भामतीव्याख्या
वेदान्तकल्पतरुः
 
अनुकृत्यधिकरणविषयाः

अनुकृतेस्तस्य च ।

'अभानं तेजसो दृष्टं सति तेजोऽन्तरे यतः । तेजोधात्वन्तरं तस्मादनुकाराच्च गम्यते” ॥ बलीयसा हि सौरेण तेजसा मन्दं तेजश्चन्द्रतारकाद्यभिभूयमानं दृष्टं, न तु तेजसोऽन्येन । येऽपि पिधायकाः प्रदीपस्य गृहघटादयो न ते स्वभासा प्रदीपं भासयितुमीशते । श्रूयते च - “तस्य भासा सर्वमिदं विभाति”(मु. उ. २ । २ । ११) इति । सर्वशब्दः प्रकृतसूर्याद्यपेक्षः । न चातुल्यरूपेऽनुभानमित्यनुकारः सम्भवति । नहि गावो वराहमनुधावन्तीति कृष्णविहङ्गानुधावनमुपपद्यते गवाम् , अपि तु तादृशसूकरानुधावनम् । तस्माद्यद्यपि “यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्” (मु. उ. २ । २ । ५) इति ब्रह्म प्रकृतं, तथाप्यभिभवानुकारसामर्थ्यलक्षणेन लिङ्गेन प्रकरणबाधया तेजोधातुरवगम्यते, न तु ब्रह्म, लिङ्गानुपपत्तेः । तत्र तं तस्येति च सर्वनामपदानि प्रदर्शनीयमेवावम्रक्ष्यन्ति । नच तच्छब्दः पूर्वोक्तपरामर्शीति नियमः समस्ति । नहि “तेन रक्तं रागात्”(पा.सू. ४.२.१) “तस्यापत्यम्”(पा.सू. ४-१-९२) इत्यादौ पूर्वोक्तं किञ्चिदस्ति । तस्मात्प्रमाणान्तराप्रतीतमपि तेजोऽन्तरमलौकिकं शब्दादुपास्यत्वेन गम्यत इति प्राप्ते उच्यते - “ब्रह्मण्येव हि तल्लिङ्गं न तु तेजस्यलौकिके । तस्मान्न तदुपास्यत्वे ब्रह्म ज्ञेयं तु गम्यते” ॥ “तमेव भान्तत्”(मु. उ. २ । २ । ११) इत्यत्र किमलौकिकं तेजः कल्पयित्वा सूर्यादीनामनुभानमुपपद्यताम् , किंवा “भारूपः सत्यसङ्कल्पः” (छा. उ. ३ । १४ । २) इति श्रुत्यन्तरप्रसिद्धेन ब्रह्मणो भानेन सूर्यादीनां भानमुपपाद्यतामिति विशये न श्रुतसम्भवेऽश्रुतस्य कल्पना युज्यत इत्यप्रसिद्धं नालौकिकमुपास्यं तेजो युज्यते, अपि तु श्रुतिप्रसिद्धं ब्रह्मैव ज्ञेयमिति ।

तदेतदाह -

प्राज्ञ एवात्मा भवितुमर्हति ।

विरोधमाह -

समत्वाच्चेति ।

ननु स्वप्रतिभाने सूर्यादयश्चाक्षुषं तेजोऽपेक्षन्ते । न ह्यन्धेनैते दृश्यन्ते । तथा तदेव चाक्षुषं तेजो बाह्यसौर्यादितेज आप्यायितं रूपादि प्रकाशयति नानाप्यायितम् , अन्धकारेऽपि रूपदर्शनप्रसङ्गादित्यत आह -

यं भान्तमनुभायुरिति ।

नहि तेजोन्तरस्य तेजोऽन्तरापेक्षां व्यासेधामः, किन्तु तद्भानमनुभानम् । नच लोचनभानमनुभान्ति सूर्यादयः ।

तदिदमुक्तम् -

नहि प्रदीप इति ।

पूर्वपक्षमनुभाष्य व्यभिचारमाह -

यदप्युक्तमिति ।

एतदुक्तं भवति - यदि स्वरूपसाम्याभावमभिप्रेत्यानुकारो निराक्रियते, तदा व्यभिचारः । अथ क्रियासाम्याभावं, सोऽसिद्धः । अस्ति हि वायुरजसोः स्वरूपविसदृशयोरपि नियतदिग्देशवहनक्रियासाम्यम् । वन्ह्ययः पिण्डयोस्तु यद्यपि दहनक्रिया न भिद्यते तथापि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासादृश्यं व्याख्येयम् ।

तदेवमनुकृतेरिति विभज्य तस्य चेति सूत्रावयवं विभजते -

तस्य चेति चतुर्थमिति ।

ज्योतिषां सूर्यादीनां ब्रह्म ज्योतिःप्रकाशकमित्यर्थः ।

तेजोऽन्तरेणानिन्द्रियभावमापन्नेन सूर्यादितेजो विभातीत्यप्रसिद्धम् । सर्वशब्दस्य हि स्वरसतो निःशेषाभिधानं वृत्तिः । सा तेजोधातावलौकिके रूपमात्रप्रकाशके सङ्कुचेत् । ब्रह्मणि तु निःशेषजगदवभासके न सर्वशब्दस्य वृत्तिः सङ्कुचतीति -

