भामतीव्याख्या
वेदान्तकल्पतरुः
 
कम्पनाधिकरणविषयाः

कम्पनात् ।

प्राणवज्रश्रुतिबलाद्वाक्यं प्रकरणं च भङ्क्त्वा वायुः पञ्चवृत्तिराध्यात्मिको बाह्यश्चात्र प्रतिपाद्यः । तथाहि - प्राणशब्दो मुख्यो वायावाध्यात्मिके, वज्रशब्दश्चाशनौ । अशनिश्च वायुपरिणामः । वायुरेव हि बाह्यो धूमज्योतिःसलिलसंवलितः पर्जन्यभावेन परिणतो विद्युत्स्तनयित्नुवृष्ट्यशनिभावेन विवर्तते । यद्यपि च सर्वं जगदिति सवायुकं प्रतीयते तथापि सर्वशब्द आपेक्षिकोऽपि न स्वाभिधेयं जहाति किन्तु सङ्कुचद्वृत्तिर्भवति । प्राणवज्रशब्दौ तु ब्रह्मविषयत्वे स्वार्थमेव त्यजतः । तस्मात् स्वार्थत्यागाद्वरं वृत्तिसङ्कोचः, स्वार्थलेशावस्थानात् । अमृतशब्दोऽपि मरणाभाववचनो न सार्वकालिकं तदभावं ब्रूते, ज्योतिर्जीवितयापि तदुपपत्तेः । यथा अमृता देवा इति । तस्मात्प्राणवज्रश्रुत्यनुरोधाद्वायुरेवात्र विवक्षितो न ब्रह्मेति प्राप्तम् ।

एवं प्राप्त उच्यते -

कम्पनात् ।

सवायुकस्य जगतः कम्पनात् , परमात्मैव शब्दात्प्रमित इति मण्डूकप्लुत्यानुषज्जते । ब्रह्मणो हि बिभ्यदेतज्जगत्कृत्स्नं स्वव्यापारे नियमेन प्रवर्तते न तु मर्यादामतिवर्तते ।

एतदुक्तं भवति - न श्रुतिसङ्कोचमात्रं श्रुत्यर्थपरित्यागे हेतुः, अपि तु पूर्वापरवाक्यैकवाक्यताप्रकरणाभ्यां संवलितः श्रुतिसङ्कोचः । तदिदमुक्तम् -

पूर्वापरयोर्ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहे । इहैव कथमन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहीति ।

तदनेन वाक्यैकवाक्यता दर्शिता ।

प्रकरणादपि

इति भाष्येण प्रकरणमुक्तम् । यत्खलु पृष्टं तदेव प्रधानं प्रतिवक्तव्यमिति तस्य प्रकरणम् । पृष्टादन्यस्मिंस्तूच्यमाने शास्त्रमप्रमाणं भवेदसम्बद्धप्रलापित्वात् ।

यतु वायुविज्ञानात्क्वचिदमृतत्वमभिहितमापेक्षिकं तदिति ।

'अपपुनर्मृत्युं जयति” इति श्रुत्या ह्यपमृत्योर्विजय उक्तो नतु परममृत्युविजय इत्यापेक्षिकत्वं, तच्च तत्रैव प्रकरणान्तरकरणेन हेतुना । न केवलमपश्रुत्या तदापेक्षिकमपि तु परमात्मानमभिधाय “अतोऽन्यदार्तम्” (बृ. उ. ३ । ४ । २) इति वाय्वादेरार्तत्वाभिधानात् । नह्यार्ताभ्यासादनार्तो भवतीति भावः ॥ ३९ ॥

