भामतीव्याख्या
वेदान्तकल्पतरुः
 
अपशूद्राधिकरणविषयाः

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ।

अवान्तरसङ्गतिं कुर्वन्नधिकरणतात्पर्यमाह -

यथा मनुष्याधिकारेति ।

शङ्काबीजमाह -

तत्रेति ।

निर्मृष्टनिखिलदुःखानुषङ्गे शाश्वतिक आनन्दे कस्य नाम चेतनस्यार्थिता नास्ति, येनार्थिताया अभावाच्छूद्रो नाधिक्रियेत । नाप्यस्य ब्रह्मज्ञाने सामर्थ्याभावः । द्विविधं हि सामर्थ्यं निजं चागन्तुकं च । तत्र द्विजातीनामिव शूद्राणां श्रवणादिसामर्थ्यं निजमप्रतिहतम् । अध्ययनाभावादागन्तुकसामर्थ्याभावे सत्यनधिकार इति चेत् , हन्त, आधानाभावे सत्यग्न्यभावादग्निसाध्ये कर्मणि मा भूदधिकारः । नच ब्रह्मविद्यायामग्निः साधनमिति किमित्यनाहिताग्नयो नाधिक्रियन्ते । न चाध्ययनाभावात्तत्साधनायामनधिकारो ब्रह्मविद्यायामिति साम्प्रतम् । यतो युक्तं “यदाहवनीये जुहोति”(श.ब्रा. ३-५-३-३) इत्याहवनीयस्य होमाधिकरणतया विधानात्तद्रूपस्यालौकिकतयानारभ्याधीतवाक्यविहितादाधानादन्यतोऽनधिगमादाधानस्य च द्विजातिसम्बन्धितया विधानात्तत्साध्योऽग्निरलौकिको न शूद्रस्यास्तीति नाहवनीयादिसाध्ये कर्मणि शूद्रस्याधिकार इति । नच तथा ब्रह्मविद्यायामलौकिकमस्ति साधनं यच्छूद्रस्य न स्यात् । अध्ययननियम इति चेत् । न । विकल्पासहत्वात् । तदध्ययनं पुरुषार्थे वा नियम्येत , यथा धनार्जने प्रतिग्रहादि । क्रत्वर्थे वा, यथा ‘व्रीहीनवहन्ति’ इत्यवघातः । न तावत्क्रत्वर्थे । नहि “स्वाध्यायोऽध्येतव्यः” (तै.आ. २.१५.१) इति कञ्चित्क्रतुं प्रकृत्य पठ्यते, यथा दर्शपूर्णमासं प्रकृत्य ‘व्रीहीनवहन्ति’ इति । न चानारभ्याधीतमप्यव्यभिचरितक्रतुसम्बन्धितया क्रतुमुपस्थापयति, येन वाक्येनैव क्रतुना सम्बध्येताध्ययनम् । नहि यथा जुह्वादि अव्यभिचरितक्रतुसम्बद्धमेवं स्वाध्याय इति । तस्मान्नैव क्रत्वर्थे नियमः । नापि पुरुषार्थे । पुरुषेच्छाधीनप्रवृत्तिर्हि पुरुषार्थो भवति, यथा फलं तदुपायो वा । तदुपायेऽपि हि विधितः प्राक् सामान्यरूपा प्रवृत्तिः पुरुषेच्छानिबन्धनैव । इतिकर्तव्यतासु तु सामान्यतो विशेषतश्च प्रवृत्तिर्विधिपराधीनैव । नह्यनधिगतकरणभेद इतिकर्तव्यतासु घटते । तस्माद्विध्यधीनप्रवृत्तितयाङ्गानां क्रत्वर्थता । क्रतुरिति हि विधिविषयेण विधिं परामृशति विषयिणम् । तेनार्थ्यते विषयीक्रियत इति क्रत्वर्थः । न चाध्ययनं वा स्वाध्यायो वा तदर्थज्ञानं वा प्राग्विधेः पुरुषेच्छाधीनप्रवृत्तिः, येन पुरुषार्थः स्यात् । यदि चाध्ययनेनैवार्थावबोधरूपं नियम्येत ततो मानान्तरविरोधः । तद्रूपस्य विनाप्यध्ययनं पुस्तकादिपाठेनाप्यधिगमात् । तस्मात् “सुवर्णं भार्यं” इतिवदध्ययनादेव फलं कल्पनीयम् । तथा चाध्ययनविधेरनियामकत्वाच्छूद्रस्याध्ययनेन वा पुस्तकादिपाठेन वा सामर्थ्यमस्तीति सोऽपि ब्रह्मविद्यायामधिक्रियेत । मा भूद्वाध्ययनाभावात्सर्वत्र ब्रह्मविद्यायामधिकारः, संवर्गविद्यायां तु भविष्यति । “अह हारेत्वा शूद्र” इति शूद्रं सम्बोध्य तस्याः प्रवृत्तेः । न चैष शूद्रशब्दः कयाचिदवयवव्युत्पत्त्याऽशूद्रे वर्तनीयः, अवयवप्रसिद्धितः समुदायप्रसिद्धेरनपेक्षतया बलीयस्त्वात् । तस्माद्यथानधीयानस्येष्टौ निषादस्थपतेरधिकारो वचनसामर्थ्यादेवं संवर्गविद्यायां शूद्रस्याधिकारो भविष्यतीति प्राप्तम् ।

