अक्षरमम्बरान्तधृतेः ।
अक्षरशब्दः समुदायप्रसिद्ध्या वर्णेषु रूढः । परमात्मनि चावयवप्रसिद्ध्या यौगिकः । अवयवप्रसिद्धेश्च समुदायप्रसिद्धिर्बलीयसीति वर्णा एवाक्षरम् । नच वर्णेष्वाकाशस्योतत्वप्रोतत्वे नोपपद्येते, सर्वस्यैव रूपधेयस्यनामधेयात्मकत्वात् । सर्वं हि रूपधेयं नामधेयसम्भिन्नमनुभूयते, गौरयं वृक्षोऽयमिति । न चोपायत्वात्तत्सम्भेदसम्भवः । नहि धूमोपाया वह्निधीर्धूमसम्भिन्नं वह्निमवगाहते धूमोऽयं वह्निरिति, किन्तु वैयधिकरण्येन धूमाद्वह्निरिति । भवति तु नामधेयसम्भिन्नो रूपधेयप्रत्ययो डित्थोऽयमिति । अपिच शब्दानुपायेऽपि रूपधेयप्रत्यये लिङ्गेन्द्रियजन्मनि नामसम्भेदो दृष्टः । तस्मान्नामसम्भिन्ना पृथिव्यादयोऽम्बरान्ता नाम्ना ग्रथिताश्च विद्धाश्च, नामानि च ओङ्कारात्मकानि तद्व्याप्तत्वात् । “तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्”(छा. उ. २ । २३ । ३) इति श्रुतेः । अत ओङ्कारात्मकाः पृथिव्यादयोऽम्बरान्ता इति वर्णा एवाक्षरं न परमात्मेति प्राप्तम् । एवं प्राप्तेऽभिधीयते - अक्षरं परमात्मैव, न तु वर्णाः । कुतः । अम्बरान्तधृतेः । न खल्वम्बरान्तानि पृथिव्यादीनि वर्णा धारयितुमर्हन्ति, किन्तु परमात्मैव । तेषां परमात्मविकारत्वात् । नच नामधेयात्मकं रूपधेयमिति युक्तं, स्वरूपभेदात् , उपायभेदात् , अर्थक्रियाभेदाच्च । तथाहि - शब्दत्वसामान्यात्मकानि श्रोत्रग्राह्याण्यभिधेयप्रत्ययार्थक्रियाणि नामधेयान्यनुभूयन्ते । रूपधेयानि तु घटपटादीनि घटत्वपटत्वादिसामान्यात्मकानि चक्षुरादीन्द्रियाग्राह्याणि मधुधारणप्रावरणाद्यर्थक्रियाणि च भेदेनानुभूयन्ते इति कुतो नामसम्भेदः । नच डित्थोऽयमिति शब्दसामानाधिकरण्यप्रत्ययः । न खलु शब्दात्मकोऽयं पिण्ड इत्यनुभवः, किन्तु यो नानादेशकालसम्प्लुतः पिण्डः सोऽयं संनिहितदेशकाल इत्यर्थः । संज्ञा तु गृहीतसम्बन्धैरत्यन्ताभ्यासात्पिण्डाभिनिवेशिन्येव संस्कारोद्बोधसम्पातायाता स्मर्यते । यथाहुः - “यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन्संज्ञां स्मारयितुं क्षमः ॥ १ ॥ संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते । संज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा” ॥ २ ॥ इति । नच वर्णातिरिक्ते स्फोटात्मनि अलौकिकेऽक्षरपदप्रसिद्धिरस्ति लोके । न चैष प्रामाणिक इत्युपरिष्टात्प्रवेदयिष्यते । निवेदितं चास्माभिस्तत्त्वबिन्दौ । तस्माच्छ्रोत्रग्राह्याणां वर्णानामम्बरान्तधृतेरनुपपत्तेः समुदायप्रसिद्धिबाधनावयवप्रसिद्ध्या परमात्मैवाक्षरमिति सिद्धम् । ये तु प्रधानं पूर्वपक्षयित्वानेन सूत्रेण परमात्मैवाक्षरमिति सिद्धान्तयन्ति तैरम्बरान्तरधृतेरित्यनेन कथं प्रधानं निराक्रियत इति वाच्यम् । अथ नाधिकरणत्वमात्रं धृतिः अपि तु प्रशासनाधिकरणता । तथा च श्रुतिः - “एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” (बृ. उ. ३ । ८ । ९) इति । तथाप्यम्बरान्तधृतेरित्यनर्थकम् । एतावद्वक्तव्यम् अक्षरं प्रशासनादिति । एतावतैव प्रधाननिराकरणसिद्धेः । तस्माद्वर्णाक्षरतानिराक्रियैवास्यार्थः । नच स्थूलादीनां वर्णेष्वप्राप्तेरस्थूलमित्यादिनिषेधानुपपत्तेर्वर्णेषु शङ्कैव नास्तीति वाच्यम् । नह्यवश्यं प्राप्तिपूर्वका एव प्रतिषेधा भवन्ति, अप्राप्तेष्वपि नित्यानुवादानां दर्शनात् । यथा नान्तरिक्षे न दिवीत्यग्निचयननिषेधानुवादः । तस्मात् यत्किञ्चिदेतत् ॥ १० ॥
सा च प्रशासनात् ।
प्रशासनमाज्ञा चेतनधर्मो नाचेतने प्रधाने वाऽव्याकृते वा सम्भवति । नच मुख्यार्थसम्भवे कूलं पिपतिषतीतिवद्भाक्तत्वमुचितमिति भावः ॥ ११ ॥
अन्यभावव्यावृत्तेश्च ।
अम्बरान्तविधरणस्याक्षरस्येश्वरागद्यदन्यद्वर्णा वा प्रधानं वाव्याकृतं वा तेषामन्येषां भावोऽन्यभावस्तमत्यन्तं व्यावर्तयति श्रुतिः - “तद्वा एतदक्षरं गार्गि”(बृ. उ. ३ । ८ । ११) इत्यादिका ।
अनेनैव सूत्रेण जीवस्याप्यक्षरता निषिद्धेत्यत आह -
तथेति ।
'नान्यत्” इत्यादिकया हि श्रुत्यात्मभेदः प्रतिषिध्यते । तथा चोपाधिभेदाद्भिन्ना जीवा निषिद्धा भवन्त्यभेदाभिधानादित्यर्थः ।
इतोऽपि न शारीरस्याक्षरशब्दतेत्याह -
अचक्षुष्कमिति ।
अक्षरस्य चक्षुराद्युपाधिं वारयन्ती श्रुतिरौपाधिकस्य जीवस्याक्षरतां निषेधतीत्यर्थः । तस्माद्वर्णप्रधानाव्याकृतजीवानामसम्भवात् , सम्भवाच्च परमात्मनः, परमात्मैवाक्षरमिति सिद्धम् ॥ १२ ॥
अक्षरमम्बरान्तधृतेः॥१०॥ अक्षरशब्दस्य वर्णब्रह्मणोः रूढिनिरूढिभ्यां संशये प्रणवसर्वात्म्यं न गौणं प्राणसर्वात्म्यवदिति प्रत्यवस्थाननिरा सात्सङ्गतिः। पूर्वपक्षमाह –
अक्षरशब्द इत्यादिना ।
रूप्यते निरूप्यते इति रूपमभिधेयं स्वार्थे धेयप्रत्ययः। अर्थे शब्दात्मकत्वानुभवो न तद्गम्यत्वकृतः। धूमगम्यवह्नेः तादात्म्यानवभासादिति।
शब्दबोधेऽभिधया मानान्तरगम्यार्थबोधे यः शब्दबोधस्तत्रोपायत्वप्रयुक्तशङ्काऽपि नेत्याह –
अपि चेति ।
