भामतीव्याख्या
वेदान्तकल्पतरुः
 
देवताधिकरणविषयाः

तदुपर्यपि बादरायणः सम्भवात् ।

देवर्षीणां ब्रह्मविज्ञानाधिकारचिन्ता समन्वयलक्षणेऽसङ्गतेत्यस्याः प्रासङ्गिकीं सङ्गतिं दर्शयितुं प्रसङ्गमाह -

अङ्गुष्ठमात्रश्रुतिरिति ।

स्यादेतत् । देवादीनां विविधविचित्रानन्दभोगभोगिनां वैराग्याभावान्नार्थित्वं ब्रह्मविद्यायामित्यत आह -

तत्रार्थित्वं तावन्मोक्षविषयमिति ।

क्षयातिशययोग्यस्य स्वर्गाद्युपभोगेऽपि भावादस्ति वैराग्यमित्यर्थः ।

ननु देवादीनां विग्रहाद्यभावेनेन्द्रियार्थसंनिकर्षजायाः प्रमाणादिवृत्तेरनुपपत्तेरविद्वत्तया सामर्थ्याभावेन नाधिकार इत्यत आह -

तदा सामर्थ्यमपि तेषामिति ।

यथा च मन्त्रादिभ्यस्तदवगमस्तथोपरिष्टादुपपादयिष्यते ।

ननु शूद्रवदुपनयनासम्भवेनाध्ययनाभावात्तेषामनधिकार इत्यत आह -

न चोपनयनशास्त्रेणेति ।

न खलु विधिवत् गुरुमुखाद्गृह्यमाणो वेदः फलवत्कर्मब्रह्मावबोधहेतुः, अपि त्वध्ययनोत्तरकालं निगमनिरुक्तव्याकरणादिविदितपदतदर्थसङ्गतेरधिगतशाब्दन्यायतत्त्वस्य पुंसः स्मर्यमाणः । स च मनुष्याणामिह जन्मनीव देवदीनां प्राचि भवे विधिवदधीत आम्नाय इह जन्मनि स्मर्यमाणः । अत एव स्वयं प्रतिभातो वेदः सम्भवतीत्यर्थः ।

न च कर्मानधिकारे ब्रह्मविद्यानधिकारो भवतीत्याह -

यदपि कर्मस्वनधिकारकारणमुक्तमिति ।

वस्वादीनां हि न वस्वाद्यन्तरमस्ति । नापि भृग्वादीनां भृग्वाद्यन्तरमस्ति । प्राचां वसुभृगुप्रभृतीनां क्षीणाधिकारत्वेनेदानीं देवर्षित्वाभावादित्यर्थः ॥ २६ ॥

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ।

मन्त्रादिपदसमन्वयात्प्रतीयमानोऽर्थः प्रमाणान्तराविरोधे सत्युपेयः न तु विरोधे । प्रमाणान्तरविरुद्धं चेदं विग्रहवत्त्वादि देवतायाः । तस्मात् ‘यजमानः प्रस्तरः’ इत्यादिवदुपचरितार्थो मन्त्रादिर्व्याख्येयः । तथाच विग्रहाद्यभावाच्छब्दोपहितार्थोऽर्थोपहितो वा शब्दो देवतेत्यचेतनत्वान्न तस्याः क्वचिदप्यधिकार इति शङ्कार्थः ।

निराकरोति -

न ।

कस्मात् ।

अनेकरूपप्रतिपत्तेः ।

सैव कुत इत्यत आह -

दर्शनात्

श्रुतिषु स्मृतिषु च । तथाहि - एकस्यानेककायनिर्माणमदर्शनाद्वा न युज्यते, बाधदर्शनाद्वा । तत्रादर्शनमसिद्धं, श्रुतिस्मृतिभ्यां दर्शनात् । नहि लौकिकेन प्रमाणेनादृष्टत्वादागमेन दृष्टमदृष्टं भवति, मा भूद्यागादीनामपि स्वर्गादिसाधनत्वमदृष्टमिति मनुष्यशरीरस्य मातापितृसंयोगजत्वनियमादसति पित्रोः संयोगे कुतः सम्भवः, सम्भवे वानग्नितोऽपि धूमः स्यादिति बाधदर्शनमिति चेत् । हन्त किं शरीरत्वेन हेतुना देवादिशरीरमपि मातापितृसंयोगजं सिषाधयिषसि । तथा चानेकान्तो हेत्वाभासः, स्वेदजोद्भिज्जानां शरीराणामतद्धेतुत्वात् । इच्छामात्रनिर्माणत्वं देहादीनामदृष्टचरमिति चेत् , न । भूतोपादानत्वेनेच्छामात्रनिर्माणत्वासिद्धेः । भूतवशिनां हि देवादीनां नानाकायचिकीर्षावशाद्भूतक्रियोत्पत्तौ भूतानां परस्परसंयोगेन नानाकायसमुत्पादात् । दृष्टा च वशिन इच्छावशाद्वश्ये क्रिया, यथा विषविद्याविद इच्छामात्रेण विषशकलप्रेरणम् । नच विषविद्याविदो दर्शनेनाधिष्ठानदर्शनाद्व्यवहितविप्रकृष्टभूतादर्शनाद्देवादीनां कथमधिष्ठानमिति वाच्यम् । काचाभ्रपटलपिहितस्य विप्रकृष्टस्य च भौमशनैश्चरादेर्दर्शनेन व्यभिचारात् । असक्ताश्च दृष्टयो देवादीनां काचाभ्रपटलादिवन्महीमहीधरादिभिर्न व्यवधीयन्ते । न चास्मदादिवत्तेषां शरीरित्वेन व्यवहिताविप्रकृष्टादिदर्शनासम्भवोऽनुमीयत इति वाच्यम् , आगमविरोधिनोऽनुमानस्योत्पादायोगात् । अन्तर्धानं चाञ्जनादिना मनुजानामिव तेषां प्रभवतामुपपद्यते, तेन संनिहितानामपि न क्रतुदेशे दर्शनं भविष्यति ।

तस्मात्सूक्तम् - अनेकप्रतिपत्तेरिति -

तथा हि कति देवा इत्युपक्रम्येति ।

वैश्वदेवशस्त्रस्य हि निविदि ‘कति देवाः’ इत्युपक्रम्य निविदैवोत्तरं दत्तं शाकल्याय याज्ञवल्क्येन -

त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ।

निविन्नाम शस्यमानदेवतासङ्ख्यावाचकानि मन्त्रपदानि । एतदुक्तं भवति - वैश्वदेवस्य निविदि कति देवाः शस्यमानाः प्रसङ्ख्याता इति शाकल्येन पृष्टे याज्ञवल्क्यस्योत्तरं - “त्रयश्च त्री च शता”(बृ. उ. ३ । ९ । १) इत्यादि । यावत्सङ्ख्याका वैश्वदेवनिविदि सङ्ख्याता देवास्त एतावन्त इति ।

पुनश्च शाकल्येन “कतमे ते” (बृ. उ. ३ । ९ । १) इति सङ्ख्येयेषु पृष्टेषु याज्ञवल्क्यस्योत्तरम् -

महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति ।

अष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रश्च प्रजापतिश्चेति त्रयस्त्रिंशद्देवाः । तत्राग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चेति वसवः । एते हि प्राणिनां कर्मफलाश्रयेण कार्यकारणसङ्घातरूपेण परिणमन्तो जगदिदं सर्वं वासयन्ति, तस्माद्वसवः । कतमे रुद्रा इति दशेमे पुरुषे प्राणाः बुद्धिकर्मेन्द्रियाणि दश, एकादशं च मन इति । तदेतानि प्राणाः, तद्वृत्तित्वात् । ते हि प्रायणकाल उत्क्रामन्तः पुरुषं रोदयन्तीति रुद्राः । कतम आदित्या इति द्वादशमासाः संवत्सरस्यावयवाः पुनः पुनः परिवर्तमानाः प्राणभृतामायूंषि च कर्मफलोपभोगं चादापयन्तीत्यादित्याः । अशनिरिन्द्रः, सा हि बलं, सा हीन्द्रस्य परमा ईशता, तया हि सर्वान्प्राणिनः प्रमापयति, तेन स्तनयित्नुरशनिरिन्द्रः । यज्ञः प्रजापतिरिति, यज्ञसाधनं च यज्ञरूपं च पशवः प्रजापतिः । एत एव त्रयस्त्रिंशद्देवाः षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानो न ततो भिद्यन्ते । षडेव तु देवाः । ते तु षडग्निं पृथिवीं चैकीकृत्यान्तरिक्षं वायुं चैकीकृत्य दिवं चादित्यं चैकीकृत्य त्रयो लोकास्त्रय एव देवा भवन्ति । एत एव च त्रयोऽन्नप्राणयोरन्तर्भवन्तोऽन्नप्राणौ द्वौ देवौ भवतः । तावप्यध्यर्धो देव एकः । कतमोऽध्यर्धः, योऽयं वायुः पवते । कथमयमेक एवाध्यर्धः, यदस्मिन्सति सर्वमिदमध्यर्धं वृद्धिं प्राप्नोति तेनाध्यर्ध इति । कतम एक इति, स एवाध्यर्धः प्राण एको ब्रह्म । सर्वदेवात्मत्वेन बृहत्त्वाद्ब्रह्म तदेव स्यादित्याचक्षते परोक्षाभिधायकेन शब्देन । तस्मादेकस्यैव देवस्य महिमवशाद्युगपदनेकदेवरूपतामाह श्रुतिः । स्मृतिश्च निगदव्याख्याता ।

अपि च पृथग्जनानामप्युपायानुष्ठानवशात्प्राप्ताणिमाद्यैश्वर्याणां युगपन्नानाकायनिर्माणं श्रूयते, तत्र कैव कथा देवानां स्वभावसिद्धानामित्याह -

प्राप्ताणिमाद्यैश्वर्याणां योगिनामिति ।

अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायितेत्यैश्वर्याणि ।

अपरा व्याख्येति ।

अनेकत्र कर्मणि युगपदङ्गभावप्रतिपत्तिरङ्गभावगमनं, तस्य दर्शनात् ।

तदेव परिस्फुटं दर्शयितुं व्यतिरेकं तावदाह -

क्वचिदेक इति ।

न खलु बहुषु श्राद्धेष्वेको ब्राह्मणो युगपदङ्गभावं गन्तुमर्हति ।

एकस्यानेकत्र युगपदङ्गभावमाह -

क्वचिच्चैक इति ।

यथैकं ब्राह्मणमुद्दिश्य युगपन्नमस्कारः क्रियते बहुभिस्तथा स्वस्थानस्थितामेकां देवतामुद्दिश्य बहुभिर्यजमानैर्नानादेशावस्थितैर्युगपद्धविस्त्यज्यते, तस्याश्च तत्रासंनिहिताया अप्यङ्गभावो भवति । अस्ति हि तस्या युगपद्विप्रकृष्टानेकार्थोपलम्भसामर्थ्यमित्युपपादितम् ॥ २७ ॥

शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ।

गोत्वादिवत्पूर्वावमर्शाभावादुपाधेरप्येकस्याप्रतीतेः पाचकादिवदाकाशादिशब्दवद्व्यक्तिवचना एव वस्वादिशब्दाः तस्याश्च नित्यत्वात्तया सह सम्बन्धो नित्यो भवेत् । विग्रहादियोगे तु सावयवत्वेन वस्वादीनामनित्यत्वात्ततः पूर्वं वस्वादिशब्दो न स्वार्थेन सम्बद्ध आसीत् , स्वार्थस्यैवाभावात् । ततश्चोत्पन्ने वस्वादौ वस्वादिशब्दसम्बन्धः प्रादुर्भवन्देवदत्तादिशब्दसम्बन्धवत्पुरुषबुद्धिप्रभव इति तत्पूर्वको वाक्यार्थप्रत्ययोऽपि पुरुषबुद्ध्यधीनः स्यात् । पुरुषबुद्धिश्च मानान्तराधीनजन्मेति मानान्तरापेक्षया प्रामाण्यं वेदस्य व्याहन्येतेति शङ्कार्थः ।

उत्तरम् -

न ।

अतः प्रभवात् ।

वसुत्वादिजातिवाचकाच्छब्दात्तज्जातीयां व्यक्तिं चिकीर्षितां बुद्धिवालिख्य तस्याः प्रभवनम् । तदिदं तत्प्रभवत्वम् । एतदुक्तं भवति - यद्यपि न शब्द उपादानकारणं वस्वादीनां ब्रह्मोपादानत्वात् , तथापि निमित्तकारणमुक्तेन क्रमेण ।

न चैतावता शब्दार्थसम्बन्धस्यानित्यत्वं, वस्वादिजातेर्वा तदुपाधेर्वा यया कयाचिदाकृत्यावच्छिन्नस्य नित्यत्वादिति । इममेवार्थमाक्षेपसमाधानाभ्यां विभजते -

ननु जन्माद्यस्य यत इति ।

ते निगदव्याख्याते ।

तत्किमिदानीं स्वयम्भुवा वाङ्निर्मिता कालिदासादिभिरिव कुमारसम्भवादि, तथाच तदेव प्रमाणान्तरापेक्षवाक्यत्वादप्रामाण्यमापतितमित्यत आह -

उत्सर्गोऽप्ययं वाचः सम्प्रदायप्रवर्तनात्मक इति ।

सम्प्रदायो गुरुशिष्यपरम्परयाध्ययनम् । एतदुक्तं भवति - स्वयम्भुवो वेदकर्तृत्वेऽपि न कालिदासादिवत्स्वतन्त्रत्वमपि तु पूर्वसृष्ट्यनुसारेण । एतच्चास्माभिरुपपादितम् । उपपादयिष्यति चाग्रे भाष्यकारः । अपि चाद्यत्वेऽप्येतद्दृश्यते ।

तद्दर्शनात्प्राचामपि कर्तॄणां तथाभावोऽनुमीयत इत्याह -

अपि च चिकीर्षितमिति ।

आक्षिपति -

किमात्मकं पुनरिति ।

अयमभिसन्धिः - वाचकशब्दप्रभवत्वं हि देवानामभ्युपेतव्यं, अवाचकेन तेषां बुद्धावनालेखनात् । तत्र न तावद्वस्वादीनां वकारादयो वर्णा वाचकाः, तेषां प्रत्युच्चारणमन्यत्वेनाशक्यसङ्गतिग्रहत्वात् , अगृहीतसङ्गतेश्च वाचकत्वेऽतिप्रसङ्गात् । अपि चैते प्रत्येकं वा वाक्यार्थमभिदधीरन् , मिलिता वा । न तावत्प्रत्येकम् , एकवर्णोच्चारणानन्तरमर्थप्रत्ययादर्शनात् , वर्णान्तरोच्चारणानर्थक्यप्रसङ्गाच्च । नापि मिलिताः, तेषामेकवक्तृप्रयुज्यमानानां रूपतो व्यक्तितो वा प्रतिक्षणमपवर्गिणां मिथः साहित्यसम्भवाभावात् । नच प्रत्येकसमुदायाभ्यामन्यः प्रकारः सम्भवति । नच स्वरूपसाहित्याभावेऽपि वर्णानामाग्नेयादीनामिव संस्कारद्वारकमस्ति साहित्यमिति साम्प्रतं, विकल्पासहत्वात् । को नु खल्वयं संस्कारोऽभिमतः, किमपूर्वमाग्नेयादिजन्यमिव, किंवा भावनापरनामा स्मृतिप्रसवबीजम् । न तावत्प्रथमः कल्पः । नहि शब्दः स्वरूपतोऽङ्गतो वाऽविदितोऽविदितसङ्गतिरर्थधीहेतुरिन्द्रियवत् । उच्चरितस्य बधिरेणागृहीतस्य गृहीतस्य वाऽगृहीतसङ्गतेरप्रत्यायकत्वात् । तस्माद्विदितो विदितसङ्गतिर्विदितसमस्तज्ञापनाङ्गश्च शब्दो धूमादिवत्प्रत्यायकोऽभ्युपेयः । तथाचापूर्वाभिधानोऽस्य संस्कारः प्रत्यायनाङ्गमित्यर्थप्रत्ययात्प्रागवगन्तव्यः । नच तदा तस्यावगमोपायोऽस्ति । अर्थप्रत्ययात्तु तदवगमं समर्थयमानो दुरुत्तरमितरेतराश्रयमाविशति, संस्कारावसायादर्थप्रत्ययः, ततश्च तदवसाय इति । भावनाभिधानस्तु संस्कारः स्मृतिप्रसवसामर्थ्यमात्मनः । नच तदेवार्थप्रत्ययप्रसवसामर्थ्यमपि भवितुमर्हति । नापि तस्यैव सामर्थ्यस्य सामर्थ्यान्तरम् । नहि यैव वह्नेर्दहनशक्तिः सैव तस्य प्रकाशनशक्तिः । नापि दहनशक्तेः प्रकाशनशक्तिः अपिच व्युत्क्रमेणोच्चरितेभ्यो वर्णेभ्यः सैवास्ति स्मृतिबीजं वासनेत्यर्थप्रत्ययः प्रसज्येत । न चास्ति । तस्मान्न कथञ्चिदपि वर्णा अर्थधीहेतवः । नापि तदतिरिक्तः स्फोटात्मा । तस्यानुभवानारोहात् । अर्थधियस्तु कार्यात्तदवगमे परस्पराश्रयप्रसङ्ग इत्युक्तप्रायम् । सत्तामात्रेण तु तस्य नित्यस्यार्थधीहेतुभावे सर्वदार्थप्रत्ययोत्पादप्रसङ्गः, निरपेक्षस्य हेतोः सदातनत्वात् । तस्माद्वाचकाच्छब्दाद्वाच्योत्पाद इत्यनुपपन्नमिति ।

