श्रीमच्छङ्करभगवत्पूज्यपादशिष्यश्रीपद्मपादाचार्यविरचिता
पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥
अथ प्रथमं वर्णकम्
अनाद्यानन्दकूटस्थज्ञानानन्तसदात्मने ॥
अभूतद्वैतजालाय साक्षिणे ब्रह्मणे नमः ॥ १ ॥
नमः श्रुतिशिरःपद्मषण्डमार्तण्डमूर्तये ।
बादरायणसंज्ञाय मुनये शमवेश्मने ॥ २ ॥
नमाम्यभोगिपरिवारसम्पदं निरस्तभूतिमनुमार्धविग्रहम् ।
अनुग्रमुन्मृदितकाललाञ्छनं विना विनायकमपूर्वशङ्करम् ॥ ३ ॥
यद्वक्त्र - मानससरःप्रतिलब्धजन्म - भाष्यारविन्दमकरन्दरसं पिबन्ति ।
प्रत्याशमुन्मुखविनीतविनेयभृङ्गाः तान् भाष्यवित्तकगुरून् प्रणमामि मूर्ध्ना ॥ ४ ॥
पदादिवृन्तभारेण गरिमाणं बिभर्ति यत् ।
भाष्यं प्रसन्नगम्भीरं तद्व्याख्यां श्रद्धयाऽऽरभे ॥ ५ ॥
’युष्मदस्मत्प्रत्ययगोचरयोः’ इत्यादि ‘अहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः’ इत्यन्तं भाष्यम् ‘अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते’ इत्यनेन भाष्येण पर्यवस्यत् शास्त्रस्य विषयः प्रयोजनं चार्थात् प्रथमसूत्रेण सूत्रिते इति प्रतिपादयति । एतच्च ‘तस्मात् ब्रह्म जिज्ञासितव्यम्’ इत्यादिभाष्ये स्पष्टतरं प्रदर्शयिष्यामः ॥
अत्राह यद्येवम् , एतावदेवास्तु भाष्यम् ‘अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते’ इति ; तत्र ‘अनर्थहेतोः प्रहाणाय’ इति प्रयोजननिर्देशः, ‘आत्मैकत्वविद्याप्रतिपत्तये’ इति विषयप्रदर्शनं, किमनेन ‘युष्मदस्मद्’ इत्यादिना ‘अहं मनुष्यः’ इति देहेन्द्रियादिषु अहं ममेदमित्यभिमानात्मकस्य लोकव्यवहारस्य अविद्यानिर्मितत्वप्रदर्शनपरेण भाष्येण ? उच्यते — ब्रह्मज्ञानं हि सूत्रितं अनर्थहेतुनिबर्हणम् । अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वभोक्तृत्वम् । तत् यदि वस्तुकृतं, न ज्ञानेन निबर्हणीयम् ; यतः ज्ञानं अज्ञानस्यैव निवर्तकम् । तत् यदि कर्तृत्वभोक्तृत्वम् अज्ञानहेतुकं स्यात् , ततो ब्रह्मज्ञानं अनर्थहेतुनिबर्हणमुच्यमानमुपपद्येत । तेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूचयता अविद्याहेतुकं कर्तृत्वभोक्तृत्वं प्रदर्शितं भवति । अतः तत्प्रदर्शनद्वारेण सूत्रार्थोपपत्त्युपयोगितया सकलतन्त्रोपोद्घातः प्रयोजनमस्य भाष्यस्य । तथा चास्य शास्त्रस्य ऐदम्पर्यं सुखैकतानसदात्मककूटस्थचैतन्यैकरसता संसारित्वाभिमतस्यात्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति प्रतिपादितम् । तच्च अहं कर्ता सुखी दुःखी इति प्रत्यक्षाभिमतेन अबाधितकल्पेन अवभासेन विरुध्यते । अतः तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपं अविद्यानिर्मितं आत्मन इति यावत् न प्रतिपाद्यते, तावत् जरद्गवादिवाक्यवदनर्थकं प्रतिभाति ; अतः तन्निवृत्त्यर्थम् अविद्याविलसितम् अब्रह्मस्वरूपत्वम् आत्मन इति प्रतिपादयितव्यम् । वक्ष्यति च एतत् अविरोधलक्षणे जीवप्रक्रियायां सूत्रकारः ‘तद्गुणसारत्वात्’ (ब्र. सू. २-३-२९) इत्यादिना ॥
यद्येवमेतदेव प्रथममस्तु, मैवम् ; अर्थविशेषोपपत्तेः । अर्थविशेषे हि समन्वये प्रदर्शिते तद्विरेधाशङ्कायां तन्निराकरणमुपपद्यते । अप्रदर्शिते पुनः समन्वयविशेषे, तद्विरोधाशङ्का तन्निराकरणं च निर्विषयं स्यात् । भाष्यकारस्तु तत्सिद्धमेव आदिसूत्रेण सामर्थ्यबलेन सूचितं सुखप्रतिपत्त्यर्थं वर्णयतीति न दोषः ॥
ननु च ग्रन्थकरणादिकार्यारम्भे कार्यानुरूपं इष्टदेवतापूजानमस्कारेण बुद्धिसन्निधापिताथवृद्ध्यादिशब्दैः दध्यादिदर्शनेन वा कृतमङ्गलाः शिष्टाः प्रवर्तन्ते । शिष्टाचारश्च नः प्रमाणम् । प्रसिद्धं च मङ्गलाचरणस्य विघ्नोपशमनं प्रयोजनम् । महति च निःश्रेयसप्रयोजने ग्रन्थमारभमाणस्य विघ्नबाहुल्यं सम्भाव्यते । प्रसिद्धं च `श्रेयांसि बहुविघ्नानि' इति । विज्ञायते च-'तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः' इति, येषां च यन्न प्रियं ते तद्विघ्नन्तीति प्रसिद्धं लोके । तत् कथमुल्लङ्घ्य शिष्टाचारं अकृतमङ्गल एव विस्रब्धं भाष्यकारः प्रववृते? अत्रोच्यते —'युष्मदस्मद्' इत्यादि `तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः' इत्यन्तमेव भाष्यम् । अस्य च अयमर्थः—सर्वोपप्लवरहितो विज्ञानघनः प्रत्यगर्थः इति । तत् कथञ्चन परमार्थतः एवम्भूते वस्तुनि रूपान्तरवदवभासो मिथ्येति कथयितुम् तदन्यपरादेव भाष्यवाक्यात् निरस्तसमस्तोपप्लवं चैतन्यैकतानमात्मानं प्रतिपद्यमानस्य कुतो विघ्नोपप्लवसम्भवः? तस्मात् अग्रणीः शिष्टाचारपरिपालने भगवान् भाष्यकारः ।
विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् इति ।
कोऽयं विरोधः? कीदृशो वा इतरेतरभावः अभिप्रेतः? यस्य अनुपपत्तेः—'तमःप्रकाशवत्' इति निदर्शनम् । यदि तावत् सहानवस्थानलक्षणो विरोधः, ततः प्रकाशभावे तमसो भावानुपपत्तिः, तदसत् ; दृश्यते हि मन्दप्रदीपे वेश्मनि अस्पष्टं रूपदर्शनं, इतरत्र च स्पष्टम् । तेन ज्ञायते मन्दप्रदीपे वेश्मनि तमसोऽपि ईषदनुवृत्तिरिति ; तथा छायायामपि औष्ण्यं तारतम्येन उपलभ्यमानं आतपस्यापि तत्र अवस्थानं सूचयति । एतेन शीतोष्णयोरपि युगपदुपलब्धेः सहावस्थानमुक्तं वेदितव्यम् । उच्यते परस्परानात्मतालक्षणो विरोधः, न जातिव्यक्त्योरिव परमार्थतः परस्परसम्भेदः सम्भवतीत्यर्थः ; तेन इतरेतरभावस्य-इतरेतरसम्भेदात्मकत्वस्य अनुपपत्तिः । कथम्? स्वतस्तावत् विषयिणः चिदेकरसत्वात् न युष्मदंशसम्भवः । अपरिणामित्वात् निरञ्जनत्वाच्च न परतः । विषयस्यापि न स्वतः चित्सम्भवः, समत्वात् विषयत्वहानेः ; न परतः ; चितेः अप्रतिसङ्क्रमत्वात् ।
तद्धर्माणामपि सुतराम् इति ।
एवं स्थिते स्वाश्रयमतिरिच्य धर्माणाम् अन्यत्र भावानुपपत्तिः सुप्रसिद्धा इति दर्शयति । इति शब्दो हेत्वर्थः । यस्मात् एवम् उक्तेन न्यायेन इतरेतरभावासम्भवः,
अतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके इति ॥
अस्मत्प्रत्यये यः अनिदमंशः चिदेकरसः तस्मिन् तद्बलनिर्भासिततया लक्षणतो युष्मदर्थस्य मनुष्याभिमानस्य सम्भेद इव अवभासः स एव अध्यासः ।
तद्धर्माणां च इति ॥
यद्यपि विषयाध्यासे तद्धर्माणामप्यर्थसिद्धः अध्यासः ; तथापि विनापि विषयाध्यासेन तद्धर्माध्यासो बाधिर्यादिषु श्रोत्रादिधर्मेषु विद्यते इति पृथक् धर्मग्रहणम् ।
तद्विपर्ययेण विषयिणस्तद्धर्माणां च इति ॥
चैतन्यस्य तद्धर्माणां च इत्यर्थः । ननु विषयिणः चिदेकरसस्य कुतो धर्माः ? ये विषये अध्यस्येरन् , उच्यते ; आनन्दो विषयानुभवो नित्यत्वमिति सन्ति धर्माः, अपृथक्त्वेऽपि चैतन्यात् पृथगिव अवभासन्ते इति न दोषः । अध्यासो नाम अतद्रूपे तद्रूपावभासः ।
सः मिथ्येति भवितुं युक्तम् इति ।
मिथ्याशब्दो द्व्यर्थः अपह्नववचनोऽनिर्वचनीयतावचनश्च । अत्र अयमपह्नववचनः । मिथ्येति भवितुं युक्तम् अभाव एवाध्यासस्य युक्तः इत्यर्थः । यद्यप्येवं ;
तथापि नैसर्गिकः
प्रत्यक्चैतन्यसत्तात्रामानुबन्धी ।
अयं
युष्मदस्मदोः इतरेतराध्यासात्मकः ।
अहमिदं ममेदमितिलोकव्यवहारः ।
तेन यथा अस्मदर्थस्य सद्भावो न उपालम्भमर्हति, एवमध्यासस्यापि इत्यभिप्रायः । लोक इति मनुष्योऽहमित्यभिमन्यमानः प्राणिनिकायः उच्यते । व्यवहरणं व्यवहारः ; लोक इति व्यवहारो लोकव्यवहारः ; मनुष्योऽहमित्यभिमानः इत्यर्थः ।
सत्यानृते मिथुनीकृत्य इति ।
सत्यम् अनिदं, चैतन्यम् । अनृतं युष्मदर्थः ; स्वरूपतोऽपि अध्यस्तस्वरूपत्वात् । ‘अध्यस्य’ ‘मिथुनीकृत्य’ इति च क्त्वाप्रत्ययः, न पूर्वकालत्वमन्यत्वं च लोकव्यवहारादङ्गीकृत्य प्रयुक्तः ; भुक्त्वा व्रजतीतिवत् क्रियान्तरानुपादानात् । ‘अध्यस्य नैसर्गिकोऽयं लोकव्यवहारः’ इति स्वरूपमात्रपर्यवसानात् । उपसंहारे च ‘एवमयमनादिरनन्तो नैसर्गिकोऽध्यासः’ इति तावन्मात्रोपसंहारात् ॥
अतः चैतन्यं पुरुषस्य स्वरूपम् इतिवत् व्यपदेशमात्रं द्रष्टव्यम् ।
मिथ्याज्ञाननिमित्तः इति ।
मिथ्या च तदज्ञानं च मिथ्याज्ञानम् । मिथ्येति अनिर्वचनीयता उच्यते । अज्ञानमिति च जडात्मिका अविद्याशक्तिः ज्ञानपर्युदासेन उच्यते । तन्निमित्तः तदुपादानः इत्यर्थः ॥
कथं पुनः नैमित्तकव्यवहारस्य नैसर्गिकत्वम् ? अत्रोच्यते ; अवश्यं एषा अविद्याशक्तिः बाह्याध्यात्मिकेषु वस्तुषु तत्स्वरूपसत्तामात्रानुबन्धिनी अभ्युपगन्तव्या ; अन्यथा मिथ्यार्थावभासानुपपत्तेः । सा च न जडेषु वस्तुषु तत्स्वरूपावभासं प्रतिबध्नाति ; प्रमाणवैकल्यादेव तदग्रहणसिद्धेः, रजतप्रतिभासात् प्राक् ऊर्ध्वं च सत्यामपि तस्यां स्वरूपग्रहणदर्शनात् , अतः तत्र रूपान्तरावभासहेतुरेव केवलम् । प्रत्यगात्मनि तु चितिस्वभावत्वात् स्वयम्प्रकाशमाने ब्रह्मस्वरूपानवभासस्य अनन्यनिमित्तत्वात् तद्गतनिसर्गसिद्धाविद्याशक्तिप्रतिबन्धादेव तस्य अनवभासः । अतः सा प्रत्यक्चिति ब्रह्मस्वरूपावभासं प्रतिबध्नाति, अहङ्काराद्यतद्रूपप्रतिभासनिमित्तं च भवति, सुषुप्त्यादौ च अहङ्कारादिविक्षेप संस्कारमात्रशेषं स्थित्वा पुनरुद्भवति, इत्यतः नैसर्गिकोऽपि अहङ्कारममकारात्मको मनुष्याद्यभिमानो लोकव्यवहारः मिथ्याज्ञाननिमित्तः उच्यते, न पुनः आगन्तुकत्वेन ; तेन नैसर्गिकत्वं नैमित्तिकत्वेन न विरुध्यते ॥
