भामतीव्याख्या
वेदान्तकल्पतरुः
 
प्रमिताधिकरणविषयाः

शब्दादेव प्रमितः ।

'नाञ्जसा मानभेदोऽस्ति परस्मिन्मानवर्जिते । भूतभव्येशिता जीवे नाञ्जसी तेन संशयः” ॥ किमङ्गुष्ठमात्रश्रुत्यनुग्रहाय जीवोपासनापरमेतद्वाक्यमस्तु, तदनुरोधेन चेशानश्रुतिः कथञ्चिद्व्याख्यायताम् , आहोस्विदीशानश्रुत्यनुग्रहाय ब्रह्मपरमेतदस्तु, तदनुरोधेनाङ्गुष्ठमात्रश्रुतिः कथञ्चिन्नीयताम् । तत्रान्यतरस्यान्यतरानुरोधविषये प्रथमानुरोधो न्याय्य इत्यङ्गुष्ठश्रुत्यनुरोधेनेशानश्रुतिर्नेतव्या । अपिच युक्तं हृत्पुण्डरीकदहरस्थानत्वं परमात्मानः, स्थानभेदनिर्देशात् । तद्धि तस्योपलब्धिस्थानं, शालग्राम इव कमलनाभस्य भगवतः । नच तथेहाङ्गुष्ठमात्रश्रुत्या स्थानभेदो निर्दिष्टः परिमाणमात्रनिर्देशात् । नच “मध्य आत्मनि”(क.उ. २-४-१२) इत्यत्र स्थानभेदोऽवगम्यते । आत्मशब्दो ह्ययं स्वभाववचनो वा जीववचनो वा ब्रह्मवचनो वा स्यात् । तत्र स्वभावस्य स्वभवित्रधीननिरूपणतया स्वस्य च भवितुरनिर्देशान्न ज्ञायते कस्य मध्य इति । नच जीवपरयोरस्ति मध्यमञ्जसेति नैष स्थाननिर्देशो विस्पष्टः । स्पष्टस्तु परिमाणनिर्देशः । परिमाणभेदश्च परस्मिन्न सम्भवतीति जीवात्मैवाङ्गुष्ठमात्रः । स खल्वन्तःकरणाद्युपाधिकल्पितो भागः परमात्मनः । अन्तःकरणं च प्रायेण हृत्कमलकोशस्थानं, हृत्कमलकोशश्च मनुष्याणामङ्गुष्ठमात्र इति तदवच्छिन्नो जीवात्माप्यङ्गुष्ठमात्रः, नभ इव वंशपर्वावच्छिन्नमरत्निमात्रम् । अपि च जीवात्मनः स्पष्टमङ्गुष्ठमात्रत्वं स्मर्यते - “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्” इति । नहि सर्वेशस्य ब्रह्मणो यमेन बलान्निष्कर्षः कल्पते । यमो हि जगौ “हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः” (वि.पु. ३-७-१५)इति । तेनाङ्गुष्ठमात्रत्वस्य जीवे निश्चयादापेक्षिकं किञ्चिद्भूतभव्यं प्रति जीवस्येशानत्वं व्याख्येयम् ।

'एतद्वै तत्”

