भामतीव्याख्या
वेदान्तकल्पतरुः
 
दहराधिकरणविषयाः

दहर उत्तरेभ्यः ।

'अथ यदिदमस्मिन् ब्रह्मपुरे दहरम्” सूक्ष्मं गुहाप्रायं पुण्डरीकसंनिवेशं वेश्म “दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्”(छा. उ. ८ । १ । १) आगमाचार्योपदेशाभ्यां श्रवणं च, तदविरोधिना तर्केण मननं च, तदन्वेषणम् । तत्पूर्वकेण चादरनैरन्तर्यदीर्घकालासेवितेन ध्यानाभ्यासपरिपाकेन साक्षात्कारो विज्ञानम् । विशिष्टं हि तज्ज्ञानं पूर्वेभ्यः । तदिच्छा विजिज्ञासनम् ।

अत्र संशयमाह -

तत्रेति ।

तत्र प्रथमं तावदेवं संशयः - किं दहराकाशादन्यदेव किञ्चिदन्वेष्टव्यं विजिज्ञासितव्यं च उत दहराकाश इति । यदापि दहराकाशोऽन्वेष्टव्यस्तदापि किं भूताकाश आहो शारीर आत्मा किं वा परमात्मेति ।

संशयहेतुं पृच्छति -

कुत इति ।

तद्धेतुमाह -

आकाशब्रह्मपुरशब्दाभ्यामिति ।

तत्र प्रथमं तावद्भूताकाश एव दहर इति पूर्वपक्षयति -

तत्राकाशशब्दस्य भूताकाशे रूढत्वादिति ।

एष तु बहुतरोत्तरसन्दर्भविरोधात्तुच्छः पूर्वपक्ष इत्यपरितोषेण पक्षान्तरमालम्बते पूर्वपक्षी -

अथवा जीवो दहर इति प्राप्तम् ।

युक्तमित्यर्थः । तत्र “आधेयत्वाद्विशेषाच्च पुरं जीवस्य युज्यते । देहो न ब्रह्मणो युक्तो हेतुद्वयवियोगतः” ॥ असाधारण्येन हि व्यपदेशता भवन्ति । तद्यथा क्षितिजलपवनबीजादिसामग्रीसमवधानजन्माप्यङ्कुरः शालिबीजेन व्यपदिश्यते शाल्यङ्कुर इति । नतु क्षित्यादिभिः, तेषां कार्यान्तरेष्वपि साधारण्यात् । तदिह शरीरं ब्रह्मविकारोऽपि न ब्रह्मणा व्यपदेष्टव्यम् , ब्रह्मणः सर्वविकारकारणत्वेनातिसाधारण्यात् । जीवभेदधर्माधर्मोपार्जितं तदित्यसाधारणकारणत्वाज्जीवेन व्यपदिश्यत इति युक्तम् । अपिच ब्रह्मपुर इति सप्तम्यधिकरणे स्मर्यते, तेनाधेयेनानेन सम्बद्धव्यम् । नच ब्रह्मणः स्वे महिम्नि व्यवस्थितस्यानाधेयस्याधारसम्बन्धः कल्पते । जीवस्त्वाराग्रमात्र इत्याधेयो भवति । तस्माद्ब्रह्मशब्दो रूढिं परित्यज्य देहादिबृंहणतया जीवे यौगिके वा भाक्तो वा व्याख्येयः । चैतन्यं च भक्तिः । उपाधानानुपधाने तु विशेषः । वाच्यत्वं गम्यत्वम् ।

स्यादेतत् । जीवस्य पुरं भवतु शरीरं, पुण्डरीकदहरगोचरता त्वन्यस्य भविष्यति, वत्सराजस्य पुर इवोज्जयिन्यां मैत्रस्य सद्मेत्यत आह -

तत्र पुरस्वामिन इति ।

अयमर्थः - वेश्म खल्वधिकरणमनिर्दिष्टाधेयमाधेयविशेषापेक्षायां पुरस्वामिनः प्रकृतत्वात्तेनैवाधेयेन सम्बद्धं सदनपेक्षं नाधेयान्तरेण सम्बन्धं कल्पयति ।

ननु तथापि शरीरमेवास्य भोगायतनमिति को हृदयपुण्डरीकस्य विशेषो यत्तदेवास्य सद्मेत्यत आह -

मनौपाधिकश्च जीव इति ।

ननु मनोऽपि चलतया सकलदेहवृत्ति पर्यायेणेत्यत आह -

मनश्च प्रायेणेति ।

आकाशशब्दश्चारूपत्वादिना सामान्येन जीवे भाक्तः ।

अस्तु वा भूताकाश एवायमाकाशशब्दो “दहरोऽस्मिन्नन्तराकाशः”(छा. उ. ८ । १ । १) इति, तथाप्यदोष इत्याह -

न चात्र दहरस्याकाशस्यान्वेष्यत्वमिति ।

एवं प्राप्त उच्यते - भूताकाशस्य तावन्न दहरत्वं, “यावान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाशः” (छा. उ. ८ । १ । ३) इत्युपमानविरोधात् । तथाहि - “तेन तस्योपमेयत्वं रामरावणयुद्धवत् । अगत्या भेदमारोप्य गतौ सत्यां न युज्यते” ॥ अस्ति तु दहराकाशस्य ब्रह्मत्वेन भूताकाशाद्भेदेनोपमानस्य गतिः । न चानवच्छिन्नपरिमाणमवच्छिन्नं भवति । तथा सत्यवच्छेदानुपपत्तेः । न भूताकाशमानत्वं ब्रह्मणोऽत्र विधीयते, येन “ज्यायानाकाशात्”(श. ब्रा. १० । ६ । ३ । २) इति श्रुतिविरोधः स्यात् , अपि तु भूताकाशोपमानेन पुण्डरीकोपाधिप्राप्तं दहरत्वं निवर्त्यते ।

अपिच सर्व एवोत्तरे हेतवो दहराकाशस्य भूताकाशत्वं व्यासेधन्तीत्याह -

न च कल्पितभेद इति ।

नापि दहराकाशो जीव इत्याह -

यद्यप्यात्मशब्द इति ।

'उपलब्धेरधिष्ठानं ब्रह्मणो देह इष्यते । तेनासाधारणत्वेन देहो ब्रह्मपुरं भवेत्” ॥ देहे हि ब्रह्मोपलभ्यत इत्यसाधारणतया देहो ब्रह्मपुरमिति व्यपदिश्यते, न तु ब्रह्मविकारतया । तथाच ब्रह्मशब्दार्थो मुख्यो भवति । अस्तु वा ब्रह्मपुरं जीवपुरं, तथापि यथा वत्सराजस्य पुरे उज्जयिन्यां मैत्रस्य सद्म भवति, एवं जीवस्य पुरे हृत्पुण्डरीकं ब्रह्मसदनं भविष्यति, उत्तरेभ्यो ब्रह्मलिङ्गेभ्यो ब्रह्मणोऽवधारणात् । ब्रह्मणो हि बाधके प्रमाणे बलीयसि जीवस्य च साधके प्रमाणे सति ब्रह्मलिङ्गानि कथञ्चिदभेदविवक्षया जीवे व्याख्यायन्ते । न चेह ब्रह्मणो बाधकं प्रमाणं, साधकं वास्ति जीवस्य । ब्रह्मपुरव्यपदेशश्चोपपादितो ब्रह्मोपलब्धिस्थानतया । अर्भकौकस्त्वं चोक्तम् । तस्मात्सति सम्भवे ब्रह्मणि, तल्लिङ्गानां नाब्रह्मणि व्याख्यानमुचितमिति ब्रह्मैव दहराकाशो न जीवभूताकाशाविति । श्रवणमननमनुविद्य ब्रह्मानुभूय चरणं चारस्तेषां कामेषु चरणं भवतीत्यर्थः ।

स्यादेतत् । दहराकाशस्यान्वेष्यत्वे सिद्धे तत्र विचारो युज्यते, नतु तदन्वेष्टव्यम् , अपितु तदाधारमन्यदेव किञ्चिदित्युक्तमित्यनुभाषते -

यदप्येतदिति ।

अनुभाषितं दूषयति -

अत्र ब्रूम इति ।

यद्याकाशाधारमन्यदन्वेष्टव्यं भवेत्तदेवोपरि व्युत्पादनीयं, आकाशव्युत्पादनं तु क्वोपयुज्यत इत्यर्थः ।