‘अन्योन्यधर्मांश्च’ इति
पृथक् धर्मग्रहणं धर्ममात्रस्यापि कस्यचिदध्यास इति दर्शयितुम् ।
इतरेतराविवेकेन इति ॥
एकतापत्त्यैव इत्यर्थः ।
कस्य धर्मिणः कथं कुत्र च अध्यासः ? धर्ममात्रस्य वा क्व अध्यासः ? इति भाष्यकारः स्वयमेव वक्ष्यति ।
‘अहमिदं ममेदम् इति’
अध्यासस्य स्वरूपं दर्शयति । अहमिति तावत् प्रथमोऽध्यासः । ननु अहमिति निरंशं चैतन्यमात्रं प्रतिभासते, न अंशान्तरम् अध्यस्तं वा । यथा अध्यस्तांशान्तर्भावः, तथा दर्शयिष्यामः । ननु इदमिति अहङ्कर्तुः भोगसाधनं कार्यकरणसङ्घातः अवभासते, ममेदमिति च अहङ्कर्त्रा स्वत्वेन तस्य सम्बन्धः । तत्र न किञ्चित् अध्यस्तमिव दृश्यते । उच्यते ; यदैव अहङ्कर्ता अध्यासात्मकः, तदैव तदुपकरणस्यापि तदात्मकत्वसिद्धिः । न हि स्वप्नावाप्तराज्याभिषेकस्य माहेन्द्रजालनिर्मितस्य वा राज्ञः राज्योपकरणं परमार्थसत् भवति, एवम् अहङ्कर्तृत्वप्रमुखः क्रियाकारकफलात्मको लोकव्यवहारः अध्यस्तः नित्यशुद्धबुद्धमुक्तस्वभावे आत्मनि । अतः तादृग्ब्रह्मात्मानुभवपर्यन्तात् ज्ञानात् अनर्थहेतोः अध्यासस्य निवृत्तिरुपपद्यते, इति तदर्थविषयवेदान्तमीमांसारम्भः उपपद्यते ॥
‘आह — कोऽयमध्यासो नाम’
इत्याद्यारभ्य अध्याससिद्धिपरं भाष्यम् । तत्रापि
'कथं पुनरविद्यावद्विषयाणि’ इत्यतः
प्राक् अध्यासस्वरूपतत्सम्भावनाय, तदादि तत्सद्भावनिर्णयार्थम् इति विभागः । यद्येवं तत्स्वरूपतत्सम्भावनोपन्यासः पृथक् न कर्तव्यः ; न हि अनिर्ज्ञातरूपम् असम्भाव्यमानं च निर्णीयते च इति, दुःसम्पादं विशेषतः अध्यक्षानुभवनिर्णये, उच्यते — न देहेन्द्रियादिषु अहंममाभिमानवत एव प्रमातृत्वप्रदर्शनमात्रेण तस्य अध्यासात्मकता सिध्यति ; तत् कस्य हेतोः ? लोके शुक्तिरजतद्विचन्द्रादिवत् अध्यासानुभवाभावात् । बाधे हि सति स भवति, नेह स विद्यते । तस्मात् अध्यासस्य लक्षणमभिधाय तल्लक्षणव्याप्तस्य सद्भावः कथनीयः ॥
ननु एवमपि तल्लक्षणस्य वस्तुनः सद्भावमात्रम् इह कथनीयम् ; न हि यत्र यस्य सद्भावः प्रमाणतः प्रतिपन्नः, तत्रैव तस्य असम्भावनाशङ्का, येन तद्विनिवृत्तये तत्सम्भावना अपरा कथ्येत ; सत्यमेवं, विषयविशेषस्तु प्रयत्नेन अन्विच्छद्भिरपि अनुपलभ्यमानकारणदोषे विज्ञाने अवभासमानोऽपि पूर्वप्रवृत्तेन सकललोकव्यापिना निश्चितेन प्रमाणेन असम्भाव्यमानतया अपोद्यमानो दृश्यते । तद्यथा — औत्पातिकः सवितरि सुषिः, यथा वा माहेन्द्रजालकुशलेन प्रासादादेः निगरणम् । एवम् अविषये असङ्गे केनचिदपि गुणादिना अध्यासहेतुना रहिते निष्कलङ्कचैतन्यतया अन्यगतस्यापि अध्यासस्य अपनोदनसमर्थे अध्यासावगमः अविभाव्यमानकारणदोषः विभ्रमः इति आशङ्क्येत, तत् मा शङ्कि इति, सद्भावातिरेकेण सम्भवोऽपि पृथक् कथनीयः ; तदुच्यते ;
“आह कोऽयमध्यासो नाम” इति
किंवृत्तस्य प्रश्ने आक्षेपे च प्रयोगदर्शनात् उभयस्य च इह सम्भवात् तन्त्रेण वाक्यमुच्चरितम् । तत्रापि प्रथमं प्रश्नस्य प्रतिवचनं स्वरूपम् आख्याय पुनः तस्यैव सम्भवम् आक्षिप्य प्रतिविधत्ते । तत्र एवंभूते विषये श्रोतॄणां सुखप्रबोधार्थं व्याचक्षाणाः प्रतिवादिनं तत्रस्थमिव समुत्थाप्य तेन आक्षिप्तम् अनेन पृष्टमिति मत्वा प्रत्युक्तं, पुनरसौ स्वाभिप्रायं विवृणोति इति आक्षेपमवतार्य प्रतिविधानं प्रतिपद्यन्ते । सर्वत्र एवंविधे ग्रन्थसन्निवेशे एष एव व्याख्याप्रकारः ।
‘स्मृतिरूपः परत्र पूर्वदृष्टावभासः’ इति
प्रश्नवाक्यस्थितम् अध्यासम् उद्दिश्य लक्षणम् अभिधीयते । तत्र परत्र इत्युक्ते अर्थात् परस्य अवभासमानता सिद्धा । तस्य विशेषणं स्मृतिरूपत्वम् । स्मर्यते इति स्मृतिः ; असंज्ञायामपि अकर्तरि कारके घञादीनां प्रयोगदर्शनात् । स्मर्यमाणरूपमिव रूपम् अस्य, न पुनः स्मर्यते एव ; स्पष्टं पुरोऽवस्थितत्वावभासनात् । पूर्वदृष्टावभासः इति उपपत्तिः स्मृतिरूपत्वे । न हि पूर्वम् अदृष्टरजतस्य शुक्तिसम्प्रयोगे रजतम् अवभासते । यतोऽर्थात् तद्विषयस्य अवभासस्यापि इदमेव लक्षणम् उक्तं भवति । कथम् ? तदुच्यते — स्मृतेः रूपमिव रूपमस्य, न पुनः स्मृतिरेव ; पूर्वप्रमाणविषयविशेषस्य तथा अनवभासकत्वात् । कथं पुनः स्मृतिरूपत्वम् ? पूर्वप्रमाणद्वारसमुत्थत्वात् । न हि असम्प्रयुक्तावभासिनः पूर्वप्रवृत्ततद्विषयप्रमाणद्वारसमुत्थत्वमन्तरेण समुद्भवः सम्भवति ॥
अपर आह — ननु अन्यसम्प्रयुक्ते चक्षुषि अन्यविषयज्ञानं स्मृतिरेव, प्रमोषस्तु स्मरणाभिमानस्य । इन्द्रियादीनां ज्ञानकारणानां केनचिदेव दोषविशेषेण कस्यचिदेव अर्थविशेषस्य स्मृतिसमुद्बोधः क्रियते । सम्प्रयुक्तस्य च दोषेण विशेषप्रतिभासहेतुत्वं करणस्य विहन्यते । तेन दर्शनस्मरणयोः निरन्तरोत्पन्नयोः करणदोषादेव विवेकानवधारणाद् दूरस्थयोरिव वनस्पत्योः अनुत्पन्ने एव एकत्वावभासे उत्पन्नभ्रमः । ननु अनास्वादिततिक्तरसस्यापि बालकस्य पित्तदोषात् मधुरे तिक्तावभासः कथं स्मरणं स्यात् ? उच्यते — जन्मान्तरानुभूतत्वात् , अन्यथा अननुभूतत्वाविशेषे अत्यन्तम् असन्नेव कश्चित् सप्तमो रसः किमिति नावभासेत । तस्मात् पित्तमेव मधुराग्रहणे तिक्तस्मृतौ तत्प्रमोषे च हेतुः ; कार्यगम्यत्वात् हेतुभावस्य । एतेन अन्यसम्प्रयोगे अन्यविषयस्य ज्ञानस्य स्मृतित्वतत्प्रमोषौ सर्वत्र व्याख्यातौ द्रष्टव्यौ ॥ उच्यते — कोऽयं स्मरणाभिमानो नाम ? न तावत् ज्ञानानुविद्धतया ग्रहणम् । न हि अतिवृत्तस्य ज्ञानस्य ग्राह्यविशेषणतया विषयभावः । तस्मात् शुद्धमेव अर्थं स्मृतिरवभासयति, न ज्ञानानुविद्धम् । तथा च पदात् पदार्थस्मृतौ न दृष्टो ज्ञानसम्भेदः ; ज्ञानस्यापि शब्दार्थत्वप्रसङ्गात् । तथा इष्टभूभागविषयास्मृतिः ‘स सेव्यः’ इति ग्राह्यमात्रस्था, न ज्ञानपरामर्शिनी । अपि च भूयस्यः ज्ञानपरामर्शशून्या एव स्मृतयः । नापि स्वगतो ज्ञानस्य स्मरणाभिमानो नाम रूपभेदः अवभासते । न हि नित्यानुमेयं ज्ञानम् अन्यद्वा वस्तु स्वत एव रूपसम्भिन्नं गृह्यते । अत एवोक्तम् ‘अनाकारामेव बुद्धिं अनुमिमीमहे’ इति । अनाकाराम् अनिरूपिताकारविशेषाम् ; अनिर्दिष्टस्वलक्षणाम् इत्यर्थः । अतो न स्वतः स्मरणाभिमानात्मकता । नापि ग्राह्यविशेषनिमित्तः स्मरणाभिमानः ; प्रमाणग्राह्यस्यैव अविकलानधिकस्य गृह्यमाणत्वात् , नापि फलविशेषनिमित्तः ; प्रमाणफलविषयमात्रावच्छिन्नफलत्वात् । यः पुनः क्वचित् कदाचित् अनुभूतचरे ‘स्मरामि’ इत्यनुवेधः, सः वाचकशब्दसंयोजनानिमित्तः, यथा सास्नादिमदाकृतौ गौः इत्यभिमानः । तस्मात् पूर्वप्रमाणसंस्कारसमुत्थतया तद्विषयावभासित्वमात्रं स्मृतेः, न पुनः प्रतीतितः अर्थतो वा अधिकोंशः अस्ति, यस्य दोषनिमित्तः प्रमोषः परिकल्प्येत । न चेह पूर्वप्रमाणविषयावभासित्वमस्ति ; पुरोऽवस्थितार्थप्रतिभासनात् , इत्युक्तम् । अतः न अन्यसम्प्रयोगे अन्यविषयज्ञानं स्मृतिः, किन्तु अध्यासः ॥
ननु एवं सति वैपरीत्यमापद्यते, रजतमवभासते शुक्तिरालम्बनम् इति, नैतत् संविदनुसारिणाम् अनुरूपम् । ननु शुक्तेः स्वरूपेणापि अवभासने संवित्प्रयुक्तव्यवहारयोग्यत्वमेव आलम्बनार्थः, सैव इदानीं रजतव्यवहारयोग्या प्रतिभासते, तत्र किमिति आलम्बनं न स्यात् ? अथ तथारूपावभासनं शुक्तेः पारमार्थिकं ? उताहो न ? यदि पारमार्थिकं, नेदं रजतमिति बाधो न स्यात् नेयं शुक्तिः इति यथा । भवति च बाधः । तस्मात् न एष पक्षः प्रमाणवान् । अथ शुक्तेरेव दोषनिमित्तो रजतरूपः परिणाम उच्यते, एतदप्यसारम् ; न हि क्षीरपरिणामे दधनि ‘नेदं दधि’ इति बाधो दृष्टः ; नापि क्षीरमिदम् इति प्रतीतिः, इह तु तदुभयं दृश्यते । किञ्च रजतरूपेण चेत् परिणता शुक्तिः, क्षीरमिव दधिरूपेण, तदा दोषापगमेऽपि तथैव अवतिष्ठेत । ननु कमलमुकुलविकासपरिणामहेतोः सावित्रस्य तेजसः स्थितिहेतुत्वमपि दृष्टं, तदपगमे पुनः मुकुलीभावदर्शनात् , तथा इहापि स्यात् , न ; तथा सति तद्वदेव पूर्वावस्थापरिणामबुद्धिः स्यात् , न बाधप्रतीतिः स्यात् । अथ पुनः दुष्टकारणजन्यायाः प्रतीतेरेव रजतोत्पादः इति मन्येत, एतदपि न सम्यगिव ; कथम् ? यस्याः प्रतीतेः तदुत्पादः तस्यास्तावत् न तत् आलम्बनम् ; पूर्वोत्तरभावेन भिन्नकालत्वात् , न प्रतीत्यन्तरस्य ; पुरुषान्तरप्रतीतेरपि तत्प्रसङ्गात् । ननु किमिति पुरुषान्तरप्रतीतेरपि तत्प्रसङ्गः ? दुष्टसामग्रीजन्मनो हि प्रतीतेः तत् आलम्बनम् , मैवम् ; प्रतीत्यन्तरस्यापि तद्विधस्य रजतान्तरोत्पादनेनैव उपयुक्तत्वात् प्रथमप्रत्ययवत् । अतः अनुत्पन्नसममेव स्यात् । तदेवं पारिशेष्यात् स्मृतिप्रमोष एव अवतिष्ठेत ॥