अत्राचार्यदेशीय आह -

स्फोटमित्याहेति ।

मृष्यामहे न वर्णाः प्रत्यायका इति । न स्फोट इति तु न मृष्यामः । तदनुभवानन्तरं विदितसङ्गतेरर्थधीसमुत्पादात् । नच वर्णातिरिक्तस्य तस्यानुभवो नास्ति । गौरित्येकं पदं, गामानय शुक्लमित्येकं वाक्यमिति नानावर्णपदातिरिक्तैकपदवाक्यावगतेः सर्वजनीनत्वात् । न चायमसति बाधके एकपदवाक्यानुभवः शक्यो मिथ्येति वक्तुम् । नाप्यौपाधिकः । उपाधिः खल्वेकधीग्राह्यता वा स्यात् , एकार्थधीहेतुता वा । न तावदेकधीगोचराणां धवखदिरपलाशानामेकनिर्भासः प्रत्ययः समस्ति । तथा सति धवखदिरपलाशा इति न जातु स्यात् । नाप्येकार्थधीहेतुता । तद्धेतुत्वस्य वर्णेषु व्यासेधात् । तद्धेतुत्वेन तु साहित्यकल्पनेऽन्योन्याश्रयप्रसङ्गः । साहित्यात्तद्धेतुत्वं तद्धेतुत्वाच्च साहित्यमिति । तस्मादयमबाधितोऽनुपाधिश्च पदवाक्यगोचर एकनिर्भासानुभवो वर्णातिरिक्तं वाचकमेकमवलम्बते स स्फोट इति तं च ध्वनयः प्रत्येकं व्यञ्जयन्तोऽपि न द्रागित्वेव विशदयन्ति, येन द्रागर्थधीः स्यात् । अपि तु रत्नतत्त्वज्ञानवद्यथास्वं द्वित्रिचतुष्पञ्चषड्दर्शनजनितसंस्कारपरिपाकसचिवचेतोलब्धजन्मनि चरमे चेतसि चकास्ति विशदं पदवाक्यतत्त्वमिति प्रागनुत्पन्नायास्तदनन्तरमर्थधिय उदय इति नोत्तरेषामानर्थक्यं ध्वनीनाम् । नापि प्राचां, तदभावे तज्जनितसंस्कारतत्परिपाकाभावेनानुग्रहाभावात् । अन्त्यस्य चेतसः केवलस्याजनकत्वात् । नच पदप्रत्ययवत् , प्रत्येकमव्यक्तामर्थधियमाधास्यन्ति प्राञ्चो वर्णाः, चरमस्तु तत्सचिवः स्फुटतरामिति युक्तम् । व्यक्ताव्यक्तावभासितायाः प्रत्यक्षज्ञाननियमात् । स्फोटज्ञानस्य च प्रत्यक्षत्वात् । अर्थधियस्त्वप्रत्यक्षाया मानान्तरजन्मनो व्यक्त एवोपजनो न वा स्यान्न पुनरस्फुट इति न समः समाधिः । तस्मान्नित्यः स्फोट एव वाचको न वर्णा इति ।

तदेतदाचार्यदेशीयमतं स्वमतमुपपादयन्नपाकरोति -

वर्णा एव तु न शब्द इति ।

एवं हि वर्णातिरिक्तः स्फोटोऽभ्युपेयेत, यदि वर्णानां वाचकत्वं न सम्भवेत् , स चानुभवपद्धतिमध्यासीत । द्विधा च वाचकत्वं वर्णानां, क्षणिकत्वेनाशक्यसङ्गतिग्रहत्वाद्वा व्यस्तसमस्तप्रकारद्वयाभावाद्वा । न तावत्प्रथमः कल्पः । वर्णानां क्षणिकत्वे मानाभावात् । ननु वर्णानां प्रत्युच्चारणमन्यत्वं सर्वजनप्रसिद्धम् । न । प्रत्यभिज्ञायमानत्वात् । न चासत्यप्येकत्वे ज्वालादिवत्सादृश्यनिबन्धनमेतत् , प्रत्यभिज्ञानमिति साम्प्रतम् । सादृश्यनिबन्धनत्वमस्य बलवद्बाधकोपनिपाताद्वास्थीयेत, क्वचिज्ज्वालादौ व्यभिचारदर्शनाद्वा । तत्र क्वचिद्व्यभिचारदर्शनेन तदुत्प्रेक्षायामुच्यते वृद्धेः स्वतःप्रामाण्यवादिभिः “उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधनम् । स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्” ॥ इति । प्रपञ्चितं चैतदस्माभिर्न्यायकणिकायाम् । न चेदं प्रत्यभिज्ञानं गत्वादिजातिविषयं न गादिव्यक्तिविषयं, तासां प्रतिनरं भेदोपलम्भादत एव शब्दभेदोपलम्भाद्वक्तृभेद उन्नीयते “सोमशर्माधीते न विष्णुशर्मा” इति युक्तम् । यतो बहुषु गकारमुच्चारयत्सु निपुणमनुभवः परीक्ष्यताम् । यथा कालाक्षीं च स्वस्तिमतीं चेक्षमाणस्य व्यक्तिभेदप्रथायां सत्यामेव तदनुगतमेकं सामान्यं प्रथते, तथा किं गकारादिषु भेदेन प्रथमानेष्वेव गत्वमेकं तदनुगतं चकास्ति, किंवा यथा गोत्वमाजानत एकं भिन्नदेशपरिमाणसंस्थानव्यक्त्युपधानभेदाद्भिन्नदेशमिवाल्पमिव महदिव दीर्घमिव वामनमिव तथागव्यक्तिराजानत एकापि व्यञ्जकभेदात्तद्धर्मानुपातिनीव प्रथत इति भवन्त एव विदाङ्कुर्वन्तु । तत्र गव्यक्तिभेदमङ्गीकृत्यापि यो गत्वस्यैकस्य परोपधानभेदकल्पनाप्रयासः स वरं गव्यक्तावेवास्तु किमन्तर्गडुना गत्वेनाभ्युपेतेन । यथाहुः - “तेन यत्प्रार्थ्यते जातेस्तद्वर्णादेव लप्स्यते । व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिधीर्वृथा” ॥ नच स्वस्तिमत्यादिवत् गव्यक्तिभेदप्रत्ययः स्फुटः प्रत्युच्चारणमस्ति । तथा सति दश गकारानुदचारयच्चैत्र इति हि प्रत्ययः स्यात् । न स्याद्दशकृत्व उदचारयद्गकारमिति । न चैष जात्यभिप्रायोऽभ्यासो यथा शतकृत्वस्तित्तिरीनुपायुङ्क्त देवदत्त इति । अत्र हि सोरस्ताडं क्रन्दतोऽपि गकारादिव्यक्तौ लोकस्योच्चारणाभ्यासप्रत्ययस्य विनिर्वृत्तिः ।

चोदकः प्रत्यभिज्ञानबाधकमुत्थापयति -

कथं ह्येकस्मिन्काले बहूनामुच्चारयतामिति ।

यत् युगपद्विरुद्धधर्मसंसर्गवत्तत् नाना, यथा गवाश्वादिर्द्विशफैकशफकेशरगलकम्बलादिमान् । युगपदुदात्तानुदात्तादिविरुद्धधर्मसंसर्गवांश्चायं वर्णः । तस्मान्नाना भवितुमर्हति । न चोदात्तादयो व्यञ्जकधर्माः, न वर्णधर्मा इति साम्प्रतम् । व्यञ्जका ह्यस्य वायवः । तेषामश्रावणत्वे कथं तद्धर्माः श्रावणाः स्युः । इदं तावदत्र वक्तव्यम् । नहि गुणगोचरमिन्द्रियं गुणिनमपि गोचरयति, मा भूवन् घ्राणरसनश्रोत्राणां गन्धरसशब्दगोचराणां तद्वन्तः पृथिव्युदकाकाशा गोचराः । एवं च मा नाम भूद्वायुगोचरं श्रोत्रम् , तद्गुणांस्तूदात्तादीन् गोचरयिष्यति । ते च शब्दसंसर्गाग्रहात् शब्दधर्मत्वेनाध्यवसीयन्ते ।

नच शब्दस्य प्रत्यभिज्ञानावधृतैकत्वस्य स्वरूपत उदात्तादयो धर्माः परस्परविरोधिनोऽपर्यायेण सम्भवन्ति । तस्माद्यथा मुखस्यैकस्य मणिकृपाणदर्पणाद्युपधानवशान्नानादेशपरिमाणसंस्थानभेदविभ्रमः, एवमेकस्यापि वर्णस्य व्यञ्जकध्वनिनिबन्धनोऽयं विरुद्धनानाधर्मसंसर्गविभ्रमः, न तु भाविको नानाधर्मसंसर्ग इति स्थितेऽभ्युपेत्य परिहारमाह भाष्यकारः -

अथवा ध्वनिकृत इति ।

अथवेति पूर्वपक्षं व्यावर्तयति । भवेतां नाम गुणगुणिनावेकेन्द्रियग्राह्यौ, तथाप्यदोषः । ध्वनीनामपि शब्दवच्छ्रावणत्वात् ।

ध्वनिस्वरूपं प्रश्नपूर्वकं वर्णेभ्यो निष्कर्षयति -

कः पुनरयमिति ।

न चायमनिर्धारितविशेषवर्णत्वसामान्यमात्रप्रत्ययो न तु वर्णातिरिक्ततदभिव्यञ्जकध्वनिप्रत्यय इति साम्प्रतम् । तस्यानुनासिकत्वादिभेदभिन्नस्य गादिव्यक्तिवत्प्रत्यभिज्ञानाभावात् , अप्रत्यभिज्ञायमानस्य चैकत्वाभावेन सामान्यभावानुपपत्तेः । तस्मादवर्णात्मको वैष शब्दः, शब्दातिरिक्तो वा ध्वनिः, शब्दव्यञ्जकः श्रावणोऽभ्युपेयः उभयथापि चाक्षु व्यञ्जनेषु च तत्तद्ध्वनिभेदोपधानेनानुनासिकत्वादयोऽवगम्यमानास्तद्धर्मा एव शब्दे प्रतीयन्ते न तु स्वतः शब्दस्य धर्माः । तथा च येषामनुनासिकत्वादयो धर्माः परस्परविरुद्धा भासन्ते भवतु तेषां ध्वनीनामनित्यता । नहि तेषु प्रत्यभिज्ञानमस्ति । येषु तु वर्णेषु प्रत्यभिज्ञानं न तेषामनुनासिकत्वादयो धर्मा इति नानित्याः ।

एवं च सति सालम्बना इति ।

यद्येष परस्याग्रहो धर्मिण्यगृह्यमाणे तद्धर्मा न शक्या ग्रहीतुमिति, एवं नामास्तु तथा तुष्यतु परः । तथाप्यदोष इत्यर्थः । तदनेन प्रबन्धेन क्षणिकत्वेन वर्णानामशक्यसङ्गतिग्रहतया यदवाचकत्वमापादितं वर्णानां तदपाकृतम् ।

व्यस्तसमस्तप्रकारद्वयासम्भवेन तु यदासञ्जितं तन्निराचिकीर्षुराह -

वर्णेभ्यश्चार्थप्रतीतेरिति ।

कल्पनाममृष्यमाण एकदेश्याह -

न कल्पयामीति ।

निराकरोति -

न ।

अस्या अपि बुद्धेरिति ।

निरूपयतु तावद्गौरित्येकं पदमिति धियमायुष्मान् । किमियं पूर्वानुभूतान्गकारादीनेव सामस्त्येनावगाहते किंवा गकाराद्यतिरिक्तं, गवयमिव वराहादिभ्यो विलक्षणम् । यदि गकारादिविलक्षणमवभासयेत् , गकारादिरूषितः प्रत्ययो न स्यात् । नहि वराहधीर्महिषरूषितं वराहमवगाहते । पदतत्त्वमेकं प्रत्येकमभिव्यञ्जयन्तो ध्वनयः प्रयत्नभेदभिन्नास्तुल्यस्थानकरणनिष्पाद्यतयान्योन्यविसदृशतत्तत्पदव्यञ्जकध्वनिसादृश्येन स्वव्यञ्जनीयस्यैकस्य पदतत्त्वस्य मिथो विसदृशानेकपदसादृश्यान्यापादयन्तः सादृश्योपधानभेदादेकमप्यभागमपि नानेव भागवदिव भासयन्ति, मुख्यमिवैकं नियतवर्णपरिमाणस्थानसंस्थानभेदमपि मणिकृपाणदर्पणादयोऽनेकवर्णपरिमाणसंस्थानभेदम् । एवं च कल्पिता एवास्य भागा वर्णा इति चेत् , तत्किमिदानीं वर्णभेदानसत्यपि बाधके मिथ्येति वक्तुमध्यवसितोऽसि । एकधीरेव नानात्वस्य बधिकेति चेत् , हन्तास्यां नाना वर्णाः प्रथन्त इति नानात्वावभास एकैकत्वं कस्मान्न बाधते । अथवा वनसेनादिबुद्धिवदेकत्वनानात्वे न विरुद्धे । नो खलु सेनावनबुद्धी गजपदातितुरगादीनां चम्पकाशोककिंशुकादीनां च भेदमपबाधमाने उदीयेते, अपि तु भिन्नानामेव सतां केनचिदेकेनोपाधिनावच्छिन्नानामेकत्वमापादयतः । नच परोपाधिकेनैकत्वेन स्वाभाविकं नानात्वं विरुध्यते । नह्यौपचारिकमग्नित्वं माणवकस्य स्वाभाविकनरत्वविरोधि । तस्मात्प्रत्येकवर्णानुभवजनितभावनानिचयलब्धजन्मनि निखिलवर्णावगाहिनि स्मृतिज्ञान एकस्मिन्भासमानानां वर्णानां तदेकविज्ञानविषयतया वैकार्थधीहेतुतया वैकत्वमौपचारिकमवगन्तव्यम् । न चैकार्थधीहेतुत्वेनैकत्वमेकत्वेन चैकार्थधीहेतुभाव इति परस्पराश्रयम् । नह्यर्थप्रत्ययात्पूर्वमेतावन्तो वर्णा एकस्मृतिसमारोहिणो न प्रथन्ते । न च तत्प्रथनानन्तरं वृद्धस्यार्थधीर्नोन्नीयते, तदुन्नयनाच्च तेषामेकार्थधियं प्रति कारकत्वमेकमवगम्यैकपदत्वाध्यवसानमिति नान्योन्याश्रयम् । न चैकस्मृतिसमारोहिणां क्रमाक्रमविपरीतक्रमप्रयुक्तानामभेदो वर्णानामिति यथाकथञ्चित्प्रयुक्तेभ्य एतेभ्योऽर्थप्रत्ययप्रसङ्ग इति वाच्यम् । उक्तं हि - “यावन्तो यादृशा ये च पदार्थप्रतिपादने । वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः” ॥ इति । ननु पङ्क्तिबुद्धावेकस्यामक्रमायामपि वास्तवी शालादीनामस्ति पङ्क्तिरिति तथैव प्रथा युक्ता, नच तथेह वर्णानां नित्यानां विभूनां चास्ति वास्तवः क्रमः, प्रत्ययोपाधिस्तु भवेत् , सचैक इति, कुतस्त्यः क्रम एषामिति चेत् , । न एकस्यामपि स्मृतौ वर्णरूपवत्क्रमवत्पूर्वानुभूततापरामर्शात् । तथाहि - जाराराजेति पदयोः प्रथयन्त्योः स्मृतिधियोस्तत्त्वेऽपि वर्णानां क्रमभेदात्पदभेदः स्फुटतरं चकास्ति । तथाच नाक्रमविपरीतक्रमप्रयुक्तानामविशेषः स्मृतिबुद्धावेकस्यां वर्णानां क्रमप्रयुक्तानाम् । यथाहुः - “पदावधारणोपायान्बहूनिच्छन्ति सूरयः । क्रमन्यूनातिरिक्तत्वस्वरवाक्यश्रुतिस्मृतीः” ॥ इति । शेषमतिरोहितार्थम् । दिङ्मात्रमत्र सूचितं, विस्तरस्तु तत्त्वबिन्दाववगन्तव्य इति । अलं वा नैयायिकैर्विवादेन ।