एवं प्राप्ते ब्रूमः - न शूद्रस्याधिकारः वेदाध्ययनाभावादिति ।

अयमभिसन्धिः - यद्यपि “स्वाध्यायोऽध्येतव्यः” इत्यध्ययनविधिर्न किञ्चित्फलवत्कर्मारभ्याम्नातः, नाप्यव्यभिचरितक्रतुसम्बन्धपदार्थगतः, नहि जुह्वादिवत्स्वाध्यायोऽव्यभिचरितक्रतुसबन्धः, तथापि स्वाध्यायस्याध्ययनसंस्कारविधिरध्ययनस्यापेक्षितोपायतामवगमयन् किं पिण्डपितृयज्ञवत् स्वर्गं वा, सुवर्णं भार्यमितिवदार्थवादिकं वा फलं कल्पयित्वा विनियोगभङ्गेन स्वाध्यायेनाधीयीतेत्येवमर्थः कल्पतां, किंवा परम्परयाप्यन्यतोऽपेक्षितमधिगम्य निर्वृणोत्विति विषये, न दृष्टद्वारेण परम्परयाप्यन्यतोऽपेक्षितप्रतिलम्भे च यथाश्रुतिविनियोगोपपत्तौ च सम्भवन्त्यां श्रुतिविनियोगभङ्गेनाध्ययनादेवाश्रुतादृष्टफलकल्पनोचिता । दृष्टश्च स्वाध्यायाध्ययनसंस्कारः । तेन हि पुरुषेण स प्राप्यते, प्राप्तश्च फलवत्कर्मब्रह्मावबोधमभ्युदयनिःश्रेयसप्रयोजनमुपजनयति, नतु सुवर्णधारणादौ दृष्टद्वारेण किञ्चित्परम्परयाप्यस्त्यपेक्षितं पुरुषस्य, तस्माद्विपरिवृत्य साक्षाद्धारणादेव विनियोगभङ्गेन फलं कल्प्यते । यदा चाध्यनसंस्कृतेन स्वाध्यायेन फलवत्कर्मब्रह्मावबोधो भाव्यमानोऽभ्युदयनिःश्रेयसप्रयोजन इति स्थापितं तदा यस्याध्ययनं तस्यैव कर्मब्रह्मावबोधोऽभ्युदयनिःश्रेयसप्रयोजनो नान्यस्य, यस्य चोपनयनसंस्कारस्तस्यैवाध्ययनं, स च द्विजातीनामेवेत्युपनयनाभावेनाध्ययनसंस्काराभावात् पुस्तकादिपठितस्वाध्यायजन्योऽर्थावबोधः शूद्राणां न फलाय कल्पत इति शास्त्रीयसामर्थ्याभावान्न शूद्रो ब्रह्मविद्यायामधिक्रियत इति सिद्धम् ।

यज्ञेऽनवकॢप्त इति ।

यज्ञग्रहणमुपलक्षणार्थम् । विद्यायामनवकॢप्त इत्यपि द्रष्टव्यम् । सिद्धवदभिधानस्य न्यायपूर्वकत्वान्न्यायस्य चोभयत्र साम्यात् ।