इति च प्रत्यक्षजीवरूपं परामृशति । तस्माज्जीवात्मैवात्रोपास्य इति प्राप्तम् । एवं प्राप्तेऽभिधीयते - “प्रश्नोत्तरत्वादीशानश्रवणस्याविशेषतः । जीवस्य ब्रह्मरूपत्वप्रत्यायनपरं वचः” ॥ इह हि भूतभव्यमात्रं प्रति निरङ्कुशमीशानत्वं प्रतीयते । प्राक् पृष्टं चात्र ब्रह्म “अन्यत्र धर्मादन्यत्राधर्मात्” (क. उ. १ । २ । १४) इत्यादिना । तदनन्तरस्य सन्दर्भस्य तत्प्रतिवचनतोचितेति “एतद्वै तत्” (क. उ. २ । १ । १३) इति ब्रह्माभिधानं युक्तम् । तथा चाङ्गुष्ठमात्रतया यद्यपि जीवेऽवगम्यते तथापि न तत्परमेतद्वाक्यं, किन्त्वङ्गुष्ठमात्रस्य जीवस्य ब्रह्मरूपताप्रतिपादनपरम् । एवं निरङ्कुशमीशानत्वं न सङ्कोचयितव्यम् । नच ब्रह्मप्रश्नोत्तरता हातव्या । तेन यथा “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति विज्ञानात्मनस्त्वम्पदार्थस्य तदिति परमात्मनैकत्वं प्रतिपाद्यते, तथेहाप्यङ्गुष्ठपरिमितस्य विज्ञानात्मन ईशानश्रुत्या ब्रह्मभावः प्रतिपाद्य इति युक्तम् ॥ २४ ॥

हृद्यपेक्षया तु मनुष्याधिकारत्वात् ।

सर्वगतस्यापि परब्रह्मणो हृदयेऽवस्थानमपेक्ष्येति

जीवाभिप्रायम् । न चान्यः परमात्मान इह ग्रहणमर्हतीति न जीवपरमेतद्वाक्यमित्यर्थः ।

मनुष्यानेवेति ।

त्रैवर्णिकानेव ।

अर्थित्वादिति ।

अन्तःसंज्ञानां मोक्षमाणानां च काम्येषु कर्मस्वधिकारं निषेधति ।

शक्तत्वादिति

तिर्यग्देवर्षीणामशक्तानामधिकारं निवर्तयति ।

उपनयनादिशास्त्राच्चेति

शूद्राणामनधिकारितां दर्शयति ।

यदप्युक्तं परिमाणोपदेशात्स्मृतेश्चेति ।

यद्येतत्परमात्मपरं किमिति तर्हि जीव इहोच्यते । ननु परमात्मैवोच्यताम् । उच्यते च जीवः, तस्माज्जीवपरमेवेति भावः ।

परिहरति -

तत्प्रत्युच्यत इति ।

जीवस्य हि तत्त्वं परमात्मभावः, तद्वक्तव्यम् , नच तज्जीवमनभिधाय शक्यं वक्तुमिति जीव उच्यत इत्यर्थः ॥ २५ ॥

शब्दादेव प्रमितः॥२४॥ अत्र जीवपरयोः समानधर्मादर्शने अपि श्रुत्योर्विप्रतिपत्तिः संशयबीजमित्याह –

नाञ्जसेति ।

परिमाणविशेषवन्मात्रवाच्यङ्गुष्ठमात्रशब्दः तद्विशेषे श्रुतिरेव। यद्यत्र परमात्मा प्रतिपाद्यः तर्हि परिमाणविशेषो न मुख्यः स्यात्, जीवपक्षे ईशानश्रुतिर्न मुख्या; अत एकत्र गौणता, सा च क्वेत्यज्ञानात्संशय इत्यर्थः। प्राक् सति विषये च साधारणसप्तमी न तद्भासयत इति विषयत्वनिषेधकस्मृत्या विषये व्यवस्थापिता, तद्वत्परिमाणमपि जैवमैश्वरं वेति संशयेऽङ्गुष्ठमात्रं निश्चकर्षेति निर्णीतार्थस्मृत्या जैवमिति प्रत्यवस्थानात्संगतिः।

पूर्वपक्षमाह –

प्रथमेति ।

दहरविचारेणापुनरुक्तिमाह –

अपि चेति ।

शङ्कानिरासः समुच्चयार्थः। परमात्मनोऽल्पत्वे हृत्पुण्डरीकस्थानत्वं कारणं युक्तं, स्थानविशेषस्य दहरं पुण्डरीकं वेश्मेति निर्देशादिति योजना। उपाधिं संकीर्त्य, अल्पत्वोक्तेः औपाधिकं तत्स्वतस्त्वनन्तः पर इति सिद्ध्यत्वित्यर्थः। स्वो यो भवति स स्वभविता तदनिर्णयात्स्वभावानिर्णयः। जीवपरयोर्निरंशत्वान्मध्याभावः। पूर्वपक्षे तु मध्ये उदासीने स्वरूप इति मध्यात्मशब्दौ नेयौ। समुष्टिः सकनिष्ठिकः करः, अरत्निः।