चोदयति -

नन्वेतदपीति ।

आकाशकथनमपि तदन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव ।

अथाकाशपरमेव कस्मान्न भवतीत्यत आह -

तं चेद्ब्रूयुरिति ।

आचार्येण हि “दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्”(छा. उ. ८ । १ । १) इत्युपदिष्टेऽन्तेवासिनाक्षिप्तम् - “किं तदत्र विद्यते यदन्वेष्टव्यम्”(छा. उ. ८ । १ । २) । पुण्डरीकमेव तावत्सूक्ष्मतरं, तदवरुद्धमाकाशं सूक्ष्मतमम् । तस्मिन्सूक्ष्मतमे किमपरमस्ति । नास्त्येवेत्यर्थः । तत्किमन्वेष्टव्यमिति । तदस्मिन्नाक्षेपे परिसमाप्ते समाधानावसर आचार्यस्याकाशोपमानोपक्रमं वचः - “उभे अस्मिन्द्यावापृथिवी समाहिते”(छा. उ. ८ । १ । ३) इति । तस्मात्पुण्डरीकावरुद्धाकाशाश्रये द्यावापृथिव्यावेवान्वेष्टव्ये उपदिष्टे, नाकाश इत्यर्थः ।

परिहरति -

नैतदेवम् ।

एवं हीति ।

स्यादेतत् । एवमेवैतत् ।

नो खल्वभ्युपगमा एव दोषत्वेन चोद्यन्त इत्यत आह -

तत्र वाक्यशेष इति ।

वाक्यशेषो हि दहराकाशात्मवेदनस्य फलवत्त्वं ब्रूते, यच्च फलवत्तत्कर्तव्यतया चोद्यते, यच्च कर्तव्यं तदिच्छतीति “तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्” (छा. उ. ८ । १ । १) इति तद्दहराकाशविषयमवतिष्ठते ।

स्यादेतत् । द्यावापृथिव्यावेवात्मानौ भविष्यतः, ताभ्यामेवात्मा लक्षयिष्यते, आकाशशब्दवत् । ततश्चाकाशाधारौ तावेव परामृश्यते इत्यत आह -

अस्मिन्कामाः समाहिताः

प्रतिष्ठिताः ।

एष आत्मापहतपाप्मेति ।

अनेन

प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ।

द्यावापृथिव्यभिधानव्यवहितमपीति शेषः ।

ननु सत्यकामज्ञानस्यैतत्फलं, तदनन्तरं निर्देशात् , न तु दहराकाशवेदनस्येत्यत आह -

समुच्चयार्थेन चशब्देनेति ।

'अस्मिन्कामाः” इति च ‘एषः’ इति चैकवचनान्तं न द्वे द्यावापृथिव्यौ पराम्रष्टुमर्हतीति दहराकाश एव पराम्रष्टव्य इति समुदायार्थः । तदनेन क्रमेण ‘तस्मिन्यदन्तः’ इत्यत्र तच्छब्दोऽनन्तरमप्याकाशमतिलङ्घ्य हृत्पुण्डरीकं परामृशतीत्युक्तं भवति । तस्मिन् हृत्पुण्डरीके यदन्तराकाशं तदन्वेष्टव्यमित्यर्थः ॥ १४ ॥

गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ।

उत्तरेभ्य इत्यस्य प्रपञ्चः एतमेव दहराकाशं प्रक्रम्य बताहो कष्टमिदं वर्तते जन्तूनां तत्त्वावबोधविकलानां, यदेभिः स्वाधीनमपि ब्रह्म न प्राप्यते । तद्यथा चिरन्तननिरूढनिबिडमलपिहितानां कलधौतशकलानां पथि पतितानामुपर्युपरि सञ्चरद्भिरपि पान्थैर्धनायद्भिर्ग्रावखण्डनिवहविभ्रमेणैतानि नोपादियन्त इत्यभिसन्धिमती साद्भुतमिव सखेदमिव श्रुतः प्रवर्तते - “इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति”(छा. उ. ८ । ३ । २) इति । स्वापकाले हि सर्व एवायं विद्वानविद्वांश्च जीवलोको हृत्पुण्डरीकाश्रयं दहराकाशाख्यं ब्रह्मलोकं प्राप्तोऽप्यनाद्यविद्यातमः पटलपिहितदृष्टितया ब्रह्मभूयमापन्नोऽहमस्मीति न वेद । सोऽयं ब्रह्मलोकशब्दस्तद्गतिश्च प्रत्यहं जीवलोकस्य दहराकाशस्यैव ब्रह्मरूपलोकतामाहतुः ।

तदेतदाह भाष्यकारः -

इतश्च परमेश्वर एव दहरो यस्माद्दहरवाक्यशेष इति ।

तदनेन गतिशब्दौ व्याख्यातौ ।

'तथाहि दृष्टम्” इति सूत्रावयवं व्याचष्टे -

तथाह्यहरहर्जीवानामिति ।

वेदे च लोके च दृष्टम् । यद्यपि सुषुप्तस्य ब्रह्मभावे लौकिकं न प्रमाणान्तरमस्ति, तथापि वैदिकीमेव प्रसिद्धिं स्थापयितुमुच्यते, ईदृशी नामेयं वैदिकी प्रसिद्धिर्यल्लोकेऽपि गीयत इति । यथा श्रुत्यन्तरे यथा च लोके तथेह ब्रह्मलोकशब्दोऽपीति योजना ।

'लिङ्गं च” इति सूत्रावयवव्याख्यानं चोद्यमुखेनावतारयति -

ननु कमलासनलोकमपीति ।

परिहरति -

गमयेद्यदि ब्रह्मणो लोक इति ।

अत्र तावन्निषादस्थपतिन्यायेन षष्ठीसमासात्कर्मधारयो बलीयानिति स्थितमेव, तथापीह षष्ठीसमासनिराकरणेन कर्मधारयसमासस्थापनाय लिङ्गमप्यधिकमस्तीति तदप्युक्तं सूत्रकारेण । तथाहि - लोकवेदप्रसिद्धाहरहर्ब्रह्मलोकप्राप्त्यभिधानमेव लिङ्गं कमलासनलोकप्राप्तेर्विपक्षादसम्भवाद्व्यावर्तमानं षष्ठीसमासाशङ्कां व्यावर्तयद्दहराकाशप्राप्तावेवावतिष्ठते, नच दहराकाशो ब्रह्मणो लोकः किन्तु तद्ब्रह्मेति ब्रह्म च तल्लोकश्चेति कर्मधारयः सिद्धो भवति । लोक्यत इति लोकः । हृत्पुण्डरीकस्थः खल्वयं लोक्यते । यत्खलु पुण्डरीकस्थमन्तःकरणं तस्मिन्विशुद्धे प्रत्याहृतेतरकरणानां योगिनां निर्मल इवोदके चन्द्रमसो बिम्बमतिस्वच्छं चैतन्यं ज्योतिःस्वरूपं ब्रह्मावलोक्यत इति ॥ १५ ॥

धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ।

सौत्रो धृतिशब्दो भाववचनः । धृतेश्च परमेश्वर एव दहराकाशः । कुतः, अस्य धारणलक्षणस्य महिम्नोऽस्मिन्नेवेश्वर एव श्रुत्यन्तरेषूपलब्धेः । निगदव्याख्यानमस्य भाष्यम् ॥ १६ ॥