कम्पनात्॥३९॥ अस्यानुप्रसक्तेनापशूद्रविचारेण न सङ्गतिरिति व्यवहितेनोच्यते। शब्दादेव प्रमित इत्यत्र ब्रह्मवाक्ये जीवानुवादो ब्रह्मैक्यबोधेत्युक्तम्। इह तु प्राणस्य स्वरूपेण कल्पितस्य न ब्रह्मैक्यसंभवो यतोऽनूद्येत, ततस्तदुपास्तिविधिरिति प्रत्यवस्थीयते। प्राणमेवाभिसंविशन्तीत्यत्र निरवेक्षकारणत्वपरैवकारश्रवणाद् ब्रह्मपरत्वम्, इह तदभावदत एव प्राण इत्यनेनागतार्थत्वमोपसंहारैकरूप्यस्यास्पष्टत्वाच्च प्रातर्दनविचारेणपीति। स्यादेतत् - तदेव शुक्रं तद् ब्रह्मेति च भयादस्याग्निस्तपतीति च प्राचीनपराचीनवचनसंदष्टतया ऽस्य तदेकवाक्यत्वादन्यत्र धर्मादिति ब्रह्मप्रकरणाच्च ब्रह्मपरत्वावगतेः कथं पूर्वपक्षोत्थानमत आह –

प्राणवज्रेति ।

वायुपरिग्रहे वज्रशब्दः श्रुतिवृत्तः स्यादिति श्रुतिः। प्राणश्रुतिबलाद्वायुराध्यात्मिकः शारीरो वज्रश्रुतिबलाद्वाह्यश्च वायुरत्र प्रतिपाद्यः। न हि प्राणमात्रस्य वज्रोद्यमनहेतुना। उभयोश्च चिन्तनमेकं संवर्गविद्यावदिति न वाक्यभेद इति भावः।

सर्वशब्दश्रुतिविरोधमाशङ्क्याह पूर्ववादी –

यद्यपि चेति ।

मण्डूकप्लुत्येति ।

यथा मण्डूको बहून् विहाय स्वपङ्क्तिगतमण्डूकं प्रति प्लवते एवं शब्दादिति प्रतिज्ञा व्यवहिताऽपि हेतुनाऽनुषज्यते इत्यर्थः। शब्दोऽत्र सर्वशब्दः।

सवायुकस्य जगतः कम्पयितृत्वमुपपादयति –

ब्रह्मणो हीति ।

ननु प्राणवज्रश्रुत्योः स्वार्थत्यागभयात्सर्वशब्दसंकोच उक्तः, कथं सवायुकजगत्प्रतीतिरत आह –

एतदुक्तमिति ।

प्रधानस्याङ्क्षस्य वचनं प्रकरणमिति प्रकरणलक्षणं प्रस्तुते वर्तयति –

यत्खल्विति ।

पृष्टं जिज्ञास्यत्वात्प्रधानं तस्य नियन्तृत्वादीनि प्रतिपत्तावङ्गानि प्रतिवचनेन निरुप्यन्त इति प्रकरणसिद्धिरित्यर्थः। यदिदं किं च जगत् तत्सर्वं प्राणे निमित्ते एजति चेष्टते। तच्च तत एव निःसृतम् उत्पन्नम्। तच्च प्राणसंज्ञं जगत्कारणं महत्। विमेत्यस्माज्जगदिति भयम्।

भयहेतुत्वं रूपयति –

वज्रमिति ।

उद्यतं वज्रमित्यर्थः। पूर्वपक्षे तु प्राणे निमित्ते महद्भयहेतुर्वज्रमुद्यतं भवतीति व्याख्यातम्। तथा च मुख्यार्थो वज्रशब्दः। यदि तु सिद्धान्तेऽपि ब्रह्मणि निमित्ते वज्रमुद्यतमिति व्याख्यायेत, तदाऽपि वज्रशब्द उपलक्षणार्थः स्याद्; वज्रब्रह्मणोरसाधारणसंबन्धाभावादिति। वायुरेव व्यष्टिर्विशेषः। समष्टिः सामान्यम्। शुक्रं ज्योतिष्मत्। अस्येश्वरस्य भयादग्निसूर्यौ तपतः। इन्द्रादयस्तु धावन्ति स्वस्वकार्येषु। निर्विष्टानपेक्ष्य मृत्युः पञ्चमः। भीषा भयेन॥३९॥

इति दशमं कम्पनाधिकरणम्॥३९॥