ननु स्मृतेः प्रमोषो न सम्भवति इत्युक्तं, तथा च तन्त्रान्तरीया आहुः — ‘अनुभूतविषयासम्प्रमोषा स्मृतिः’ इति । का तर्हि गतिः शुक्तिसम्प्रयोगे रजतावभासस्य ? उच्यते — न इन्द्रियजज्ञानात् संस्कारजं स्मरणं पृथगेव स्मरणाभिमानशून्यं समुत्पन्नं, किन्तु एकमेव संस्कारसहितात् इन्द्रियात् । कथमेतत् ? उच्यते — कारणदोषः कार्यविशेषे तस्य शक्तिं निरुन्धन्नेव संस्कारविशेषमपि उद्बोधयति ; कार्यगम्यत्वात् कारणदोषशक्तेः । अतः संस्कारदुष्टकारणसंवलिता एका सामग्री । सा च एकमेव ज्ञानम् एकफलं जनयति । तस्य च दोषोत्थापितसंस्कारविशेषसहितसामग्रीसमुत्पन्नज्ञानस्य उचितमेव शुक्तिगतमिथ्यारजतमालम्बनमवभासते । तेन मिथ्यालम्बनं ज्ञानं मिथ्याज्ञानम् , न स्वतो ज्ञानस्य मिथ्यात्वमस्ति, बाधाभावात् । भिन्नजातीयज्ञानहेतुसामग्र्योः कथमेकज्ञानोत्पादनमिति चेत् , नैष दोषः ; दृश्यते हि लिङ्गज्ञानसंस्कारयोः सम्भूय लिङ्गिज्ञानोत्पादनं, प्रत्यभिज्ञानोत्पादनञ्च अक्षसंस्कारयोः । उभयत्रापि स्मृतिगर्भमेकमेव प्रमाणज्ञानम् ; संस्कारानुद्बोधे तदभावात् । तस्मात् लिङ्गदर्शनमेव सम्बन्धज्ञानसंस्कारमुद्बोध्य तत्सहितं लिङ्गिज्ञानं जनयतीति वक्तव्यम् । अयमेव च न्यायः प्रत्यभिज्ञानेऽपि । न पुनः ज्ञानद्वये प्रमाणमस्ति । तथा भिन्नजातीयज्ञानहेतुभ्यो नीलादिभ्य एकं चित्रज्ञानं निदर्शनीयम् । तत्र लैङ्गिकज्ञानप्रत्यभिज्ञाचित्रज्ञानानामदुष्टकारणारब्धत्वाद् यथार्थमेवावभासः, इह तु कारणदोषादतथाभूतार्थावभासः इति विशेषः । एवंच सति नानुभवविरोधः ; प्रतिभासमानस्य रजतस्यैवावलम्बनत्वात् , अतो मायामयं रजतम् । अथ पुनः पारमार्थिकं स्यात् , सर्वैरेव गृह्येत ; यतो न हि पारमार्थिकं रजतं कारणदोषं स्वज्ञानोत्पत्तावपेक्षते । यद्यपेक्षेत, तदा तदभावे न तत्र ज्ञानोत्पत्तिः ; आलोकाभावे इव रूपे । मायामात्रत्वे तु मन्त्राद्युपहतचक्षुष इव दोषोपहतज्ञानकरणा एव पश्यन्तीति युक्तम् । किञ्च नेदं रजतम् इति बाधोऽपि मायामयत्वमेव सूचयति । कथम् ? तेन हि तस्य निरुपाख्यतापादनपूर्वकं मिथ्यात्वं ज्ञाप्यते । ‘नेदं रजतं मिथ्यैवाभासिष्ट’ इति । न च तत् केनचिद्रूपेण रूपवत्त्वेऽवकल्पते ; सम्प्रयुक्तशुक्तिवत् निरस्यमानविषयज्ञानवच्च ॥ ननु न व्यापकमिदं लक्षणम् ; स्वप्नशोकादावसम्भवात् , न हि स्वप्नशोकादौ केनचित् सम्प्रयोगोऽस्ति, येन परत्र परावभासः स्यात् । अत एव वासनातिरिक्तकारणाभावात् स्मृतिरेव, न स्मृतिरूपता, अत्रोच्यते न तावत् स्मृतित्वमस्ति ; अपरोक्षार्थावभासनात् । ननु स्मृतिरूपत्वमपि नास्ति ; पूर्वप्रमाणसंस्कारमात्रजन्यत्वात् , अत्रोच्यते ; उक्तमेतत् पूर्वप्रमाणविषयावभासित्वमात्रं स्मृतेः स्वरूपमिति । तदिह निद्रादिदोषोपप्लुतं मनः अदृष्टादिसमुद्बोधितसंस्कारविशेषसहकार्यानुरूपं मिथ्यार्थविषयं ज्ञानमुत्पादयति । तस्य च तदवच्छिन्नापरोक्षचैतन्यस्थाविद्याशक्तिरालम्बनतया विवर्तते । ननु एवं सति अन्तरेव स्वप्नार्थप्रतिभासः स्यात् ? को वा ब्रूते नान्तरिति ? ननु विच्छिन्नदेशोऽनुभूयते स्वप्नेऽपि जागरण इव, न तदन्तरनुभवाश्रयत्वे स्वप्नार्थस्योपपद्यते, ननु देशोऽपि तादृश एव, कुतस्तत्सम्बन्धात् विच्छेदोऽवभासते ? अयमपि तर्ह्यपरो दोषः, नैष दोषः ; जागरणेऽपि प्रमाणज्ञानादन्तरपरोक्षानुभवात् न विषयस्था अपरोक्षता भिद्यते ; एकरूपप्रकाशनात् । अतोऽन्तरपरोक्षानुभवावगुण्ठित एव जागरणेऽप्यर्थोऽनुभूयते ; अन्यथा जडस्य प्रकाशानुपपत्तेः । यथा तमसाऽवगुण्ठितो घटः प्रदीपप्रभावगुण्ठनमन्तरेण न प्रकाशीभवति, एवम् । यः पुनर्विच्छेदावभासः, स जागरेऽपि मायाविजृम्भितः ; सर्वस्य प्रपञ्चजातस्य चैतन्यैकाश्रयत्वात् , तस्य च निरंशस्य प्रदेशभेदाभावात् । प्रपञ्चभेदेनैव हि तत् कल्पितावच्छेदं सदवच्छिन्नमिव बहिरिव अन्तरिव प्रकाशते । अथवा दिगाकाशौ मनोमात्रगोचरौ सर्वत्राध्यासाधारौ विद्येते इति न परत्रेति विरुध्यते ॥
कथं तर्हि नामादिषु ब्रह्माध्यासः ? किमत्र कथम् ? न तत्र कारणदोषः, नापि मिथ्यार्थावभासः, सत्यम् ; अत एव चोदनावशात् इच्छातोऽनुष्ठेयत्वात् मानसी क्रियैषा, न ज्ञानं ; ज्ञानस्य हि दुष्टकारणजन्यस्य विषयो मिथ्यार्थः । न हि ज्ञानमिच्छातो जनयितुं निवर्तयितुं वा शक्यं ; कारणैकायत्तत्वादिच्छानुप्रवेशानुपपत्तेः । ननु स्मृतिज्ञानमाभोगेन जन्यमानं मनोनिरोधेन च निरुध्यमानं दृश्यते । सत्यं ; न स्मृत्युत्पत्तिनिरोधयोस्तयोर्व्यापारः, किन्तु कारणव्यापारे तत्प्रतिबन्धे च चक्षुष इवोन्मीलननिमीलने, न पुनर्ज्ञानोत्पत्तौ व्यापार इच्छायाः । तस्मात् ब्रह्मदृष्टिः केवला अध्यस्यते चोदनावशात् फलायैव, मातृबुद्धिरिव रागनिवृत्तये परयोषिति । तदेवम् अनवद्यमध्यासस्य लक्षणं —
स्मृतिरूपः परत्र पूर्वदृष्टावभासः इति ॥
‘तं केचित्’
इत्यादिना अध्यासस्वरूपे मतान्तरमुपन्यस्यति स्वमतपरिशुद्धये ।
कथम् ?
अन्यत्र
शुक्तिकादौ,
अन्यधर्मस्य
अर्थान्तरस्य, रजतादेः ज्ञानाकारस्य बहिष्ठस्यैव वा ;
अध्यासः इति
वदन्ति ।
केचित्तु यत्र यदध्यासः तद्विवेकाग्रहणनिबन्धनो भ्रमः इति ॥
यत्र यस्याध्यासः, तयोर्विवेकस्याग्रहणात् तन्निबन्धनोऽयमेकत्वभ्रमः इति वदन्तीत्यनुषङ्गः ।
अन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते इति ।
यत्र शुक्तिकादौ, यस्य रजतादेरध्यासः, तस्यैव शुक्तिशकलादेः, विपरीतधर्मत्वस्य रजतादिरूपत्वस्य, कल्पनाम् अविद्यमानस्यैवावभासमानताम् , आचक्षते ।
सर्वथापि तु इति ।
स्वमतानुसारित्वं सर्वेषां कल्पनाप्रकाराणां दर्शयति । अन्यस्यान्यधर्मावभासत्वं नाम लक्षणं, परत्रेत्युक्ते अर्थात् परावभासः सिद्धः इति यदवादिष्यम् , तत् न व्यभिचरति । कथम् ? पूर्वस्मिन् कल्पे ज्ञानाकारस्य बहिष्ठस्य वा शुक्तिधर्मत्वावभासनात् न व्यभिचारः, द्वितीयेऽपि शुक्तिरजतयोः पृथक् सतोरपृथगवभासः अभिमानात् , तृतीयेऽपि शुक्तिशकलस्य रजतरूपप्रतिभासनात् ॥ पूर्वदृष्टत्वस्मृतिरूपत्वयोः सर्वत्राव्यभिचारात् न विवादः इत्यभिप्रायः । तत्र ‘स्मृतिरूपः पूर्वदृष्टावभासः’ इत्येतावति लक्षणे निरधिष्ठानाध्यासवादिपक्षेऽपि निरुपपत्तिके लक्षणव्याप्तिः स्यादिति तन्निवृत्तये ‘परत्र’ इत्युच्यते ॥ कथं ? निरुपपत्तिकोऽयं पक्षः । न हि निरधिष्ठानोऽध्यासो दृष्टपूर्वः, सम्भवी वा । ननु केशाण्ड्रकाद्यवभासो निरधिष्ठानो दृष्टः, न ; तस्यापि तेजोऽवयवाधिष्ठानत्वात् ॥
ननु रजते संवित् , संविदि रजतमिति परस्पराधिष्ठानो भविष्यति, बीजाङ्कुरादिवत् , नैतत् सारं ; न तत्र यतो बीजात् योऽङ्कुरः तत एव तद्बीजम् , अपि तु अङ्कुरान्तरात् , इह पुनः यस्यां संविदि यत् रजतमवभासते, तयोरेवेतरेतराध्यासः, ततो दुर्घटमेतत् । बीजाङ्कुरादिष्वपि न बीजाङ्कुरान्तरपरम्परामात्रेण अभिमतवस्तुसिद्धिः ; प्रतीतितो वस्तुतश्चानिवृत्ताकाङ्क्षत्वात् , तथा च ‘कुत इदमेवं’ इति पर्यनुयोगे ‘दृष्टत्वादेवं’ इति तत्र एव दूरं वा परिधाव्य स्थातव्यम् ; अन्यथा हेतुपरम्परामेवावलम्ब्य क्वचिदप्यनवतिष्ठमानो नानवस्थादोषमतिवर्तेत । अपि च न क्वचिन्निरवधिको ‘न’ इत्येव बाधावगमो दृष्टः, यत्राप्यनुमानादाप्तवचनाद्वा न सर्पः इत्येवावगमः, तत्रापि ‘किं पुनरिदम् ? ’ इत्यपेक्षादर्शनात् पुरोऽवस्थितं वस्तुमात्रमवधिर्विद्यते । प्रधानादिष्वपि जगत्कारणे त्रिगुणत्वादिबाधः अधिगतावधिरेव । अथवा सर्वलोकसाक्षिकमेतत् केशोण्ड्रकादावपि तद्बाधे तदनुषङ्ग एव बोधे बाध्यते, न बोधः । अतः तदवधिः सर्वस्य बाधः ; तेन तन्मात्रस्य बाधाभावात् , स्वतश्च विशेषानुपलब्धेः कूटस्थापरोक्षैकरसचैतन्यावधिः सर्वस्य बाधः । नाप्यध्यस्तमप्यसदेव ; तथात्वे प्रतिभासायोगात् ॥
ननु सर्वमेवेदमसदिति भवतो मतम् । क एवमाह ? अनिर्वचनीयानाद्यविद्यात्मकमित्युद्घोषितमस्माभिः । अथ पुनर्विद्योदये अविद्याया निरुपाख्यतामङ्गीकृत्यासत्त्वमुच्येत, काममभिधीयताम् । तथा च बाधकज्ञानं ‘नेदं रजतम्’ इति विशिष्टदेशकालसम्बद्धं रजतं विलोपयदेवोदेति, न देशान्तरसम्बन्धमापादयति ; तथाऽनवगमात् । तथा च दूरवर्तिनीं रज्जुं सर्पं मन्यमानस्य निकटवर्तिनाऽऽप्तेन ‘नायं सर्पः’ इत्युक्ते सर्पाभावमात्रं प्रतिपद्यते, न तस्य देशान्तरवर्तित्वं ; तत्प्रतिपत्तावसामर्थ्यात् वाक्यस्य । नार्थापत्त्या ; इह भग्नघटाभाववत् तावन्मात्रेणापि तत्सिद्धेः । यत्रापि सर्पबाधपूर्वको रज्जुविधिरक्षजन्यः तादृशवाक्यजन्यो वा, तत्रापि स एव न्यायः ; तथाऽनवगमात् , तदेवं न क्वचिन्निरधिष्ठानोऽध्यासः ? तस्मात् साधूक्तं परत्र इति ॥ यद्येवं ‘परत्र पूर्वदृष्टावभासः’ इत्येतावदस्तु लक्षणम्, तथाविधस्य स्मृतिरूपत्वाव्यभिचारात् , सत्यम् ; अर्थलभ्यस्य स्मृतित्वमेव स्यात् , न स्मृतिरूपत्वम् । न च स्मृतिविषयस्याध्यासत्वमित्युक्तम् । यद्येवमेतावदस्तु लक्षणं परत्र स्मृति रूपावभासः इति, तत्र परत्रेत्युक्ते अर्थलभ्यस्य परावभासस्य स्मृतिरूपत्वं विशेषणं, न हि परस्यासम्प्रयुक्तस्य पूर्वदृष्टत्वाभावे स्मृतिरूपत्वसम्भवः, सत्यम् ; विस्पष्टार्थं पूर्वदृष्टग्रहणमिति यथान्यासमेव लक्षणमस्तु ।