प्रसिद्धेश्च ।

न चेयमाकाशशब्दस्य ब्रह्मणि लक्ष्यमाणविभुत्वादिगुणयोगाद्वृत्तिः साम्प्रतिकी, यथा रथाङ्गनामा चक्रवाक इति लक्षणा, किन्त्वत्यन्तनिरूढेति सूत्रार्थः । ये त्वाकाशशब्दो ब्रह्मण्यपि मुख्य एव नभोवदित्याचक्षते, तैः “अन्यायश्चानेकार्थत्वम्” इति च “अनन्यलभ्यः शब्दार्थः” इति च मीमांसकानां मुद्राभेदः कृतः । लभ्यते ह्याकाशशब्दाद्विभुत्वादिगुणयोगेनापि ब्रह्म । नच ब्रह्मण्येव मुख्यो नभसि तु तेनैव गुणयोगेन वर्त्स्यतीति वाच्यम् । लोकाधीनावधारणत्वेन शब्दार्थसम्बन्धस्य वैदिकपदार्थप्रत्ययस्य तत्पूर्वकत्वात् । ननु “यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः”(छा. उ. ८ । १ । ३) इति व्यतिरेकनिर्देशान्न लक्षणा युक्ता । नहि भवति गङ्गायाः कूलमिति विवक्षिते गङ्गाया गङ्गेति प्रयोगः तत्किमिदानीं “पौर्णमास्यां पौर्णमास्या यजेत” “अमावास्यायाममावास्यया” इत्यसाधुर्वैदिकः प्रयोगः । नच पौर्णमास्यमावास्यशब्दावग्नेयादिषु मुख्यौ । यच्चोक्तं यत्र शब्दार्थप्रतीतिस्तत्र लक्षणा, यत्र पुनरन्यार्थे निश्चिते शब्दप्रयोगस्तत्र वाचकत्वमेवेति, तदयुक्तम् । उभयस्यापि व्यभिचारात् । “सोमेन यजेत” इति शब्दादर्थः प्रतीयते । न चात्र कस्यचिल्लाक्षणिकत्वमृते वाक्यार्थात् । न च “य एवं विद्वान् पौर्णमासीं यजते य एवं विद्वानमावास्याम्” इत्यत्र पौर्णमास्यमावास्याशब्दौ न लाक्षणिकौ । तस्माद्यत्किञ्चिदेतदिति ॥ १७ ॥

इतरपरामर्शात्स इति चेन्नासम्भवात् ।

सम्यक् प्रसीदत्यस्मिन् जीवो विषयेन्द्रियसंयोगजनितं कालुष्यं जहातीति सुषुप्तिः सम्प्रसादो जीवस्यावस्थाभेदः न ब्रह्मणः तथा शरीरात्समुत्थानमपि शरीराश्रयस्य जीवस्य, नत्वनाश्रयस्य ब्रह्मणः । तस्माद्यथा पूर्वोक्तैर्वाक्यशेषगतैर्लिङ्गैर्ब्रह्मावगम्यते दहराकाशः, एवं वाक्यशेषगताभ्यामेव सम्प्रसादसमुत्थानाभ्यां दहराकाशो जीवः कस्मान्नावगम्यते । तस्मान्नास्ति विनिगमनेति शङ्कार्थः । “नासम्भवात्”(ब्र. सू. १ । ३ । १८) । सम्प्रसादसमुत्थनाभ्यां हि जीवपरामर्शो न जीवपरः, किन्तु तदीयतात्त्विकरूपब्रह्मभावपरः । तथा चैष परामर्शो ब्रह्मण एवेति न सम्प्रसादसमुत्थाने जीवलिङ्गम् , अपि तु ब्रह्मण एव तादर्थ्यादित्यग्रे वक्ष्यते । आकाशोपमानादयस्तु ब्रह्माव्यभिचारिणश्च ब्रह्मपराश्चेत्यस्ति विनिगमनेत्यर्थः ॥ १८ ॥

उत्तराच्चेदाविर्भूतस्वरूपस्तु ।

दहराकाशमेव प्रकृत्योपाख्यायते - यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् , तमात्मानं विविदिषन्तौ सुरासुरराजविन्द्रविरोचनौ समित्पाणी प्रजापतिं वरिवसितुमाजग्मतुः । आगत्य च द्वात्रिंशतं वर्षाणि तत्परिचरणपरौ ब्रह्मचर्यमूषतुः । अथैतौ प्रजापतिरुवाच, किङ्कामाविहस्थौ युवामिति । तावूचतुः, य आत्मापहतपाप्मा तमावां विविदिषाव इति । ततः प्रजापतिरुवाच, य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मापहतपाप्मत्वादिगुणः, यद्विज्ञानात्सर्वलोककामावाप्तिः । एतदमृतमभयम् । अथैतच्छुत्वैतावप्रक्षीणकल्मषावरणतया छायापुरुषं जगृहतुः । प्रजापतिं च पप्रच्छतुः, अथ योऽयं भगवोऽप्सु दृश्यते, यश्चादर्शे, यश्च स्वङ्गादौ कतम एतेष्वसौ अथवैक एव सर्वेष्विति । तमेतयोः श्रुत्वा प्रश्नं प्रजापतिर्बताहो सुदूरमुद्भ्रान्तावेतौ, अस्माभिरक्षिस्थान आत्मोपदिष्टः, एतौ च छायापुरुषं प्रतिपन्नौ, तद्यदि वयं भ्रान्तौ स्थ इति ब्रूमस्ततः स्वात्मनि समारोपितपाण्डित्यबहुमानौ विमानितौ सन्तौ दौर्मनस्येन यथावदुपदेशं न गृह्णीयाताम् , इत्यनयोराशयमनुरुध्य यथार्थं ग्राहयिष्याम इत्यभिसन्धिमान्प्रत्युवाच, उदशराव आत्मानमवेक्षेथामस्मिन्यत्पश्यथस्तद्ब्रूतमिति । तौ च दृष्ट्वा सन्तुष्टहृदयौ नाब्रूताम् । अथ प्रजापतिरेतौ विपरीतग्राहिणौ मा भूतामित्याशयवान्पप्रच्छ, किमत्रापश्यतामिति । तौ होचतुः, यथैवावमतिचिरब्रह्मचर्यचरणसमुपजातायतनखलोमादिमन्तावेवमावयोः प्रतिरूपकं नखलोमादिमदुदशरावेऽपश्यावेति । पुनरेतयोश्छायात्मविभ्रममपनिनीषुर्यथैव हि छायापुरुष उपजनापायधर्माभेदेनावगम्यमान आत्मलक्षणविरहान्नात्मैवेवमेवेदं शरीरं नात्मा, किन्तु ततो भिन्नमित्यन्वयव्यतिरेकाभ्यामेतौ जानीयातामित्याशयवान् प्रजापतिरुवाच, साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वा पुनरुदशरावे पश्यतमात्मानं, यच्चात्र पश्यथस्तद्ब्रूतमिति । तौ च साध्वलङ्कृतौ सुवसनौ छिन्ननखलोमानौ भूत्वा तथैव चक्रतुः । पुनश्च प्रजापतिनापृष्टौ तामेव छायामात्मानमूचतुः । तदुपश्रुत्य प्रजापतिरहो बताद्यापि न प्रशान्त एनयोर्विभ्रमः, तद्यथाभिमतमेवात्मतत्त्वं कथयामि तावत् । कालेन कल्मषे क्षीणेऽस्मद्वचनसन्दर्भपौर्वापर्यलोचनयात्मतत्त्वं प्रतिपत्स्येते स्वयमेवेति मत्वोवाच, एष आत्मैतदमृतमभयमेतद्ब्रह्मेति । तयोर्विरोचनो देहानुपातित्वाच्छायाया देह एवात्मतत्त्वमिति मत्वा निजसदनमागत्य तथैवासुरानुपदिदेश । देवेन्द्रस्त्वप्राप्तनिजसदनोऽध्वन्येव किञ्चिद्विरलकल्मषतया छायात्मनि शरीरगुणदोषानुविधायिनि तं तं दोषं परिभावयन्नाहमत्र छायात्मदर्शने भोग्यं पश्यामीति प्रजापतिसमीपं समित्पाणिः पुनरेवेवायम् । आगतश्च प्रजापतिनागमनकारणं पृष्टः पथि परिभावितं जगाद । प्रजापतिस्तु सुव्याख्यातमप्यात्मतत्त्वमक्षीणकल्मषावरणतया नाग्रहीः, तत्पुनरपि तत्प्रक्षयाया चरापराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यं, अथ प्रक्षीणकल्मषाय ते अहमेतमेवात्मानं भूयोऽनुव्याख्यास्यामीत्यवोचत् । स च तथा चरितब्रह्मचर्यः सुरेन्द्रः प्रजापतिमुपससाद । उपपन्नाय चास्मै प्रजापतिर्व्याचष्टे, य आत्मापहतपाप्मादिलक्षणोऽक्षण दर्शितः सोऽयं य एष स्वप्ने महीयमानो वनितादिभिरनेकधा स्वप्नोपभोगान् भुञ्जानो विरहतीति । अस्मिन्नपि देवेन्द्रो भयं ददर्श । यद्यप्ययं छायापुरुषवन्न शरीरधर्माननुपतति, तथापि शोकभयादिविविधबाधानुभवान्न तत्राप्यस्ति स्वस्तिप्राप्तिरित्युक्तवति मघवति पुनरपराणि चर द्वात्रिंशतं वर्षाणि स्वच्छं ब्रह्मचर्यमिदानीमप्यक्षीणकल्मषोऽसीत्यूचे प्रजापतिः । अथास्मिन्नेवंकारमुपसन्ने मघवति प्रजापतिरुवाच, य एष आत्मापहतपाप्मादिगुणो दर्शितोऽक्षिणि च स्वप्ने च स एष यो विषयेन्द्रियसंयोगविरहात्प्रसन्नः सुषुप्तावस्थायामिति । अत्रापि नेन्द्रो निर्ववार । यथा हि जाग्रद्वा स्वप्नगतो वायमहमस्मीति इमानि भूतानि चेति विजानाति नैवं सुषुप्तः किञ्चिदपि वेदयते, तदा खल्वयमचेतयमानोऽभावं प्राप्त इव भवति । तदिह का निर्वृत्तिरिति । एवमुक्तवति मघवति बताद्यापि न ते कल्मषक्षयोऽभूत् । तत्पुनरपराणि चर पञ्च वर्षाणि ब्रह्मचर्यमित्यवोचत्प्रजापतिः । तदेवमस्य मघोनस्त्रिभिः पर्यायैर्व्यतीयुः षण्णवतिवर्षाणि । चतुर्थे च पर्याये पञ्च वर्षाणीत्येकोत्तरं शतं वर्षाणि ब्रह्मचर्यं चरतः सहस्राक्षस्य सम्पेदिरे । अथास्मै ब्रह्मचर्यसम्पदुन्मृदितकल्मषाय मघवते य एषोऽक्षिणि यश्च स्वप्ने यश्च सुषुप्ते अनुस्यूत एष आत्मापहतपाप्मादिगुणको दर्शितः, तमेव “मघवन्मर्त्यं वै शरीरम्”(छा. उ. ८ । १२ । १) इत्यादिना विस्पष्टं व्याचष्टे प्रजापतिः । अयमस्याभिसन्धिः - यावत्किञ्चित्सुखं दुःखमागमापायि तत्सर्वं शरीरेन्द्रियान्तःकरणसम्बन्धि, न त्वात्मनः । स पुनरेतानेव शरीरादीननाद्यविद्यावासनावशादात्मत्वेनाभिप्रतीतस्तद्गतेन सुखदुःखेन तद्वन्तमात्मानमभिमन्यमानोऽनुतप्यते । यदा त्वयमपहतपाप्मत्वादिलक्षणमुदासीनमात्मानं देहादिभ्यो विविक्तमनुभवति, अथास्य शरीरवतोऽप्यशरीरस्य न देहादिधर्मसुखदुःखप्रसङ्गोऽस्तीति नानुतप्यते, केवलमयं निजे चैतन्यानन्दघने रूपे व्यवस्थितः समस्तलोककामान् प्राप्तो भवति । एतस्यैव हि परमानन्दस्य मात्राः सर्वे कामाः । दुःखं त्वविद्यानिर्माणमिति न विद्वानाप्नोति । “अशीलितोपनिषदां व्यामोह इह जायते । तेषामनुग्रहायेदमुपाख्यानमवर्तयम्” ॥ एवं व्यवस्थित उत्तराद्वाक्यसन्दर्भात्प्राजापत्यात् अक्षिणि च स्वप्ने सुषुप्ते च चतुर्थे च पर्याये “एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय”(छा. उ. ८ । ३ । ४) इति जीवात्मैवापहतपाप्मादिगुणः श्रुत्योच्यते । नो खलु परस्याक्षिस्थानं सम्भवति । नापि स्वप्नाद्यवस्थायोगः । नापि शरीरात्समुत्थानम् । तस्माद्यस्यैतत्सर्वं सोऽपहतपाप्मादिगुणः श्रुत्योक्तः । जीवस्य चैतत्सर्वमिति स एवापहतपाप्मादिगुणः श्रुत्योक्त इति नापहतपाप्मादिभिः परं ब्रह्म गम्यते । ननु जीवस्यापहतपाप्मत्वादयो न सम्भवन्तीत्युक्तम् । वचनाद्भविष्यति । किमिव वचनं न कुर्यात् । नास्ति वचनस्यातिभारः । नच मानान्तरविरोधः । नहि जीवः पाप्मादिस्वभावः, किन्तु वाग्बुद्धिशरीरारम्भसम्भवोऽस्य पाप्मादिः शरीराद्यभावे न भवति धूम इव धूमध्वजाभाव इति शङ्कार्थः ।