सन्त्वनित्या एव वर्णास्तथापि गत्वाद्यवच्छेदेनैव सङ्गतिग्रहोऽनादिश्च व्यवहारः सेत्स्यतीत्याह -

अथापि नामेति ॥ २८ ॥

अत एव च नित्यत्वम् ।

ननु प्राच्यामेव मीमांसायां वेदस्य नित्यत्वं सिद्धं तत्किं पुनः साध्यत इत्यत आह -

स्वतन्त्रस्य कर्तुरस्मरणादेव हि स्थिते वेदस्य नित्यत्व इति ।

नह्यनित्याज्जगदुत्पत्तुमर्हति, तस्याप्युत्पत्तिमत्त्वेन सापेक्षत्वात् । तस्मान्नित्यो वेदः जगदुत्पत्तिहेतुत्वात् , ईश्वरवदिति सिद्धमेव नित्यत्वमनेन दृढीकृतम् । शेषमतिरोहितार्थम् ॥ २९ ॥

समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ।

शङ्कापदोत्तरत्वात्सूत्रस्य शङ्कापदानि पठति -

अथापि स्यादिति ।

अभिधानाभिधेयाविच्छेदे हि सम्बन्धनित्यत्वं भवेत् । एवमध्यापकाध्येतृपरम्पराविच्छेदे वेदस्य नित्यत्वं स्यात् । निरन्वयस्य तु जगतः प्रविलयेऽत्यन्तासतश्चापूर्वस्योत्पादेऽभिधानाभिधेयावत्यन्तमुच्छिन्नाविति किमाश्रयः सम्बन्धः स्यात् । अध्यापकाध्येतृसन्तानविच्छेदे च किमाश्रयो वेदः स्यात् । नच जीवास्तद्वासनावासिताः सन्तीति वाच्यम् । अन्तःकरणाद्युपाधिकल्पिता हि ते तद्विच्छेदे न स्थातुमर्हन्ति । नच ब्रह्मणस्तद्वासना, तस्य विद्यात्मनः शुद्धस्वभावस्य तदयोगात् । ब्रह्मणश्च सृष्ट्यादावन्तःकरणानि तदवच्छिन्नाश्छ जीवाः प्रादुर्भवन्तो न पूर्वकर्माविद्यावासनावन्तो भवितुमर्हन्ति, अपूर्वत्वात् । तस्माद्विरुद्धमिदं शब्दार्थसम्बन्धवेदनित्यत्वं सृष्टिप्रलयाभ्युपगमेनेति । अभिधातृग्रहणेनाध्यापकाध्येतारावुक्तौ ।

शङ्कां निराकर्तुं सूत्रमवतारयति -

तत्रेदमभिधीयते समाननामरूपत्वादिति ।

यद्यपि महाप्रलयसमये नान्तःकरणादयः समुदाचरद्वृत्तयः सन्ति तथापि स्वकारणेऽनिर्वाच्यायामविद्यायां लीनाः सूक्ष्मेण शक्तिरूपेण कर्मविक्षेपकाविद्यावासनाभिः सहावतिष्ठन्त एव । तथा च स्मृतिः - “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥”(म.स्मृ. १.५.) इति । ते चावधिं प्राप्य परमेश्वरेच्छाप्रचोदिता यथा कूर्मदेहे निलीनान्यङ्गानि ततो निःसरन्ति, यथा वा वर्षापाये प्राप्तमृद्भावानि मण्डूकशरीराणि तद्वासनावासिततया घनघनाघनासारावसेकसुहितानि पुनर्मण्डूकदेहभावमनुभवन्ति, तथा पूर्ववासनावशात्पूर्वसमाननामरूपाण्युत्पद्यन्ते । एतदुक्तं भवति - यद्यपीश्वरात्प्रभवः संसारमण्डलस्य, तथापीश्वरः प्राणभृत्कर्माविद्यासहकारी तदनुरूपमेव सृजति । नच सर्गप्रलयप्रवाहस्यानादितामन्तरेणैतदुपपद्यत इति सर्गप्रलयाभ्ययुपगमेऽपि संसारानादिता न विरुध्यत इति ।

तदिदमुक्तम् -

उपपद्यते चाप्युपलभ्यते च ।

आगमत इति ।

स्यादेतत् । भवत्वनादिता संसारस्य, तथापि महाप्रलयान्तरिते कुतः स्मरणं वेदानामित्यत आह -

अनादौ च संसारे यथा स्वापप्रबोधयोरिति ।

यद्यपिप्राणमात्रावशेषतातन्निःशेषते सुषुप्तप्रलयावस्थयोर्विशेषः, तथापि कर्मविक्षेपसंस्कारसहितलयलक्षणा विद्यावशेषतासाम्येन स्वापप्रलयावस्थयोरभेद इति द्रष्टव्यम् । ननु नापर्यायेण सर्वेषां सुषुप्तावस्था, केषाञ्चित्तदा प्रबोधात् , तेभ्यश्च सुप्तोत्थितानां ग्रहणसम्भवात् , प्रायणकालविप्रकर्षयोश्च वासनोच्छेदकारणयोरभावेन सत्यां वासनायां स्मरणोपपत्तेः शब्दार्थसम्बन्धवेदव्यहारानुच्छेदो युज्यते ।

महाप्रलयस्त्वपर्यायेण प्राणभृन्मात्रवर्ती, प्रायणकालविप्रकर्षौ च तत्र संस्कारमात्रोच्छेदहेतू स्त इति कुतः सुषुप्तवत्पूर्वप्रबोधव्यवहारवदुत्तरप्रबोधव्यवहार इति चोदयति -

स्यादेतत् । स्वाप इति ।

परिहरति -

नैष दोषः । सत्यपि व्यवहारोच्छेदिनीति ।

अयमभिसन्धिः - न तावत्प्रायणकालविप्रकर्षौ सर्वसंस्कारोच्छेदकौ, पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेरनुपपत्तेः । मनुष्यजन्मवासनानां चानेकजात्यन्तरसहस्रव्यवहितानां पुनर्मनुष्यजातिसंवर्तकेन कर्मणाभिव्यक्त्यभावप्रसङ्गात् । तस्मान्निकृष्टधियामपि यत्र सत्यपि प्रायणकालविप्रकर्षादौ पूर्ववासनानुवृत्तिः, तत्र कैव कथा परमेश्वरानुग्रहेण धर्मज्ञानवैराग्यैश्वर्यातिशयसम्पन्नानां हिरण्यगर्भप्रभृतीनां महाधियाम् । यथावा आ च मनुष्येभ्य आ च कृमिभ्यो ज्ञानादीनामनुभूयते निकर्षः, एवमा मनुष्येभ्य एव आ च भगवतो हिरण्यगर्भज्ज्ञानादीनां प्रकर्षोेऽपि सम्भाव्यते । तथाच तदभिवदन्तो वेदस्मृतिवादाः प्रामाण्यमप्रत्यूहमश्नुवते । एवं चात्रभवतां हिरण्यगर्भादीनां परमेश्वरानुगृहीतानामुपपद्यते कल्पान्तरसम्बन्धिनिखिलव्यवहारानुसन्धानमिति । सुगममन्यत् ।

स्यादेतत् । अस्तु कल्पान्तरव्यवहारानुसन्धानं तेषाम् । अस्यां तु सृष्टावन्य एव वेदाः, अन्य एव चैषामर्थाः, अन्य एव वर्णाश्रमाः, धर्माच्चानर्थोऽर्थश्चाधर्मात् , अनर्थश्चेप्सितोऽर्थश्चानीप्सितः अपूर्वत्वात्सर्गस्य । तस्मात्कृतमत्र कल्पान्तरव्यवहारानुसन्धानेन, अकिञ्चित्करत्वात् । तथा च पूर्वव्यवहारोच्छेदाच्छब्दार्थसम्बन्धश्च वेदश्चानित्यौ प्रसज्येयातामित्यत आह -

प्राणिनां च सुखप्राप्तय इति ।

यथावस्तुस्वभावसामर्थ्यं हि सर्गः प्रवर्तते, नतु स्वभावसामर्थ्यमन्यथयितुमर्हति । नहि जातु सुखं तत्त्वेन जिहास्यते, दुःखं चोपादित्स्यते । नच जातु धर्माधर्मयोः सामर्थ्याविपर्ययो भवति । नहि मृत्पिण्डात्पटः, घटश्च तन्तुभ्यो जायते । तथा सति वस्तुसामर्थ्यनियमाभावात्सर्वं सर्वस्माद्भवेदिति पिपासुरपि दहनमाहृत्य पिपासामुपशमयेत् , शीतार्तो वा तोयमाहृत्य शीतार्तिमिति । तेन सृष्ट्यन्तरेऽपि ब्रह्महत्यादिरनर्थहेतुरेवार्थहेतुश्च यागादिरित्यानुपूर्व्यं सिद्धम् । एवं य एव वेदा अस्मिन्कल्पे त एव कल्पान्तरे, त एव चैषामर्थाः त एव च वर्णाश्रमाः । दृष्टसाधर्म्यसम्भवे तद्वैधर्म्यकल्पनमनुमानागमविरुद्धम् । “आगमाश्चेह भूयांसो भाष्यकारेण दर्शिताः । श्रुतिस्मृतिपुराणाख्यास्तद्व्याकोपोऽन्यथा भवेत्” ॥

तस्मात्सुष्ठूक्तम् -

समाननामरूपत्वाच्चावृत्तावप्यविरोध इति ।

'अग्निर्वा अकामयत” इति भाविनीं वृत्तिमाश्रित्य यजमान एवाग्निरुच्यते । नह्यग्नेर्देवतान्तरमग्निरस्ति ॥ ३० ॥

मध्वादिष्वसम्भवादनधिकारं जैमिनिः ।

ब्रह्मविद्यास्वधिकारं देवर्षीणां ब्रुवाणः प्रष्टव्यो जायते, किं सर्वासु ब्रह्मविद्या स्वविशेषेण सर्वेषां किंवा कासुचिदेव केषाञ्चित् । यद्यविशेषेण सर्वासु, ततो मध्वादिविद्यास्वसम्भवः ।

कथम् । असौ वा आदित्यो देवमध्वित्यत्र हि मनुष्या आदित्यं मध्वध्यासेनोपासीरन् ।

उपास्योपासकभावो हि भेदाधिष्ठानो न स्वात्मन्यादित्यस्य देवतायाः सम्भवति । न चादित्यान्तरमस्ति । प्राचामादित्यानामस्मिन्कल्पे क्षीणाधिकारत्वात् ।

पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्युपक्रम्येति ।

अयमर्थः - “असौ वा आदित्यो देवमधु”(छा. उ. ३ । १ । १) इति देवानां मोदहेतुत्वान्मध्विव मधु । भ्रामरमधुसारूप्यमाहास्य श्रुतिः - “तस्य मधुनो द्यौरेव तिरश्चीनवंशः”(छा. उ. ३ । १ । १) । अन्तरिक्षं मध्वपूपः । आदित्यस्य हि मधुनोऽपूपः पटलमन्तरिक्षमाकाशं, तत्रावस्थानात् । यानि च सोमाज्यपयःप्रभृतीन्यग्नौ हूयते तान्यादित्यरश्मिभिरग्निसंवलितैरूत्पन्नपाकान्यमृतीभावमापन्नान्यादित्यमण्डलमृङ्मन्त्रमधुपैर्नीयन्ते । यथा हि भ्रमराः पुष्पेभ्य आहृत्य मकरन्दं स्वस्थानमानयन्त्येवमृङ्मन्त्रभ्रमराः प्रयोगसमवेतार्थस्मारणादिभिरृग्वेदविहितेभ्यः कर्मकुसुमेभ्य आहृत्य तन्निष्पन्नं मकरन्दमादित्यमण्डलं लोहिताभिरस्य प्राचीभी रश्मिनाडीभिरानयन्ति, तदमृतं वसव उपजीवन्ति । अथास्यादित्यमधुनो दक्षिणाभी रश्मिनाडीभिः शुक्लाभिर्यजुर्वेदविहितकर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नं यजुर्वेदमन्त्रभ्रमरा आदित्यमण्डलमानयन्ति, तदेतदमृतं रुद्रा उपजीवन्ति । अथास्यादित्यमधुनः प्रतीचीभी रश्मिनाडीभिः कृष्णाभिः सामवेदविहितकर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नं साममन्त्रस्तोत्रभ्रमरा आदित्यमण्डलमानयन्ति, तदमृतमादित्या उपजीवन्ति । अथास्यादित्यमधुन उदीचिभिरतिकृष्णाभी रश्मिनाडीभिरथर्ववेदविहितेभ्यः कर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नमथर्वाङ्गिरसमन्त्रभ्रमराः, तथाश्वमेधवाचःस्तोमकर्मकुसुमात् इतिहासपुराणमन्त्रभ्रमरा आदित्यमण्डलमानयन्ति । अश्वमेधे वाचःस्तोमे च पारिप्लवं शंसन्ति इति श्रवणादितिहासपुराणमन्त्राणामप्यस्ति प्रयोगः । तदमृतं मरुत उपजीवन्ति । अथास्य या आदित्यमधुन ऊर्ध्वा रश्मिनाड्यो गोप्यास्ताभिरुपासनभ्रमराः प्रणवकुसुमादाहृत्यादित्यमण्डलमानयन्ति, तदमृतमुपजीवन्ति साध्याः । ता एता आदित्यव्यपाश्रयाः पञ्च रोहितादयो रश्मिनाड्य ऋगादिसम्बद्धाः क्रमेणोपदिश्येति योजना । एतदेवामृतं दृष्ट्वोपलभ्य यथास्वं समस्तैः करणैर्यशस्तेज इन्द्रियसाकल्यवीर्यान्नाद्यान्यमृतं तदुपलभ्यादित्ये तृप्यति । तेन खल्वमृतेन देवानां वस्वादीनां मोदनं विदधदादित्यो मधु । एतदुक्तं भवति - न केवलमुपास्योपासकभाव एकस्मिन्विरुध्यते, अपि तु ज्ञातृज्ञेयभावश्च प्राप्यप्रापकभावश्चेति ।

तथाग्निः पाद इति ।

अधिदैवतं खल्वाकाशे ब्रह्मदृष्टिविधानार्थमुक्तम् । आकाशस्य हि सर्वगतत्वं रूपादिहीनत्वे च ब्रह्मणा सारूप्यं, तस्य चैतस्याकाशस्य ब्रह्मणश्चत्वारः पादा अग्न्यादयः “अग्निः पादः” इत्यादिना दर्शिताः । यथा हि गोः पादा न गवा वियुज्यन्त, एवमग्न्यादयोऽपि नाकाशेन सर्वगतेनेत्याकाशस्य पादाः ।

तदेवमाकाशस्य चतुष्पदो ब्रह्मदृष्टिं विधाय स्वरूपेण वायुं संवर्गगुणकमुपास्यं विधातुं महीकरोति -

वायुर्वाव संवर्गः ।

तथा स्वरूपेणैवादित्यं ब्रह्मदृष्ट्योपास्यं विधातुं महीकरोति -

आदित्यो ब्रह्मेत्यादेशः

उपदेशः । अतिरोहितार्थमन्यत् ॥ ३१ ॥

यद्युच्येत नाविशेषेण सर्वेषां देवर्षीणां सर्वासु ब्रह्मविद्यास्वधिकारः, किन्तु यथासम्भवमिति । तत्रेदमुपतिष्ठते -

ज्योतिषि भावाच्च ।

लौकिकौ ह्यादित्यादिशब्दप्रयोगप्रत्ययौ ज्योतिर्मण्डलादिषु दृष्टौ । न चैतेषामस्ति चैतन्यम् । नह्येतेषु देवदत्तादिवत्तदनुरूपा दृश्यन्ते चेष्टाः ।

