ॥ ८ ॥
न केवलं श्रुतेर्भूमात्मता परमात्मनः, लिङ्गादपीत्याह सूत्रकारः -
धर्मोपपत्तेश्च ।
यदपि पूर्वपक्षिणा कथञ्चिन्नीतं तदनुभाष्य भाष्यकारो दूषयति -
योऽप्यसौ सुषुप्तावस्थायामिति ।
सुषुप्तावस्थायामिन्द्रियाद्यसंयोग्यात्मैव । न प्राणः । परमात्मप्रकरणात् । अन्यदार्तम् । विनश्वरमित्यर्थः । अतिरोहितार्थमन्यत् ॥ ९ ॥
वाक्प्रेरकत्वात् वाचो मनो भूयः। कुर्यामिति निश्चयस्य मनसः कर्तव्यादिविवेकः संकल्पः कारणम्। तस्य चातीतादिविषयसाध्यप्रयोजनज्ञानं चित्तम्। तस्मादपि लोकिकविषयात् शास्त्रीयदेवताद्यैकाग्र्यं ध्यानं फलतो भूयः। ध्यानस्य विज्ञानं शास्त्रीयं कारणं तस्य मनोगतं बलं प्रतिभानसामर्थ्यं कारणम्। तस्याद्यमानमन्नम्। तस्यापः। एवमाकाशपर्यन्तं ज्ञेयम्। आकाशस्य भोग्यत्वे स्मरः स्मरणम्। तस्याशा तया हीष्टं तात्पर्येण स्मरति। प्राणो नामाद्याशान्तसर्वहेतुतया भूयान् इत्युत्तरभूयस्त्वं द्रष्टव्यम्। भवतु प्राणे प्रश्नप्रत्युक्तिपर्यवसानम्; तथापि न तस्य भूमत्वशङ्का, एष त्विति तुशब्देन ग्रन्थं विच्छिद्य भूमोपदेशादित्याशङ्क्य विषयप्रदर्शनावसर एव संशयोपयोगितया पूर्वपक्षसम्भावनमाह –
प्राणस्येति ।
सर्वात्मत्वलिङ्गात् प्राण एव भूमा, तुशब्दस्तु सत्यप्राणवेदिन एव नामाद्यतिवादित्वात् विशेषार्थ इति संभवः पूर्वपक्षस्येत्यर्थः॥ प्राणस्य भूमत्वे लिङ्गान्तरमाह –
अपृष्ट एवेति ।
यदि प्राणादन्यो भूमा, तर्हि प्राग्वत्प्रश्नेन भाव्यमित्यर्थः।
भूमशब्दस्य निष्कृष्टबहुत्ववचनत्वात् किं प्राणो भूमेति भाष्ये सामानाधिकरण्यायोगमाशङ्क्य आह –
भावभवित्रोरिति ।
भाष्यकारेण प्राणसन्निधिरात्मप्रकरणं च संशयबीजमुक्तमयुक्तम्, प्रबलदुर्बलाभ्यां संशयायोगादित्याशङ्क्याह –
संशयस्येति ।
इदं हि विशुद्धविज्ञानेन भाष्यकृतोक्तम् अतो यथाश्रुतालोचिभिः नावज्ञेयम्। उपपत्तिं त्वनन्तरमेव वक्ष्याम इति भावः।
पूर्वपक्षमाह –
एतस्मिन्निति ।
यो वै भूमेत्युक्तो भूमा, न प्राणादन्यः, अस्ति भगव आशाया भूय इति प्रश्नातिरिक्तप्रश्नाविषयत्वे सति एतद्ग्रन्थस्थभूमरूपत्वात्, आशापेक्षप्राणभूमवत् इत्यनुमानं सूचितम्। आर्तिमात्रस्य उद्देश्यत्वाऽपर्यसानात् हविषा विशेषणं सहामहे, पर्यवसितस्य हि उद्देश्यस्य विशेषणं वाक्यभेदौ अहंग्रहस्येव एकत्वमिति शबरस्वामिन आहुः।
संशयबीजोपपत्तिमनन्तरमेव वक्ष्याम इत्यवादिष्म, तामिदानीमाह –
न चात्मन इत्यादिना॥
निर्णोतार्थप्रतीकविषयोत्तरवशात् प्रश्नोऽपि प्रतीकपरः, आत्मशब्दश्च नामादिषु आरोप्यमाणब्रह्मविषयः।
प्रश्नस्य आरोप्याविषयत्वे दूषणमाह –
अतदिति ।
प्रश्नो यद्यात्मविषयः स्यात् तद उत्तरस्य प्रतीकविषयस्य अतद्विषयत्वम् अपृष्टविषयत्वं स्यात्, तदा च प्रश्नोत्तरयोः वैयधिकरण्यमित्यर्थः। प्रश्नस्येति यदि पाठो लभ्यते तदा सुगममिति॥
तदेतदिति ।
प्रकरणानुत्थानम्। प्रकरणमेव प्राणसन्निधिसमकक्षत्वेन संशयबीजं दर्शयता भाष्यकारेण प्रकरणत्वमस्य न निश्चितं, सन्निधिमात्रमात्मशब्दस्येति सूचितम्। अत एव पूर्वपक्षावसरे पुनर्नोक्तमित्यर्थः। पूर्वपक्षस्तु प्राणस्य आत्मशब्दादपि अतिसन्निधानात् उत्थित इत्युक्तमपि च भूमेति भाव इत्यत्र। अपि तु इत्यस्य नामाद्यतिवादित्वात् व्यवच्छिनत्तीति वक्ष्यमाणेनान्वयः।
फलितमाह –
तदिति ।
वाक्येन प्राणव्रतस्य पुनरुक्तौ प्रयोजनमाह –
न नामेति ।
सत्यादिपरम्परयेति भाष्योक्तं सत्यादि दर्शयति –
अत्र चेति ।
यदवादि प्रतीकविषयो बहोर्भाव इति विग्रहे ‘पृथ्वादिभ्य इमनिज्वा’ इतीमनिच्प्रत्यये बहुशब्दोपरि कृते बहोर्लोपो भू च बहोरिति सूत्रेण बहोरुत्तरेषामिमनादीनामिकारस्य लोपे बहोः स्थाने भू-आदेशे च भूमेति रूपम्। गार्हपत्यो ह वा एषोऽपान इत्यादिना अग्नित्वेन निरूपितत्वात् प्राणाग्नयः। पुरे शरीरे देवो मन-उपाधिको जीवः। अथ तदा यत्सुखं तदस्मिन् शरीरे भवति स वा एव एतस्मिन् संप्रसादे स्वप्रान्ते बुद्धान्ते इति स्वप्नजाग्रद्भ्यां सह सुषुप्ते संप्रसादशब्दः पठितः। उपक्रमोपसंहारयोः शोकतमसोः अभिधानात् विसंवाद इति शङ्कायाम् उत्तरं भाष्यं - तम इति शोकादिकारणमिति॥९॥