तत्रशब्दमाहरन्निति ।

सर्वत्र खल्वयं तत्रशब्दः पूर्वोक्तपरामर्शी । “तेन रक्तं रागात्”(पा.सू. ४.२.१) इत्यादावपि प्रकृतेः परस्मिन्प्रत्ययेऽर्थभेदेऽन्वाख्यायमाने प्रातिपदिकप्रकृत्यर्थस्य पूर्ववृत्तत्वमस्तीति तेनेति तत्परामर्शान्न व्यभिचारः । तथाच सर्वनामश्रुतिरेव ब्रह्मोपस्थापयति । तेन भवतु नाम प्रकरणाल्लिङ्गं बलीयः, श्रुतिस्तु लिङ्गाद्बलीयसीति श्रौतमिह ब्रह्मैव गम्यत इति ।

अपि चापेक्षितानपेक्षिताभिधानयोरपेक्षिताभिधानं युक्तं, दृष्टार्थत्वादित्याह -

अनन्तरं च हिरण्मये परे कोश इति ।

अस्मिन्वाक्ये ज्योतिषां ज्योतिरित्युक्तं, तत्र कथं तत्ज्योतिषां ज्योतिरित्यपेक्षायामिदमुपतिष्ठते -

न तत्र सूर्य इति ।

स्वातन्त्र्येण तूच्यमानेऽनपेक्षितं स्याददृष्टार्थमिति ।

ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पत इति ।

अयमभिप्रायः - “न तत्र सूर्यो भाति”(मु. उ. २ । २ । ११) इति नेयं सतिसप्तमी, यतः सूर्यादीनां तस्मिन् सत्यभिभवः प्रतीयेत । अपि तु विषयसप्तमी । तेन न तत्र ब्रह्मणि प्रकाशयितव्ये सूर्यादयः प्रकाशकतया भान्ति, किन्तु ब्रह्मैव सूर्यादिषु प्रकाशयितव्येषु प्रकाशकत्वेन भाति ।

तच्च स्वयम्प्रकाशम् ,

अगृह्यो नहि गृह्यत इत्यादिश्रुतिभ्य इति ॥ २२ ॥

अपि च स्मर्यते ।

न तद्भासयत इति

ब्रह्मणोऽग्राह्यत्वमुक्तम् ।

यदादित्यगतम्

इत्यनेन तस्यैव ग्राहकत्वमुक्तमिति ॥ २३ ॥

अनुकृतेस्तस्य च॥२२॥ सप्तम्याः सति वाक्ये च साधारण्यात्संशयः। पूर्वम् एतं त्वेत त इत्येतच्छब्दस्य प्रकृतार्थताद् दहरस्य जीवता निरासि, तदसाधुः; तत्रेत्यादौ सर्वनाम्नः प्रकृतार्थत्वानियमादिति शङ्कानिरासात्संगतिः। तत्रेति विषयसप्तमीस्वीकारे तद्भासयतीति णिजध्याहारप्रसङ्गात्सतिसप्तमीमादाय पूर्वपक्षमाह –

अभानमिति ।

तस्मात्तेजःप्रत्यभिभावकत्वलिङ्गात् अनुभानलक्षणानुकाराच्च तत्रशब्देन तेजोरूपं पदार्थान्तरं गम्यत इति द्वितीयार्धस्यार्थः।

प्रथमार्थं व्याचष्टे –

बलीयसेति ।

विमतं, तेजः, तदभिभावकत्वात्, सूर्यवदित्यनुमानमसूचि।

तस्यानैकान्तिकत्वमाशङ्क्याह –

येऽपीति ।

भासकत्वे सति तेजोऽभिभावकत्वं हेतुरित्यर्थः।

नन्विन्द्रियातिरिक्तस्य तेजसः कथं तेजःप्रकाशत्वमत आह –

श्रूयते चेति ।

अस्य तेजसोऽयं विशेषः श्रुतित आश्रित इत्यर्थः। अभिभवानुकारयोरतेजसि ब्रह्मणि श्रुतिवशादाश्रयणे तु गौरवमिति पूर्ववाद्याशयः।

ननु तस्य भासेति सर्वज्ञत्वे ब्रह्मलिङ्गे कथं तेजश्शङ्का, अत आह –

सर्वशब्द इति ।

द्वितीयार्धं व्याख्याति –

न चेति ।

ननु मन्त्रस्थतच्छब्दैः प्रकृतं ब्रह्म परामृश्यतेऽत आह –

तत्रेति ।

उपरिष्टात्प्रदर्शनीयं वक्ष्यमाणमेव अवम्रक्ष्यन्ति तस्य परामर्शं करिष्यन्ति। रागवाचिनः शब्दात्तेनेति तृतीयसमर्थाद्रक्तम् इत्यर्थेऽण् प्रत्ययो भवति। यथा काषायः पट इति। तस्येति षष्ठीसमर्थादपत्येऽण् प्रत्ययो भवति यथौपगव इति। अनयोः सूत्रयोस्तच्छब्दौ न प्रकृतार्थौ; तददर्शनात्।