निराकरोति -

तं प्रति ब्रूयात् आविर्भूतस्वरूपस्तु ।

अयमभिसन्धिः - पौर्वापर्यालोचनया तावदुपनिषदां शुद्धबुद्धमुक्तमेकमप्रपञ्चं ब्रह्म तदतिरिक्तं च सर्वं तद्विवर्तो रज्जोरिव भुजङ्ग इत्यत्र तात्पर्यमवगम्यते । तथाच जीवोऽप्यविद्याकल्पितदेहेन्द्रियाद्युपहितं रूपं ब्रह्मणो न तु स्वाभाविकः । एवं च नापहतपाप्मत्वादयस्तस्मिन्नविद्योपाधौ सम्भविनः । आविर्भूतब्रह्मरूपे तु निरुपाधौ सम्भवन्तो ब्रह्मण एव न जीवस्य । एवं च ब्रह्मैवापहतपाप्मादिगुणं श्रुत्युक्तमिति तदेव दहराकाशो न जीव इति ।

स्यादेतत् । स्वरूपाविर्भावे चेद्ब्रह्मैव न जीवः, तर्हि विप्रतिषिद्धमिदमभिधीयते जीव आविर्भूतस्वरूप इति, अत आह -

भूतपूर्वगत्येति ।

उदशरावब्राह्मणेनेति ।

यथैव हि मघोनः प्रतिबिम्बान्युदशराव उपजनापायधर्मकाण्यात्मलक्षणविरहान्नात्मा, एवं देहेन्द्रियाद्यप्युपजनापायधर्मकं नात्मेत्युदशरावदृष्टान्तेन शरीरात्मताया व्युत्थानं बाध इति ।

चोदयति -

कथं पुनः स्वं च रूपमिति ।

द्रव्यान्तरसंसृष्टं हि तेनाभिभूतं तस्माद्विविच्यमानं व्यज्यते हेमतारकादि । कूटस्थनित्यस्य पुनरन्येनासंसृष्टस्य कुतो विवेचनादभिव्यक्तिः । नच संसारावस्थायां जीवोऽनभिव्यक्तः । दृष्ट्यादयो ह्यस्य स्वरूपं, ते च संसारावस्थायां भासन्त इति कथं जीवरूपं न भासत इत्यर्थः ।

परिहरति -

प्राग्विवेकज्ञानोत्पत्तेरिति ।

अयमर्थः - यद्यप्यस्य कूटस्थनित्यस्यान्यसंसर्गो न वस्तुतोऽस्ति, यद्यपि च संसारावस्थायामस्य दृष्ट्यादिरूपं चकास्ति, तथाप्यनिर्वाच्यानाद्यविद्यावशादविद्याकल्पितैरेव देहेन्द्रियादिभिरसंसृष्टमपि संसृष्टमिव विविक्तमप्यविविक्तमिव दृष्ट्यादिरूपमस्य प्रथते । तथाच देहेन्द्रियादिगतैस्तापादिभिस्तापादिमदिव भवतीति । उपपादितं चैतद्विस्तरेणाध्यासभाष्य इति नेहोपपाद्यते । यद्यपि स्फटिकादयो जपाकुसुमादिसंनिहिताः, संनिधानं च संयुक्तसंयोगात्मकं, तथा च संयुक्ताः, तथापि न साक्षाज्जपादिकुसुमसंयोगिन इत्येतावता दृष्टान्तिता इति । वेदना हर्षभयशोकादयः ।