तथा च लोके अनुभवः
इत्युदाहरणद्वयेन लौकिकसिद्धमेवेदमध्यासस्य स्वरूपं लक्षितं, किमत्र युक्त्या ? इति कथयति —
शुक्तिका हि रजतवदवभासते इति ॥
ननु न शुक्तिका प्रतिभासते, रजतमेव प्रतिभासते, तेन शुक्तिकेति, रजतवदिति चोभयं नोपपद्यते, उच्यते — शुक्तिकाग्रहणमुपरितनसम्यग्ज्ञानसिद्धं परमार्थतः शुक्तिकात्वमपेक्ष्य, वतिग्रहणं तु सम्प्रयुक्तस्यारजतस्वरूपस्य मिथ्यारजतसम्भेद इवावभासनमङ्गीकृत्य । मिथ्यात्वमपि रजतस्य आगन्तुकदोषनिमित्तत्वादनन्तरबाधदर्शनाच्च कथ्यते, न पुनः परमार्थाभिमतात् रजतादन्यत्वमाश्रित्य । तत्र असम्प्रयुक्तत्वाद्रजतस्य नेदन्तावभासस्तद्गतः, किन्तु सम्प्रयुक्तगत एव । अपरोक्षावभासस्तु संस्कारजन्मनोऽपि रजतोल्लेखस्य दोषबलादिन्द्रियजज्ञानान्तर्भावाच्चेतिद्रष्टव्यम् । तत्र शुक्तिकोदाहरणेन सम्प्रयुक्तस्यानात्मा रजतमिति दर्शितम् । निरञ्जनस्य चैतन्यस्य अस्मदर्थे अनिदमंशस्य अनात्मा तदवभास्यत्वेन युष्मदर्थलक्षणापन्नः अहङ्कारः अध्यस्तः इति प्रदर्शनार्थं द्विचन्द्रोदाहरणेन जीवेश्वरयोः जीवानां चानात्मरूपो भेदावभासः इति दर्शितम् । ननु बहिरर्थे कारणदोषोऽर्थगतः सादृश्यादिः इन्द्रियगतश्च तिमिरादिरुपलभ्यते, तन्निमित्तश्चार्थस्य सांशत्वादंशान्तरावग्रहेऽपि अंशान्तरप्रतिबन्धो युज्येत, न त्विह कारणान्तरायत्ता सिद्धिः, येन तद्दोषादनवभासोऽपि स्यात् , निरंशस्य चैतन्यस्य स्वयञ्ज्योतिषस्तदयोगात् । ननु ब्रह्मस्वरूपमनवभासमानमस्त्येव, न तदनवभासनाज्जीवेऽनवभासविपर्यासौ भवतः । न हि शुक्तेरग्रहणात् स्थाणावग्रहणं विपर्यासो वा । ननु न ब्रह्मणोऽन्यो जीवः, ‘अनेन जीवेनात्मना’ (छा. उ. ६-३-२) इति श्रुतेः, अतः तदग्रहणमात्मन एव तत् , एवं तर्हि सुतरामविद्यायास्तत्रासम्भवः ; तस्य विद्यात्मकत्वात् , ‘तस्य भासा सर्वमिदं विभाति’ (क. उ. २-२-१५) इति तच्चैतन्येनैव सर्वस्य भासमानत्वात् , उच्यते — विद्यत एव अत्राप्यग्रहणाविद्यात्मको दोषः प्रकाशस्याच्छादकः । कथं गम्यते ? श्रुतेः तदर्थापत्तेश्च । श्रुतिस्तावत् — ‘अनृतेन हि प्रत्यूढाः’ ‘अनीशया शोचति मुह्यमानः’ इत्येवमाद्या । तदर्थापत्तिरपि विद्यैव सर्वत्र श्रुतिषु ब्रह्मविषया मोक्षाय निवेद्यते, तेनार्थादिदमवगम्यते जीवस्य ब्रह्मस्वरूपतानवगमोऽविद्यात्मको बन्धो निसर्गत एवास्तीति ॥
ननु न जीवो ब्रह्मणोऽन्यः इत्युक्तम् ॥ बाढम् ; अत एवाऽर्थाज्जीवे ब्रह्मस्वरूपप्रकाशाच्छादिका अविद्या कल्प्यते ; अन्यथा परमार्थतस्तत्स्वरूपत्वे तदवबोधोऽपि यदि नित्यसिद्धः स्यात् , तदा तादात्म्योपदेशो व्यर्थः स्यात् । अतः अनादिसिद्धाविद्यावच्छिन्नानन्तजीवनिर्भासास्पदमेकरसं ब्रह्मेति श्रुतिस्मृतिन्यायकोविदैरभ्युपगन्तव्यम् । तथा च स्मृतिः — ‘प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि’ (भ . गी १३ - १९) इति क्षेत्रक्षेत्रज्ञत्वनिमित्तामनादिसिद्धामविद्यां प्रकृतिशब्देनाह ; ‘मायां तु प्रकृतिं विद्यात्’ (श्वे. उ. ४-१०) इति श्रुतेः । अतो मायावच्छिन्नरूपत्वादनन्यदपि ब्रह्मरूपमात्मनो न वेत्ति । तथा चोक्तम् — ‘अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’ (गौ.का.१/१६) इति ॥
ननु प्रमाणान्तरविरोधे सति श्रुतिः तदर्थापत्तिर्वा नाविद्यां निवेदयितुमलम् ? किं तत् प्रमाणं ? येन सह विरोधः, निरंशस्य स्वयञ्ज्योतिषः स्वरूपानवभासानुपपत्तिः । ननु भोक्तुः कार्यकारणसङ्घातात् व्यावृत्तता स्वयञ्ज्योतिषोऽपि न प्रकाशते, ननु न भोक्ता स्वयञ्ज्योतिः, किं त्वहंप्रत्ययेनावभास्यते । यथा स्वयम्प्रकाशमानता, अहङ्कारो न प्रत्ययस्तथा वक्ष्यते ॥
कथं पुनः भोक्ता स्वयञ्ज्योतिः कार्यकरणसङ्घातात् व्यावृत्तो न प्रकाशते ? ‘मनुष्योऽहमि’ति मिथ्यैव एकताभिमानात् । ननु गौणोऽयं, न मिथ्या ? यथा न गौणः, तथा भाष्यकार एव वक्ष्यति ॥
ननु ‘अहमि’ति यदि देहसमानाधिकरणः प्रत्ययः, न तर्हि तद्व्यतिरिक्त आत्मा सिध्यति ; अन्यस्य तथाग्राहिणः प्रत्ययस्याभावात् , आगमानुमानयोरपि तद्विरोधे प्रमाणत्वायोगात् । मिथ्यात्वात् तस्य न विरोधः इति चेत् , कुतस्तर्हि मिथ्यात्वम् ? आगमादनुमानाद्वा अन्यथाऽवगमादिति चेत् , नैतत् ; अन्योऽन्याश्रयता तथा स्यात् आगमानुमानयोः प्रवृत्तौ तन्मिथ्यात्वं तन्मिथ्यात्वे तयोः प्रवृत्तिरिति । तस्मात् देहादिव्यतिरिक्तविषय एवायमहङ्कारः इत्यात्मवादिभिरभ्युपेयम् ; अन्यथा आत्मसिद्धिरप्रामाणिकी स्यात् , अतो गौणो मनुष्यत्वाभिमानः । उच्यते — यद्यपि देहादिव्यतिरिक्तभोक्तृविषय एवायमहङ्कारः ; तथापि तथा अनध्यवसायात् तद्धर्मानात्मन्यध्यस्यति । दृश्यते हि स्वरूपेणावभासमानेऽपि वस्त्वन्तरभेदानध्यवसायात् तत्सम्भेदेनावभासः, यथा एकस्मिन्नप्यकारे हृस्वादिसम्भेदः ॥
अथ पुनरेकान्ततो भिन्न एव देहादेरहङ्कर्ता अवभासेत, रसादिव गन्धः, ततः तत्सद्भावे न विप्रतिपत्तिरिति, तत्सिद्धये जिज्ञासा नावकल्पेत । जिज्ञासोत्तरकालं तर्हि गौण एव युक्तः, कथम् ? जिज्ञासा नाम युक्त्यनुसन्धानम् । न हि युक्तिः पृथक् ज्ञानान्तरजननी, किन्तु सिद्धस्यैवाहंप्रत्ययस्य विषयविवेचिनी । तस्मात् विविक्तविषयत्वात् व्यतिरिक्तात्मानुभवपर्यन्त एवाहङ्कारो जिज्ञासोत्तरकालं युक्तः, न युक्तः ; अकार इव हृस्वत्वाभिमानः । ननु तत्रापि कथम् ? अनुभव एव । एवमहङ्कारेऽपि समानश्चर्चः । ननु अनुभवः तर्कबलाद्यथावभासिन्यप्यकारे सम्भवति ; हृस्वादेः पृथक्सतस्तथानवगमात् , तन्न ; एकस्य पृथक्त्वेऽपि अर्थादितरस्यापि पृथक्त्वात् ॥
ननु महदेतदिन्द्रजालं यत् तर्कानुगृहीतात् प्रमाणात् यथायथमसाधारणरूपयोरेवावभासमानयोरेकत्वावगमो न गौण इति, बाढम् ; इन्द्रजालमेवैतत् , अविद्याकृतत्वात् । तथाहि — अहंप्रत्ययस्य स्वविषयप्रतिष्ठितस्यैव सतः तदेकप्रतिष्ठितता प्रतिबन्धकृदनाद्यविद्याकृतं देहादिप्रतिष्ठितत्वमपि दृष्टम् ; अतो देहादिविषयत्वाविरोधिस्वविषयप्रतिष्ठत्वमहंप्रत्ययस्य । अतो युक्त्या विषयविवेचनेऽपि स्वविषयोपदर्शनेन तत्प्रतिष्ठत्वमात्रं कृतं नाधिकमादर्शितम् । स्वविषयप्रतिष्ठत्वं च देहादिषु अहंममाभिमानेन न विरुध्यते इत्युक्तम् । अतः न्यायतो विषयविवेचनादूर्ध्वमपि न प्रागवस्थातो विशिष्यते अहंप्रत्ययः । तेन न कदाचिदपि ‘मनुष्योऽहमि’ति प्रत्ययो गौणः । तदेवं स्वयञ्ज्योतिष एव सतो जीवस्य कार्यकरणसङ्घातव्यतिरिक्ततायाः तथा अनवभासदर्शनात् ’मनुष्योऽहमि’ति चाध्यासोपलब्धेः ब्रह्मात्मैकत्वस्यापि तत्स्वरूपस्यानवभासनं पूर्वकालकोटिरहितप्रकाशाच्छादिततमोनिमित्तं श्रुति तदर्थापत्तिसमर्पितं, तन्निमित्ताहङ्काराध्यासश्च सम्भाव्यते । अनादित्वाच्च पूर्वदृष्टत्वं स्मृतिरूपत्वं च । पृथग्भोक्तृविषयानुभवफलाभावात् भोक्तृचैतन्यसंवलितैकानुभवफलत्वाच्च परत्र परावभासस्यान्योन्यसम्भेदस्य विद्यमानत्वादध्यासलक्षणव्याप्तिरिहाप्युपपद्यते ॥
‘कोऽयमध्यासो नामे’ति किंवृत्तस्य प्रश्न आक्षेपे च समानवर्तिनो विशेषानुपलब्धेः ‘पृष्टमनेने’ति मत्वा अध्यासस्वरूपे अभिहिते पुनः ‘आक्षिप्तं मये’त्यभिप्रायं विवृणोति —
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणामिति ॥
बाढमेवंलक्षणोऽध्यासः, स चेह न सम्भवति । कथम् ? यतः
सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति ; युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि ॥
न ह्यविषये अध्यासो दृष्टपूर्वः सम्भवी वा, उच्यते —
न तावदयमेकान्तेनाविषयः ; अस्मत्प्रत्ययविषयत्वात् ॥
ननु विषयिणश्चिदात्मनः कथं विषयभावः ? पराग्भावेन इदन्तासमुल्लेख्यो हि विषयो नाम, भवति तद्वैपरीत्येन प्रत्यग्रूपेणानिदम्प्रकाशो विषयी ; तत् कथमेकस्य निरंशस्य विरुद्धांशद्वयसन्निवेशः ? अत्रोच्यते — अस्मत्प्रत्ययत्वाभिमतोऽहङ्कारः । स चेदमनिदंरूपवस्तुगर्भः सर्वलोकसाक्षिकः । तमवहितचेतस्तया निपुणतरमभिवीक्ष्य रूपकपरीक्षकवत् स्वानुभवमप्रच्छादयन्तो वदन्तु भवन्तः परीक्षकाः — किमुक्तलक्षणः ? न वा ? इति ॥
ननु किमत्र वदितव्यम् , असम्भिन्नेदंरूप एव अहमित्यनुभवः, कथम् ? प्रमातृ - प्रमेय - प्रमितयस्तावदपरोक्षाः, प्रमेयं कर्मत्वेनापरोक्षम् , प्रमातृप्रमिती पुनरपरोक्षे एव केवलम् , न कर्मतया ; प्रमितिरनुभवः स्वयम्प्रकाशः प्रमाणफलम् , तद्बलेन इतरत् प्रकाशते, प्रमाणं तु प्रमातृव्यापारः फललिङ्गो नित्यानुमेयः । तत्र ‘अहमिदं जानामी’ति प्रमातुर्ज्ञानव्यापारः कर्मविषयः, नात्मविषयः, आत्मा तु विषयानुभवादेव निमित्तादहमिति फले विषये चानुसन्धीयते ॥