स्यादेतत् । मन्त्रार्थवादेतिहासपुराणलोकेभ्य इति ।

तत्र “जगृभ्माते दक्षिणमिन्द्रहस्तम्” इति च, “काशिरिन्द्र इत्” इति च । काशिर्मुष्टिः । तथा “तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे । इन्द्रो वृत्राणि जिघ्नते”(ऋ.सं. ८-७-१७) इति विग्रहवत्त्वं देवताया मन्त्रार्थवादा अभिवदन्ति । तथा हविर्भोजनं देवताया दर्शयन्ति - “अद्धीन्द्र पिब च प्रस्थितस्य”(ऋ.सं. १०-११६-७) इत्यादयः । तथेशनम् - “इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् । इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः”(ऋ.सं. १०-८९-१०) इति, तथा “ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः”(ऋ.सं. ७-३२-२२) इति । तथा वरिवसितारं प्रति देवतायाः प्रसादं प्रसन्नायाश्च फलदानं दर्शयति “आहुतिभिरेव देवान् हुतादः प्रीणाति तस्मै प्रीता इषमूर्जं च यच्छन्ति” इति, “तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति” इति च । धर्मशास्त्रकारा अप्याहुः - “ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः” । इति पुराणवचांसि च भूयांसि देवताविग्रहादिपञ्चकप्रपञ्चमापक्षते । लौकिका अपि देवताविग्रहादिपञ्चकं स्मरन्ति चोपचरन्ति च । तथाहि - यमं दण्डहस्तमालिखन्ति, वरुणं पाशहस्तम् , इन्द्रं वज्रहस्तम् । कथयन्ति च देवता हविर्भुज इति । तथेशनामिमामाहुः - देवग्रामो देवक्षेत्रमिति । तथास्याः प्रसादं च प्रसन्नायाश्च फलदानमाहुः - प्रसन्नोऽस्य पशुपतिः पुत्रोऽस्य जातः । प्रसन्नोऽस्य धनदो धनमनेन लब्धमिति ।

तदेतत्पूर्वपक्षी दूषयति -

नेत्युच्यते । नहि तावल्लोको नामेति ।

न खलुप्रत्यक्षादिव्यतिरिक्तो लोको नाम प्रमाणान्तरमस्ति, किन्तु प्रत्यक्षादिमूला लोकप्रसिद्धिः सत्यतामश्नुते, तदभावे त्वन्धपरम्परावन्मूलाभावाद्विपल्वते । नच विग्रहादौ प्रत्यक्षादीनामन्यतममस्ति प्रमाणम् । न चेतिहासादि मूलं भवितुमर्हति, तस्यापि पौरुषेयत्वेन प्रत्यक्षाद्यपेक्षणात् ।

प्रत्यक्षादीनां चात्राभावादित्याह -

इतिहासपुराणमपीति ।

ननूक्तं मन्त्रार्थवादेभ्यो विग्रहादिपञ्चकप्रसिद्धिरिति, अत आह -

अर्थवादा अपीति ।

विध्युद्देशेनैकवाक्यतामापद्यमाना अर्थवादा विधिविषयप्राशस्त्यलक्षणापरा न स्वार्थे प्रमाणं भवितुमर्हन्ति । “यत्परः शब्दः स शब्दार्थः” इति हि शाब्दन्यायविदः । प्रमाणान्तरेण तु यत्र स्वार्थेऽपि समर्थ्यते, यथा वायोः क्षेपिष्ठत्वम् , तत्र प्रमाणान्तरवशात्सोऽभ्युपेयते न तु शब्दसामर्थ्यात् । यत्र तु न प्रमाणान्तरमस्ति, यथा विग्रहादिपञ्चके, सोऽर्थः शब्दादेवावगन्तव्यः । अतत्परश्च शब्दो न तदवगमयुतिमलमिति । तदवगमपरस्य तत्रापि तात्पर्यमभ्युपेतव्यम् । न चैकं वाक्यमुभयपरं भवतीति वाक्यं भिद्येत । नच सम्भवत्येकवाक्यत्वे वाक्यभेदो युज्यते । तस्मात्प्रमाणान्तरानधिगता विग्रहादिमत्ता अन्यपराच्छब्दादवगन्तव्येति मनोरथमात्रमित्यर्थः । मन्त्राश्च व्रीह्यादिवच्छ्रुत्यादिभिस्तत्र तत्र विनियुज्यमानाः प्रमाणभावाननुप्रवेशिनः कथमुपयुज्यन्तां तेष तेषु कर्मस्वित्यपेक्षायां दृष्टे प्रकारे सम्भवति नादृष्टकल्पनोचिता । दृष्टश्च प्रकारः प्रयोगसमवेतार्थस्मारणं, स्मृत्या चानुतिष्ठन्ति खल्वनुष्ठातारः पदार्थान् । औत्सर्गिकी चार्थपरता पदानामित्यपेक्षितप्रयोगसमवेतार्थस्मरणतात्पर्याणां मन्त्राणां नानधिगते विग्रहादावपि तात्पर्यं युज्यत इति न तेभ्योऽपि तत्सिद्धिः । तस्माद्देवताविग्रहवत्तादिभावग्राहकप्रमाणाभावात् प्राप्ता षष्ठप्रमाणगोचरतास्येति प्राप्तम् ॥ ३२ ॥

एवं प्राप्तेऽभिधीयते -

भावं तु बादरायणोऽस्ति हि ।

तुशब्दः पूर्वपक्षं व्यावर्तयतिइत्यन्तम्

इत्यादि

भूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यते

इत्यन्तम् अतिरोहितार्थम् ।

मन्त्रार्थवादादिव्यवहारादिति ।

आदिग्रहणेनेतिहासपुराणधर्मशास्त्राणि गृह्यन्ते । मन्त्रादीनां व्यवहारः प्रवृत्तिस्तस्य दर्शनादिति ।

पूर्वपक्षमनुभाषते -

यदप्युक्तमिति ।

एकदेशिमतेन तावत्परिहरति -

अत्र ब्रूम इति ।

तदेतत्पूर्वपक्षिणमुत्थाप्य दूषयति -

अत्राह

पूर्वपक्षी । शाब्दी खल्वियं गतिः, यत्तात्पर्याधीनवृत्तित्वं नाम । नह्यन्यपरः शब्दोऽन्यत्र प्रमाणं भवितुमर्हति । नहि श्वित्रिनिर्णेजनपरं श्वेतो धावतीति वाक्यमितः सारमेयगमनं गमयितुमर्हति । नच नञ्वति महावाक्येऽवान्तरवाक्यार्थो विधिरूपः शक्योऽवगन्तुम् । नच प्रत्ययमात्रात्सोऽप्यर्थोऽस्य भवति, तत्प्रत्ययस्य भ्रान्तित्वात् । न पुनः प्रत्यक्षादीनामियं गतिः । नह्युदकाहरणार्थिना घटदर्शनायोन्मीलितं चक्षुर्घटपटौ वा पटं वा केवलं नोपलभते ।

तदेवमेकदेशिनि पूर्वपक्षिणा दूषिते परमसिद्धान्तवाद्याह -

अत्रोच्यते विषम उपन्यास इति ।

अयमभिसन्धिः - लोके विशिष्टार्थप्रत्यायनाय पदानि प्रयुक्तानि तदन्तरेण न स्वार्थमात्रस्मारणे पर्यवस्यन्ति । नहि स्वार्थस्मारणमात्राय लोके पदानां प्रयोगो दृष्टपूर्वः । वाक्यार्थे तु दृश्यते । न चैतान्यस्मारितस्वार्थानि साक्षाद्वाक्यार्थं प्रत्याययितुमीशते इति स्वार्थस्मारणं वाक्यार्थमितयेऽवान्तरव्यापारः कल्पितः पदानाम् । नच यदर्थं यत्तत्तेन विना पर्यवस्यतीति न स्वार्थमात्रभिधाने पर्यवसानं पदानाम् । नच नञ्वति वाक्ये विधानपर्यवसानम् । तथा सति नञ्पदमनर्थकं स्यात् । यथाहुः - “साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णास्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले ॥ वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्” ॥ इति । सेयमेकस्मिन्वाक्ये गतिः । यत्र तु वाक्यस्यैकस्य वाक्यान्तरेण सम्बन्धस्तत्र लोकानुसारतो भूतार्थव्युत्पत्तौ च सिद्धायामेकैकस्य वाक्यस्य तत्तद्विशिष्टार्थप्रत्यायनेन पर्यवसितवृत्तिनः पश्चात्कुतश्चिद्धेतोः प्रयोजनान्तरापेक्षायामन्वयः कल्प्यते । यथा “वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति वायव्यं श्वेतमालभेत”(कृ.य. २.१.१) इत्यत्र । इह हि यदि न स्वाध्यायाध्ययनविधिः स्वाध्यायशब्दवाच्यं वेदराशिं पुरुषार्थतामनेष्यत्ततो भूतार्थमात्रपर्यवसिता नार्थवादा विध्युद्देशेनैकवाक्यतामागमिष्यन् । तस्मात् स्वाध्यायविधिवशात्कैमर्थ्याकाङ्क्षायां वृत्तान्तादिगोचराः सन्तस्तत्प्रत्यायनद्वारेण विधेयप्राशस्त्यं लक्षयन्ति, न पुनरविवक्षितस्वार्था एव तल्लक्षणे प्रभवन्ति, तथा सति लक्षणैव न भवेत् । अभिधेयाविनाभावस्य तद्बीजस्याभावात् । अत एव गङ्गायां घोष इत्यत्र गङ्गाशब्दः स्वार्थसम्बद्धमेव तीरं लक्षयति न तु समुद्रतीरं, तत्कस्य हेतोः, स्वार्थप्रत्यासत्त्यभावात् । न चैतत्सर्वं स्वार्थाविवक्षायां कल्पते । अत एव यत्र प्रमाणान्तरविरुद्धार्था अर्थवादा दृश्यन्ते, यथा - ‘आदित्यो वै यूपः’ ‘यजमानः प्रस्तरः’ इत्येवमादयः, तत्र यथा प्रमाणान्तराविरोधः, यथा च स्तुत्यर्थता, तदुभयसिद्ध्यर्थं “गुणवादस्तु”(जै.सू. १।२।१० ) इति च “तत्सिद्धिः” इति चासूत्रयज्जैमिनिः । तस्माद्यत्र सोऽर्थोऽर्थवादानां प्रमाणान्तरविरुद्धस्तत्र गुणवादेन प्राशस्त्यलक्षणेति लक्षितलक्षणा । यत्र तु प्रमाणान्तरसंवादस्तत्र प्रमाणान्तरादिवार्थवादादपि सोऽर्थः प्रसिध्यति, द्वयोः परस्परानपेक्षयोः प्रत्यक्षानुमानयोरिवैकत्रार्थे प्रवृत्तेः । प्रमात्रपेक्षया त्वनुवादकत्वम् । प्रमाता ह्यव्युत्पन्नः प्रथमं यथा प्रत्यक्षादिभ्योऽर्थमवगच्छति न तथाम्नायतः, तत्र व्युत्पत्त्याद्यपेक्षत्वात् । नतु प्रमाणापेक्षया, द्वयोः स्वार्थेऽनपेक्षत्वादित्युक्तम् । नन्वेवं मानान्तरविरोधेऽपि कस्माद्गुणवादो भवति, यावता शब्दविरोधे मानान्तरमेव कस्मान्न बाध्यते, वेदान्तैरिवाद्वैतविषयैः प्रत्यक्षादयः प्रपञ्चगोचराः, कस्माद्वाऽर्थवादवद्वेदान्ता अपि गुणवादेन न नीयन्ते । अत्रोच्यते - लोकानुसारतो द्विविधो हि विषयः शब्दानाम् , द्वारतश्च तात्पर्यतश्च । यथैकस्मिन्वाक्ये पदानां पदार्था द्वारतो वाक्यार्थश्च तात्पर्यतो विषयः एवं वाक्यद्वयैकवाक्यतायामपि । यथेयं देवदत्तीया गौः क्रेतव्येत्येकं वाक्यम् , एषा बहुक्षीरेत्यपरं तदस्य बहुक्षीरत्वप्रतिपादनं द्वारम् । तात्पर्यं तु क्रेतव्येति वाक्यान्तरार्थे । तत्र यद्द्वारतस्तत्प्रमाणान्तरविरोधेऽन्यथा नीयते । यथा विषं भक्षयेति वाक्यं मा अस्य गृहे भुङ्क्ष्वेति वाक्यान्तरार्थपरं सत् । यत्र तु तात्पर्यं तत्र मानान्तरविरोधे पौरुषेयप्रमाणमेव भवति । वेदान्तास्तु पौर्वापर्यपर्यालोचनया निरस्तसमस्तभेदप्रपञ्चब्रह्मप्रतिपादनपरा अपौरुषेयता स्वतःसिद्धतात्त्विकप्रमाणभावाः सन्तस्त्तात्त्विकप्रमाणभावात्प्रत्यक्षादीनि प्रच्याव्य सांव्यवहारिके तस्मिन्व्यवस्थापयन्ति । न च ‘आदित्यो वै यूपः’ इति वाक्यमादित्यस्य यूपत्वप्रतिपादनपरमपि तु यूपस्तुतिपरम् । तस्मात्प्रमाणान्तरविरोधे द्वारीभूतो विषयो गुणवादेन नीयते । यत्र तु प्रमाणान्तरं विरोधकं नास्ति, यथा देवताविग्रहादौ, तत्र द्वारतोऽपि विषयः प्रतीयमानो न शक्यस्त्यक्तुम् । नच गुणवादेन नेतुं, को हि मुख्ये सम्भवति गौणमाश्रयेदतिप्रसङ्गात् । तथा सत्यनधिगतं विग्रहादि प्रतिपादयत् वाक्यं भिद्येतेति चेत् अद्धा । भिन्नमेवैतद्वाक्यम् । तथा सति तात्पर्यभेदोऽपीति चेत् । न । द्वारतोऽपि तदवगतौ तात्पर्यान्तरकल्पनाऽयोगात् । नच यस्य यत्र न तात्पर्यं तस्य तत्राप्रामाण्यं, तथा सति विशिष्टपरं वाक्यं विशेषणेष्वप्रमाणमिति विशिष्टपरमपि न स्यात् , विशेषणाविषयत्वात् । विशिष्टविषयत्वेन तु तदाक्षेपे परस्पराश्रयत्वम् । आक्षेपाद्विशेषणप्रतिपत्तौ सत्यां विशिष्टविषयत्वं विशिष्टविषयत्वाच्च तदाक्षेपः । तस्माद्विशिष्टप्रत्ययपरेभ्योऽपि विशेषणानि प्रतीयमानानि तस्यैव वाक्यस्य विषयत्वेनानिच्छताप्यभ्युपेयानि यथा, तद्यान्यपरेभ्योऽप्यर्थवादवाक्येभ्यो देवताविग्रहादयः प्रतीयमाना असति प्रमाणान्तरविरोधे न युक्तास्त्यक्तुम् । नहि मुख्यार्थसम्भवे गुणवादो युज्यते । नच भूतार्थमप्यपौरुषेयं वचो मानान्तरापेक्षं स्वार्थे, येन मानान्तरासम्भवे भवेदप्रमाणमित्युक्तम् । स्यादेतत् । तात्पर्यैक्येऽपि यदि वाक्यभेदः, कथं तर्ह्यर्थैकत्वादेकं वाक्यम् । न । तत्र तत्र यथास्वं तत्तत्पदार्थविशिष्टैकपदार्थप्रतीतिपर्यवसानसम्भवात् । स तु पदार्थान्तरविशिष्टः पदार्थ एकः क्वचिद्द्वारभूतः क्वचिद्द्वारीत्येतावान् विशेषः । नन्वेवं सति ओदनं भुक्त्वा ग्रामं गच्छतीत्यत्रापि वाक्यभेदप्रसङ्गः । अन्यो हि संसर्ग ओदनं भुक्त्वेति, अन्यस्तु ग्रामं गच्छतीति । न । एकत्र प्रतीतेरपर्यवसानात् । भुक्त्वेति हि समानकर्तृकता पूर्वकालता च प्रतीयते । न चेयं प्रतीतिरपरकालक्रियान्तरप्रत्ययमन्तरेण पर्यवस्यति । तस्माद्यावति पदसमूहे पदाहिताः पदार्थस्मृतयः पर्यवसन्ति तावदेकं वाक्यम् । अर्थवादवाक्ये चैताः पर्यवस्यन्ति विनैव विधिवाक्यं विशिष्टार्थप्रतीतेः । न च द्वाभ्यां द्वाभ्यां पदाभ्यां विशिष्टार्थप्रत्ययपर्यवसानात् पञ्चषट्पदवति वाक्ये एकस्मिन्नानात्वप्रसङ्गः । नानात्वेऽपि विशेषणानां विशेष्यस्यैकत्वात् , तस्य च सकृच्चछ्रुतस्य प्रधानभूतस्य गुणभूतविशेषणानुरोधेनावर्तनायोगात् । प्रधानभेदे तु वाक्यभेद एव । तस्माद्विधिवाक्यादर्थवादवाक्यमन्यदिति वाक्ययोरेव स्वस्ववाक्यार्थप्रत्ययावसितव्यापारयोः पश्चात्कुतश्चिदपेक्षायां परस्परान्वय इति सिद्धम् ।