दार्ष्टान्तिके योजयति -

तथा देहादीति ।

'सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इत्येतद्विभजते -

श्रुतिकृतं विवेकविज्ञानमिति ।

तदनेन श्रवणमननध्यानाभ्यासाद्विवेकविज्ञानमुक्त्वा तस्य विवेकविज्ञानस्य फलं केवलात्मरूपसाक्षात्कारः स्वरूपेणाभिनिष्पत्तिः, स च साक्षात्कारो वृत्तिरूपः प्रपञ्चमात्रं प्रविलापयन् स्वयमपि प्रपञ्चरूपत्वात्कतकफलवत्प्रविलीयते । तथाच निर्मृष्टनिखिलप्रपञ्चजालमनुपसर्गमपराधीनप्रकाशमात्मज्योतिः सिद्धं भवति । तदिदमुक्तम् - परं ज्योतिरुपसम्पद्येति । अत्र चोपसम्पत्तावुत्तरकालायामपि क्त्वाप्रयोगो मुखं व्यादाय स्वपितीतीवन्मन्तव्यः ।

यदा च विवेकसाक्षात्कारः शरीरात्समुत्थानं, न तु शरीरापादानकं गमनम् , तदा तत्सशरीरस्यापि सम्भवति प्रारब्धकार्यकर्मक्षयस्य पुरस्तादित्याह -

तथा विवेकाविवेकमात्रेणेति ।

न केवलं “स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इत्यादिश्रुतिभ्यो जीवस्य परमात्मनोऽभेदः, प्राजापत्यवाक्यसन्दर्भपर्यालोचनयाप्येवमेव प्रतिपत्तव्यमित्याह -

कुतश्चैतदेवं प्रतिपत्तव्यमिति ।

स्यादेतत् । प्रतिच्छायात्मवज्जीवं परमात्मनो वस्तुतो भिन्नमप्यमृताभयात्मत्वेन ग्राहयित्वा पश्चात्परमात्मानमृताभयादिमन्तं प्रजापतिर्ग्राह्यति, न त्वयं जीवस्य परमात्मभावमाचष्टे छायात्मन इवेत्यत आह -

नापि प्रतिच्छायात्मायमक्षिलक्षित इति ।

अक्षिलक्षितोऽप्यात्मैवोपदिश्यते न छायात्मा । तस्मादसिद्धो दृष्टान्त इत्यर्थः ।

किञ्च द्वितीयादिष्वपि पर्यायेषु “एतं त्वेव ते भूयोऽनुव्याख्यास्यामि” (छा. उ. ८ । ९ । ३) इत्युपक्रमात्प्रथमपर्यायनिर्दिष्टो न छायापुरुषः, अपि तु ततोऽन्यो दृष्टात्मेति दर्शयति, अन्यथा प्रजापतेः प्रतारकत्वप्रसङ्गादित्यत आह -

तथा द्वितीयेऽपीति ।

अथ छायापुरुष एव जीवः कस्मान्न भवति । तथाच छायापुरुष एवैतमिति परामृश्यत इत्यत आह -

किञ्चाहमद्य स्वप्ने हस्तिनमिति ।

किञ्चेति समुच्चयाभिधानं पूर्वोपपत्तिसाहित्यं ब्रूते, तच्च शङ्कानिराकरणद्वारेण । छायापुरुषोऽस्थायी, स्थायी चायमात्मा चकास्ति, प्रत्यभिज्ञानादित्यर्थः ।

न हि खल्वयमेवमिति ।

अयं सुषुप्तः । सम्प्रति सुषुप्तावस्थायाम् । अहमात्मानमहङ्कारास्पदमात्मानम् । न जानाति ।

केन प्रकारेण न जानातीत्यत आह -

अयमहमस्मीमानि भूतानि चेति ।

यथा जागृतौ स्वप्ने चेति । “न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्”(बृ. उ. ४ । ३ । ३०) इत्यनेनाविनाशित्वं सिद्धवद्धेतुकुर्वता सुप्तोत्थितस्यात्मप्रत्यभिज्ञानमुक्तम् , य एवाहं जागरित्वा सुप्तः स एवैतर्हि जागर्मीति ।

आचार्यदेशीयमतमाह -

केचित्त्विति ।

यदि ह्येतमित्यनेनानन्तरोक्तं चक्षुरधिष्ठानं पुरुषं परामृश्य तस्यात्मत्वमुच्येत ततो न भवेच्छायापुरुषः । न त्वेतदस्ति । वाक्योपक्रमसूचितस्य परमात्मनः परामर्शात् । न खलु जीवात्मनोऽपहतपाप्मत्वादिगुणसम्भव इत्यर्थः ।

तदेतद्दूषयति -

तेषामेतमिति ।

सुबोधम् ।

मतान्तरमाह -

अपरे तु वादिन इति ।

यदि न जीवः कर्ता भोक्ता च वस्तुतो भवेत् , ततस्तदाश्रयाः कर्मविधय उपरुध्येरन् । सूत्रकारवचनं च “नासम्भवात्”(ब्र. सू. १ । ३ । १८) इति कुप्येत । तत्खलु ब्रह्मणो गुणानां जीवेऽसम्भवमाह । न चाभेदे ब्रह्मणो जीवानां ब्रह्मगुणानामसम्भवो जीवेष्विति तेषामभिप्रायः । तेषां वादिनां शारीरकेणैवोत्तरं दत्तम् । तथाहि - पौर्वापर्यपर्यालोचनया वेदान्तानामेकमद्वयमात्मतत्त्वं, जीवास्त्वविद्योपधानकल्पिता इत्यत्र तात्पर्यमवगम्यते । नच वस्तुसतो ब्रह्मणो गुणाः समारोपितेषु जीवेषु सम्भवन्ति । नो खलु वस्तुसत्या रज्ज्वा धर्माः सेव्यत्वादयः समारोपिते भुजङ्गे सम्भविनः । नच समारोपितो भुजङ्गो रज्ज्वा भिन्नः । तस्मान्न सूत्रव्याकोपः । अविद्याकल्पितं च कर्तृत्वभोक्तृत्वं यथालोकसिद्धमुपाश्रित्य कर्मविधयः प्रवृत्ताः, श्येनादिविधय इव निषिद्धेऽपि “न हिंस्यात्सर्वा भूतानि” इति साध्यांशेऽभिचारेऽतिक्रान्तनिषेधं पुरुषमाश्रित्याविद्यावत्पुरुषाश्रयत्वाच्छास्त्रस्येत्युक्तम् ।

तदिदमाह -

तेषां सर्वेषामिति ॥ १९ ॥

ननु ब्रह्मचेदत्र वक्तव्यं कृतं जीवपरामर्शेनेत्युक्तमित्यत आह -

अन्यार्थश्च परामर्शः ।

जीवस्योपाधिकल्पितस्य ब्रह्मभाव उपदेष्टव्यः, न चासौ जीवमपरामृश्य शक्य उपदेष्टुमिति तिसृष्ववस्थासु जीवः परामृष्टः । तद्भावप्रविलयनं तस्य पारमार्थिकं ब्रह्मभावं दर्शयितुमित्यर्थः ॥ २० ॥

अल्पश्रुतेरिति चेत्तदुक्तम् ।

निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥ २१ ॥

पूर्वेभ्य इति ; आधेयत्वादिति ; असाधारणेनेत्यादिना ; अपि चेत्यादिना ; उपधानेति ; अनिर्दिष्टाधेयमिति ; तेनेति ; न चेति ; न भूताकाशेति ; उपलब्धेरिति ; तेनेति ; तथा चेति ; उत्तरेभ्य इति ; ब्रह्मणो हीति ; ब्रह्मपुरव्यपदेशश्चेति ; श्रवणेति ; अनुभूयेति ; काम्यन्त इति ; स्यादेतदित्यादिना ; स्यादेतदिति ; ताभ्यामिति ; अनेन हीति ; द्यावापृथिव्यादीति ; नन्विति ; अस्मिन्कामा इति चेति ; तदनेनेति ; तथापीति ; अत्र तावदित्यादिना ; तथा हीत्यादिना ; असंभवादिति॥१५॥ ; सौत्र इति॥१६॥ ; न चेति ; येत्विति ; न चेति ; लोकाधीनेति स्यान्तेन ; नन्विति ; व्यतिरेकेण निर्देशादिति ; न हि भवतीति ; तत्किमिति ; न चेति ; यच्चेति ; सोमेनेति ; न चेति ; एष आत्मेति ; देहानुपातित्वाच्छायाया इति ; एष संप्रसाद इति ; पौर्वापर्येति ; तदतिरिक्तं चेति ; तथा चेति ; एवं च ब्रह्मैवेति ; यद्यपि स्फटिकादय इति ; वेदना इति ; तथा चेति ; अत्र चेति ; यदा च विवेकसाक्षात्कार इति ; स्यादेतदिति ; अहमात्मानमिति ; अनेनेति ; य एवाहमिति ; यदीति ; न खल्विति ; मतान्तरमिति ; तथाहीति ; न च वस्तुसत इति ; अविद्याकल्पितमिति ; अविद्यावदिति ; नन्वित्यादिना॥२०॥२१॥ ; स स वा अयमिति ; पुरुष इति ; पुरिशय इति ; तद्यत्रेति ; समस्त इति ;