ननु नायं विषयानुभवनिमित्तोऽहमुल्लेखः, किं तु अन्य एव आत्ममात्रविषयः ‘अहमि’ति प्रत्ययः । तस्मिंश्च द्रव्यरूपत्वेनात्मनः प्रमेयत्वं, ज्ञातृत्वेन प्रमातृत्वमिति, प्रमातृप्रमेयनिर्भासरूपत्वादहंप्रत्ययस्य ग्राह्यग्राहकरूप आत्मा । तस्मादिदमनिदंरूपः ; प्रमेयांशस्येदंरूपत्वात् , अनिदंरूपत्वात् प्रमात्रंशस्य न चैतद्युक्तम् ; अनंशत्वात् , अपरिणामित्वाच्चात्मनः, प्रमेयस्य चेदंरूपतया पराग्रूपत्वादनात्मत्वात् । तस्मान्नीलादिज्ञानफलमनुभवः स्वयम्प्रकाशमानो ग्राह्यमिदन्तया, ग्राहकं चानिदन्तयाऽवभासयति, ग्रहणं चानुमापयतीति युक्तम् , अतो नेदमंशोऽहङ्कारो युज्यते, उच्यते — तत्रेदं भवान् प्रष्टव्यः, किमात्मा चैतन्यप्रकाशोऽनुभवो जडप्रकाशः ? उत सोऽपि चैतन्यप्रकाशः ? अथवा स एव चैतन्यप्रकाशः, आत्मा जडस्वरूपः ? इति । तत्र न तावत्प्रथमः कल्पः ; जडस्वरूपे प्रमाणफले विश्वस्यानवभासप्रसङ्गात् , मैवम् ; प्रमाता चेतनस्तद्बलेन प्रदीपेनेव विषयमिदन्तया, आत्मानं चानिदन्तया चेतयते, इति न विश्वस्यानवभासप्रसङ्गः, तन्न ; स्वयञ्चैतन्यस्वभावोऽपि सन् विषयप्रमाणेनाचेतनेनानुगृहीतः प्रकाशत इति, नैतत् साधु लक्ष्यते । किं च प्रमाणफलेन चेत् प्रदीपेनेव विषयमात्मानं च चेतयते, तदा चेतयति क्रियानवस्थाप्रसङ्गः ॥
द्वितीये कल्पे आत्मापि स्वयमेव प्रकाशेत, किमिति विषयानुभवमपेक्षेत ? अथ चैतन्यस्वभावत्वेऽपि नात्मा स्वयम्प्रकाशः, विशेषे हेतुर्वाच्यः । न हि चैतन्यस्वभावः सन् स्वयं परोक्षोऽन्यतोऽपरोक्ष इति युज्यते । किं च समत्वान्नेतरेतरापेक्षत्वं प्रकाशने प्रदीपयोरिव । तृतीयेऽपि कल्पे अनिच्छतोऽप्यात्मैव चिति प्रकाश आपद्यते, न तदतिरिक्ततथाविधफलसद्भावे प्रमाणमस्ति । कथम् ? प्रमाणजन्यश्चेदनुभवः, तथा सति स्वगतेन विशेषेण प्रतिविषयं पृथक् पृथगवभासेत, सर्वानुभवानुगतं च गोत्ववदनुभवत्वमपरमीक्ष्येत । न च ‘नीलानुभवः पीतानुभवः’, इति विषयविशेषपरामर्शशून्यः स्वगतो विशेषो लक्ष्यते ॥
ननु विनष्टाविनष्टत्वेन विशेषः सिध्यति । सिध्येत् , यदि विनष्टाविनष्टता सिध्येत् ; सा च जन्यत्वे सति, तस्यां च सिद्धायां जन्यत्वम् इति परस्परायत्तस्थितित्वेन एकमपि न सिध्येत् । एतेन अतिसादृश्यादनुभवभेदो न विभाव्यत इति प्रत्युक्तं भेदासिद्धेः । न हि चित्प्रकाशस्य स्वगतो भेदो न प्रकाशते इति युक्तिमत् ; येन तदप्रकाशनात् सादृश्यनिबन्धनो विभ्रमः स्यात् । न च यथा जीवस्य स्वयञ्ज्योतिषोऽपि स्वरूपमेव सत् ब्रह्मरूपत्वं न प्रकाशते तद्वत् स्यादिति युक्तम् ; अभिहितं तत्राप्रकाशने प्रमाणम् , इह तन्नास्ति । न हि सामान्यतोदृष्टमनुभवविरोधे युक्तिविरोधे च समुत्तिष्ठति ; दर्शिते चानुभवयुक्ती । तस्मात् चित्स्वभाव एवात्मा तेन तेन प्रमेयभेदेनोपधीयमानोऽनुभवाभिधानीयकं लभते, अविवक्षितोपाधिरात्मादिशब्दैरभिधीयते ; अवधीरितवनाभिधाननिमित्तैकदेशावस्थाना इव वृक्षा वृक्षादिशब्दैः इत्यभ्युपगन्तव्यम् , बाढम् ; अत एव विषयानुभवनिमित्तोऽनिदमात्मकोऽहङ्कारो वर्ण्यते, सत्यमेवं ; किन्तु तथा सति सुषुप्तेपि ‘अहमि’त्युल्लेखः स्यात् । कथम् ? नीलानुषङ्गो यश्चैतन्यस्य, स नीलभोगः, नासावहमुल्लेखार्हः । ’अहमि’ति आत्मा अवभासते । तत्र यदि नाम सुषुप्ते विषयानुषङ्गाभावादिदं जानामी’ति विषयतदनुभवपरामर्शो नास्ति, मा भूत् ; अहमित्यात्ममात्रपरामर्शः किमिति न भवेत् ?
ननु अहमिति भोक्तृत्वं प्रतिभासते, तदभावे कथं तथा प्रतिभासः ? नैतत् सारम् ; समुत्कालितोपाधिविशेषं चैतन्यमात्रमस्मदर्थः, ततः सर्वदा अहमिति स्यात् , नैतच्छक्यम् ; उपाधिपरामर्शेन चैतन्यमहमित्युल्लिख्यत इति वक्तुम् ; तत्परामर्शो हि तत्सिद्धिनिमित्तः, न स्वरूपसिद्धिहेतुः स्वमाहात्म्येनैव तु स्वरूपसिद्धिः । ततश्च विषयोपरागानुभवात्मत्वशून्यः स्वरूपतः अहमिति सुषुप्तेऽप्यवभासेत ; दृशिरूपत्वाविशेषात् । भवत्येवेति चेत् , न ; तथा सति स्मर्येत ह्यस्तन इवाहङ्कारः । अविनाशिनः संस्काराभावात् न स्मर्यते इति चेत् , ह्यस्तनोऽपि न स्मर्येत ॥
ननु अस्त्येव सुषुप्ते अहमनुभवः ‘सुखमहमस्वाप्समि’ति ; सुषुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात् , नात्मनोऽन्यस्य तत्रानुभवः सम्भवति, सत्यमस्ति ; न तत् स्वापे सुखानुभवसंस्कारजं स्मरणम् , किं तर्हि ? सुखावमर्शो दुःखाभावनिमित्तः, कथम् ? स्वप्ने तावदस्त्येव दुःखानुभवः, सुषुप्ते तु तदभावात् सुखव्यपदेशः । तदभावश्च करणव्यापारोपरमात् । यदि पुनः‘सुप्तः सुखम्’ इति च तद्विषयं स्मरणं स्यात् , तदा विशेषतः स्मर्येत, न च तदस्ति । व्यपदेशोऽपि ‘सुखं सुप्ते न किञ्चिन्मया चेतितम्’ इति हि दृश्यते । यत् पुनः सुप्तोत्थितस्य अङ्गलाघवेन्द्रियप्रसादादिना सुखानुभवोन्नयनमिति, तदसत् ; अनुभूतं चेत् सुखं स्मर्येत, न तत्र लिङ्गेन प्रयोजनम् । यद्येवं, सुप्तोत्थितस्य कथं कस्यचिदङ्गलाघवं कस्य चिन्न ? इति ; उच्यते— जागरणे कार्यकरणानि श्राम्यन्ति ; तदपनुत्तये व्यापारोपरमः स्वापः । तत्र यदि सम्यक् व्यापारोपरमः, तदा अङ्गानि लघूनि, इतरथा गुरूणीति । तदेवं नायं नीलादिप्रत्ययादन्य एवात्मविषयोऽहंप्रत्ययः, नापि विषयानुभवादेवाहमुल्लेखः । तस्मात् ब्रह्मविदामेकपुण्डरीकस्य लोकानुग्रहैकरसतया सम्यग्ज्ञानप्रवर्तनप्रयोजनकृतशरीरपरिग्रहस्य भगवतो भाष्यकारस्य मतमागमयितव्यम् ॥
तदुच्यते — येयं श्रुतिस्मृतीतिहासपुराणेषु नामरूपम् , अव्याकृतम् , अविद्या, माया, प्रकृतिः, अग्रहणम् , अव्यक्तं, तमः, कारणं, लयः, शक्तिः, महासुप्तिः, निद्रा, अक्षरम् , आकाशम् इति च तत्र तत्र बहुधा गीयते, चैतन्यस्य स्वत एवावस्थितलक्षणब्रह्मस्वरूपतावभासं प्रतिबध्य जीवत्वापादिका अविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिः सुषुप्ते प्रकाशाच्छादनविक्षेपसंस्कारमात्ररूपस्थितिरनादिरविद्या, तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिः स्वयम्प्रकाशमानोऽपरोक्षोऽहङ्कारः, यत्सम्भेदात् कूटस्थचैतन्योऽनिदमंश आत्मधातुरपि मिथ्यैव’भोक्ते’ति प्रसिद्धिमुपगतः । स च सुषुप्ते समुत्खातनिखिलपरिणामायामविद्यायां कुतस्त्यः ? न चैवं मन्तव्यम् , आश्रितपरिणतिभेदतयैवाहङ्कारनिर्भासेऽनन्तर्भूतैव तन्निमित्तमिति ; तथा सति अपाकृताहङ्कृतिसंसर्गो भोक्तृत्वादिस्तद्विशेषः केवलमिदन्तयैवावभासेत, न च तथा समस्ति ॥ स च परिणामविशेषः, अनिदञ्चिदात्मनो बुद्ध्या निष्कृष्य वेदान्तवादिभिः अन्तःकरणं, मनः, बुद्धिरहंप्रत्ययी इति च विज्ञानशक्तिविशेषमाश्रित्य व्यपदिश्यते, परिस्पन्दशक्त्या च प्राणः इति । तेन अन्तःकरणोपरागनिमित्तं मिथ्यैवाहङ्कर्तृत्वमात्मनः, स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा ॥
कथं पुनः स्फटिके लोहितिम्नो मिथ्यात्वम् ? उच्यते — यदि स्फटिकप्रतिस्फालिता नयनरश्मयो जपाकुसुममुपसर्पेयुः, तदा विशिष्टसंनिवेशं तदेव लोहितं ग्राहयेयुः । न हि रूपमात्रनिष्ठश्चाक्षुषः प्रत्ययो दृष्टपूर्वः ; नापि स्वाश्रयमनाकर्षद्रूपमात्रं प्रतिबिम्बितं क्वचिदुपलब्धपूर्वम् । ननु अभिजातस्येव पद्मरागादिमणेः जपाकुसुमादेरपि प्रभा विद्यते, तया व्याप्तत्वात् स्फटिकोऽपि लोहित इवावभासते ; तथापि स्वयमलोहितो मिथ्यैव लोहित इत्यापद्येत । अथ प्रभैव लोहितोऽवभासते, न स्फटिक इति ; शौक्ल्यमपि तर्हि स्फटिके प्रकाशेत । अथ प्रभया अपसारितं तदिति चेत् , स तर्हि नीरूपः कथं चाक्षुषः स्यात् ? न च रूपिद्रव्यसंयोगात् ; वायोरपि तथात्वप्रसङ्गात् । न प्रभानिमित्तं लौहित्यं तत्रोत्पन्नम् ; उत्तरकालमपि तथा रूपप्रसङ्गात् । अभ्युपगम्य प्रभामिदमुक्तम् । यथा पद्मरागादिप्रभा निराश्रयापि उन्मुखोपलभ्यते, न तथा जपाकुसुमादेः ॥ तदेवं स्फटिकमणावुपधानोपराग इव चिदात्मन्यप्यहङ्कारोपरागः । ततः सम्भिन्नोभयरूपत्वात् ग्रन्थिरिव भवतीति अहङ्कारो ग्रन्थिरिति गीयते ।
तत्र जडरूपत्वादुपरक्तस्य न तद्बलादुपरागस्य साक्षाद्भावः, चिद्रूपस्य पुनरुपरागः तद्विषयव्यापारविरहिणोऽपि तद्बलात् प्रकाशते ॥ तेन लक्षणत इदमंशः कथ्यते, न व्यवहारतः । व्यवहारतः पुनः यदुपरागादनिदमात्मनोऽहङ्कर्तृत्वं मिथ्या, तदात्मनः तद्व्यापारेण व्याप्रियमाणस्यैव व्यापारपूर्वको यस्य परिच्छेदः, स एवेदमात्मको विषयः । अत एव 'अहमि’त्यसम्भिन्नेदमात्मकोऽवभासः इति विभ्रमः केषाञ्चित् । दृष्टश्च लक्षणतः तद्व्यवहारार्होऽपि तमननुपतन् । तद्यथा अङ्कुरादिफलपर्यन्तो वृक्षविकारो मृत्परिणामपरम्परापरिनिष्पन्नोऽपि घटवल्मीकवत् न मृण्मयव्यवहारमनुपतति, व्युत्पन्नमतयस्तु तद्व्यवहारमपि नातीवोल्बणं मन्यन्ते । अत एव निपुणतरमभिवीक्ष्य रूपकपरीक्षकवदहङ्कारं निरूपयतां सम्भिन्नेदंरूपः सः इत्यभिहितम् । यत् पुनः दर्पणजलादिषु मुखचन्द्रादिप्रतिबिम्बोदाहरणम् , तत् अहङ्कर्तुरनिदमंशो बिम्बादिव प्रतिबिम्बं न ब्रह्मणो वस्त्वन्तरम् , किं तु तदेव तत्पृथगवभासविपर्ययस्वरूपतामात्रं मिथ्या इति दर्शयितुम् । कथं पुनस्तदेव तत् ? एकस्वलक्षणत्वावगमात् ।