अपि च विधिभिरेवेन्द्रादिदैवत्यानीति ।

देवतामुद्दिश्य हविरवमृश्य च तद्विषयस्वत्वत्याग इति यागशरीरम् । नच चेतस्यनालिखिता देवतोद्देष्टुं शक्या । नच रूपरहिता चेतसि शक्यत आलेखितुमिति यागविधिनैव तद्रूपापेक्षिणा यादृशमन्यपरेभ्योऽपि मन्त्रार्थवादेभ्यस्तद्रूपमवगतं तदभ्युपेयते, रूपान्तरकल्पनायां मानाभावात् । मन्त्रार्थवादयोरत्यन्तपरोक्षवृत्तिप्रसङ्गाच्च । यथा हि “व्रात्यो व्रात्यस्तोमेन यजते” इति व्रात्यस्वरूपापेक्षायां यस्य पिता पितामहो वा सोमं न पिबेत् स व्रात्य इति व्रात्यस्वरूपमवगतं व्रात्यस्तोमविध्यपेक्षितं सद्विधिप्रमाणकं भवति, यथा वा स्वर्गस्य रूपमलौकिकं ‘स्वर्गकामो यजेत’ इति विधिनापेक्षितं सदर्थवादतोऽवगम्यमानं विधिप्रमाणकम् , तथा देवतारूपमपि । ननूद्देशो रूपज्ञानमपेक्षते न पुना रूपसत्तामपि, देवतायाः समारोपेणापि च रूपज्ञानमुपपद्यत इति समारोपितमेव रूपं देवताया मन्त्रार्थवादैरुच्यते । सत्यं, रूपज्ञानमपेक्षते । तच्चान्यतोऽसम्भवान्मन्त्रार्थवादेभ्य एव । तस्य तु रूपस्यासति बाधकेऽनुभवारूढं तथाभावं परित्यज्यान्यथात्वमननुभूयमानमसाम्प्रतं कल्पयितुम् । तस्माद्विध्यपेक्षितमन्त्रार्थवादैरन्यपरैरपि देवतारूपं बुद्धावुपनिधीयमानं विधिप्रमाणकमेवेति युक्तम् ।

स्यादेतत् । विध्यपेक्षायामन्यपरादपि वाक्यादवगतोऽर्थः स्वीक्रियते, तदपेक्षैव तु नास्ति, शब्दरूपस्य देवताभावात् , तस्य च मानान्तरवेद्यत्वादित्यत आह -

न च शब्दमात्रमिति ।

न केवलं - मन्त्रार्थवादतो विग्रहादिसिद्धिः, अपि तु इतिहासपुराणलोकस्मरणेभ्यो मन्त्रार्थवादमूलेभ्यो वा प्रत्यक्षादमूलेभ्यो वेत्याह -

इतिहासेति । श्लिष्यते

युज्यते । निगदमात्रव्याख्यातमन्यत् । तदेवं मन्त्रार्थवादादिसिद्धे देवताविग्रहादौ गुर्वादिपूजावद्देवतापूजात्मको यागो देवताप्रसादादिद्वारेण सफलोऽवकल्पते । अचेतनस्य तु पूजामप्रतिपद्यमानस्य तदनुपपत्तिः । न चैवं यज्ञकर्मणो देवतां प्रति गुणभावाद्देवतातः फलोत्पादे यागभावनायाः श्रुतं फलवत्त्वं यागस्य च तां प्रति तत्फलांशं वा प्रति श्रुतं करणत्वं हातव्यम् । यागभावनाया एव हि फलवत्या यागलक्षणस्वकरणावान्तरव्यापारत्वाद्देवताभोजनप्रसादादीनाम् , कृषिकर्मण इव तत्तदवान्तरव्यापारस्य सस्याधिगमसाधनत्वम् । आग्नेयादीनामिवोत्पत्तिपरमापूर्वावान्तरव्यापाराणां भवन्मते स्वर्गसाधनत्वम् । तस्मात्कर्मणोऽपूर्वावान्तरव्यापारस्य वा देवताप्रसादावान्तरव्यापारस्य वा फलवत्त्वात् प्रधानत्वमुभयस्मिन्नपि पक्षे समानं, नतु देवताया विग्रहादिमत्याः प्राधान्यमिति न धर्ममीमांसायाः सूत्रम् - “अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं गुणत्वे देवताश्रुतिः”(जै.सू. ९.१.९) इति विरुध्यते । तस्मात्सिद्धो देवतानां प्रायेण ब्रह्मविद्यास्वधिकार इति ॥ ३३ ॥

न खल्विति ; मनुष्येति ; संभवे चेति ; हन्तेति ; इच्छामात्रेति ; भूतवशिनां हीति ; असक्ताश्चेति ; वैश्वदेवेति ; शस्त्रस्येति ; एतावन्त इति ; तद्वृत्तित्वादिति ; अशनिरिन्द्र इत्यादिना ; एत एवेति ; स एवेति ; अनेकत्रेति ॥२७॥ ; गोत्वादिवदिति ; प्रमाणान्तरापेक्षवाक्यत्वादिति ; आक्षिपतीति ; अयमिति ; न तावदित्यादिना ; न हीति ; अर्थप्रत्ययादिति ; न च तदेवेति ; न हीति ; सत्तेति ; नानेति ; तं चेति ; न च पदप्रत्ययवदिति ; एवं हीति ; द्विधेति ; न चेदमिति ; अत एवेति ; यत इति ; तत्रेति ; न चेति ; न चैष इति ; चोदक इति ; इदं तावदिति ; ते चेति ; न चेति ; व्यञ्जकध्वनीति ; न चायमिति ; पदतत्त्वमिति ; सादृश्योपधानेति ; अन्योन्येति ; तुल्यस्थानेति ; प्रत्येकमिति ; प्रयत्नभेदेत्युक्तम् ; कल्पिता एवेति ; तत्किमिति ; अथवेति ; तस्मादिति ; न हीति ; नन्वित्यादिना ; पदावधारणेति ; स्वतन्त्रस्येति ; नित्यो वेद इति ; न च ब्रह्मण इति ; ब्रह्मणश्चेति ; शक्तिरूपेणेति ; पराक्रान्तं चात्र सूरिभिरिति ; यथा वेति ; एतदुक्तमिति ; न च सर्गेति ; स्यादेतदिति ; यद्यपीति ; न हीति ; ब्रह्मविद्यास्विति ; असाविति ; देवानामित्यादिना ; पटलमिति ; तत्रेति ; यानि चेति ; यानि चेति ; यथा हि भ्रमरा इति ; अथास्येत्यादिना ; अतिकृष्णाभिरिति ; अथर्वाङ्गिरसेति ; तथाश्वमेधेति ; अश्वमेधेति ; ऊर्ध्वा इति ; ता एता इति ; उपलभ्येति ; इन्द्रियसाकल्येति ; न केवलमिति ; यद्युच्येतेति ; इदिति ; दृष्टे प्रकारे इति ; दृष्टश्चेति ; स्मृत्वा चेति ; औत्सर्गिकी चेति ; न चेति ; न पुनरिति ; अयमभिसन्धिरिति ; न हीति ; वाक्यार्थे त्विति ; न च नञ्वतीति ; यत्र त्विति ; लोकानुसारत इति ; भूतार्थेति ; कुतश्चिद्धेतोरिति ; इह हीति ; अत एवेति ; गुणवादस्त्विति ; तस्माद्यत्रेति ; यत्र त्विति ; प्रमात्रपेक्षयेति ; नन्वेवमिति ; अत्रोच्यत इत्यादिना ; अद्धेति ; तथा सतीति ; नेति ; न चेति ; विशिष्टविषयत्वेनेति ; तस्मादिति ; न च भूतार्थमपीति ; स्यादेतदिति ; नेति ; स त्विति ; नन्वेवं सतीत्यादिना ; न च द्वाभ्यामित्यादिना ; प्रधानभेदे त्विति ; देवतामुद्दिश्येत्यादिना ; रूपान्तरेति ; तदेवमिति ; अचेतनस्येति ; न चैवमिति ; यागेति ; यो ब्रह्माणमिति ; प्रहिणोति ; यो ह वा इति ; ते होचुरिति ;

देवताधिकरणविषयाः

तदुपर्यपि बादरायणः संभवात्॥२६॥ अधिकारचिन्तेयं यद्यपि न देवादिप्रवृत्यर्था, तथापि क्रममुक्तिफलोपास्तिषु भोगद्वारा मोक्षकाममनुष्यप्रवृत्यर्था इन्द्रियार्थेति कामादेरुपलक्षणम्। ननु स्वयं प्रतिभानावसरे गुरुमुखाद्वेदग्रहणाभावादपुरुषार्थत्वं ज्ञानस्यात आह –

न खल्विति ।

स्मर्यमाणः फलवद्ब्रह्मावबोधहेतुरित्यनुषङ्गः॥२६॥ चतुर्थ्यन्तशब्दप्रतीतमात्रं शब्दोपहितं तादृगर्थनियमितः शब्दो वा देवता। स्वर्गादिसाधनत्वं यागादीनां लोके अदृष्टत्वाद्वेदेऽप्यदृष्टमिति प्रसज्येत तन्मा भूदित्यर्थः।

अदर्शनाद्वाधाद्वेति विकल्पयोः आद्यं निरस्य, द्वितीयं शङ्कते -

मनुष्येति ।

देवादयो न शरीरिणः, मातापितृरहितत्वाद् घटवत्।

विपक्षे दण्डमाह –

संभवे चेति ।

यूकादावनेकान्तत्वमाह –

हन्तेति ।

ननु यूकादेः स्वेदाद्यस्ति देहहेतुः, न तु देवानां; तथा चेच्छामात्रं हेतुर्वाच्यः, स चायुक्त इत्याह –

इच्छामात्रेति ।

भूतानामधिष्ठात्रभावादनारम्भकत्वमाशङ्क्याह –

भूतवशिनां हीति ।

पर्वतादिव्यवहितानां दूरस्थत्वेन विप्रकृष्टानां च भूतानामदर्शनात् देवादीनामनधिष्ठातृत्वमिति न वाच्यम्; काचाख्यधातुना मेघसमूहेन च च्छन्नस्य दूरस्थस्यापि दर्शनादित्यर्थः।

ननु स्वच्छत्वात् काचादीनामस्मदादिदृगव्यवधायकत्वं, शैलभूम्यादयस्तु देवादीनां व्यवधायका इत्याशङ्क्य प्रभाववशान्नेत्याह –

असक्ताश्चेति ।

अप्रतिबद्धा इत्यर्थः। प्रभवताम् ईश्वराणाम्। कति देवा याज्ञवल्क्येत्येतावान् प्रश्नः शाकल्यस्य।

स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शतेत्याद्युत्तरे एवकारदर्शनात् प्रश्नेऽपि निविदि कतीति विवक्षितमित्याह –

वैश्वदेवेति ।

श्रुतिगतवैश्वदेवपदस्य व्याख्या –

शस्त्रस्येति ।

त्री त्रीणि सहस्राणि । निवेद्यते ज्ञाप्यते संख्याऽनयेति निवित्।

एतावन्त इति ।

त्र्यधिकत्रिशतानि त्र्यधिकत्रिसहस्राणि चेत्यर्थः। महिमानो विस्ताराः।

इन्द्रियेषु प्राणशब्दस्य प्रवृत्तौ निमित्तमाह -

तद्वृत्तित्वादिति ।

तस्मात्प्राणाद्वृत्तिर्वर्तनं येषां ते तथा।

श्रुतौ त्रयस्त्रिंशतां पूरणौ इन्द्रप्रजापती उक्तौ, तौ च स्तनयित्नुयज्ञत्वेन व्याख्यातौ, पुनः कतमः स्तनयित्नुः कतमो यज्ञ इति पृष्ट्वा यथाक्रममशनिरिति पशव इति च प्रयुक्तं तदुपपादयति –

अशनिरिन्द्र इत्यादिना ।

सा ह्यशनिरिन्द्रस्य परमेशना परमैश्वर्यम्। अरूपं यज्ञं द्रव्यतया रूपयन्तो यज्ञस्य रूपं पशवस्ते प्रजापतिरित्यर्थः।

षडाद्यन्तर्भावक्रमेणेति भाष्यं व्याचष्टे –

एत एवेति ।

पवते पुनाति जगत्। अध्यर्धशब्द एकस्मिन्नपि यौगिकः।

स ब्रह्म त्यद् इत्याचक्षत इति वाक्यं व्याचष्टे -

स एवेति ।

प्राप्तिः अङ्गुल्यग्रेण चन्द्रादिस्पर्शः। प्राकाम्यमिच्छानभिघातः, यथा भूमावुदक इवोन्मज्जनादि। ईशित्वं भूतभौतिकानामुत्पत्तिलयादावैश्वर्यम्। वशित्वं तेषां नियन्तृत्वम्। यत्र कामावसायिता नाम संकल्पादेव सकलविषयलाभः। अनेकेषां शरीराणां प्राप्तिरिति प्रथमा व्याख्या।

द्वितीयां विविनक्ति –

अनेकत्रेति ॥२७॥

गोत्वादिवदिति ।

प्रत्यभिज्ञा हि पूर्वावमर्शः, स हि न वस्वादावदृष्टे संभवी, एव एवोपाध्यभावः। मन्त्रादिसिद्धे ‘वस्वादावसौ वसुरसावपि वसुरिति परामर्शसंभवः। त्रिदिवत्वादिजात्यवच्छिन्नेश्वर्येषु पाकत्वावच्छिन्नपाकयोगेष्विव औपाधिकत्वेऽपि शक्यः सङ्गतिग्रह इत्युत्तरार्थः। आक्षेपसमाधाने निगदव्याख्याते इत्यर्थः।

प्रमाणान्तरापेक्षवाक्यत्वादिति ।

प्रमाणान्तरापेक्षत्वमेव हेतुः, शब्दं प्रति संदेहात्प्रश्ने स्फोट इति पूर्वपक्षो वर्णत्वेन सिद्धान्त इति न भ्रमितव्यम्। स्फोटवादिनाऽपि नित्यशब्दात् देवाद्युत्पत्त्यभ्युपगमेन सूत्रव्याख्यानात्। तस्माद्वर्णात्स्फोटाच्च देवाद्युत्पत्त्याक्षेपः क्रियते; वर्णानामनित्यत्वात्स्फोटस्य च अप्रामाणिकत्वादिति।

स्फोटपक्षस्त्वेकदेशिन इत्यभिप्रेत्याह –

आक्षिपतीति ।

नन्वनित्यत्वेऽपि वर्णानां महाभूतवद्देवादिहेतुतेत्याशङ्क्याह –

अयमिति ।

यथाऽऽग्नेयादीनां फलकरणत्वान्यथानुपपत्त्यवसेयमपूर्वम्, एवं वर्णानाम् अर्थधीहेतुत्वान्यथानुपपत्तिसिद्धः संस्कारः, स चार्थापत्तेः प्रागज्ञातत्वादपूर्वमुत वर्णोपलम्भजो वर्णे स्मृतिकर इति विकल्प्य क्रमेण दूषयति –

न तावदित्यादिना ।

अर्थधीप्रसवावसेयसंस्कारः किमज्ञातः शब्दसहकारी, उत ज्ञातः।

नाद्य इत्याह –

न हीति ।

स्वरूपेणाविदितस्य अर्थधीहेतुत्वनिषेधो दृष्टान्तार्थः। यथा स्वरूपेण विदितस्यार्थबुद्ध्या हेतुत्वमेवमङ्गतोऽपीत्यर्थः। अविदितसङ्गतिरिति हेत्वर्थः। शब्दः सहाङ्गेन ज्ञातोऽर्थधीहेतुः संबन्धग्रहणमपेक्ष्य बोधकत्वाद् धूमवदित्यर्थः। इन्द्रियवदिति वैधर्म्योपमा। अबधिरेण गृहीतस्य चेत्यर्थः।

अपूर्वसंस्कारो यदा ज्ञातव्यः, तदाऽर्थधियः प्रागेव ज्ञेयः, कारणस्य तज्ज्ञानस्य कार्यात्प्राग्भावनियमात्, अथ जातायामर्थबुद्धौ तदवगमस्तदेतरेतराश्रयमाह –

अर्थप्रत्ययादिति ।

आग्नेयादीनां त्वनारब्धफलानामेव वेदेन फलकरणभावावगमात् शक्यमर्थापत्त्या अपूर्वावधारणं, वर्णानां तु नार्थधीहेतुत्वे मानमस्तीति भावः। भावनाख्यस्तु यः संस्कारः स आत्मनो वर्णस्य स्वस्यैव विषयस्य स्मृतिप्रसवसामर्थ्यम्। तथा चास्माद्वर्णविषया स्मृतिरेव स्यात्, यदि पुनस्ततोऽर्थधीः स्यात्। तदा वक्तव्यं किं तदेवार्थधीजननशक्तिरुत ततोऽर्थशक्तिरुदेति।