दहराधिकरणविषयाः

दहर उत्तरेभ्यः॥१४॥ प्रागुदाहृतपरपुरुषशब्दस्य दहरवाक्यशेषगतोत्तमपुरुषशब्दवत् अब्रह्मविषयत्वशङ्कायाम्, अस्यापि ब्रह्मविषयत्वोपपादनात्संगतिः ॥

पूर्वेभ्य इति ।

श्रवणमननध्यानेभ्य इत्यर्थः।

आधेयत्वादिति ।

ब्रह्मपुरशब्दोक्तं देहलक्षणं पुरं जीवस्य युज्यते। तस्य परिच्छिन्नत्वेनाधेयत्वात्, स्वकर्मोपार्जितशरीरेण संबन्धविशेषाच्च ब्रह्मणः पुरमिति षष्ठीसमाससंभवात्। ब्रह्मणस्तु न युक्तं पुरम्; उक्तहेतुद्वयाभावादित्यर्थः।

विशेषादित्येतद्व्याख्याति –

असाधारणेनेत्यादिना ।

जीवभेदो जीवविशेषः।

आधेयत्वहेतुं व्याचष्टे –

अपि चेत्यादिना ।

तेनाधिकरणेन सहानेन ब्रह्मशब्दार्थेनाधेयेन संबद्धव्यम्; समासाभिहितसंबन्धसामान्यस्य आधाराधेयभाव एव विश्रमादित्यर्थः। भक्तिर्गुणस्तेन हि शब्दो मुख्यार्थाद्भज्यते ।

यदि चेतनत्वं समं जीवब्रह्मणोस्तर्हि को विशेषस्तत्राह –

उपधानेति ।

भक्त्या च तस्य ब्रह्मशब्दवाच्यत्वमिति भाष्ये वाच्यत्वं तात्पर्यगम्यत्वं; भाक्तत्वे सत्यभिधेयत्वविरोधादित्यर्थः। अन्यस्य ब्रह्मण इत्यर्थः।

अनिर्दिष्टाधेयमिति ।

वेश्माधेयतया निर्दिष्टस्याप्याकाशस्य संदिग्धत्वादनिश्चय इत्यर्थः।

उपमानोक्तेः अन्यथासिद्धिमाशङ्क्याह –

तेनेति ।

ह्यस्तनाद्यतनत्वादिनायुद्धे भेदारोपः क्रियते – गगनं गगनाकारं सागरः सागरोपमः। रामरावणयोर्युद्धं रामरावणयोरिव॥ इत्यत्र।

अस्तु वोपाध्यपेक्षयाऽऽकाशे भेदारोपः, तथापि न बाह्याकाशतुल्यत्वं हार्दाकाशस्येत्याह –

न चेति ।

यदि ऊनत्वाद्धार्धनभसो न बाह्येनोपमेयता, हन्ताधिकत्वाद् ब्रह्मणोऽपि न स्यादत आह –

न भूताकाशेति ।

आधेयत्वादित्येतत्प्रत्याह –

उपलब्धेरिति ।

विशेषाच्चेत्येतन्निराकरोति –

तेनेति ।

मुख्याधेयत्वत्यागे हेतुमाह –

तथा चेति ।

नन्वनिर्णीताधेयं वेश्म सन्निहितपुरस्वामिना संबध्यत इत्युक्तत्वात्कथं जीवपुरे ब्रह्मसदनलाभोऽत आह –

उत्तरेभ्य इति ।

सन्निधिर्लिङ्गैर्बाध्यत इत्यर्थः।

ननु लिङ्गानि ब्रह्माभेदपराणि, नेत्याह –

ब्रह्मणो हीति ।

इह ब्रह्मणि बाधकं जीवे च साधकं प्रमाणं नास्ति; ब्रह्मबाधकत्वेन जीवसाधकत्वेन चेष्टस्य सन्निधेः लिङ्गैर्बाधादित्यर्थः।

अपि चासिद्धो जीवसन्निधिः, पुरस्य ब्रह्मसंबन्धोपपादनाद् ब्रह्मशब्देन जीवाऽनभिधानादित्याह –

ब्रह्मपुरव्यपदेशश्चेति ।

‘अथ य इहात्मानम्’ इति भाष्यस्थश्रुतावनुशब्दार्थमाह –

श्रवणेति ।

विदेरर्थमाह –

अनुभूयेति ।

साक्षात्कृत्येत्यर्थः।

काम्यन्त इति

कामाः विषयाः। चारः उपलब्धिः।

आद्यसंशयस्थपूर्वपक्षमनूद्य सिद्धान्तयति –

स्यादेतदित्यादिना ।

भाष्ये द्यावापृथिव्याद्यन्वेप्यत्वापत्तिरिष्टापादनमिति शङ्कते –

स्यादेतदिति ।

तर्हि ‘‘अथ य इहात्मानम्’’ इत्यात्मशब्दः कथमत आह –

ताभ्यामिति ।

तथा च भूताकाशस्य दहरत्वसिद्धिरित्यर्थः।

अस्मिन्कामा इत्यस्मिन्-शब्देन द्यावापृथिव्याधार आकाश एव परामृश्यते समानाधारत्वप्रत्यभिज्ञानाद्, न द्यावापृथिव्यौ, तथा चैष इति, आत्मेति तदुपरितनशब्दाभ्यामप्याकाश एव निर्दिष्ट इत्याह –

अनेन हीति ।

आकृष्येति भाष्ये व्यवधानं सूचितम्।

व्यवहितस्य ह्याकर्षणं तत्कथयति –

द्यावापृथिव्यादीति ।

‘‘उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते’’ इति पूर्ववाक्ये आकाशनिर्देशानन्तरं द्यावापृथिव्यादिनिर्देशाद् व्यवधानम्।

एतांश्च सत्यान् कामान् इत्यात्मशब्दानन्तरं कामनिर्देशात्, सर्वेषु लोकेषु कामचारो भवतीति फलश्रवणं गुणविज्ञानस्यैवेति शङ्कते –

नन्विति ।

चकाराद्गुणगुणिनोर्ज्ञेयत्वे समुच्चयावगमात् समुच्चितोपास्तिफलं कामचार इति परिहारार्थः।

पूर्वत्र अव्यवहितद्यावापृथिव्यावुपेक्ष्य अस्मिन्-शब्देन प्रत्यभिज्ञानादाकाशमेव परामृश्यत इत्युक्तं, तत्रैव हेत्वन्तरमाह –

अस्मिन्कामा इति चेति ।

लक्षितात्मन ऐक्येऽपि पूर्वं शब्दतोऽनुपात्ते नैकवचनपरामृश्यता - इत्यर्थः।

यदि दहराकाशस्य विज्ञेयत्वं, कथं तर्हि तदाधेयस्य विज्ञेयत्वोपदेशोऽत आह –

तदनेनेति ।

एतमेव दहराकाशं प्रक्रम्य श्रुतिः प्रववृत इत्यन्वयः। धनायद्भिः धनेच्छावद्भिः।

यद्यपि सुषुप्तौ ब्रह्मप्राप्तिर्न लोकसिद्धा; तथापि वेदसंस्कृतजनप्रसिद्ध्या वेदस्य तत्र तात्पर्यं गम्यत इत्याह -

तथापीति ।

कर्मधारयस्य षष्ठीसमासात् बलीयस्त्वात् लिङ्गोपन्यासवैयर्थ्यमाशङ्क्य, अभ्युच्चयार्थत्वेन परिहरति –