द्वितीयं पूर्वपक्षमनुभाषते -

यत्पुनः संवर्गविद्यायामिति ।

दूषयति -

न तल्लिङ्गम् ।

कुतः ।

न्यायाभावात् ।

न तावच्छूद्रः संवर्गविद्यायां साक्षाच्चोद्यते, यथा “एतया निषादस्थपतिं याजयेत्” इति निषादस्थपतिः । किन्त्वर्थवादगतोऽयं शूद्रशब्दः, स चान्यतः सिद्धमर्थवद्योतयति न तु प्रापयतीत्यध्वरमीमांसकाः । अस्माकं तु अन्यपरादपि वाक्यादसति बाधके प्रमाणान्तरेणार्थोऽवगम्यमानो विधिना चापेक्षितः स्वीक्रियत एव । न्यायश्चास्मिन्नर्थे उक्तो बाधकः । नच विध्यपेक्षास्ति, द्विजात्यधिकारप्रतिलम्भेन विधेः पर्यवसानात् । विध्युद्देशगतत्वे त्वयं न्यायोऽपोद्यते वचनबलान्निषादस्थपतिवन्न त्वेष विध्युद्देशगत इत्युक्तम् । तस्मान्नार्थवादमात्राच्छूद्राधिकारसिद्धिरिति भावः ।

अपि च किमर्थवादबलाद्विद्यामात्रेऽधिकारः शूद्रस्य कल्पते संवर्गविद्यायां वा न तावद्विद्यामात्र इत्याह -

कामं चायमिति ।

नहि संवर्गविद्यायामर्थवादः श्रुतो विद्यामात्रेऽधिकारिणमुपनयत्यतिप्रसङ्गात् । अस्तु तर्हि संवर्गविद्यायामेव शूद्रस्याधिकार इत्यत आह -

अर्थवादस्थत्वादिति ।

तत्किमेतच्छूद्रपदं प्रमत्तगीतं, न चैत्यद्युक्तं, तुल्यं हि साम्प्रदायिकमित्यत आह -

शक्यते चायं शूद्रशब्द इति ।

एवं किलात्रोपाख्यायते - जानश्रुतिः पौत्रायणो बहुदायी श्रद्धादेयो बहुपाक्यः प्रियातिथिर्बभूव । स च तेषु तेषु ग्रामनगरशृङ्गाटकेषु विविधानामन्नपानानां पूर्णानतिथिभ्य आवसथान् कारयामास । सर्वत एत्यैतेष्वावसथेषु ममान्नपानमर्थिन उपयोक्ष्यन्त इति । अथास्य राज्ञो दानशौण्डस्य गुणगरिमसन्तोषिताः सन्तो देवर्षयो हंसरूपमास्थाय तदनुग्रहाय तस्य निदाघसमये दोषा हर्म्यतलस्थस्योपरि मालामाबध्याजग्मुः । तेषामग्रेसरं हंसं सम्बोध्य पृष्ठतः पतन्नेकतमो हंसः साद्भुतमभ्युवाद । भो भो भल्लाक्ष भल्लाक्ष, जानश्रुतेरस्य पौत्रायणस्य द्युनिशं द्युलोक आयतं ज्योतिस्तन्मा प्रसाङ्क्षीर्मैतत्त्वा धाक्षीदिति । तमेवमुक्तवन्तमग्रगामी हंसः प्रत्युवाच । कं वरमेनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ । अयमर्थः - वर इति सोपहासमवरमाह । अथवा वरो वराकोऽयं जानश्रुतिः । कमित्याक्षेपे । यस्मादयं वराकस्तस्मात्कमेनं किम्भूतमेतं सन्तं प्राणिमात्रं रैक्वमिव सयुग्वानमात्थ । युग्वा गन्त्री शकटी तया सह वर्तत इति स युग्वा रैक्वस्तमिव कमेनं प्राणिमात्रं जानश्रुतिमात्थ । रैक्वस्य हि ज्योतिरसह्यं नत्वेतस्य प्राणिमात्रस्य । तस्य हि भगवतः पुण्यज्ञानसम्भारसम्भृतस्य रैक्वस्य ब्रह्मविदो धर्मे त्रैलोक्योदरवर्तिप्राणभृन्मात्रधर्मोऽन्तर्भवति न पुना रैक्वधर्मकक्षां कस्यचिद्धर्मोऽवगाहत इति । अथैष हंसवचनादात्मनोऽत्यन्तनिकर्षमुत्कर्षकाष्ठां च रैक्वस्योपश्रुत्य विषण्णमानसो जानश्रुतिः कितव इवाक्षपराजितः पौनःपुन्येन निःश्वसन्नुद्वेलं कथं कथमपि निशीथमतिवाहयाम्बभूव । ततो निशावसानपिशुनमनिभृतवन्दारुवृन्दप्रारब्धस्तुतिसहस्रसंवलितं मङ्गलतूर्यनिर्घोषमाकर्ण्य तल्पतलस्थ एव राजा एकपदे यन्तारमाहूयादिदेश, वयस्य, रैक्वाह्वयं ब्रह्मविदमेकरतिं सयुग्वानमतिविविक्तेषु तेषु तेषु विपिननगनिकुञ्जनदीपुलिनादिप्रदेशेष्वन्विष्य प्रयत्नतोऽस्मभ्यमाचक्ष्वेति । स च तत्र तत्रान्विष्यन् क्वचिदतिविविक्ते देशे शकटस्याधस्तात् पामानं कण्डूयमानं ब्राह्मणायनमद्राक्षीत् । तं च दृष्ट्वा रैक्वोऽयं भवितेति प्रतिभावानुपविश्य सविनयमप्राक्षीत् , त्वमसि हे भगवन् , सयुग्वा रैक्व इति । तस्य च रैक्वभावानुमतिं च तैस्तैरिङ्गितैर्गार्हस्थ्येच्छां धनायां चोन्नीय यन्ता राज्ञे निवेदयामास । राजा तु तं निशम्य गवां षट्शतानि निष्कं च हारं चाश्वतरीरथं चादाय सत्वरं रैक्वं प्रतिचक्रमे । गत्वा चाभ्युवाद । है रैक्व, गवां षट्शतानीमानि निष्कश्च हारश्चायमश्वतरीरथः, एतदादत्स्व, अनुशाधि मां भगवन्निति । तमेवमुक्तवन्तं प्रति साटोपं च सस्पृहं चोवाच रैक्वः । अह हारेत्वा शूद्र, तवैव सह गोभिरस्त्विति । अहेति निपातः साटोपमामन्त्रणे । हारेण युक्ता इत्वा गन्त्री रथो हारेत्वा स गोभिः सह तवैवास्तु, किमेतन्मात्रेण मम धनेनाकल्पवर्तिनो गार्हस्थ्यस्य निर्वाहानुपयोगिनेति भावः । आहरेत्वेति तु पाठोऽनर्थकतया च गोभिः सहेत्यत्र प्रतिसम्बन्ध्यनुपादानेन चाचार्यैर्दूषितः । तदस्यामाख्यायिकायां शक्यः शूद्रशब्देन जानश्रुती राजन्योऽप्यवयवव्युत्पत्त्या वक्तुम् । स हि रैक्वः परोक्षज्ञतां चिख्यापयिषुरात्मनो जानश्रुतेः शूद्रेति शुचं सूचयामास । कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति ।