ग्रथिताः संबद्धाः। विद्धाः तदात्म्येन। शङ्कुना पर्णनालेन। पर्णानि पर्णावयवाः संतृण्णानि विद्धानि।
किं तु परमात्मैवैति ।
धारयितुमर्हतीत्यनुषङ्गः।
स्वरूपप्रमाणार्थक्रियाभिर्भेदमाह –
तथा हीति ।
ननु डित्थोऽयमिति नामसंभेदोऽनुभूयते, तत आह –
न च डित्थ इति ।
यद्यर्थो न शब्दात्मा, तर्हि कथमर्थप्रत्यये शब्दः प्रतिभाति, न हि स तदा स्वेन परेण वोच्चार्यतेऽत आह –
संज्ञा त्विति ।
संस्कारोद्बोधस्य संपात उत्पादस्तेनायाता प्राप्ता गृहीतसंबन्धैः पुंभिः।
यत्संज्ञास्मरणमिति ।
अन्यहेतुकम् अर्थात्मत्वहेतुकम्।
ननु स्मर्यमाणसंज्ञायाः परोक्षत्वात्तद्विशिष्टोऽर्थः कथं प्रत्यक्षः स्यादत आह –
संज्ञाहीति ।
संज्ञिनः प्रत्यक्षत्वं स्मर्यमाणाऽपि संज्ञा न बाधते।
सा हि तटस्था अर्थानिविष्टाऽतो नार्थस्वरूपाच्छादनक्षमेति॥ भास्करस्त्वस्थूलमित्यादेः वर्णेषु अप्राप्तनिषेधत्वानुपपत्तेः अधिकरणमन्यथयामास, तदनूद्य दूषयति –
ये त्वित्यादिना ।
अम्बरान्तधृतेः प्रधानं न निराकर्तुं शक्यं; साधारणत्वादित्यर्थः। यत्तु कश्चिदाह - भूतभविष्यदाद्याधारत्वादव्याकृतमाकाशं, तथा च प्रधाननिराक्रिया - इति। तन्न; तथा सत्युत्तरसूत्रवैयर्थ्यात्। अत्र स एवाह आकाशशब्दस्य रूढिभङ्गः फलं, नभ आश्रयस्याव्याकृतस्य प्रशासितृत्वायोगादव्याकृताश्रयस्य तदुपपत्तेरिति। तच्च न; आत्मन आकाश इति भूताकाशाश्रयस्यात्मत्वावगमात्। अपि च प्रधानस्यापि नभ आश्रयत्वसाधारण्यात् तद्व्युदासाय रूढिभङ्ग इति वाच्यम्। तच्चायुक्तम्; अभग्नायामपि रूढौ वाक्यशेषस्थप्रशास्तेर्निर्णयलाभादिति।
न ह्यवश्यमिति ।
प्रौढ्यैष वादः। संभवति तु प्राप्तिरभिधानानुरक्ताभिधेयस्य, तत्प्रकृतिकत्वे प्रकृतिविकारानन्यत्वेन प्रलयावस्थावर्णेषु स्थौल्यादिप्राप्तेरिति॥ प्रपञ्चाधिष्ठानत्वमात्राभ्युपगमाद् ब्रह्मणः प्रशासनाश्रयत्वाऽयोगाद्वाचस्पतिमते - सा च प्रशासनादिति (व्या.सू.अ.१.पा.३.सू.११) सूत्रमसंगतमिति केचित्। तन्न; रज्ज्वां भुजङ्गवत् प्रशासनव्यापारस्याप्यारोपात्। हन्त प्रधानेऽपि तमारोप्य तदपि प्रशासितृ किं न स्यादिति चेत्, नैतत्; चेतने दृष्टस्य नियन्तृत्वस्य जगदैश्वर्यरूपेण चेतन एव समारोपसंभवात्। न हि गजतुरगपत्तिवृते राजामात्ये राजत्वमारोपितमिति कुड्यादावारोप्यते। आरोपितमपि नियन्तृत्वं ब्रह्मणि मुख्यमेव प्रपञ्चस्थित्यर्थक्रियाकारित्वादकारगतह्रस्वादिवत्। प्रधाने तु गौणम्।
तदिदमाह –
न च मुख्यार्थसंभवे इति॥१२॥