ब्रह्मण्येवेति ।

यदनुभानं मन्त्रे तद् ब्रह्मण्येव लिङ्गम्। तस्य भारूप इत्यादिश्रुतौ चैतन्यप्रकाशत्वसिद्धेः तदध्यस्तसूर्यादेस्तदनुभानसंभवात्। न तेजस्येवंभूते तस्यालौकिकत्वादनिश्चितत्वाच्च वेदे।

अपि च तेजःपक्षे उपास्तिकल्पनाददृष्टार्थं वाक्यं स्याद्, ब्रह्मपक्षे तु प्रस्तुतस्य ज्योतिषः समर्पणात् दृष्टार्थत्वमित्याह –

तस्मादिति ।

विरोधमाहेति ।

अनपेक्षाद्वारकं भास्यभासकत्वविरोधमाहेत्यर्थः।

किं भानेऽनपेक्षा तेजसः, उत भासकत्वे इति विकल्प्य क्रमेण दूषयित्वा समाधत्ते –

नहीति ।

भासमानतेजसा न तेजो भातीति नियमाद्विरोध इत्यर्थः। आदित्यादेर्ब्रह्मानुकाराभावः किं स्वतो विसदृशत्वात्, उत तदीयक्रियया समानक्रियानाश्रयत्वात्।

आद्यमनूद्य प्रत्याह –

यदीति ।

धूलिपवनयोः अयोदहनयोश्च व्यभिचार इत्यर्थः।

द्वितीयमनूद्य दूषयति –

अथेति ।

ब्रह्मणः सूर्यादेश्च क्रियासाम्याभावो हेतुना साध्यः, तत्र यदि स्वरूपसाम्याभावो हेतुत्वेनोच्येत, तदा यत्र स्वरूपसाम्याभावस्तत्र क्रियासाम्याभावोऽसिद्ध इत्यर्थः।

नन्वयसि न दहनक्रिया कथं वह्नितुल्याक्रियत्वमत आह –

वह्नीति ।

एकैव दहनक्रिया वह्नौ स्वतः, सैव तत्संश्लेषादयसि समारोपिता अतः क्रियासाम्यमित्यर्थः।

ज्योतिषां ज्योतिरिति भाष्योदाहृतश्रुतिं व्याचष्टे –

ज्योतिषामिति ।

तेजोन्तरेण तु सूर्यादितेजो विभातीत्यप्रसिद्धमिति भाष्ये इन्द्रियत्वमनापन्नेनेति विशेषणीयम्, इन्द्रियेण सूर्यादिभानादित्याह –

अनिन्द्रियभावमिति ।

अथवा न सूर्यादीनामिति भाष्यं व्याचष्टे –

सर्वशब्दस्य हीति ।

अलौकिके तेजोधातौ स्वीकृते सति भास्यवाचिसर्वशब्दस्य वृत्ती रूपरूपिपैकार्थसमवायिषु संकुचेदलौकिकतेजसो रूपादिषु मध्ये रूपमात्रप्रकाशकत्वादित्यर्थः।

तेन रक्तमिति ।

प्रकृतेः परो यः प्रत्ययः तस्मिन् योऽर्थविशेषः तस्मिन् अन्वाख्यायमाने प्रत्ययाधस्तनप्रकृत्यर्थस्यास्ति प्रस्तुतत्वमित्यर्थः।

एवमनुकारलिङ्गब्रह्मणि साम्यर्थ्यमानप्रतिषेधं समर्थयते –

न तत्रेति ।

णिजध्याहारप्रसङ्गं परिहरति –

तेनेति ।

तत्रेति ।

विषये निर्दिष्टे सूर्यादेर्भानं प्रकाशकतयैव प्राप्नोति, ततः प्रकाशकतयेति नाध्याहाराभिप्रायमपि तु व्याख्या। अगृह्य इति प्रतिज्ञाय न हि गृह्यत इति हिशब्देन अग्राह्यत्वहेतुसाधकं दृग्रपत्वं श्रुत्या सूचितम्।

न तत्रेति ।

न तस्मिन् ब्रह्मणि भास्ये सूर्यादयो भासकत्वेन न भान्ति। कुतोऽयमस्मद्गोचरोऽर्ग्निर्भाति, किं बहुना? सर्वं जगत्तमेव परमेश्वरं स्वतो भान्तमनुभाति।

किं ब्रह्मभानादन्यज्जडभानं यथा दीपप्रकाशादन्यद् घटज्ञानं नेत्याह -

तस्य भासेति ।

यथाग्निसंश्लेषादयो दहतीत्युच्यते, एवमधिष्ठानब्रह्मभासैव जगद्विभाति, नान्यज्जगद्भानमित्यर्थः॥१३॥१४॥

इति षष्ठमनुकृत्यधिकरणम्॥