उच्यते -

तदाद्रवणात् ।

तद्व्याचष्टे - शुचमभिदुद्राव जानश्रुतिः । शुचं प्राप्तवानित्यर्थः । शुचा वा जानश्रुतिः दुद्रुवे । शुचा प्राप्त इत्यर्थः । अथवा शुचा रैक्वं जानश्रुतिर्दुद्राव गतवान् । तस्मात्तदाद्रवणादिति तच्छब्देन शुग्वा जानश्रुतिर्वा रैक्वो वा परामृश्यत इत्युक्तम् ॥ ३४ ॥

क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ।

इतश्च न जातिशूद्रो जानश्रुतिः - यत्कारणं

प्रकरणनिरूपणे क्रियमाणे क्षत्रियत्वमस्य जानश्रुतेरवगम्यते चैत्ररथेन लिङ्गादिति व्याचक्षाणः प्रकरणं निरूपयति -

उत्तरत्र हि संवर्गविद्यावाक्यशेषे ।

चैत्ररथेनाभिप्रतारिणा निश्चितक्षत्रियत्वेन समानायां संवर्गविद्यायां समभिव्याहाराल्लिङ्गात्सन्दिग्धक्षत्रियभावो जानश्रुतिः क्षत्रियो निश्चीयते । “अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं सूदेन परिविष्यमाणौ ब्रह्मचारी बिभिक्षे”(बृ. उ. ४ । ३ । ५) इति प्रसिद्धयाजकत्वेन कापेयेनाभिप्रतारिणो योगः प्रतीयते । ब्रह्मचारिभिक्षया चास्याशूद्रत्वमवगम्यते । नहि जातु ब्रह्मचारी शूद्रान् भिक्षते । याजकेन च कापेयेन योगाद्याज्योऽभिप्रतारी । क्षत्रियत्वं चास्य चैत्ररथित्वात् । “तस्माच्चैत्ररथो नामैकः क्षत्रपतिरजायत” इति वचनात् । चैत्ररथित्वं चास्य कापेयेन याजकेन योगात् ।