एतद्वै तदिति ।

येयं प्रेत इति जीवस्यापि प्रकृतत्वात्तच्छब्दोपपत्तिरपि द्रष्टव्या। यदवाद्यङ्गुष्ठवाक्ये जीवोपक्रमादस्य तत्परत्वमिति।

तन्न; ततोऽपि प्राक् परस्य प्रस्तुतत्वात्तत्सापेक्षत्वाच्चास्य वाक्यस्येत्याह –

प्रश्नेति ।

अङ्गुष्ठवाक्यस्यान्यत्र धर्मादिति प्रस्तुतपरमात्मप्रश्नोत्तरत्वात्प्राथम्यमसिद्धमित्यर्थः।

ब्रह्मणः कथं तर्हि परिमाणनिर्देशोऽत आह –

जीवस्येति ।

उपहितपरिमितजीवानुवादेन विरुद्धांशमपहाय तस्येश्वरैक्यपरं वाक्यमित्यर्थः॥२४॥ ब्रह्मणः परिमाणोपपादनमफलमुपाधिपरिमितजीवस्य ब्रह्मत्वबोधित्वाद्वाक्यस्येत्याशङ्क्याह –

जीवाभिप्रायमिति ।

जीवभावापन्नब्रह्माभिप्रायमित्यर्थः।

जीवनिर्देशवारणमिह वाक्ये न क्रियते, तथा सत्यनुवादाभावप्रसङ्गादित्याह –

न जीवपरमिति ।

मनुष्यग्रहणं शूद्रादौ मातिप्रसञ्जीति संकोचयति –

त्रैवर्णिकानिति ।

अन्तःसंज्ञानां स्थावराणां मोक्षमिच्छतां चानर्थित्वात्कर्मण्यनधिकारः। काम्यग्रहणेन शुद्ध्यर्थं नित्येषु कस्यचिन्मुमुक्षोरस्त्यधिकार इति सूचयति। तिरश्चां वेदार्थज्ञानादिसामग्र्यभावेनाशक्तत्वम्। देवानां स्वदेवत्ये कर्मणि आत्मोद्देशेन स्वकीयस्य त्यागायोगादशक्तिः। ऋषीणाम् आर्षेयवरणे ऋष्यन्तराभावादसामर्थ्यम्। षष्ठे हि फलार्थे कर्मणि सुखकामस्य (जै.अ.६.पा.१.सू.४ - ५।२५ - ३८) तिर्यगादेरप्यधिकारः स्वर्गकामश्रुतेरविशेषाच्चातुर्वर्ण्यमधिकरोति शास्त्रमिति प्राप्ते सिद्धान्तितम्। त्रयाणामेवाधिकारः। वसन्ते ब्राह्मणो ऽग्नीरादधीत ग्रीष्मे राजन्यः शरदि वैश्य इति तेषामेवाग्निसंबन्धश्रवणादिति।

सिद्धान्तिनाप्यङ्गुष्ठमात्रसंसार्यनुवादाभ्युपगमात्संसार्येवायमङ्गुष्ठमात्र इति भाष्ये इष्टप्रसङ्गतामाशङ्क्याह –

यद्येतदिति ।

अङ्गष्ठमात्र इति ।

धैर्येण अप्रमादेन। प्रवृहेत् उद्युच्छेत्, पृथक् कुर्यात् मुञ्जन्तःस्थेषीकामिव। तं च विवेचितं शुक्रं शुद्धममृतं ब्रह्म विद्यात्॥२५॥

इति सप्तमं प्रमिताधिकरणम्॥