न द्वावपीत्याह –

न च तदेवेति ।

उभयत्र क्रमेण निदर्शनमाह –

न हीति ।

अपूर्वसंस्कारपक्षे उक्तः परस्पराश्रयः स्फोटेऽप्युक्ततुल्यम्, स्फोटे ज्ञातेऽर्थधीस्ततश्च स्फोटधीरित्यर्थः।

सत्ताया हेतुत्वान्नेतरेतराश्रय इत्याशङ्क्याह –

सत्तेति ।

नानेति ।

नानावर्णातिरिक्तैकपदावगतेः नानापदातिरिक्तैकवाक्यावगतेश्चेत्यर्थः। साहित्यम् एकत्वम्। नन्वज्ञातेषु वर्णेषु पदवाक्याप्रतीतेर्न शब्दान्तरकल्पनावकाशः। नैतत्; स्फोटस्य वर्णाव्यङ्ग्यतोपपत्तेः। स्यादेतत् - स किमेकैकवर्णात्स्फुटति, किं वा मिलितेभ्यः। नाद्यः; एकवर्णादेव स्फोटव्यक्तौ तत एवार्थधीसिद्धेरितरवैयर्थ्यात्।

न चरमः; वर्णसाहित्यस्य भवतैव व्यासेधाद् अत आह –

तं चेति ।

समुदितव्यञ्जकत्वमनभ्युपेतं प्रत्येकपक्षेऽपि न परवैयर्थ्यम्। यथा रत्नस्य प्रतीन्द्रियसन्निकर्षमभिव्यक्तावपि द्वाभ्यां तिसृभिः चतसृभिः पञ्चभिः षड्भिर्वा अभिव्यक्तिभिः जनितसंस्कारकृतपरिपाकरूपसहकारिसंपन्नान्तःकरणेन जनिते चरमप्रत्यये विशदं चकास्ति रत्नतत्त्वं, न प्राक्षु प्रत्ययेषु, नापि तैर्विरहिते चरमचेतसि, एवं स्फोटः प्रत्येकं ध्वनिभिर्व्यक्तोऽपि ध्वन्यन्तरजनिताभिरभिव्यक्तिभिर्ये संस्कारा जायन्ते तत्तत्परिपाकवन्मनःपरिणामे चरमे चकास्ति तदनन्तरं चार्थधीर्न प्रागित्यर्थः।

यदि प्राचीनध्वनिजन्याभिव्यक्तिजसंस्कारसहितचरमप्रत्ययः स्फुटस्फोटदर्शको हन्त तर्ह्यर्थोऽपि प्रत्येकं ध्वनिभिर्व्यज्यतां पूर्वार्थव्यक्तिसंस्कारसहितमन्त्यं चेतस्तत्त्वमर्थस्य व्यनक्तु तत्राह –

न च पदप्रत्ययवदिति ।

अभिहितश्चेदर्थो नाव्यक्तः, संदिग्धस्तु नाभिहितः स्यात्, प्रत्यक्षे तु प्रतिसन्निकर्षं विशदाविशदनिश्चयसंभव इत्यर्थः।

स्फोटे प्रमाणं विकल्पयति –

एवं हीति ।

वर्णेषु वाचकत्वाऽनुपपत्तौ वाचकशब्दप्रसिद्ध्यन्यथानुपपत्तिः स्फोटे प्रमाणमुत प्रत्यक्षमित्यर्थः।

वर्णेषु वाचकत्वानुपपत्तिमपि विकल्पयति –

द्विधेति ।

व्यस्तानाम् एकैकवर्णानां समस्तानां वा वाचकत्वमिति यत्प्रकारद्वयं तस्याभावाद्वेत्यर्थः। प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेरिति भाष्यं, तत्र बाधकप्रमाणाभावादेव बाधानुपपत्तेरित्यर्थः।

तत्र सामान्यतो दृष्टस्यातिप्रसङ्गादप्रामाण्यमभिधाय वर्णभेदग्राहकं प्रत्यक्षं बाधकमाशङ्क्याह –

न चेदमिति ।

इदं प्रत्यभिज्ञानं गकारत्वादिजातिविषयं न गकारादिव्यक्तिविषयमित्येतच्च न युक्तमित्यन्वयः।

तासां व्यक्तीनां प्रतिनरं भेदोपलम्भादिति शङ्काया एव हेतुस्तस्य च समर्थनम् –

अत एवेति ।

अयुक्तत्वे हेतुमाह –

यत इति ।

बहुषु गकारमुच्चारयत्सु योऽनुभवो जायते स किं व्यक्तिभेदावमर्शपुरस्सरं जातिविषयः, उत औपाधिकभेदवदेकव्यक्तिविषय इति निपुणं निरूप्यताम्। तन्निरूपणे च ध्वन्युपाधिकृतभेदमन्तरेण स्वभाविकव्यक्तिभेदो न भासतः इत्यर्थः।

व्यक्तिभेदपक्षे च कल्पनागौरवमाह –

तत्रेति ।

येन वर्णेषु व्यक्तिभेदो न स्फुटस्तेनेत्यर्थः। यत्प्रत्यभिज्ञानं जातेः प्रार्थ्यत इत्यर्थः। व्यक्तिलभ्यं भेदज्ञानमित्यर्थः।

व्यक्त्या जातिबुद्ध्युपपादने गोत्वाद्युच्छेदमाशङ्क्याह –

न चेति ।

दशवारमुच्चारितवान् इत्येकस्यैव गकारस्योच्चारणेष्वावृत्तिप्रतीतेः।

उक्तैक्यस्यान्यथासिद्धिमाशङ्क्याह –

न चैष इति ।

सोरस्ताडं साविष्कारम्। एवं तावन्त एवेति प्रत्यभिज्ञानादित्यारभ्य यत्प्रत्यभिज्ञानमित्यन्तं भाष्यं व्याख्यातम्। अनन्तरं कथं हीति भाष्यं तत् हिशब्दसंयुक्तमपि न पूर्वहेत्वर्थम्। प्रत्यभिज्ञाया हि भेदप्रत्ययबाधकत्वं प्रस्तुतं, तद्धेतुत्वे च भेद एव निषेधः, नैकस्यानेकरूपत्वम्; एकत्वस्य स्फोटवादिनाऽनङ्गीकारात्। यत्तु केचिद्व्याख्यातारो वर्णेषु भेदाभेदनिषेधोऽयमिति वदन्ति। तत्प्रकृतासङ्गतेरयुक्तम्।

तत इदं भाष्यं प्रकृते सङ्गमयति –

चोदक इति ।

उक्तमपि बाधकं गतिनिरूपणाय पुनरुत्थापयतीत्यर्थः। गलकम्बलः सास्ना। उपक्रमे उक्तकण्ठादिस्थानघटिता वायवोऽश्रावणा इति तद्धर्मा वर्णेष्वारोपिता न श्रावणाः स्युः।

अत उदात्तादयो वर्णधर्मा इति मतं ग्रन्थाद्बहिरेव दूषयति –

इदं तावदिति ।

भवन्त्वश्रावणवायुधर्माः श्रावणाः कथं तेषां शब्दधर्मत्वप्रतीतिरत आह –

ते चेति ।

ननु किमित्यारोपेण? स्वत उदात्तादयः शब्दस्य सन्तु, नेत्याह –

न चेति ।

अनेन आवृत्त्या कथं हीत्येतदेव भाष्यं परिहारपरतया योज्यते।

व्यञ्जकध्वनीति ।

ध्वनयन्ति व्यञ्जयन्तीति वायव एव ध्वनयः। अशब्दात्मकः श्रावणो ध्वनिः पदार्थान्तरम्; वर्णविशेषाप्रतीतौ प्रतीतेरित्युक्तं भाष्ये।

सा जातिविषयत्वेनाऽन्यथासिद्धेत्याशङ्क्य परिहरति –

न चायमिति ।

तस्य ध्वनेर्भिन्नत्वान्न प्रत्यभिज्ञानमस्ति। अतो ध्वन्युल्लेखिप्रत्ययस्य न जातिविषयत्वमित्यर्थः। अक्षु स्वरेषु। एवं च सतीति दूषणाङ्गीकरणवादः; दूषणाप्राप्तेरुक्तत्वादित्यर्थः।

पदबुद्धौ वर्णोल्लेखस्यान्यथासिद्धिं शङ्कते –

पदतत्त्वमिति ।

एकमभागमभिव्यञ्जयन्तो नानेव भागवदिव भासयन्तीत्यन्वयः। नानेवेत्यवयविभेदभानाभिप्रायम्। भागवदित्यवयवप्रतीत्यभिप्रायम्।

विभागारोपे हेतुमाह –

सादृश्योपधानेति ।

सादृश्यमेवोपधानमुपाधिः।

सादृश्ये भेदमुपपादयति –

अन्योन्येति ।

ये हि गकारौकारविसर्जनीया गङ्गा औष्ण्यं वृक्षः इति च विसदृशपदव्यञ्जकाः, तैः सदृशा अपरे गकारादयो ध्वनयो गौरित्येकं पदं व्यञ्जयन्ति।

ध्वनीनां सादृशे हेतुः –

तुल्यस्थानेति ।

भिन्नपदाव्यञ्जकध्वनिसदृशध्वनिव्यक्ते एकस्मिन्नपि पदे सन्ति भिन्नपदसादृश्यानीति भेदभ्रम इत्यर्थः।

ननु पदान्तरेषु कियतां ध्वनीनां विसदृशत्वात्कथं व्यञ्जकसादृश्यमत उक्त –

प्रत्येकमिति ।

गकारादीनामुभयत्र प्रत्येकं पदव्यञ्जकत्वाद् गौरित्यत्र गकारादीनामस्ति भिन्नपदव्यञ्जकगकारादिसादृश्यमित्यर्थः।

एकविधप्रयत्नजन्यध्वनीनां न पदे भेदारोपहेतुतेति –

प्रयत्नभेदेत्युक्तम् ।

विभागारोपेऽपि कथं वर्णरूपितपदप्रतिभानमत आह –

कल्पिता एवेति ।

व्यञ्जकवर्णात्मत्वं व्यङ्ग्यभागेष्वारोप्यत इत्यर्थः।

एतदपाकरोति –

तत्किमिति ।

औपाधिकत्वस्वाभाविकत्वाभ्यामेकत्वानानात्वे व्यवस्थापयति –

अथवेति ।

नन्वत्रोपाध्यभाव उक्तस्तत्राह –

तस्मादिति ।

एकप्रत्यक्षानारोहेऽप्येकस्मृतिविषयत्वं वर्णानामुपाधिरित्यर्थः। उपचारे हि सति निमित्तानुसरणं, न तु निमित्तानुसारेणोपचार इति न धवखदिरादिष्वतिप्रसङ्गः। एतेन समुदितानां वर्णानामर्थधीहेतुत्वमुपपादितम्।

बालेन स्वस्यैकस्मृत्यारूढवर्णानां मध्यमवृद्धं प्रत्येकार्थधीहेतुतामनुमाय, एकपदत्वाध्यवसायात् नेतरेतराश्रयमित्याह –

न हीति ।

राजेति क्रमप्रयोगो जारेति विपरीतक्रमः। बहुभ्यो युगपदक्रमः प्रयोगः। यावन्तः यत्संख्याकाः। यादृशाः यत्क्रमादिमन्तः। ये च यत्स्वरूपाः।

भाष्ये पङ्क्तिबुद्धौ पिपीलिकाक्रमवत् स्मृतौ वर्णक्रमसिद्धिरित्युक्तं तदाक्षिप्य समाधत्ते –

नन्वित्यादिना ।

नित्यानां न कालतो विभूनां वा न देशतः क्रमः।

पदावधारणेति ।

राजा जारेत्यत्र, क्रम उपायः। गौर्गोमानित्यत्र न्यूनातिरिक्तत्वे। स्वरो भाषिकादिः पञ्चजना इत्यादौ। वाक्यं पदान्तरसमभिव्याहारः, यथाऽश्वो गच्छतीति न लुङन्तमाख्यातम्, क्रियान्तरोपादानात्। श्रुतिः उद्भिदो यागनामपरत्वं समानाधिकरणश्रुतिगम्यम्। स्मृतिर्युगपत्सर्ववर्णविषया। वृद्धव्यवहारेत्यादि कल्पना स्यादित्यन्तं भाष्यमतिरोहितार्थमित्यर्थः॥२८॥
 शास्त्रयोनित्वाविरोधायाह –

स्वतन्त्रस्येति ।

नित्यो वेद इति ।

अवान्तरप्रलयस्थत्वं नित्यत्वमतो दृष्टेन व्यभिचारो भारतीविलासोक्तोऽनवकाशः। अत एव न ह्यनित्यादिति वर्णितानुकूलतर्केऽपि अनित्यात्प्रलयावस्थायामविद्यमानान्न जगदुत्पत्तुमर्हति। तदानीमसतो नियतप्राक्सत्त्वरूपकारणत्वायोगात् अन्यत उत्पत्तौ तस्यापि तदैवोत्पाद्यत्वेनापर्यवसानादित्यर्थः। कर्तुरस्मरणात्सिद्धमेव नित्यत्वमनेनानुमानेन दृढीकृतमित्यर्थः॥२९॥ समाननामेति सूत्रं (ब्र.सू.अ.१.पा.३ सू.३०) महाप्रलये जातेरभावात् शब्दार्थसंबन्धानित्यत्वमाशङ्क्य परिहारार्थम्। वेदस्य वाक्यरूपस्येत्यर्थः।

ननु जीवानवस्थानेऽपि ब्रह्म अभिधानादिवासितमस्त्यत आह –

न च ब्रह्मण इति ।

निरविद्यस्य अविद्यासिद्धप्रमाणानाश्रयत्वान्न तज्जवासनाश्रयत्वमित्यर्थः।

अथानपेक्ष्य वासनाः ब्रह्म जगत्सृजेत्, तत्राह –

ब्रह्मणश्चेति ।

अध्यापकाध्येत्रोः उच्चारयितृत्वाद्भाष्ये अभिधातृग्रहणेनोक्तिरित्यर्थः। सूक्ष्मेणेत्यस्य व्याख्या

शक्तिरूपेणेति ।

कर्मविक्षेपिकाऽविद्याभ्रान्तयस्तासां वासनाभिरित्यर्थः। भ्रमात्संस्कारतश्चान्या मण्डूकमृदुदाहृतेः। भावरूपा मताऽविद्या स्फ्टं वाचस्पतेरिह॥ अप्रज्ञातं प्रत्यक्षतः। अलक्षणम् अननुमेयम्। अप्रतर्क्यम् तर्कागोचरः। अविज्ञेयम् आगमतः। साक्षिसिद्धस्य ह्यज्ञानस्यागमादिभिरसत्त्वनिवृत्तिः क्रियते। ननु - किं भावरूपयाऽविद्यया प्रयोजनम्? अज्ञातशुक्तिब्रह्मविवर्तत्वेन रजतजगद्भ्रमसिद्धेः। अज्ञातत्वस्य च ज्ञानाभावादुपपत्तेः। तन्न; स्वयंप्रभप्रत्यग्ब्रह्मणः स्वविषयप्रमाणानुदयेऽपि यथावत्प्रकाशापत्तौ जगद्भ्रमाभावप्रसङ्गात्। न हि स्वयंप्रभं सवेदनं स्वविषयप्रमाणानुदयान्न भाति। यद्यपि शुक्तिं स्वत एव जडामविद्या नावृणोति; तथापि तत्स्थानिर्वाच्यभावरूपरजतोपादानत्वेन एष्टव्येति भावरूपाविद्या सप्रयोजना। प्रमाणं तु डित्थप्रमा, डित्थगतत्वे सति यः प्रमाभावः तत्त्वानधिकरणानादिस्वप्रागभावनिवर्तिका, प्रमात्वाद्, डपित्थप्रमावत्। ये तु प्रमा स्वप्रागभावनिवृत्तिरेव, न तु निवर्तिकेति मन्यन्ते, तान् प्रति निवर्तिकेत्यस्य स्थाने निवृत्तिरिति पठितव्यम्। न चैतदसमवेतत्वमेतदन्यसमवेतत्वं चोपाधिः; एतत्सुखादीनाम् एतन्निष्ठप्रमाभावत्वरहितानादिस्वप्रागभावनिवर्तकत्वेन साध्ये विद्यमानेऽपि उपाध्यभावेन साध्याव्याप्तेरिति। त्वदुक्तमर्थं न जानामीति व्यवहारान्यथानुपपत्तिश्च मानम्। न च प्रमाणतो न जानामि किन्तु जाने इति व्यपदेशार्थः, तथा सति को मदुक्तोऽर्थ इत्युक्तेऽनुवदेन्न च शक्नोति। न च सामान्येन ज्ञाते विशेषतोऽज्ञानम्; सामान्यस्य ज्ञातत्वात्, विशेषस्य चाबुद्धस्याज्ञानव्यावर्तकत्वेन प्रतिभासायोगात्, प्रमितत्वे चाज्ञातत्वव्याघातात्, स्मृतत्वे चानुवादापातात्। मम तु भावरूपाज्ञनस्य सविषयस्य साक्षिण्यध्यासात्प्रतिभासो न मानत इत्यविरोधः। न च - मानाभाव एव तस्मिन्नध्यस्तो भासत इति - वाच्यम्; स्वप्रभे भावरूपाविद्यातिरोधानमन्तरेण अध्यासायोगस्योक्तत्वात्।