तथा च यथा बहिःस्थितो देवदत्तो यत्स्वलक्षणः प्रतिपन्नः, तत्स्वलक्षण एव वेश्मान्तःप्रविष्टोऽपि प्रतीयते, तथा दर्पणतलस्थितोऽपि ; न तत् वस्त्वन्तरत्वे युज्यते । अपि च अर्थात् वस्त्वन्तरत्वे सति आदर्श एव बिम्बसन्निधावेव तदाकारगर्भितः परिणतः इति वाच्यम् ; विरुद्धपरिमाणत्वात् संश्लेषाभावाच्च प्रतिमुद्रेव बिम्बलाञ्छितत्वानुपपत्तेः, तथा सति बिम्बसन्निधिलब्धपरिणतिरादर्शः तदपायेऽपि तथैवावतिष्ठेत । न खलु संवेष्टितः कटो निमित्तलब्धप्रसारणपरिणतिः निमित्तापगमे तत्क्षणमेव संवेष्टते यथा, तथा स्यादिति मन्तव्यम् ; यतश्चिरकालसंवेष्टनाहितसंस्कारः तत्र पुनःसंवेष्टननिमित्तम् । तथा च यावत्संस्कारक्षयं प्रसारणनिमित्तानुवृत्तौ पुनःसंवेष्टनोपजनः, एवं चिरकालसन्निहितबिम्बनिमित्ततदाकारपरिणतिरादर्शः तथैव तदपायेऽपि यावदायुरवतिष्ठेत, न च तथोपलभ्यते ; यः पुनः कमलमुकुलस्य विकासपरिणतिहेतोः सावित्रस्य तेजसो दीर्घकालानुवृत्तस्यापि विगमे तत्समकालं पुनर्मुकुलीभावः, स प्रथमतरमुकुलहेतुपार्थिवाप्यावयवव्यापारनिमित्तः ; तदुपरमे जीर्णस्य पुनर्मुकुलतानुपलब्धेः, नादर्शे पुनस्तथा पूर्वरूपपरिणामहेतुरस्ति । अत्राह — भवतु न वस्त्वन्तरं, तदेव तदिति तु न क्षम्यते ; शुक्तिकारजतस्य मिथ्यारूपस्यापि सत्यरजतैकरूपावभासित्वदर्शनात् , मैवम् ; तत्र हि बाधदर्शनात् मिथ्याभावः, नेह स बाधो दृश्यते । यः पुनः दर्पणापगमे तदपगमः, न स बाधः ; दर्पणेऽपि तत्प्रसङ्गात् ॥
ननु तत्त्वमसिवाक्यात् बाधो दृश्यते, मैवम् ; तत्र’तत्त्वमि’ति बिम्बस्थानीयब्रह्मस्वरूपताप्रतिबिम्बस्थानीयस्य जीवस्योपदिश्यते ; अन्यथा न’तत्त्वमसी’ति स्यात् , किन्तु‘न त्वमसी’ति भवेत् , ‘न रजतमस्ती’तिवत् । किं च शास्त्रीयोऽपि व्यवहारः प्रतिबिम्बस्य पारमार्थिकमिव बिम्बैकरूपत्वं दर्शयति ‘नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम्’ इति ॥ यस्तु मन्यते न पराक्प्रवणप्रवृत्तनयनरश्मिभिः बिम्बमेव भिन्नदेशस्थं गृह्यते, किन्तु दर्पणप्रतिस्फालितैः परावृत्त्य प्रत्यङ्मुखैः स्वदेशस्थमेव बिम्बं गृह्यते इति, तमनुभव एव निराकरोतीति, न पराक्रम्यते । कथं पुनः परिच्छिन्नमेकमेकस्वभावं विच्छिन्नदेशद्वये सर्वात्मना अवभासमानमुभयत्र पारमार्थिकं भवति ? न वयं विच्छेदावभासं पारमार्थिकं ब्रूमः, किं तु एकत्वं विच्छेदस्तु मायाविजृम्भितः । न हि मायायामसम्भावनीयं नाम ; असम्भावनीयावभासचतुरा हि सा ॥
ननु सत्येव बिम्बैकतावगमे प्रतिबिम्बस्य तद्गतो विच्छेदादिमिथ्यावभासः, तथा ब्रह्मैकतावगमेऽपि जीवस्य विच्छेदादिमिथ्यावभासो न निवर्तितुमर्हति, उच्यते — देवदत्तस्याचेतनांशस्यैव प्रतिबिम्बत्वात् , सचेतनांशस्यैव वा प्रतिबिम्बत्वे प्रतिबिम्बहेतोः श्यामादिधर्मेणेव जाड्येनाप्यास्कन्दितत्वात् न तत् प्रतिबिम्बं बिम्बैकरूपतामात्मनो जानाति ; अचेतनत्वात् , तथा चानुभवः ‘न बिम्बचेष्टया विना प्रतिबिम्बं चेष्टते’ इति । यस्य हि भ्रान्तिरात्मनि परत्र वा समुत्पन्ना, तद्गतेनैव सम्यग्ज्ञानेन सा निवर्तते, यस्तु जानीते देवदत्तः प्रतिबिम्बस्यात्मनोऽभिन्नत्वं, न स तद्गतेन दोषेण संस्पृश्यते, नापि ज्ञानमात्रात् प्रतिबिम्बस्य निवृत्तिः ; तद्धेतोः दर्पणादेः पारमार्थिकत्वात् । जीवः पुनः प्रतिबिम्बकल्पः सर्वेषां न प्रत्यक्षश्चिद्रूपः नान्तःकरणजाड्येनास्कन्दितः । स चाहङ्कर्तृत्वमात्मनो रूपं मन्यते, न बिम्बकल्पब्रह्मैकरूपताम् ; अतो युक्तस्तद्रूपावगमे मिथ्यात्वापगमः ॥
ननु तत्र विभ्राम्यतो विभ्रमहेतुर्दर्पणालक्तकादिपरमार्थवस्तु सन्निहितमस्ति, न तथेह किञ्चित् सर्वत्रैव चिद्विलक्षणे विभ्रमविलासाभिमानिन इति मा भूदाशङ्केति रज्जुसर्पमुदाहरन्ति ॥
ननु तत्रापि यदि नामेदानीमसन्निहितः सर्पः, तथापि पूर्वनिर्वृत्ततदनुभवसंस्कारः समस्त्येव, बाढम् ; इहाप्यहङ्कर्तृतातत्संस्कारयोर्बीजाङ्कुरयोरिवानादेः कार्यकारणभावस्य वक्ष्यमाणत्वात् तत्संस्कारो विभ्रमहेतुः विद्यते । तत्र यद्यपि अनिर्वचनीयतयैव अरुणादिना स्फटिकादेः सावयवत्वेन सम्भेदयोग्यस्यापि असम्भेदावभासः सिद्धः ; तथापि तदासङ्गीव स्फटिकप्रतिबिम्बमुत्प्रेक्षते, रज्ज्वां पुनः सर्पबुद्धिरेव, न तत्सम्भिन्नत्वमसम्भिन्नत्वं वा तस्याम् । तेन ‘असङ्गो न हि सज्जते’ (बृ. उ. ३-९-२६) ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४-३-१५) इत्यादिश्रुतिसमर्पितासङ्गता आत्मनो न स्पष्टं दर्शितेति तदर्थं घटाकाशोदाहरणम् । तत्र हि तत्परामर्शादृते न भेदरूपकार्यसमाख्याः स्वगता दृश्यन्ते । एतच्च सर्वमुदाहरणजातं श्रुतितन्न्यायानुभवसिद्धस्य तदसम्भावनापरिहाराय बुद्धिसाम्यार्थं च, न वस्तुन एव साक्षात् सिद्धये । तदेवं यद्यपि चैतन्यैकरसोऽनिदमात्मकत्वादविषयः ; तथाप्यहङ्कारे व्यवहारयोग्यो भवतीति गौण्यावृत्त्या अस्मत्प्रत्ययविषयतोच्यते ; प्रमेयस्य च व्यवहारयोग्यत्वाव्यभिचारात् ॥
ननु व्यवहारयोग्यत्वे अध्यासः, अध्यासपरिनिष्पन्नाहंप्रत्ययबलात् व्यवहारयोग्यत्वम् इति प्राप्तमितरेतराश्रयत्वम् , न ; अनादित्वेन प्रत्युक्तत्वात् । तत्र एवंभूतस्य अहङ्कर्तुरिदमंशस्य ज्ञानसंशब्दितो व्यापारविशेषः सकर्मत्वात् कर्मकारकाभिमुखं स्वाश्रये कञ्चिदवस्थाविशेषमादधाति ; स्वाश्रयविकारहेतुत्वात् क्रियायाः । स च प्राप्नोतिक्रियाहितकर्तृस्थविशेषवत् कर्मसम्बन्धो ज्ञातुः ज्ञेयसम्बन्धः इति गीयते । तेन विषयविशेषसम्बद्धमेवान्तःकरणे चैतन्यस्यावच्छेदकम् । कर्मकारकमपि प्रधानक्रियासिद्धौ स्वव्यापाराविष्टं चैतन्यविवर्त्तत्वात् प्रधानक्रियाहितप्रमात्रवस्थाविशेषावच्छिन्नापरोक्षतैकरूपामपरोक्षतामभिव्यनक्ति । ततश्चात्मनोऽन्तःकरणावस्थाविशेषोपाधिजनितो विशेषः विषयानुभवसंशब्दितो विषयस्थापरोक्षैकरसः फलमिति क्रियैकविषयता फलस्य युज्यते । एवं चाहङ्कर्ता स्वांशचैतन्यबलेन व्यापाराविष्टतया च प्रमाता, इति बुद्धिस्थमर्थं पुरुषश्चेतयत इत्युच्यते । तत्र च प्रमातुः स्वयञ्ज्योतिषो विषयसम्बन्धसञ्जातविशेषोऽनुभवोऽपरोक्षतया सर्वान् प्रत्यविशिष्टोऽपि कारकाणां सम्भूय प्रधानक्रियासाधनत्वात् , येन सह साधनं, तन्निष्ठ एव, नान्यत्र । कर्मकारकमपि येन सह साधनं, तस्यैवापरोक्षं ; गन्तृसम्बन्ध इव ग्रामस्य ॥
ननु नीलादिविषयोऽपि चेदपरोक्षस्वभावः, नीलात्मिका संविदित्युक्तं स्यात् ; अतः स एव माहायानिकपक्षः समर्थितः, मैवम् — परस्परव्यावृत्तौ नीलपीताववभासेते, अपरोक्षता तु न तथा, एकरूपावगमाद्विच्छेदावभासेऽपि, अतः न तत्स्वभावता । यदि स्यात् , तद्वदेव व्यावृत्तस्वभावताऽप्यवभासेत, न च तथा । किं च तैरपि नीलात्मकसंविदोऽन्य एव पराग्व्यावृत्तोऽपरोक्षः प्रत्यगवभासः स्वरूपमात्रे पर्यवसितो विकल्प उपेयते, प्रतीयते च नीलसंवित् प्रत्यग्व्यावृत्तेदन्तया ग्राह्यरूपा ; ततश्च वस्तुद्वयं ग्राह्यग्राहकरूपमितरेतरव्यावृत्तं सिद्धम् ॥
नैतत् — द्वयोरपि स्वरूपमात्रनिष्ठयोः कुतो विषयविषयिभावः ? कथं पुनः ‘इदमहं जानामी’ति तयोर्ग्राह्यग्राहकतावभासः ? नायं तदवभासः, किन्तु ‘अहमि’ति ‘इदमि’ति ‘जानामी’ति च परस्परव्यावृत्ता विकल्पा एते । कथं पुनः तेषु कटाक्षेणाप्यन्योन्यमनीक्षमाणेष्वयं सम्बन्धावगमः ? तद्वासनासमेतसमनन्तरप्रत्ययसमुत्थं सङ्कलनात्मकं प्रत्ययान्तरमेतत् ; नेह सम्बन्धावगमः ? किं पुनः एवमनुभवानारूढामेव प्रक्रियां विरचयति भवान् ! क्षणविध्वंसिनः क्रियानुपपत्तेः ; स्थायित्वे हि सत्यहमुल्लेख्यस्य स्थायिनैव नीलादिना क्रियानिमित्तः सम्बन्धः, ततश्च क्रियानिमित्तैव नीलादेरप्यपरोक्षता स्यात् , न च स्थायित्वमस्ति । यद्येवं, ’अहमि’ति संविदः प्रतिक्षणं स्वलक्षणभेदेन भाव्यं, स किं विद्यते ? न वेति ? स्वसंविदमगूहमानैरेवाभिधीयताम् ! अथ अत्यन्तसादृश्यात् न भेदोऽवभासते इति, संविदोऽपि चेत् स्वरूपं नावभासते, आयातमान्ध्यमशेषस्य जगतः ! अपि च तद्रूपप्रतिभासे सादृश्यकल्पना प्रमाणविरुद्धा, निष्प्रमाणिका च ! तद्रूपप्रतीतेः व्यामोहत्वात् न प्रमाणविरुद्धता, नाप्यप्रामाणिकता ; निर्बीजभ्रान्त्ययोगादिति चेत् , न इतरेतराश्रयत्वात् । सिद्धे व्यामोहे सादृश्यसिद्धिः ; प्रमाणविरोधाभावात् , प्रमाणसद्भावाच्च, सिद्धे च सादृश्ये तन्निमित्ता व्यामोहसिद्धिः ॥