अत्र तावदित्यादिना ।

षष्ठे स्थितम् – स्थपतिः निषादः, शब्दसामर्थ्यात् (जै.सू.अ.६.पा.१.सू.५१) रौद्रीमिष्टिं विधाय आम्नायते - एतया निषादस्थपतिं याजयेदिति। तत्र निषादस्थपतिः त्रैवर्णिकानामन्यतमः, उतान्यः इति संदेहे, अग्निविद्यावत्त्वेन समर्थत्वात् अनिषादेऽपि निषादानां स्थपतिः स्वामीति शब्दप्रवृत्तिसंभवादन्यतम इति प्राप्तेऽभिधीयते। निषाद एव स्थपतिः स्यात्, कर्मधारयश्च समासः, निषादशब्दस्य श्रौतार्थलाभेन शब्दसामर्थ्यात्। षष्ठीसमासे तु संबन्धो लक्ष्येत षष्ठ्यश्रवणात् समासस्थषष्ठीलोपोऽपि शब्दाभावत्वन्नैव षष्ठ्यर्थबोधी द्वितीयायाश्च प्रत्येकं निषादस्थपतिशब्दाभ्यां संबन्धसंभवे सति नाश्रुतषष्ठी कल्प्या। तस्मान्निषाद एव स्थपतिरिति। तदप्याधिक्यमुक्तं सूत्रकारेण चकारं प्रयुञ्जानेनेत्यर्थः।

सूत्रार्थमाह –

तथा हीत्यादिना ।

विपक्षाद्व्यावृत्तौ हेतुमाह –

असंभवादिति॥१५॥

सेतुर्विधृतिरिति श्रुतौ धृतिशब्द आत्मशब्दसामानाधिकरण्यात् यद्यपि कर्तृवाची क्तिजन्तस्तथाऽपि सूत्रगतधृतिशब्दो महिमशब्दसामानाधिकरण्यात् क्तिन्नन्तत्वेन भाववचन इत्याह –

सौत्र इति॥१६॥

प्रसिद्धिशब्दस्य रूढिवाचित्वभ्रममपनयति –

न चेति ।

रथाङ्गमिति नाम चक्रवाके लक्षणया संप्रत्येव प्रयुज्यते। रथाङ्गशब्दपर्यायस्य चक्रप्रातिपदिकस्य चक्रवाकशब्दावयवत्वेन निवेशात्।

आकाशशब्दस्य तु ब्रह्मण्यनादिकाले बहुकृत्वः प्रयोगान्निरूढलक्षणेत्यर्थः॥ पञ्चपाद्यां तु रूढिरुक्ता, तां दूषयति –

येत्विति ।

नभसि ब्रह्मणि च रूढ्यभ्युपगमेऽनेकार्थत्वं, नाभसगुणयोगाद् ब्रह्मणि वृत्तिसंभवे च शक्तिकल्पनायां गौरवमित्यर्थः। अत्र केचित् - आसमन्तात् काशत इति आकाशशब्दस्य अवयववृत्तिसंभवे सेतुशब्दस्येव तद्बहिर्भूतगुणवृत्तिरयुक्ता - इत्याहुः। तन्न; अपहृत्य योगं रूढ्यर्थे प्रत्यायिते रूढिं पुरस्कृत्य क्लृप्तादेव गुणयोगादन्यत्र वृत्तिलाभेऽनपेक्ष्य रूढिमवयवव्युत्पत्तिक्लेशस्यायुक्तत्वात्। सेतुशब्दोऽपि सेतुगुणाद्विधरणादेः ब्रह्मणि वर्तते। भाष्यकृद्भिस्तु सेतुशब्दव्युत्पत्तिरभ्युच्चयार्थमाश्रिता।

अस्तु तर्ह्यनेकार्थत्वपरिहाराय ब्रह्मण्येव मुख्यत्वमत आह –

न चेति ।

तेनैव विभुत्वादिगुणयोगेन। वर्त्स्यति वृतो भविष्यत्याकाशशब्द इति न वाच्यम्। तत्र हेतुः – वैदिकपदार्थप्रत्ययस्य लोकपूर्वकत्वाद्वेदे रूढ्यप्रतीतेरिति।

एतत्सिद्ध्यर्थमाह –

लोकाधीनेति स्यान्तेन ।

रूढिवादी तु प्रसिद्धगुणवृत्तिवैषम्यं शङ्कते –

नन्विति ।

व्यतिरेकेण निर्देशादिति ।

अन्तर्हृदयआकाश इति ब्रह्मण्याकाशशब्दप्रयोगादेवाकाशगुणयोगस्य लक्ष्यस्य सिद्धौ लभ्यायामपि तद्व्यतिरेकेण यावान्वा अयमाकाशः तावान् इत्याकाशसादृश्यस्य निर्देशात् लक्षणा न युक्तेत्यर्थः।

यत्र लक्षणया शब्दः प्रयुज्यते तत्र लक्ष्यांशस्य पृथक् न निर्देश इत्यत्र दृष्टान्तमाह -

न हि भवतीति ।

गङ्गापदेन गङ्गायाः कूलमित्यर्थे विवक्षिते गङ्गापदमेव प्रयुज्यते, न तु गङ्गाया इति लक्ष्यसंबन्धं पृथगुक्त्वा गङ्गेति प्रयुज्यत इत्यर्थः।

परिहरति –

तत्किमिति ।

आग्नेयादौ पौर्णमास्यमावास्याशब्दप्रयोगादेव लक्ष्यस्य कालसंबन्धस्य सिद्धावपि तद्व्यतिरेकेण पौर्णमास्याममावास्यायामिति च कालसंबन्धनिर्देशात् उक्तन्यायोऽनेकान्त इत्यर्थः।

दृष्टान्ताऽसिद्धिमाशङ्क्याह –

न चेति ।

मुख्यत्वे ह्यमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्तीत्यत्रापि अमावास्याशब्दस्य कर्मणि रूढिः स्यात्, तथा च पितृयज्ञः स्वकालत्वादनङ्गं स्यात् (जै.सू.अ.४.पा.सू.१९) इत्यधिकरणबाध इति।

अपरं रूढिकारणमाशङ्कते –

यच्चेति ।

अन्यत्र मुख्यत्वेन निश्चितस्य शब्दस्यान्यत्रार्थे प्रयोगेऽर्थश्चेदन्यतोऽधिगतस्तर्हि मुख्यत्वं, न चेदमुख्यत्त्वं; गङ्गायां घोष इत्यत्र हि गङ्गापदादेव गङ्गासंबन्धितीरमनुपपत्त्या श्रोता जानाति ततस्तत्र लक्षणा, आकाशशब्दस्तु यदेष आकाश आनन्दो न स्यादित्यत्र सत्यं ज्ञानमनन्तमिति वाक्यनिश्चिते ब्रह्मणि प्रयुक्त इति वाचकः। तथा च दहरवाक्येऽपि ब्रह्मवाचक इत्यर्थः।

शब्दादनधिगतार्थप्रतीतौ लक्षणेत्येतद्व्यभिचारयति –

सोमेनेति ।

सोमशब्दो हि लताचन्द्रमसोर्मुख्यः, एतद्वाक्यार्थान्वयित्वेन सोमपदादन्यतोऽनधिगतायां लतायामत्र वाक्ये प्रयुक्त इत्यर्थः।

अन्यतो निश्चिते शब्दस्य मुख्यत्वमित्येतदनेकान्तयति –

न चेति ।

अत्र हि समुदायानुवादिवाक्यद्वये पौर्णमास्यामावास्याशब्दौ लाक्षणिकौ न भवतः, यागषट्कश्च प्रकृतादाग्नेयादिवाक्याद् ज्ञात इति ज्ञातार्थविषयत्वं मुख्यत्वेऽनेकान्तमित्यर्थः॥१७॥१८॥ वरिवसितुं शुश्रूषितुम्। अपनिनीषुः अपनेतुमिच्छन्प्रजापतिरुवाचेत्यन्वयः। यथा प्राक्प्रतिबिम्बात्मत्वेन दृष्टनखलोम्नां छेदनादूर्ध्वमभावादनात्मत्वम्, एवं सर्वस्य प्रतिबिम्बस्य विवक्षितम्। साधु अलंकाराद्युपन्यासेन।

एष आत्मेति ।

देहाद्यागमापायसाक्षीत्यर्थः।

देहानुपातित्वाच्छायाया इति ।

यथा खलु नीलानीलपटयोरादर्शे दृश्यमानयोः यन्नीलं तन्महार्हमित्युक्ते न च्छायाया महार्हत्वमेवं छायाकारदेहस्यैवात्मत्वमिति विरोचनो मेने। इन्द्रस्तु अल्पपापत्वात् श्रद्दधानतया न प्रतिबिम्बमेवात्मेति प्रतिपेदे। एवंकारम् एवं कृत्वा। न निर्ववार - निवृत्तिं सुखं नानुबभूव। अक्षिणि अक्ष्युपलक्षिते जाग्रति। अभिप्रतीतः अभिप्रतीतिवान्।