पराक्रान्तं चात्र सूरिभिरिति ।

ते चावधिमुचितकालं प्राप्य पूर्वसमाननामरूपाणि भूत्वोत्पद्यन्त इत्यन्वयः। परमेश्वरेच्छा ईक्षणम्। ईक्षितुः परमेशस्य वाचस्पतिमुखोद्गतेः। निजुहुवे परेशानमसावित्यतिसाहसम्॥ ईक्षणं च जीवाज्ञातस्येश्वरस्य विवर्त आकाशादिवदिति न प्रमातृत्वेन अविद्यावत्त्वप्रसङ्गः।

कूर्माङ्गानां दर्शनादर्शनमात्रं नोत्पत्तिरित्युदाहरणान्तरमाह –

यथा वेति ।

घनाः निबिडाः। घनाघनाः मेघाः। तत्कृतासारेण सन्ततधारावर्षेण सुहितानि बृंहितानि इत्यर्थः।

अविद्यायाः पूर्ववासनास्रयत्वेन जगत्कारणत्वे ब्रह्मणो जगत्कारणत्वविरोधमाशङ्क्योपकरणस्य स्वातन्त्र्याविघातकत्वेन परिहरति –

एतदुक्तमिति ।

ततश्चानादित्वं संसारस्येत्याह –

न च सर्गेति ।

उपपद्यते चोक्तन्यायेनानादित्वमित्यर्थः।

एवं पदपदार्थसंबन्धे विरोधं परिहृत्य संप्रदायविच्छेदाद्वाक्यनित्यत्वविरोधमुक्तमनुवदति –

स्यादेतदिति ।

भाष्यस्यसुषुप्तिदृष्टान्तस्य वैषम्यमाशङ्क्याह –

यद्यपीति ।

लीयतेऽस्यां सर्वकार्यमिति लयलक्षणाऽविद्या। श्लोके उक्तो यो विरोधः। यजमानो भाविन्या वृत्त्या यदाऽग्निरिदानीमग्नये विर्वपति, तदा भविष्यदद्यतनाग्न्योस्तुल्यनामता।

ननु किमिति भाविन्या वृत्त्या यजमानोऽग्निरुच्यतेऽग्निदेवतैवाग्नये निर्वपतु, नेत्याह –

न हीति ।

सत्त्वे वा स एवास्माभिरुद्देष्टुं शक्यते यागकाले इति प्राचीनो वृथा स्यादित्यर्थः।

देवादीनां स्वमिश्रविद्यास्वनधिकारेऽपि ब्रह्मविद्याधिकारसंभवात् आक्षेपायोगमाशङ्क्य विकल्पमुखेन सूत्रमवतारयति –

ब्रह्मविद्यास्विति ।

मधुविद्यावाक्यं प्रतीकत आदत्ते –

असाविति ।

तद्व्याचष्टे –

देवानामित्यादिना ।

भ्रमरैर्निर्वृत्तं भ्रामरम्। द्यौः स्वर्गः, तिर्यग्गतवंशे इवादित्यं मधु हि तत्र लग्नमित्यर्थः।

अन्तरिक्षमपूप इति श्रुतिं व्याचष्टे –

आदित्यस्य अपूपव्याख्या –

पटलमिति ।

प्रसिद्धं मध्वपूपसाम्यमाह –

तत्रेति ।

श्रुतिनिर्दिष्टपञ्चामृतान्याह –

यानि चेति ।

एवं ह्यामनन्ति ‘‘तस्यादित्यस्य ये प्राञ्चो रश्मयः, ता एवास्य प्राच्यो मधुनाड्यः, ऋच एव मधुकृतः, ऋग्वेद एव पुष्पं, ता अमृता आपः, ता वा एता ऋचः, एतमृग्वेदमभ्यतपः, तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत, तद्व्यक्षरत् तदादित्यमभितोऽश्रयत्, तद्वा एतद्यदेतदादित्यस्य रोहितं रूप’’मित्यादि। मधुनाड्यः मध्वाधारच्छिद्राणीत्यर्थः। व्यक्षरत् विशेषेणागमत्, गत्वा चादित्यस्य पूर्वभागमाश्रितवदित्यर्थः।

ता अमृता आप इत्येतद्व्याचष्टे –

यानि चेति ।

यादृङ् मधुकरैर्निर्वर्त्यते मधु तदापः। ताश्चामृतसाधनत्वादमृता इति श्रुत्यक्षरार्थः।

ऋच एव मधुकृत इत्येतद्व्याचष्टे –

यथा हि भ्रमरा इति ।

मन्त्रैः प्रयुक्तं कर्मफलात्मकं रसं स्रवतीत्यृचां मधुपसाम्यम्।

अथ येऽस्य दक्षिणा इत्यादि श्रुतिं व्याचष्टे –

अथास्येत्यादिना ।

परः कृष्णमित्यमृतं श्रुतौ निर्दिष्टं तद्रश्म्युपाधिकमित्यभिप्रेयाह –

अतिकृष्णाभिरिति ।

चतुर्थपर्यायेऽथर्वाङ्गिरसो मधुकृत इतिहासपुराणं पुष्पमित्युक्तम्। तत्राथर्वाङ्गिरसमन्त्राणां मधुकरत्वाभिधानात्तैः प्रयोज्यम्, अथर्ववैदिकं कर्म पुष्पं सूचितम्।

इतिहासपुराणमन्त्रा यत्र प्रयुज्यन्ते तस्य कर्मणः पुष्पत्वेन निर्देशात् तन्मन्त्रा मधुकृत इत्यर्थादुक्तमिति मनसि निधायाह –

अथर्वाङ्गिरसेति ।

कर्मकुसुमेभ्य आहृत्य, अग्नौ हुतममृतमथर्वमन्त्रा आदित्यमण्डलं नयन्तीत्यन्वयः।

इतिहासपुराणमन्त्रप्रयोगयोग्यं कर्माह –

तथाश्वमेधेति ।

कर्मकुसुमादाहृत्येत्यनुषङ्गाल्लभ्यते।

ननु कथमितिहासादिमन्त्राणां वाचस्तोमसंबन्धोऽत आह –

अश्वमेधेति ।

पारिप्लवः यदृच्छया बुद्धिस्थमन्त्रशंसनम्। सर्वाण्याख्यानानि पारिप्लवे शंसन्तीति श्रवणादैतिहासिकान्यपि गृह्यन्त इति भावः। विकल्पेनात्र विज्ञेयं पुष्पभ्रमरचिन्तनम्। इतिहासपुराणस्थमथ वाऽथर्ववेदगम्॥ न च यथाश्रुतं शक्यं घटयितुम्; इतिहासपुराणाथर्वणमन्त्रयोः असाधारणसंबन्धाभावादतः कुसुसमधुकरचिन्तनैकप्रयोजनानां कर्ममन्त्राणामगत्या विकल्प इति। अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पमिति।

पञ्चमपर्यायं व्याचष्टे –

ऊर्ध्वा इति ।

आदिश्यन्त इत्यादेशा उपासनानि तेषां भ्रमराणां गोप्यानामाश्रयत्वान्नाडीनां गोप्यत्वमुक्तम्।

व्याख्यातां मधुविद्यामुपसंहरति –

ता एता इति ।

नाडीनिर्देशोऽमृताद्युपलक्षणार्थः।

यश आद्यमृतस्याचाक्षुषत्वाद्दृष्ट्वेति ज्ञानमात्र विवक्षेत्याह –

उपलभ्येति ।

श्रुताविन्द्रियमिति तत्साकल्यविवक्षा, इन्द्रियमात्रसंबन्धस्य सिद्धत्वेन फलत्वाभावादित्याह –

इन्द्रियसाकल्येति ।

अन्नं च तदाद्यमत्तुं योग्यं वस्वाद्युपजीव्यान्यमृतानि।

विजानतामित्यादिभाष्यार्थमाह –

न केवलमिति ।

एकस्मिन्नादित्ये उपास्योपासकभावो विरुद्धः, वस्वादौ तु स च प्राप्यप्रापकभावश्चेत्यर्थः॥३१॥ देवादीनां सर्वेषां सर्वाविद्यासु किमधिकारः, उत यथासंभवमिति विकल्प्य प्रतमं निरस्य द्वितीयं शङ्कते –

यद्युच्येतेति ।

भाष्ये वाक्यशेषप्रसिद्धिः। पुरस्तादुदेता पश्चादस्तमेतेत्यादिः। हे इन्द्र, ते दक्षिणं हस्तं जगृभ्म गृहीतवन्तो वयम् इमे रोदसी इन्द्र यदि गृह्णसि, तर्हि ते तव काशिर्मुष्टिः मुष्टौ संमात इत्यर्थः।

मुष्टिप्रकारमभिनयति –

इदिति ।

इत्थमित्यर्थः। तुविग्रीवः पृथुग्रीवः। वपाच्छिद्रं सावकाशोदर इत्यर्थः। अत एव अन्धसोऽन्नस्योपयुक्तस्य मदे हर्षे सति इन्द्रो वृत्राणि शत्रून् जिघ्नते हतवानिति। प्रस्थितस्योपकल्पितस्य पक्वस्य हविषो भागमद्धि सोमस्य सुतस्य भागं पिब चेत्यर्थः। ईशनामैश्वर्यं देवताया दर्शयतीत्यनुषङ्गः। इन्द्रो दिवः स्वर्गस्येशे ईष्टे इति सर्वत्रानुषङ्गः। अपां पातालस्य। वृधां वीरुधां स्थावराणाम्। मेधिराणां मेधावतां जङ्गमानामिति यावत्। प्राप्तस्य रक्षणे क्षेमे योगे चाप्राप्तप्रापणे इन्द्र ईष्टेऽतो हव्य इन्द्रो यष्टव्य इत्यर्थः। हे इन्द्र, जगतो जङ्गमस्य तस्थुषः स्थावरस्य चेशानं स्वर्दृशं दिव्यज्ञानं त्वां स्तुम इत्यर्थः। वरिवसितारं पूजयितुम्। आहुतिभिः हुतादौ देवान् प्रीणयति। हुतमदन्तीति हुतादः। तस्मै होत्रे प्रीता देवा इषमन्नमूर्जं बलं च प्रयच्छन्तीति। विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता।

फलप्रदानमित्येतत्पञ्चकं विग्रहादिकम्॥ ये सिद्धवादिनो मन्त्रा न ते विधिक्षमा इति तत्स्वरूपमेव श्रुत्यादिभिः ऐन्द्र्यात्यादिभिस्तत्र तत्र कर्मणि विनियुज्यते, अतो न प्रमाणं चेत्तर्हि किमुच्चारणमात्रोपयोगा अविवक्षितार्थाः? नेत्याह –

दृष्टे प्रकारे इति ।

नन्वनधिगतमेयाभावे कथं दृष्टार्थत्वम्, अत आह –

दृष्टश्चेति ।

प्रयोगसमवेतो द्रव्यदेवतादिः स च विधिभिर्ज्ञात इति स्मार्यः। मन्त्राश्च विधय इव निरपेक्षा देवताद्यभिदधतीति नाप्रमाणम्।

ननु स्मृतेरविहितायाः कथं द्वारत्वमत आह –

स्मृत्वा चेति ।

सामर्थ्याद् द्वारतेत्यर्थः।

ननु यथा देवतास्मरणे मन्त्राणां तात्पर्यम्, एवं देवताविग्रहादावप्यस्तु, विग्रहादेरपि मन्त्रपदैरवगमादत आह –

औत्सर्गिकी चेति ।

उद्दिश्य त्यागस्य हि देवतास्वरूपमेवापेक्षितं, न विग्रहादि, तद्बोधकपदानां तु उत्सर्गप्राप्तमप्यर्थपरत्वं विध्यनपेक्षितत्वादपोद्यत इत्यर्थः॥३२॥ श्वित्री त्वगामयत्वान्। निर्णेजनं शोधनम्। श्वेतो वस्त्रं धावति शोधयतीति विवक्षायामितः श्वा धावति गच्छतीति नार्थधीरिति।

वेदेऽपि न तात्पर्याद् विनाऽर्थधीरित्याह –

न चेति ।

यदि तात्पर्याच्छाब्दधीः, तर्हि प्रत्यक्षादिष्वपि तथा स्यादत आह –

न पुनरिति ।

भाष्यकृद्भिः निषेधेषु पदान्वयैक्यादवन्तरवाक्यस्य अग्रहणमित्युक्तमयुक्तम्; साध्याविशिष्टत्वादित्याशङ्क्यान्वयभेदे दण्डं नञ्पदवैयर्थ्यापत्तिमाह –

अयमभिसन्धिरिति ।

अन्वयमुक्त्वा व्यतिरेकमाह –

न हीति ।

उपसंहरति –

वाक्यार्थे त्विति ।

मा भूत् स्वार्थमात्राभिधाने पर्यवसानं, किमतः? तत्राह –

न च नञ्वतीति ।

एवं पदैकवाक्यतां सोदाहरणं दर्शयित्वा विध्यर्थवादेषु वाक्यैकवाक्यतामाह –

यत्र त्विति ।

ननु - विधिद्वयस्यैषा वाक्यैकवाक्यताऽत आह –

लोकानुसारत इति ।

क्रय्या गौर्देवदत्तीया यतो बहुक्षीरेत्यादौ बहुक्षीरत्वादेः आप्तवाक्यावगतेः विध्यर्थवादयोरप्यस्ति वाक्यैकवाक्यतेत्यर्थः।

ननु कार्यान्वित एव पदार्थस्तत्कुतोऽर्थवादपदानां पृथगन्वयोऽत आह –

भूतार्थेति ।

कुतश्चिद्धेतोरिति ।

यो वाक्यस्य वाक्यान्तरैकवाक्यत्वे हेतुः सूचितस्तं विवृणोति –

इह हीति ।

अनेन भिन्नवाक्यार्थपर्यवसायिनां पदानां का नु खल्वपेक्षिति शङ्का वार्यते। स्वाध्यायविधिः स्वाध्यायशब्दवाच्यं वेदराशिं पुरुषार्थप्रकाशकतां यदि नानेष्याद् न प्रापयेत्, ततो भूतार्थमात्रपर्यवसिताः सन्तोऽर्थवादा विध्युद्देशेनेकवाक्यतां नागमिष्यन् न गच्छेयुः। प्रापयति त्वध्ययनविधिर्वेदस्य पुरुषार्थताम्, तस्मादेकवाक्यतां प्राप्नुयुरित्यर्थः।

ननु यदि लक्षणायामभिधेयविवक्षा, कथं तर्हि विरुद्धार्थार्थवादेषु सा स्यात्? तत्राभिधेयस्य विरुद्धत्वादेव विवक्षानुपपत्तेस्तत्राह –

अत एवेति ।

अथवाऽर्थवादेषु स्वार्थविवक्षाया इदं गमकमुक्तम्, इतरथा हि गौणालम्बनचिन्ता मुधा स्यादिति। यथा प्रमाणान्तराविरोधः तथाऽसूत्रयत् गुणवादस्त्विति सूत्रेण(जै.अ.१.पा.२.सू.१०)। यथा च स्तुत्यर्थता येन गुणयोगेन स्तुत्यर्थतेत्यर्थः, तथाऽसूत्रयत्तत्सिद्धि(जै.अ.१.पा.४.सू.२२) रित्यनेनेत्यर्थः॥ यजमानः प्रस्तर इति किं विधिरुतार्थवाद इति। विशये विधिरपूर्वार्थलाभादिति प्राप्ते सिद्धान्तः। यदि प्रस्तरकार्ये यजमानो विधीयेत, तदा ‘‘प्रस्तरं प्रहरती’’ति शास्त्राद् यजमानोऽग्नौ हूयेत, ततः प्रयोगो न समाप्येत। अथ यजमानकार्ये प्रस्तरो विधीयेत, तदानीमशक्यविधिः। न हि प्रथम-लूनदर्भमुष्टिः प्रस्तरः शक्नोति चेतनयजमानकार्यं कर्तुम्। तस्मात्प्रस्तरं बर्हिष उत्तरं सादयतीत्यस्य विधेरर्थवादः। द्वितीयादिमुष्टिर्बर्हिः।