स्यादेतत् , अव्यामोहेऽपि तुल्यमेतत् , सिद्धे हि सादृश्यकल्पनाया अप्रामाणिकत्वे प्रमाणविरोधे च तद्रूपप्रतीतेरव्यामोहत्वम् , अव्यामोहत्वे चास्याः सादृश्यकल्पनायाः निष्प्रमाणकत्वं प्रमाणविरोधश्च, नैतत् ; स्वारसिकं हि प्रामाण्यं प्रतीतेरनपेक्षम् । तथा च तत्प्रामाण्यात् सादृश्यकल्पना निष्प्रामाणिकी प्रमाणविरुद्धा च, न तु सादृश्यकल्पना स्वतःसिद्धा, येन प्रामाण्यमावहेत् , अप्रामाण्यपूर्विकैव सा । अथ अन्ते क्षयदर्शनादौ क्षयानुमानम् ; अतो भिन्नत्वात् सादृश्यकल्पनेति ? आदौ सत्तादर्शनादन्तेऽपि सा किं नानुमीयते ? क्षयानुभवविरोधादिति चेत् , इहापि तद्रूपसत्त्वादनुभवविरोधः ; न ह्युभयोरनुभवयोः कश्चिद्विशेषः ! अथ मन्येत योऽसौ स्थिरत्वेनाभिमतोऽहमुल्लेखः, स किं काञ्चिदर्थक्रियां कुर्याद्वा ? न वा ? यदि न कुर्यात् असल्लक्षणप्राप्तेर्न परमार्थवस्तु ; अथ कुर्यात् , न तर्हि स्थायी ; स्थायिनोऽर्थक्रियाऽयोगात् । कथमयोगः ? इत्थमयोगः — स तां कुर्वन् क्रमेण कुर्याद्यौगपद्येन वा ? न तावत् क्रमेण ; पूर्वोत्तरकालयोः तस्य विशेषाभावेऽपि, किमिति पूर्वस्मिन्नेव काल उत्तरकालभाविनीमपि न कुर्यात् ? नापि यौगपद्येन ; यावज्जीवकृत्यमेकस्मिन्नेव क्षणे कृतमित्युत्तरकाले तद्विरहादसल्लक्षणत्वप्राप्तेः । अतोऽर्थक्रियाकारित्वादेव न स्थायी । तेन प्रतिक्षणं भिन्नेष्वहमुल्लेखेषु तद्बुद्धिः सादृश्यनिबन्धनेति, उच्यते — अथ केयमर्थक्रिया ? यदभावादसल्लक्षणत्वप्राप्तिः । स्वविषयज्ञानजननम् ? प्राप्तं तर्हि सर्वासामेव संविदां स्वसंविदितरूपत्वेन स्वविषयज्ञानाजननादसल्लक्षणत्वम् । न सन्तानान्तरेऽपि तज्जननम् ; अनैन्द्रियकत्वात् , अनुमानेऽपि अर्थजन्यत्वाभावात् । सार्वज्ञ्येऽपि न साक्षात् स्वसंविदं जनयति ; संसारसंविदेकरूपत्वप्रसङ्गात् , अतद्रूपत्वे तद्विषयत्वायोगात् ॥ अथ क्षणान्तरोत्पादोऽर्थक्रिया ? चरमक्षणस्यासल्लक्षणत्वप्रसङ्गः, न च सर्वज्ञज्ञानजननेनार्थवत्त्वम् ; चरमत्वानुपपत्तेः मुक्त्यभावप्रसङ्गात् । न च संवित्संविदो विषयः ; संविदात्मना भेदाभावात् प्रदीपस्येव प्रदीपान्तरम् । किञ्च नार्थक्रियातः सत्त्वं भवति ; स्वकारणनिष्पन्नस्य कार्यजननात् । अतः प्रतीतिः वक्तव्या । तत्र तस्या अन्यतः सत्त्वप्रतीतिः तस्या अप्यन्यतः इत्यनवस्थानात् न क्वचित् सत्तानवगमः, इति शून्यं जगदभविष्यत् । ननु स्वज्ञानार्थक्रियायाः स्वयंसिद्धत्वात् न अनवस्था ? न तर्ह्यर्थक्रियातः सत्तावगमः ; न हि स्वरूपमेव स्वस्यार्थक्रिया ॥ यत् पुनः क्रमेणार्थक्रिया न युज्यते ; पूर्वोत्तरकालयोः तस्य विशेषाभावादिति, नैष दोषः ; स्थायिनोऽपि कारणस्य सहकारिसव्यपेक्षस्य जनकत्वात् विशेषाभावादित्ययुक्तम् । अथ कारणस्यान्यापेक्षा न युक्ता, अकारणस्यापि नतरामित्यसहकारि विश्वं स्यात् । अथाकारणं कारणोत्पत्तयेऽपेक्षत इति चेत् , अथ तत् कारणस्य कारणम् ? अकारणं वा ? कारणं चेत् , नापेक्षितुमर्हति । अकारणं चेत् नतराम् । अथ नापेक्षा हेतूनां सहकारिणीति ब्रूयात् , दर्शनेन बाध्येत ; दृष्टं हि सहकार्यपेक्षत्वं हेतूनाम् । तस्मात् यथैव हेतोः हेतुत्वं सति कार्ये केनाप्यतर्कणीयेन क्रमेण ज्ञायते ; सत्येव हेतौ कार्यस्य दर्शनात् , तथा समेतसहकारिण्येव दर्शनात् सहकार्यपेक्षस्य तद्विज्ञेयम् ॥
यस्तु मन्यते — सहकारिजनितविशेषो हेतुः कार्यं जनयति ; अन्यथाऽनुपकारिणोऽपेक्षायोगादिति ; स वक्तव्यः — विशेषस्य स हेतुरहेतुर्वा ? अहेतुश्चेत् , विशेषोत्पत्तौ नापेक्ष्येत ; तत्र केवला एव सहकारिणो विशेषमुत्पादयेयुः, ततश्च कार्यं स्यात् । अथ हेतुः ? सहकारिभिरजनितविशेषस्तमेव कथं कुर्यात् ? विशेषस्य वा जनने अनवस्था । अथ मतं — न सर्वं कार्यं सहकारिजनितात्मभेदहेतुजन्यम् , समग्रेषु हेतुषु तावत्येवाभवदङ्कुरादि ; तथा किञ्चित्सन्निहितसहकारिहेतुजन्यं, यथा अक्षेपकारीन्द्रियादिज्ञानम् ; तत्र आद्यो विशेषः सहकारिसन्निधानमात्रलभ्यः ; अक्षेपकारीन्द्रियादिज्ञानवदिति नानवस्था ? अनुपकुर्वन्नपि तर्हि सहकारी अपेक्ष्येत । न हि तत्र हेतोः सहकारिभ्य आत्मभेदः । नानुपकुर्वन्नपेक्ष्यते ; अतिप्रसङ्गात् । स्वरूपे तु नोपकरोति, किन्तु कार्ये ; तत्सिद्धेस्तन्नान्तरीयकत्वात् ? नित्योपि तर्ह्यनाधेयातिशयो भावः कार्यसिद्धये क्षणिक इव सहकारिणमपेक्षत इति किं नाभ्युपेयते ? यथैव क्षणिको भावः सहकारिसमवधाने एव कार्यं जनयति ; सामग्रीसाध्यत्वात् , तथा नित्योऽपि स्वरूपानुपयोगित्वेऽपि सहकारिसमवधानं कार्योपयोगादपेक्षेत ॥ अथ मतम् — क्षणिकोऽपि नैवापेक्षते, जन्यजनकस्य स्वयमन्यापेक्षानुपपत्तेः, कार्यं तु यदन्यसन्निधौ भवति तत् ; तस्यान्यसन्निधावेव भावात् अन्यथा चाभावात् , नित्यस्य तु जनकस्य सर्वदा जननप्रसङ्गः । को हेतुरन्यापेक्षायाः ? क्षणिकस्तु यो जनको भावः स न पुरस्तात् , न पश्चादिति न पूर्वोत्तरकालयोः कार्योत्पादः ॥
इदमयुक्तं वर्तते ! किमत्रायुक्तम् ? सति नियमेऽपि निरपेक्षत्वम् । तथा हि — यः कश्चित् कस्यचित् क्वचिन्नियमः, स तदपेक्षाप्रभावितः ; अनपेक्षत्वे नियमानुपपत्तेः । एवं हि कार्यकारणभावसिद्धिः । कार्यार्थिभिश्च विशिष्टानां हेतूनामुपादानम् । तत्र यदि न क्षणिकं कारणं सहकारिणमपेक्षते, नापि तत् कार्यम् , कथं नियमः ? तथा हि — हेतुपरम्पराप्रतिबन्धात् न हेतुः स्वरूपे सहकारिणमपेक्षते, न कार्ये ; स्वयञ्जननशक्तेः । नापि कार्यम् ; एकस्यापि शक्तिमत्त्वेन प्रसह्यजननात् तत्र सहकारिसन्निधिनियमोऽनर्थकः स्यात् । काकतालीयमुच्यते ? तथा च कार्यकारणव्यवहाराः सर्व एवोत्सीदेयुः । तस्मात् क्षणिकस्यापि भावस्य स्वयं जनकस्य स्वरूपानुपयोगिन्यपि सहकारिणि कार्यसिद्धये अपेक्षा वाच्या ; कार्यस्यैव वा सामग्रीसाध्यत्वात् , तत्र नियमात् ; तथा नित्येऽपीति न विशेषं पश्यामः ॥ तदेवमहङ्कर्तुः सदा एकरूपावगमात् स्थायित्वेऽप्यर्थक्रियासम्भवात् न नीलस्य स्वगतापरोक्षत्वमात्रेण माहायानिकपक्षः समर्थ्यते, किन्तु ग्राहकस्याहङ्कर्तुरात्मनः स्थायिनोऽभावे । स चैकरूपः अनुभवात् युक्तिबलाच्च प्रसाधितः । ननु नानुमेयादिष्वपरोक्षता दृश्यते ? उच्यते — नानुमेयादिष्वपरोक्षत्वम् ; स्वज्ञानोत्पत्तावव्यापृतत्वात् , लिङ्गादीनामेव कुतश्चित् सम्बन्धविशेषाद्विशिष्टैकार्थज्ञानहेतुत्वात् , प्रमेयस्य च स्वज्ञानोत्पत्तिहेतुत्वे प्रमाणाभावात् । अलं प्रसङ्गागतप्रपञ्चेन । स्वावसर एवैतत् सुगतमतपरीक्षायां निपुणतरं प्रपञ्चयिष्यामः ॥
तदेवमहङ्कारग्रन्थिरस्मच्छब्दसंशब्दितः । प्रत्ययश्चासौ ; आदर्श इव प्रतिबिम्बस्य अनिदञ्चित्सम्वलितत्वेन तस्याभिव्यक्तिहेतुत्वात् । अतः तस्य विषयवत् भवतीत्युपचारेण अनिदञ्चिदात्मधातुरस्मत्प्रत्ययविषय उच्यते । स पुनरेवंभूतो जाग्रत्स्वप्नयोरहमुल्लेखरूपेण, सुषुप्ते तत्संस्काररञ्जिताग्रहणाविद्याप्रतिबद्धप्रकाशत्वेन च गतागतमाचरन् संसारी, जीवः विज्ञानघनः, विज्ञानात्मा, प्राज्ञः, शरीरी, शारीरः, आत्मा, सम्प्रसादः, पुरुषः, प्रत्यगात्मा, कर्ता, भोक्ता, क्षेत्रज्ञः इति च श्रुतिस्मृतिप्रवादेषु गीयते ।
किञ्च न केवलमस्मत्प्रत्ययविषयत्वादध्यासार्हः -
अपरोक्षत्वाच्च ।
तत्साधनार्थमाह —
प्रत्यगात्मप्रसिद्धेरिति ॥
न ह्यात्मन्यप्रसिद्धे स्वपरसंवेद्ययोः विशेषः । न च संवेद्यज्ञानेनैव तत्सिद्धिः ; अकर्मकारकत्वादतिप्रसङ्गात् । न च ज्ञानान्तरेण ; भिन्नकालत्वे संवेद्यसम्बन्धानवगमात् , स्वपरसंवेद्याविशेषात् । न ह्येककालं विरुद्धविषयद्वयग्राहिज्ञानद्वयोत्पादः । न हि देवदत्तस्याग्रपृष्ठदेशस्थितार्थव्यापिगमनक्रियाद्वयावेशो युगपत् दृश्यते । आह — मा भूत् चलनात्मकं क्रियाद्वयं युगपत् , परिणामात्मकं तु भवत्येव ; मैवं ; परिस्पन्दात्मकमपि भवत्यविरुद्धम् , यथा गायन् गच्छतीति, परिणात्मकमपि न भवति विरुद्धं, यथा यौवनस्थाविरहेतुः । तस्मात् प्रत्यगात्मा स्वयम्प्रसिद्धः सर्वस्य हानोपादानावधिः स्वयमहेयोऽनुपादेयः स्वमहिम्नैवापरोक्षत्वादध्यासयोग्यः ॥
ननु न क्वचिदपरोक्षमात्रेऽध्यासो दृष्टपूर्वः, सर्वत्राक्षिसम्प्रयोगितया पुरोवस्थितापरोक्ष एव दृश्यते, इत्याशङ्क्याह —
न चायमस्ति नियमः इति ॥
अप्रत्यक्षेऽपि ह्याकाशे इति
परोक्षे इत्यर्थः ;
अथवा — अक्षव्यापारमन्तरेणाप्यपरोक्ष
आकाशे ।
बालाः
अयथार्थदर्शिनः ।
तलम्
इन्द्रनीलतमालपत्रसदृशम् ,
मलिनतां
च धूमादिकमन्यच्च नीलोत्पलसमानवर्णतादि
अध्यस्यन्ति ।
एवमविरुद्धः
इति सम्भावनां निगमयति । यथा आकाशस्याक्षव्यापारमन्तराप्यपरोक्षता, तथा दर्शयिष्यामः ॥
ननु ब्रह्मविद्यामनर्थहेतुनिबर्हणीं प्रतिजानता अविद्या अनर्थहेतुः सूचिता, ततः सैव कर्तृत्वाद्यनर्थबीजमुपदर्शनीया, किमिदमध्यासः प्रपञ्च्यते ? इत्याशङ्क्य आह —
तमेतमेवंलक्षणमध्यासं पण्डिताः
प्रमाणकुशलाः
‘अविद्ये’ति मन्यन्ते । तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः ॥
