भामतीव्याख्या
वेदान्तकल्पतरुः
 
ईक्षतिकर्माधिकरणविषयाः

ईक्षतिकर्मव्यपदेशात्सः ।

'कार्यब्रह्मजनप्राप्तिफलत्वादर्थभेदतः । दर्शनध्यानयोर्ध्येयमपरं ब्रह्म गम्यते” ॥ “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इति श्रुतेः सर्वगतपरब्रह्मवेदने तद्भावापत्तौ “स सामभिरुन्नीयते ब्रह्मलोकम्”(प्र. उ. ५ । ५) इति न देशविशेषप्राप्तिरुपपद्यते । तस्मादपरमेव ब्रह्मेह ध्येयत्वेन चोद्यते । न चेक्षणस्य लोके तत्त्वविषयत्वेन प्रसिद्धेः परस्यैव ब्रह्मणस्तथाभावात् , ध्यायतेश्च तेन समानविषयत्वात् , परब्रह्मविषयमेव ध्यानमिति साम्प्रतम् , समानविषयत्वस्यैवासिद्धेः । परो हि पुरुषो ध्यानविषयः, परात्परस्तु दर्शनविषयः । नच तत्त्वविषयमेव सर्वं दर्शनं, अनृतविषयस्यापि तस्य दर्शनात् । नच मननं दर्शनं, तच्च तत्त्वविषयमेवेति साम्प्रतम् । मननाद्भेदेन तत्र तत्र दर्शनस्य निर्देशात् । नच मननमपि तर्कापरनामावश्यं तत्त्वविषयम् । यथाहुः - “तर्कोऽप्रतिष्ठः”(म.भा. ३-३१४-११९) इति । तस्मादपरमेव ब्रह्मेह ध्येयम् । तस्य च परत्वं शरीरापेक्षयेति । एवं प्राप्त उच्यते - “ईक्षणध्यानयोरेकः कार्यकारणभूतयोः । अर्थ औत्सर्गिकं तत्त्वविषयत्वं यथेक्षतेः” ॥ ध्यानस्य हि साक्षात्कारः फलम् । साक्षात्कारश्चोत्सर्गतस्तत्त्वविषयः । क्वचित्तु बाधकोपनिपाते समारोपितगोचरो भवेत् । न चासत्यपवादे शक्य उत्सर्गस्त्यक्तुम् । तथा चास्य तत्त्वविषयत्वात्तत्कारणस्य ध्यानस्यापि तत्त्वविषयत्वम् । अपिच वाक्यशेषेणैकवाक्यत्वसम्भवे न वाक्यभेदो युज्यते । सम्भवति च परपुरुषविषयत्वेनार्थप्रत्यभिज्ञानात्समभिव्याहाराच्चैकवाक्यता । तदनुरोधेन च परात्पर इत्यत्र परादिति जीवघनविषयं द्रष्टव्यम् । तस्मात्तु परः पुरुषो ध्यातव्यश्च द्रष्टव्यश्च भवति ।

ईक्षतिकर्मव्यपदेशात्सः॥१३॥ अम्बरावधिकाधारात्प्रणवः पर्युदासि यः। तद्ध्येयमपरं किं वा परमित्यत्र चिन्त्यते॥ एषां बुद्धिसन्निधिसंगतिः।

कार्येति ।

कार्यब्रह्म हिरण्यगर्भ एव जनो जीवो यस्मिन् स ब्रह्मलोकस्तथा तत्प्राप्तिः फलं यस्य ध्यानस्य तत्तथा तस्य भावस्तत्त्वं ततो हेतोरपरं ब्रह्म ध्येयमिति गम्यते।

ननु परं पुरुषमभिध्यायीत परात् परं पुरुषमीक्षत इतीक्षणध्यानयोः एकविषयत्वावगमात् ईक्षणस्य च यथार्थत्वात् परमार्थ ब्रह्मैव ध्येयं, न त्वपरमित्यत आह –

अर्थभेदत इति ।

ध्यानस्य परविषयत्वात् ईक्षणस्य परात्परो यस्तद्विषयत्वात् एकविषयत्वमसिद्धमित्यर्थः।

प्रथमहेतुं व्याचष्टे –

ब्रह्म वेदेति ।

अर्थभेदत इत्येतच्छङ्कोत्तरत्वेन व्याचष्टे –

न चेति ।

अङ्गीकृत्य दर्शनस्य तत्त्वविषयत्वमीक्षणध्यानयोर्विषयभेद उक्तस्तदेवासिद्धमित्याह –

न चेति ।

ननु युक्त्या पर्यालोचनमिहेक्षणं, तच्च तत्त्वविषयमित्याशङ्क्याह –

न च मननमिति ।

किं मननदर्शनयोः ऐक्यं उताऽत्र मननविवक्षा।

नाद्य इत्याह –

मननादिति ।

न द्वितीय इत्याह –

न चेति ।

ईक्षणध्यानयोरर्थभेदं निराकरोति –

ईक्षणेति ।

एकोऽर्थ इत्यन्वयः।

यदवादि न सर्वं दर्शनं तत्त्वविषयमिति तत्राह –

औत्सर्गिकमिति ।

ईक्षतेरीक्षणस्य तत्त्वविषयत्वमौत्सर्गिकं, न चेहापवादः कश्चित्, तथा ध्यानस्यापि तत्कारणस्य स्यादन्यथाऽन्यद् ध्यायत्यन्यत्पश्यतीति हेतुहेतुमत्त्वासिद्धेरित्यर्थः।

प्रकारान्तरेणार्थभेदं निराकरोति –

अपि चेति ।

समभिव्याहारादिति ।

स ईक्षत इति प्रकृतापेक्षनिर्देशादित्यर्थः।

तदनुरोधेनेति ।

प्रमाणद्वयानुरोधेनेत्यर्थः॥ हे सत्यकाम परं निर्विशेषम् अपरं हिरण्यगर्भाख्यं च यद् ब्रह्म तदेतदेव। एतच्छब्दार्थमाह - यदोङ्कारः स हि तस्य प्रतीकः, प्रतिमेव विष्णोः, तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेन ओंकारध्यानेनायतनेन प्राप्तिसाधनेन परारयोरेकतरं यथोपासनमनुगच्छतीति प्रकृत्यैकमात्रद्विमात्रोपास्ती उक्त्वा वक्ति पिप्पलादः - यः पुनरोमित्येतदक्षरं त्रिमात्रमिति। तृतीया द्वितीयात्वेन परिणेया; ब्रह्मोंकाराभेदोपक्रमात्। तथाविधमक्षरं सूर्यप्रतिमं परं पुरुषमभिध्यायीत स सूर्यं प्राप्तः सामभिर्ब्रह्मलोकं प्राप्यते॥१३॥

इति चतुर्थमीक्षतिकर्माधिकरणम्॥