एतेन वै चित्ररथं कापेया अयाजयन्निति

छन्दोगानां द्विरात्रे श्रूयते । तेन चित्ररथस्य याजकाः कापेयाः । एष चाभिप्रतारी चित्ररथादन्यः सन्नेव कापेयानां याज्यो भवति । यदि चैत्ररथिः स्यात् समानान्वयानां हि प्रायेण समानान्वया याजका भवन्ति । तस्माच्चैत्ररथित्वादभिप्रतारी काक्षसेनिः क्षत्रियः । तत्समभिव्याहाराच्च जानश्रुतिरपि क्षत्रियः सम्भाव्यते ।

इतश्च क्षत्रियो जानश्रुतिरित्याह -

क्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च ।

क्षत्तृप्रेषणे चार्थसम्भवे च तादृशस्य वदान्यप्रष्ठस्यैश्वर्यं प्रायेण क्षत्रियस्य दृष्टं युधिष्ठिरादिवदिति ॥ ३५ ॥

संस्कारपरामर्शात्तदभावाभिलापाच्च ।

न केवलमुपनीताध्ययनविधिपरामर्शेन न शूद्रस्याधिकारः किन्तु तेषु तेषु विद्योपदेशप्रदेषूपनयनसंस्कारपरामर्शात् शूद्रस्य तदभावाभिधानाद्ब्रह्मविद्यायामनधिकार इति ।

नन्वनुपनीतस्यापि ब्रह्मोपदेशः श्रूयते - “तान्हानुपनीयैव” (छा. उ. ५ । ११ । ७) इति । तथा शूद्रस्यानुपनीतस्यैवाधिकारो भवीष्यतीत्यत आह -

तान्हानुपनीयैवेत्यपि प्रदर्शितैवोपनयनप्राप्तिः ।

प्राप्तिपूर्वकत्वात्प्रतिषेधस्य येषामुपनयनं प्राप्तं तेषामेव तन्निषिध्यते । तच्च द्विजातीनामिति द्विजातय एव निषिद्धोपनयना अधिक्रियन्ते न शूद्र इति ॥ ३६ ॥

तदभावनिर्धारणे च प्रवृत्तेः ।

सत्यकामो ह वै जाबालः प्रमीतपितृकः स्वां मातरं जबालां पप्रच्छ, अहमाचार्यकुले ब्रह्मचर्यं चरिष्यामि, तद्ब्रवीतु भवती किङ्गोत्रोऽहमिति । साब्रवीत् । त्वज्जनकपरिचरणपरतया नाहमज्ञासिषं गोत्रं तवेति । स त्वाचार्यं गौतममुपससाद । उपसद्योवाच, हे भगवन् , ब्रह्मचर्यमुपेयां त्वयीति । स होवाच, नाविज्ञातगोत्र उपनीयत इति किङ्गोत्रोऽसीति । अथोवाच सत्यकामो नाहं वेद स्वं गोत्रं, स्वां मातरं जबालामपृच्छं, सापि न वेदेति । तदुपश्रुत्याभ्यधाद्गौतमः, नाद्विजन्मन आर्जवयुक्तमीदृशं वचः, तेनास्मिन्न शूद्रत्वसम्भावनास्तीति त्वां द्विजातिजन्मानमुपनेष्य इत्युपनेतुमनुशासितुं च जाबालं गौतमः प्रवृत्तः । तेनापि शूद्रस्य नाधिकार इति विज्ञायते ।

न सत्यादगा इति ।

न सत्यमतिक्रान्तवानसीति ॥ ३७ ॥

श्रवणाध्ययनार्थप्रतिषेधात्समृतेश्च ।

निगदव्याख्यानेन भाष्येण व्याख्यातम् । अतिरोहितार्थमन्यत् ॥ ३८ ॥

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि॥३४॥ ब्रह्मविद्या शूद्राधिकारा न वेत्यध्ययनस्य प्रधानकर्मत्वसंस्कारकर्मत्वाभ्यां संशये पूर्वम् अत्रैवर्णिकदेवाना तद्यो य इति लिङ्गादधिकार उक्तस्तद्वद्विद्याधिकारिणः शूद्रशब्देन परामर्शलिङ्गाच्छूद्रस्याप्यधिकार इति सङ्गतिं भाष्यारूढामाह –