चतुर्थपर्यायं प्रतीकत आदत्ते -

एष संप्रसाद इति ।

वाग्बुद्धिशरीराणां कार्यभूतो य आरम्भः क्रिया ततः संभवो यस्य पाप्मादेरपूर्वस्य स तथा। जीववादी प्रष्टव्यः - किमीश्वरमेव मन्यते, उत तस्य जीवप्रत्वगात्मत्वम् अथवाऽभ्युपेत्येश्वरस्य जीवप्रत्यक्त्वम् अत्र वाक्ये ईश्वरप्रतिपादनं न मन्यत इति।

नाद्य इत्याह –

पौर्वापर्येति ।

न द्वितीय इत्याह –

तदतिरिक्तं चेति ।

रज्ज्वां भुजङ्गवज्जगत्परमात्मनि विकल्पितं जीवोऽपि द्वितीयचन्द्रवद्भेदेनाध्यस्त इत्याह –

तथा चेति ।

तृतीयं प्रत्याह –

एवं च ब्रह्मैवेति ।

श्रुत्या प्रजापतिवाक्ये उक्तमित्यर्थः।

भाष्येऽन्यासंसर्गिण आत्मनोऽभिव्यक्तिसम्भवे अन्यसंसर्गिस्फटिकदृष्टान्तवर्णनमयुक्तमित्याशङ्क्याह –

यद्यपि स्फटिकादय इति ।

जपाकुसुमादिना संयुक्तं भूतलं तेन निकट एव संयोगो येषां स्फटिकादीनां ते संयुक्तसंयोगाः। तद्रूपत्वम् तदात्मत्वम्। तथा च व्यवधानेन संयुक्ता इत्यर्थः।

प्राग्विवेकविज्ञानोत्पत्तेरिति भाष्ये वेदनाशब्दार्थमाह –

वेदना इति ।

अनावृतस्वरूपस्फुरणमुपसम्पत्तिशब्दार्थमाह –

तथा चेति ।

ननु स्वरूपाभिनिष्पत्तिर्वृत्तिः, तयाऽपसारिते आवरणे पश्चाज्ज्योतिरुपसंपत्तिः, तत्कथं व्युत्क्रमेण निर्देशोऽत आह –

अत्र चेति ।

यदा च विवेकसाक्षात्कार इति ।

पूर्वं परोक्षज्ञानं शरीरात्समुत्थानमुक्तम्। इदानीं तस्य फलपर्यन्तत्वात्तत्फलं साक्षात्कारोऽपि शरीरात् समुत्थानत्वेनानूदोत इति न विरोधः।

नापि प्रतिच्छायात्माऽयम् इति भाष्यं प्रतिबिम्बस्य अक्षिपुरुषत्वेन निर्देशवारकमप्रासङ्गिकमिव प्रतिभाति, तत्पूर्वपक्षितजीवदृष्टान्तनिराकरणपरत्वेन प्रकृते सङ्गमयति –

स्यादेतदिति ।

अक्षिपर्याये छायात्मा निर्दिष्टः, स्वप्नसुषुप्तिपर्याययोर्जीवोऽतः छायात्मदृष्टान्तेन जीवशङ्का।

अहेत्यत्र बिन्दुमध्याहृत्य व्याचष्टे –

अहमात्मानमिति ।

अहमितिशब्दगोचरमित्यर्थः। यथाश्रुतपाठेऽहेत्यवधारणार्थो निपातः। नैव जानातीत्यर्थः। सुप्ते चैतन्यस्य स्फुरणात्सर्वथाऽऽत्मभाननिषेधो न युक्तोऽत औपाधिकस्फूर्तिनिषेधाय निपातस्यावधारणार्थत्वं जानतैव बिन्दुरध्याहृतः।

अविनाशित्वादिति हेतोः साध्याविशेषमाशङ्क्याह –

अनेनेति ।

असिद्धस्यापि हेतोः सिद्धिनिर्देशेन सिद्धिहेतुभूतं प्रमाणं सूचितमित्यर्थः।

तदेव प्रमाणं दर्शयति –

य एवाहमिति ।

आचार्यदेशीयाः आचार्यकल्पाः। न तु सम्यगाचार्यास्तन्मतमित्यर्थः।

एकदेशिप्रत्यवस्थानं जीवो दहर इति पूर्वपक्षेऽन्तर्भावयति -

यदीति ।

उक्तं हि पूर्वपक्षिणा छायावद्वा आरोपेण स्वत एव वा देहादिवियोगमपेक्ष्य अमृताभयत्वादि जीवस्यैवेति एतं त्वेव त इत्याक्षिस्थपुरुषानुकर्षणमङ्गीकृत्य, इदानीं तु परामर्शस्यान्यविषयत्वेन स एवैकदेशी भूत्वा प्रत्यवतिष्ठत इत्यर्थः। नन्वेवं परमात्मा चेदिह निर्दिष्टः स एवेह दहरः किं न स्यात्। अस्तु जीवोऽपि किं न भवेत्? अत एव अविनिगमेन पूर्वपक्ष इत्यतीतान्तरसूत्रोपक्रमे वर्णितं तदिहापि सूत्रेऽनुसंधेयम्। नन्वेतं व्याख्यास्यामीति परमात्मानं प्रतिज्ञाय कथं स्वप्नसुषुप्तिपर्याययोर्जीवो व्याख्यायते। उच्यते – सूक्ष्मे चतुर्थपर्याये वक्ष्यमाणे परात्मनि। धीनिवेशाय जीवस्याप्युपास्तिरिह वर्ण्यते॥ अत एव व्याख्यास्यामीति भविष्यताऽवगमः।

ननु परमात्मपरामर्शे जीवः परामृष्ट एव तदभेदादत आह –

न खल्विति ।

दृष्टे संभवति अदृष्टकल्पनानुपपत्तेः जीवानुवादेन ब्रह्मता बोध्यते नोपास्तिविधिः। इन्द्रब्रह्मचर्यावसानानन्तर्यार्था भविष्योक्तिरिति परिहाराशयः। अस्य चौपाधिको जीवः, अवच्छिन्ने च नापहतपाप्मत्वादिसंभव इति मतम्।

पारमार्थिकजीवब्रह्मविभागमतमाह –

मतान्तरमिति ।

शारीरकार्थमाह –

तथाहीति ।

सूत्रकोपं परिहरति –

न च वस्तुसत इति ।

औपाधिकभेदेन गुणसंकर इत्यर्थः।

कर्मविध्युपरोधं वारयति –

अविद्याकल्पितमिति ।

अविद्याकल्पितं कर्तृत्वाद्याश्रित्य कर्मविधयः प्रवृत्ता इत्यत्र हेतुमाह –

अविद्यावदिति ।

इत्युक्तमध्यासभाष्ये॥१९॥ अविनिगमपरिहारार्थं जीवपरामर्शस्यान्यथासिद्धिप्रतिपादकं सूत्रमवतार्य व्याचष्टे –

नन्वित्यादिना॥२०॥२१॥

स स वा अयमिति ।

स वै ईश्वरस्तत्त्वतोऽयं जीव एव औपाधिकस्तु भेद इत्याह –

पुरुष इति ।

पुरुषशब्दार्थमाह –

पुरिशय इति ।

पूः उपाधिः। किमेकस्यामेव पुरि शेते, न; अपि तु सर्वासु पूर्षु। तमाचार्यं शिष्याश्चेद् ब्रूयुः।

तद्यत्रेति ।

तत्तत्र अवस्थाद्वयप्रापककर्मोपरमे सति यत्र यस्मिन्काले। एतदिति क्रियाविशेषणम्। एतत्स्वप्नम्। सुप्तः स्वापस्य द्विप्रकारत्वात्।

स्वप्नव्यावृत्त्यर्थमाह –

समस्त इति ।

उपसंहृतसर्वकरण इत्यर्थः। अत एव विषयासंपर्कात् संप्रसन्नः। स्वप्ने महीयमानः पूज्यमानः चरति पश्यति भोगान्॥ इति पञ्चमं दहराधिकरणम्॥