कथं तर्हि सामानाधिकरण्यम्? अत्र सूत्रं –

गुणवादस्त्विति ।

(जै.अ.१.पा.२.सू.१०) को गुणः? इत्यपेक्षायां च तत्सिद्धिरिति सूत्रम्(जै.अ.१.पा.४.सू.२२)। तस्य यजमानस्य कार्यं क्रतुनिर्वृत्तिः तत्प्रस्तरादपि सिद्ध्यति। स हि जुह्वाधारतया क्रतुं निर्वर्तयति इति। आदित्यो यूप इत्यत्र तेजस्वित्वं गुणः; तेजसा घृतेन यूपस्योक्तत्वादिति।

ननु विरुद्धार्थार्थवादेषु कथमभिधेयाविनाभावनिमित्ता प्राशस्त्यलक्षणा? विरोधादेवाभिधेयाभावादत आह –

तस्माद्यत्रेति ।

यजमानादिशब्दैः तत्सिद्ध्यादि लक्ष्यते, ततश्च प्राशस्त्यमित्यर्थः। लक्षितेन यल्लक्ष्यं तदप्यभिधेयेनाविनाभूतमेव; तदविनाभूतं प्रत्यविनाभूतत्वात्।

नन्वनुवादकार्थवादानामप्रमाणकत्वात्कथं विधिभिर्वाक्यैकवाक्यताऽत आह –

यत्र त्विति ।

न स्मृतिवत्सापेक्षत्वं; किंतु प्रत्यक्षादिभिस्तुल्यविषयत्वम्। न चैतावता भवत्यप्रमाणता; प्रत्यक्षानुमानयोरपि तुल्यविषयत्वादित्यर्थः।

तर्हि कथमनुवादकत्वप्रसिद्धिरत आह –

प्रमात्रपेक्षयेति ।

प्रमातरि चरमप्रत्ययाधायकत्वात् आश्रयस्यानुवादकत्वसिद्धिरित्यर्थः।

यदि मानान्तरसिद्धार्थत्वेऽप्यर्थवादानामनपेक्षत्वम्, तर्हि विरुद्धार्थानामपि तदस्तु; गौणार्थत्वेन किम्? इति शङ्कते –

नन्वेवमिति ।

तत्परतया निरवकाशा वेदान्ता बाधन्ते विरोधि प्रत्यक्षादि, नार्थवादाः; अतत्परत्वेन सावकाशत्वादिति विशेषेण प्रतिबन्दीं परिहरति –

अत्रोच्यत इत्यादिना ।

इष्टप्रसङ्गतामाह –

अद्धेति ।

विध्यन्वितोऽर्थवादो महावाक्यीभूय प्राशस्त्यं बोधयति, स्वरूपेण त्ववान्तरवाक्यीभूय विग्रहादि वक्तीत्यर्थः। वाक्यद्वित्वमेष्टुमशक्यम्; प्रत्यर्थं तात्पर्यभेदेन वाक्यवृत्तिप्रसङ्गात्।

आवृत्तिं च पौरुषेयीं वेदो नानुमन्येतेति शङ्कते –

तथा सतीति ।

न वज्रहस्तेन्द्रदेवतात्वात् प्रशस्तमैन्द्रं दधि, वज्रहस्तश्च सोऽस्तीत्यावृत्तिं ब्रूमः, किन्तु स्तोतुमेव योऽर्थोऽर्थवादेनाश्रितस्तं नोपेक्षामह इति परिहरति –

नेति ।

ननु तात्पर्याभावे शब्दात्कथं द्वारभूतविग्रहादिप्रमितिरित्याशङ्क्य व्याप्तिं प्रशिथिलयति –

न चेति ।

यद्वाक्यं यत्रार्थे न तत्परं तत्र तदप्रमाणं चेत्, तर्हि विशिष्टविधेर्विशिष्टपरत्वं न स्यात्। तस्य हि, विशेषणेष्वपि नागृहीतविशेषणन्यायेन प्रामाण्यं वाच्यम्। न च तेषु तात्पर्यम्; प्रतिविशेषणमावृत्त्यापातात्। तथा च विशेषणप्रमितौ विशिष्टेऽप्रामाण्यापातादिति। ननु विशिष्टविधिरपर्यतस्यन् विशेषणविधीनाक्षिपतीत्यार्थिका विशेषणविधयः कल्प्यन्ते, अतो न वाक्यभेदः। यथाऽऽहुः - श्रूयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने। लक्षणावाक्यभेदादिदोषो नानुमिते ह्यसौ’ इति।

एवं शङ्कित्वा परिहरति –

विशिष्टविषयत्वेनेति ।

प्रतीतो हि विशिष्टविधिर्विशेषणविधीनाक्षिपेत्, तत्प्रतीतिरेव न विशेषणप्रतीतिमन्तरेणेति इतरेतराश्रय इति भावः। ननु पदैः पदार्था योग्यतादिवशेन विशेषणविशेष्यभूता लोकतोऽवगम्यन्ते, तदवगतौ च प्रतीतो विशिष्टविधिराक्षेप्ता विशेषणविधीनाम्। सत्यम्; न सर्वत्र विशेषणं लोकसिद्धमिति शक्यं वक्तुम्। क्वचिद्धि वाक्यैकगम्यमपि विशेषणं भवति। ‘यथैतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेते’ति।

अत्र हि विशिष्टविधौ रेवतीनामृचां वारवन्तीयसाम्नश्च संबन्धो विशेषणं वाक्यैकगम्यम् इति भावेनोपसंहरति –

तस्मादिति ।

नन्वर्थवादा मानन्तारापेक्षाः सिद्धार्थत्वात् पुंवाक्यवत्। न च देवताविग्रहादौ मानान्तरमस्तीत्यप्रमाण्यम्।

यद्धि सापेक्षं तन्मूलमानरहितमप्रमाणमित्यत आह –

न च भूतार्थमपीति ।

वाक्यस्य सतः सापेक्षत्वे पौरुषेयत्वमुपाधिरिति समन्वयसूत्रे (ब्र.अ.१.पा.१.सू.४) उक्तमित्यर्थः।

यदि विधेः प्राशस्त्यपरा अप्यर्थवादा भिन्नं वाक्यं, तर्हि न्यायविरोध इत्याह –

स्यादेतदिति ।

द्वितीये स्थितम् - ‘अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे’ स्यात् (जै.सू.अ.२.पा.१.सू.४६)। देवस्य त्वा सवितुः प्रसवे इति मन्त्र एकं वाक्यं भिन्नं वेति संशये पदानामर्थभेदात्समुदायस्यावाचकत्वाद्भिन्नमिति प्राप्तेऽभिधीयते। एकप्रयोजनोपयोगिविशिष्टार्थस्यैक्यात् तद्बोधकपदान्येकं वाक्यम्। तच्च तर्ह्येव स्याद्यद्दि पदविभागे सति पदवृन्दं साकाङ्क्षं भवेत्। ‘‘भगो वां विभजत्वर्यमा वां विभज’’त्वित्यत्र सत्यपि विभजत्यर्थैकत्वे अनाकाङ्क्षत्वेन वाक्यभेदात्, ‘स्योनं ते सदनं कृणोमि तस्मिन्सीदे’त्यत्र सत्यपि साकाङ्क्षात्वेऽर्थभेदेन वाक्यभेदात्। एकत्र हि सदनकरणं प्रकाश्यमन्यत्र पुरोडाशप्रतिष्ठापनमिति वाक्यभेदोऽत उभयं सूचितम्। तात्पर्यैक्येऽपि वाक्यभेदाभ्युपगम एतदधिकरणविरुद्ध इत्यर्थः।

परिहरति –

नेति ।

यथा हि सत्यपि वाक्यैक्ये प्रयाजादिवाक्यानाम् अवान्तरभेद एवमर्थवादानामप्यस्तु। त्वयाऽपि हि स्तुतिं लक्षयितुं तत्तत्पदार्थविशिष्टैकपदार्थप्रतीतिरभ्युपेया, अन्यथाऽभिधेयाविनाभावो न स्याद् इत्युक्तत्वात्। तथा च तस्यां पर्यवस्यन्त्वर्थवादास्ततो विध्येकवाक्यतां च यान्त्विति भावः।

एवं तर्हि प्रयाजादिवाक्यानामर्थवादवाक्यानां च को भेदोऽत आह –

स त्विति ।

स्तुतिप्रतिपत्तिद्वारं विग्रहादि, प्रयाजादि तु नान्यप्रतीतौ द्वारम्, किन्तु तद् द्वारि। स्वयं तात्पर्यविषय इति यावत्।

यदि विध्येकवाक्यत्वेऽप्यर्थवादेषु पृथक्पदार्थसंसर्गप्रतीतेः वाक्यभेदः तर्ह्यतिप्रसङ्ग इति शङ्कित्वा प्रतीतिपर्यवसानतदभावाभ्यां वैषम्यमाह –

नन्वेवं सतीत्यादिना ।

यद्यर्थवादेषु द्वारभूतार्थभेदाद् वाक्यभेदस्तदाऽप्यतिप्रसङ्ग इत्याशङ्क्य परिहरति –

न च द्वाभ्यामित्यादिना ।

पञ्च षड् वा पदान्यस्येति पञ्चषट्पदवत्। अरुणयेत्यादि वाक्यम्। अत्र नावान्तरवाक्यभेदप्रसङ्गः; विशेषणानां भेदेऽपि विशेष्यकयादेः एकत्वात्तस्य च गुणानुरोधेनावृत्त्ययोगात्। गुणा एव तस्मिन् समुच्चेया इत्येकवाक्यतेत्यर्थः।

विशेष्यैक्ये विशेषणभेदेऽपि न वाक्यभेद इत्येतद्व्यतिरेकप्रदर्शनेनोपपादयति –

प्रधानभेदे त्विति ।

‘‘आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पता’’ मित्यादौ हि प्रधानभेदाद्वाक्यभेदः तदभावादरुणादावेकवाक्यतोपपत्तेर्न प्रतिबन्धावकाश इति। नन्वतत्परादपि वेदादर्थः प्रमीयेत, स यदि तात्पर्यगम्यार्थोपयोगी विशिष्टविधाविव विशेषणं देवताविग्रहादि तु न तथेति शङ्कापनुत्त्यर्थमपि चेत्यादि भाष्यम्।

तदादाय व्याख्याति –

देवतामुद्दिश्येत्यादिना ।

ननु देवता आरोपितोल्लिख्यतां तत्राह –

रूपान्तरेति ।

अस्यैव प्रपञ्चो ननूद्देश इत्यादिचोद्यपरिहारौ।

दृष्टानुसाराच्च चेतना देवतेत्याह –

तदेवमिति ।

शब्दमात्रत्वे तु नैवमित्याह –

अचेतनस्येति ।

देवतातः फलोत्पत्तौ श्रुतहानिमाशङ्क्याह –

न चैवमिति ।

यजेत स्वर्गकाम इत्यस्य हि यागेन स्वर्गं भावयेदित्यर्थः। तत्र यागभावनायाः फलवत्त्वं श्रुतम्। अर्थाच्च यागस्य भावनां प्रति तदीयफलांशं वा प्रति करणत्वं श्रुतं यत् तन्न हातव्यम्।

अत्र हेतुमाह –

यागेति ।

नवमे स्थितम् - ‘देवता वा प्रयोजयेदतिथिवद्भोजनस्य तदर्थत्वात्’ (जै.सू.स्.६.पा.१.सू.६) देवता धर्मान् प्रयोजयेदतिथिवद्भोजनस्य यागस्य तदर्थत्वाद् यथाऽतिथिप्रीत्यर्था धर्मा इति प्राप्ते - अपि वेति (जै.सू.अ.६.पा.१.सू.६) राद्धान्तः। यज्ञकर्म प्रधानमङ्गग्राहि , न देवता; यजेन स्वर्गकाम इति यागगतफलसाधनतायाः शब्दपूर्वत्वात्। देवता तूद्देश्या भूतत्वाद्भव्यस्य यागस्य गुण इति तद्गुणत्वे देवताशब्दो वर्तत इति। तदस्मन्मते ऽप्यविरुद्धम्; गुनत्वस्वीकारादित्यर्थः॥३३॥ एत इतीति सन्निहितवाचि - एतशब्दो देवानां करणेष्वनुग्राहकत्वेन सन्निहिताना स्मारकः। असृग् रुधिरम्। तत्प्रधानदेहरमणान्मनुष्याणामसृग्रशब्दः। इन्दुमण्डलस्थपितॄणामिन्दुशब्दः। पवित्रं सोमं स्वान्तस्तिरस्कुर्वता ग्रहाणां तिरःपवित्रशब्दः। ऋचो ऽस्तुवतां स्तोत्राणां गीतिरूपाणां शवशब्दः। स्तोत्रानन्तरं प्रयोगं विशतां शास्त्राणां विश्वशब्दः। व्यापिवस्तुवाच्यभिशब्दयुक्तोऽभिसौभगेतिशब्दोऽन्यासां प्रजानां स्मारक इति॥ स मनसेति। स प्रजापतिर्मनसा सह वाचं मिथुनभावं समभवदभावयत्। त्रयीप्रकाशितां सृष्टिं मनसाऽऽलोचितवानित्यर्थः। नाम रूपं चेति स्मृतौ निष्पन्नकर्मणामनुष्ठापनमुक्तम्। सर्वेषां त्वित्यत्र कर्मणामेव सृष्टिरिति विवेकः॥ यज्ञेनेति पुण्येन वाचो वेदस्य पदवीयम्। भावप्रधानो निर्देशः। पदवीयतां मार्गयोग्यतां वेदग्रहणयोग्यतामित्येतत्। आयन् आप्तवन्तः। ततः ऋषिषु प्रविष्टां तां वाचमन्वविन्दन् अनुलब्धवन्तः। यदा। सुप्त इत्यत्र प्राणः परमात्मा सर्वे प्राणाश्चक्षुरादयः तेभ्योऽनन्तरं तदनुग्राहका आदित्यादिदेवाः। ततो लोका विषयाः। इह वाक्ये कल्पितस्य अज्ञातसत्त्वाभावात् प्रतीत्यप्रतीतिभ्यामुत्पत्तिलयाभिधानम्। व्यावहारिकसत्त्वे श्रुतेरनास्था॥

यो ब्रह्माणमिति ।

प्रहिणोति ।

ददाति आत्माकारबुद्धौ प्रकाशत इति तथोक्तः। तत्त्वमस्यादिवाक्यजबुद्धिविषयमित्येतत्। दशतय्यो दशमण्डलात्मकः ऋग्वेदः, तत्र भवा दाशतय्यः।

यो ह वा इति ।

आर्षेयमृषिसंबन्धः। ब्राह्मणं विनियोगः। आर्षेयादीन्यविदितानि यस्य मन्त्रस्य स तथाऽध्यापयति अध्ययनं कारयति। स्थाणुं स्थावरम्। गर्तम् नरकम्। शर्वर्यन्ते प्रलयान्ते। पर्यये पर्याये। चक्षुराद्यभिमानिनो देवाः सांप्रतैः तुल्याः॥ तदिति तत्र ब्रह्मवेदनात्सर्वभाव इति स्थिते यो यो देवानां मध्ये प्रतिबुद्धवानात्मानमहं ब्रह्मास्मीति स प्रतिबोद्धैव तद् ब्रह्माभवत्॥

ते होचुरिति ।

ते देवा असुराश्चोचुः किलान्योन्यं हन्त यद्यनुमतिर्भवतां, तर्हि तमात्मानं विचारयामः, यमात्मानं विचारणापूर्वं ज्ञात्वा सर्वान् लोकान् कामान् फलानि चाप्नोति इत्युक्त्वा विद्याग्रहणार्थम् इन्द्रविरोचनौ देवासुरराजौ प्रजापतिसकाशमाजग्मतुः॥ पृथ्व्याप्येति पादतलमारभ्याजानोः, जानोरारभ्यानाभि, नाभेरारभ्याग्रीवं, ग्रीवाया आकेशप्ररोहदेशं ततश्चाब्रह्मरन्ध्रं क्रमेण पृथिव्यादिभूतधारणया पृथिव्यादिपञ्चात्मके भूतगणे समुत्थिते जिते सति योगगुणे च अणिमादौ प्रवृत्ते योगाभिव्यक्ताग्निमयं तेजोमयं ब्रह्म शरीरं प्राप्तस्य योगिनो न जरादीत्यर्थः। तथा चावोचन्नाचार्याः प्रपञ्चसारे - अवनिजलानलमारुतविहायसां शक्तिभिश्च तद्बिंबैः। सारूप्यमात्मनश्च प्रतिनीत्वा तत्तदाशु जयति सुधीः॥ इति। बिम्बानि भूतमण्डलानि। तच्छक्तयश्च निवृत्त्याद्यास्तत्रैवोक्ताः।

इति अष्टमं देवताधिकरणम्॥