अवान्तरेति ।

पूर्वपक्षमाह –

निर्मृष्टेति ।

आगन्तुकं शास्त्रीयम्।

अधिकारलक्षण एवावैद्यत्वादभावः कर्मणि स्यात् (जै.सू.अ.६.पा.सू.३७) इत्यनधीयानस्यानधिकार इति स्थितत्वाद्गतार्थतामाशङ्कते –

अध्ययनेति ।

एतद् न हि आहवनीयादिरहितेन विद्या वेदितुं न शक्यत इति भाष्यं व्याचक्षाणः परिहरति –

हन्तेति ।

तत्रानग्नेरग्निसाध्ये कर्मण्यनधिकार स्थितोऽवैद्यत्वम् अभ्युच्चयमात्रम्; अभ्युच्चयत्वं चाध्ययनविधेः पुरुषार्थत्वशङ्क्यायाः तत्रानिरासात्, इह संस्कारपरामर्शादित्यादिसूत्रैरध्ययनविधेः संस्कारकर्मविषयत्वसमर्थनाच्च। अतोऽनग्नीनामपि शूद्राणामग्न्यसाध्यायां विद्यायामधिकार इति शङ्काया न गतार्थत्वमित्यर्थः।

ननु कर्मण्यग्निवद्विद्यामध्ययनं हेतुरित्याशङ्क्याह –

न चेति ।

अग्निः कर्महेतुः, स च न शूद्रस्य, अध्ययनं तु विद्यायामनियतो हेतुः संभवति च शूद्रस्येत्युपपादयति –

यत इत्यादिना ।

आहवनीयादिसाध्ये कर्मणि शूद्रस्य नाधिकार इत्येतद्यतः कारणाद् युक्तं, यतश्च विद्यायां शूद्रस्यासंभविसाधनमलौकिकं नास्ति, ततस्त्वदुक्तमसांप्रतमिति योजना।

अग्नेः कर्मसूपयोगमाह –

यदाहवनीये इति ।

ननु व्रीहिवदाहवनीयोऽस्तु शूद्रस्य नेत्याह –

तद्रूपस्येति ।

संस्कृतोऽग्निराहवनीयः; स चालौकिक इत्यप्रकरणाधीताद्वाक्यविहिताधानादेव लभ्य इत्यर्थः। आधानमपि द्विजातिसंबद्धं यदि क्रतुं कञ्चिदारभ्य विधीयेत, तर्हि क्रत्वन्तरे शूद्रोऽधिक्रियेत, न त्वेतदस्ति; तस्याग्निद्वारा सर्वक्रतुसाधारण्यात् इत्येवमनारभ्याधीतग्रहणम्।

आधानमप्यस्तु शूद्रस्य, नेत्याह –

आधानस्य चेति ।

वसन्तादिवाक्येनेत्यर्थः।

विद्यायामलौकिकं साधनं नास्तीत्यसिद्धमध्ययनक्रियाया लौकिकत्वेऽपि तन्नियमस्य वैधत्वादिति शङ्कां परिहरति –

न विकल्पासहत्वादिति ।

नानोपायसाध्येऽक्षराधिगमेऽध्ययनं नियम्यमानं पुरुषार्थे तस्मिन्नियम्येतोत क्रत्वर्थे इति विकल्प्य द्वितीयं निरस्यति –

न तावदिति ।

अध्ययनियमस्य क्रत्वर्थाश्रितत्वं प्रकरणाद्वाक्याद्वेति विकल्प्याद्यं निरस्य द्वितीयं प्रत्याह –

न चाऽनारभ्येति ।

व्याप्तया हि जुह्वा क्रतौ व्यापके बुद्धिस्थीकृते वाक्यं पर्णतां क्रतुना संबन्धयति, स्वाध्यायस्तु स्वशाखात्मकोऽवयवी न कर्मविशेषेण व्याप्त इत्यनुपस्थापिते कर्मणि कथं वाक्यमध्ययनस्य कर्मसबन्धं ब्रूयादित्यर्थः।

नन्वज्ञातोपाये कथं पुरुषेच्छातः प्रवृत्तिरत आह –

तदुपायेऽपि हीति ।

फलमभिलषस्तदुपायमप्यनुष्ठेयं मन्यते, विशेषं तु न वेदेति।

तर्हि करणार्थेतिकर्तव्यतायामपि सामान्यप्रवृत्तिरिच्छाधीनेत्याशङ्क्याह –

इतिकर्तव्यतास्विति ।

अनधिगतः करणविशेषो विधितो येन पुंसा स इतिकर्तव्यतासु न घटते न चेष्टते। न हि करणसामान्यमितिकर्तव्यतोपकार्यं, किं तु विहितः कथंभावाकाङ्क्षः करणविशेषः, तत्र य यदङ्गं सामान्यतो यच्च विशेषतस्तत्र सर्वत्र विध्यधीनैव प्रवृत्तिरित्यर्थः।

ननु कथं विध्यधीनप्रवृत्तिकता क्रत्वर्थता क्रतुविध्योर्भेदादत आह –

क्रतुरिति हीति ।

क्रतुरिति शब्दो विषयेण क्रतुना तदभिधायकं विषयिणं विधिशब्दं परामृशति लक्षणयेत्यर्थः। अर्थ्यते ज्ञायते।

मा भूवन्नध्ययनादयः पुमर्थाः, मा भूच्च तदाश्रितोऽदृष्टनियमोऽर्थावबोधे तु दृष्टे एवाध्ययनं नियम्यतामत आह –

यदि चेति ।

यस्मान्न नियमविधिरतोऽ पूर्वविधिरित्याह –

तस्मादिति ।

यदोपनयनाङ्गकाध्ययनविधिः काम्यः, तदा शूद्रस्य लौकिकाध्ययनादिना वेदग्रहणमित्याह –

तथा चेति ।

द्वौ हीह पूर्वपक्षौ – सर्वत्र शूद्रस्याधिकारः, संवर्गविद्यायामेव वेति।

तत्राद्यं प्रदर्श्य, स्वाध्यायविधेर्नियामकत्वमुपेत्यैव द्वितीयमाह –

मा भूद्वेति ।

वाक्यप्रकरणयोरभावेऽपि कल्पनालाघवेन सामर्थ्यलक्षणलिङ्गेन चानुगृहीतस्तव्यप्रत्ययः कर्मप्राधान्यमवगमयन्नध्ययनस्य संस्कारकर्मतामापादयतीत्याह –

तथापीत्यादिना ।

विनियोगः पदान्वयः।

परम्परयेति ।

अक्षरावाप्तिपदार्थव्युत्पत्तिविचारपरयेत्यर्थः। अन्यतोऽनुष्ठानतोऽपेक्षितमर्थबोधमित्यर्थः।

अर्थबोधेऽध्ययनस्य सामर्थ्यं दर्शयति –

दृष्टश्चेति ।

संस्कारोऽवाप्तिः।

सैव दर्श्यते –

तेन हीति ।

विपरिवृत्त्येति ।

श्रुतविनियोगाद्व्यावृत्त्येत्यर्थः।

विनियोगभङ्गेनेति ।

सुवर्णधारणेनेति कृत्वेत्यर्थः।

यदवादि लिखितपठितवेदार्थबोध इति, तत्राह –

यदा चेति ।

एवं शूद्रस्य विद्यायामसामर्थ्यमुक्त्वा शास्त्रपर्युदासमाह –

यज्ञ इति ।

अतत्परः शब्दो नाज्ञातार्थबोधीति मते मा भूल्लिङ्गादधिकारसिद्धिः, सिद्धान्ते तु किं न स्यादत आह –

अस्माकं त्विति ।

असति बाधकेऽवगमादर्थसत्तासिद्धिरुक्ता, विधिना चापेक्ष्यत इति सप्रयोजनता।

शूद्रशब्दस्यावयवृत्तिप्रदर्शनायाख्यायिकां श्रौतीमनुक्रामति –

एवं किलेत्यादिना ।

जनश्रुतस्यापत्यं जानश्रुतिः। पुत्रसंज्ञस्यापत्यं पौत्रः। तस्यापत्यं पौत्रायणः। श्रद्धयार्थिभ्यो देयं यस्य स तथा। पाक्यमन्नं बहु यस्य गृहे स तथा। शृङ्गाटकानि चतुष्पथाः। शौण्डस्य शूरस्य। तदनुग्रहाय उत्तमविद्याजिज्ञासां कर्तुम्। दोषेत्यव्ययं रात्रावित्यर्थः। भल्लाक्ष भल्लाक्ष विरुद्धलक्षणयाऽन्धेत्युपालम्भः। इत आरभ्य द्युलोके मा प्रसाङ्क्षीः प्रसक्तिं मा कार्षीः, यदि करोषि, तर्हि तन्मध्यप्रविष्टं त्वां तन्मा धाक्षीन्मा दहतु, तद्धक्ष्यति वराको जानश्रुतिरित्येकदेशद्वारोच्यते। एष तावद्वराकः एनमल्पं । सन्तं किमेतद्वचनमात्थेत्येतच्छब्दान्वयः। युजेर्धातोः कर्तरि अन्येभ्योऽपि दृश्यन्त इति क्वनिपि कृते युग्वा। स्वारूढं पुरुषं देशान्तरेण युनक्तीत्यर्थः। उद्भेलमपारं। चिन्ताविष्ट्स्य हि रात्रिर्बहुर्भवति। पिशुनः सूचकः। वन्दारवः स्तावकास्तेषां वृन्दं समूहः। एकपदे झटिति। यन्तारं सारथिम्। विपिनमरण्यम्। नगनिकुञ्जं पर्वतगुहा। पुलिनं सैकतम्। ब्राह्मणायनं ब्राह्मणवेषम्। धनाया धनेच्छा श्रुत्युक्तनिष्कव्याख्या हारमिति। अश्वतरीभ्यां युक्तो रथस्तथोक्तः। आटोपः संभ्रमः। अह हारे त्वेति पाठो व्याख्यातः। आहरे त्वेति पाठे त्वा इत्यस्यात्र वाक्ये न केनापि संबन्ध इत्यानर्थक्यम्। शकटोक्तेः प्रा व्याख्यायामस्ति संबन्धीति॥३४॥ एवं तावन्न्यायबलेन शूद्रशब्दलिङ्गमन्यथा नीतम्।

संप्रति शूद्राधिकारवारकबहुलिङ्गविरोधादपि तथेत्याह –

क्षत्रियत्वगतेश्चेत्यारभ्य आ अधिकरणसमाप्तेः।

ननु कापेयवाज्योऽभिप्रतारी चित्ररथ एव किं न स्यादत आह –

एष चेति ।

नामभेदादन्वत्वे सति तद्वंश्यत्वात्तद्याजकेन याज्यत्वमिथर्थः। यद्यपि क्षत्रयसमहि हारो न क्षत्रियत्वव्याप्तः कापेय एव व्यभिचारात्तथापि द्योतकतया संभावकः।

सर्वं च वैदिकं लिङ्गमेवभ्देत्याह –

संभाव्यते इति ।

एवं तावद्वाक्योपक्रमे संदेहमभ्युपेत्यैव वाक्यशेषान्निर्णयः कृतः, इदानीं तु नैव संदेहः; शूद्रशब्दपरामर्शात्प्रागेव स ह क्षत्तारमुवाचेत्यमात्यप्रैषादिना क्षत्रियत्वनिश्चयादित्याह –

इतश्चेति ।

बहुदायी बहुपाक्य इति ह्यर्थसंभवोऽधिगतः। अन्ये वदान्या दानशीलाः पृष्ठे यस्य स तथा।

अर्थसंभवे च निमित्ते यदैश्वर्यं तस्य जानश्रुतेरवगतं तत् क्षत्रियस्य दृष्टमित्यर्थः॥३५॥ आद्यसूत्रे एवाध्ययननियमस्य सूत्रितत्वात् पुनरुक्तिमाशङ्क्याह –

न केवलमिति ।

उपनीतस्य यदध्ययनं तद्विधिपरामर्श आलोचनम्। उपनयनमध्ययनाङ्गमेकम्, अपरं च विद्याप्राप्तये उपसदनापरपर्यायमस्ति। हीनवर्णे राजन्याचार्ये औपमन्यवादीनां ब्राह्मणानामुपनयनं ‘‘तान्हेति’’ निषिध्यते।

तत एवोत्तमवर्णाचार्यलाभे तेषामुपनयनं प्राप्नोत्यन्यथाऽस्यैव अप्राप्तनिषेधतापातादित्याह –

येषामिति ॥३६॥३७॥३८॥

ते हैते भारद्वाजादयः षड् ऋषयोऽपरं ब्रह्म परत्वेनावगतवन्त इति ब्रह्मपराः, तद्ध्यानानुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः परं च परमार्थं ब्रह्म अन्वेषमाणा एव पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति प्रतिपेदिरे। ते च तमेव भगवन्तमुपपसन्नाः तानौपमन्यवादीननुपनीयैतद्वैश्वानरविज्ञानमुवाच अश्वपती राजा। त्रपुजतुभ्यां वङ्गलाक्षाभ्यां तप्ताभ्याम्। द्विजातीनां दानं साधारणम्, प्रतिग्रहस्तु ब्राह्मणस्यैवेति विवक्षितम्, न तु शूद्रस्यैव दानं वार्यते॥

इति नवममपशूद्राधिकरणम्॥