अध्यस्तातद्रूपसर्पविलयनं कुर्वत् वस्तुस्वरूपं रज्जुरेवेत्यवधारयत् विज्ञानं विद्येति प्रसिद्धमेव लोके ब्रह्मविदो वदन्ति । यद्येवं अध्यास इति प्रक्रम्य पुनस्तस्याविद्याभिधानव्याख्याने यत्नगौरवात् वरमविद्येत्येवोपक्रमः कृतः ? नैतत् सारम् ; अविद्येत्येवोच्यमान आच्छादकत्वं नाम यत् तस्यास्तत्त्वं, तदेवाभिहितं स्यात् , न अतद्रूपावभासितया अनर्थहेतुत्वम् । अतोऽतद्रूपावभासित्वमध्यासशब्देन प्रकृतोपयोगितया उपक्षिप्य पुनस्तयाविद्याशब्दतया विद्यामात्रापनोदनार्हत्वं दर्शनीयम् ।
तदेतदाह —
यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि स न सम्बध्यते
इत्यवास्तवमनर्थं दर्शयति । वास्तवत्वे हि ‘ज्ञानमात्रात् तद्विगमः’ इति प्रतिज्ञा हीयेत ॥
एवं तावत् ‘युष्मदस्मदि’त्यादिना ‘मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः’ इत्यन्तेन भाष्येण सिद्धवदुपन्यस्तमात्मानात्मनोरितरेतरविषयमविद्याख्यमध्यासं सिषाधयिषुः, तस्य लक्षणमभिधाय तत्सम्भवं चात्मनि दर्शयित्वा पुनस्तत्र सद्भावनिश्चयमुपपत्तित उपपादयितुमिच्छन्नाह —
तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्चप्रवृत्ताः, सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपराणीति ॥
मोक्षपरत्वं च शास्त्रस्य विधिप्रतिषेधविरहिततया उपादानपरित्यागशून्यत्वात् स्वरूपमात्रनिष्ठत्वमङ्गीकृत्य पृथक् क्रियते ।
कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति ॥
बाढमुक्तलक्षणा अविद्या प्रत्यग्दृश्यपि सम्भवेत् , न एतावता तत्सम्भवः सिध्यति । तेन निदर्शनीयः सः । प्रमातारमाश्रयन्ति प्रमाणानि, तेन प्रमाता प्रमाणानामाश्रयः, नाविद्यावान् ; अनुपयोगादित्यभिप्रायः ।
अथवा —
कथमविद्यावद्विषयाणि प्रत्यक्षादीनि शास्त्राणि च प्रमाणानीति
सम्बन्धः । अविद्यावद्विषयत्वे सति आश्रयदोषानुगमादप्रमाणान्येव स्युरित्याक्षेपः ॥
उच्यते — देहेन्द्रियादिष्वहंममाभिमानहीनस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेरिति
भाष्यकारस्य वस्तुसङ्ग्रहवाक्यम् ॥
अस्यैव प्रपञ्चः —
‘नहीन्द्रियाण्यनुपादाये’त्यादिः ।
न हि देहेन्द्रियादिष्वहं ममाभिमानहीनस्य सुषुप्तस्य प्रमातृत्वं दृश्यते । यतो देहे अहमभिमानः इन्द्रियादिषु ममाभिमानः । आदिशब्देन बाह्वाद्यवयवग्रहणम् । देहशब्देन सशिरस्को मनुष्यत्वादिजातिसम्भिन्नोऽवयव्यभिमतः, न शरीरमात्रम् ; देहोऽहमिति प्रतीत्यभावात् । सर्वो हि ‘मनुष्योऽहम्’ ‘देवोऽहमि’ति जातिविशेषैकाधिकरणचैतन्य एव प्रवर्तत इति स्वसाक्षिकमेतत् । न स्वत्वेन सम्बन्धिना मनुष्यावयविना तदनुस्यूतेन वा चक्षुरादिना प्रमात्रादिव्यवहारः सिध्यति ; भृत्यादिमनुष्यावयविनापि प्रसङ्गात् ॥
अपर आह — आत्मेच्छानुविधायित्वं कार्यकरणसङ्घातस्यात्मना सम्बन्धः, तस्यापि तस्य यथेष्टविनियोजकत्वं तेन सम्बन्धः, तत आत्मनः प्रमात्रादिकः सर्वः क्रियाकारकफलव्यवहारः । तथा च उत्तिष्ठामीति इच्छयोत्तिष्ठत्युपविशति च । न च भृत्यादिषु तदस्ति । तेन तत्र प्रमात्रादिव्यवहाराभावो न मिथ्यामुख्याभिमानाभावादिति । नैतत् संविदि बहुमानवतो युक्तम् । तथाहि — ‘मनुष्योऽहमि’ति स्वसाक्षिका संवित् , ‘न मे मनुष्यः’ इति गौणीति चेत् , भवानेवात्र प्रमाणम् । अपि च इच्छापि परिणामविशेषः, स कथमपरिणामिन आत्मनः स्यात् परिणाम्यन्तःकरणसम्वलिताहङ्कर्तृत्वमन्तरेण । तथा चानुभवः ‘अहमुत्तिष्ठामी’ति ; इच्छयोत्तिष्ठत्युपविशति च । तस्मात् यत्किञ्चिदेतत् । अतः स्वयमसङ्गस्याविकारिणोऽविद्याध्यासमन्तरेण न प्रमातृत्वमुपपद्यते । तेन यद्यपि प्रमातृत्वशक्तिसन्मात्रं प्रमाणप्रवृत्तौ निमित्तम् , तदेव तु अविद्याध्यासविलसितमित्यविद्यावद्विषयता प्रमाणानामुच्यते । तथा निरपेक्षाणां स्वसामर्थ्येनार्थसिद्धिं विदधतां बाधानुपलब्धेः प्रामाण्यम् अविद्यावद्विषयत्वं च विधिमुखोपदर्शितं ‘न ने’ति शक्यमपह्नोतुम् । दोषस्तु आगन्तुक एव मिथ्यात्वे हेतुः, न नैसर्गिकः ; तथोपलब्धेः । न च सर्वसाधारणे नैसर्गिके दोषबुद्धिः । तथाहि — क्षुत्पिपासोपजनिते सन्तापे शश्वदनुवर्तमाने जाठराग्निकृतविकारे अन्नपाननिष्यन्दे वा न रोगबुद्धिर्जनस्य, मुहूर्तमात्रपरिवर्तिनि मन्दे ज्वरे प्रतिश्याये वा अल्पकफप्रसूतावपि रोगबुद्धिः ; अनैसर्गिकत्वात् । अनैसर्गिकं च दोषमभिप्रेत्योक्तं ‘यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः प्रत्ययो नान्यः’ इति ॥
इतश्चैतदेवं —
पश्वादिभिश्चाविशेषात् ।
तथा च पश्वादयः प्रमातृत्वादिव्यवहारकाले प्रवृत्तिनिवृत्त्यौदासीन्यं भजमानाः कार्यकारणसङ्घात एवाहंमानं कुर्वन्तीति प्रसिद्धं लोके । तदेकरूपयोगक्षेमा हि मनुष्या जन्मत एव पश्वादिभ्योऽधिकतरविवेकमतयः शास्त्राधेयसाम्परायिकमतिसामर्थ्या अपि ; अतः तदेकरूपकार्यदर्शनात् कार्यकारणसङ्घातेऽप्यात्माभिमानः समानो युक्तः । ननु पश्वादीनामपि कार्यकारणसङ्घाते अहङ्कारानुबन्ध इति कुतोऽवसीयते ? येन सिद्धवदभिधीयते, उच्यते — प्रौढमतिभ्य एव प्रत्यक्षादिवृत्तकुशलैरात्मा व्युत्पाद्यते ; अन्यथा तदनर्थकत्वप्रसङ्गात् । एवमेव प्रमाणविचारविरहं सर्वः सम्प्रतिपद्येत ॥
ननु गोपालाङ्गनादयः प्रमाणविरहमेव वर्तमानदेहपातेऽपि स्थायिनं भोक्तारं मन्यमानाः तदर्थमाचरन्ति न तदभिज्ञव्यवहारमात्रप्रमाणकत्वात् । तथा च ते पृष्टाः कः परलोकसम्बन्धीति ? ‘न विद्मो विशेषतः, प्रसिद्धो लोके’ इति प्रतिब्रुवन्ति । तस्मात् युक्तमुक्तं, पश्वादीनां च प्रसिद्धोऽविवेकपूर्वकः प्रत्यक्षादिव्यवहारः, तत्सामान्यदर्शनात् व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समानः इति ।
एवं तावत् प्रत्यक्षादीनि प्रमाणानि चक्षुरादिसाधनानि । तानि च नाधिष्ठानशून्यानि व्याप्रियन्ते । अधिष्ठानं च देहः । न तेनानध्यस्तात्मभावेनासङ्गस्याविकारिणः चैतन्यैकरसस्यात्मनः प्रमातृत्वमुपपद्यते, इत्यनुभवारूढमविद्यावद्विषयत्वं प्रत्यक्षादीनामुपदिश्य, पश्वादिव्यवहारसाम्येन कार्यतोऽप्यापाद्य, शास्त्रं पुनः प्रतिपन्नात्मविषयमेव, तेन न तत्राध्यासपूर्विका प्रवृत्तिः इति विशेषमाशङ्क्य, तस्याप्यविद्यावद्विषयत्वप्रदर्शनायाह —
शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते इति ॥
ननु फलनैयमिकनैमित्तिकप्रायश्चित्तचोदना वर्तमानशरीरपातादूर्ध्वकालस्थायिनं भोक्तारमन्तरेणापि प्रमाणतामश्नुवत एव । यथा चैतदेवं, तथा — ‘एक आत्मनः शरीरे भावात्’ (ब्र. सू. ३-३-५३) इत्यधिकरणारम्भे दर्शयिष्यामः, सत्यमेवम् ; तथापि सकलशास्त्रपर्यालोचनापरिनिष्पन्नं प्रामाणिकमर्थमङ्गीकृत्याह भाष्यकारः । तथा च विधिवृत्तमीमांसाभाष्यकारोऽप्युत्सूत्रमेवात्मसिद्धौ पराक्रान्तवान् । तत् कस्य हेतोः ? ‘धर्मजिज्ञासे’ति कार्यार्थविचारं प्रतिज्ञाय तदवगमस्य प्रामाण्ये अनपेक्षत्वं कारणमनुसरता सूत्रकारेण विशेषाभावात् स्वरूपनिष्ठानामपि वाक्यानां प्रामाण्यमनुसृतं मन्यते, तथा ‘चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुम्’ इति वदन् चोदनाशेषत्वेनापि स्वरूपावगमेऽनपेक्षत्वमविशिष्टमवगच्छतीत्यवगम्यते । स च स्वरूपावगमः कस्मिन् कथं वेति धर्ममात्रविचारं प्रतिज्ञाय, तत्रैव प्रयतमानेन भगवता जैमिनिना न मीमांसितम् ; उपयोगाभावात् , भगवांस्तु पुनर्बादरायणः पृथक् विचारं प्रतिज्ञाय व्यचीचरत् समन्वयलक्षणेन । तत्र च देहान्तरोपभोग्यः स्वर्गः स्थास्यति । तच्च सर्वं कार्यकरणसङ्घातादन्येन भोक्त्रा विना न सिध्यति । तत्सिद्धिश्च न आगममात्रायत्ता ; प्रमाणान्तरगोचरस्य तदभावे तद्विरोधे वा शिलाप्लवनवाक्यवदप्रामाण्यप्रसङ्गात् । अतस्तत्सिद्धौ पराक्रान्तवान् । तेन सत्यं विनापि तेन सिध्येत् प्रामाण्यम् , अस्ति तु तत् । तस्मिन् विद्यमाने न तेन विना प्रमाण्यं सिध्यति फलादिचोदनानाम् इति मत्वा आह —
शास्त्रीये तु व्यवहारे यद्यपि विद्यमाने बुद्धिपूर्वकारी नाविदित्वात्मनः परलोकसम्बन्धमधिक्रियते इति ॥
तथापि न वेदान्तवेद्यमिति ॥
किं तदिति ? अत आह —
असंसार्यात्मतत्वं,
न तत्
अधिकारेऽपेक्ष्यते अनुपयोगादधिकारविरोधाच्च ।
अशनायाद्यतीतमित्यसंसार्यात्मतत्त्वं दर्शयति । अशनायाद्युपप्लुतो हि सर्वो जन्तुः स्वास्थ्यमलभमानः प्रवर्तते, तदपाये स्वास्थ्ये स्थितो न किञ्चिदुपादेयं हेयं वा पश्यति ।
अपेतब्रह्मक्षत्रादिभेदम्
इति प्रपञ्चशून्यमेकरसं दर्शयति ।
प्राक् च तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते इति ॥
‘तत्त्वमसी’तिवाक्यार्थावगमादर्वागविद्याकृतं संसारमहमुल्लेखमाश्रित्य प्रवर्तमानं शास्त्रं नाविद्यावद्विषयत्वमतिवर्तते । तस्मात् युक्तमुक्तं प्रत्यक्षादीनां प्रमाणानां शास्त्रस्य च अविद्यावद्विषयत्वम् ॥
तदेव दर्शयति —
तथाहि — ‘ब्राह्मणो यजेते’त्यादीनि शास्त्राण्यात्मन्यतदध्यासमाश्रित्य प्रवर्तन्ते । वर्णवयोऽध्यासः
‘अष्टवर्षं ब्राह्मणमुपनयनीते’त्यादिः । आश्रमाध्यासः — ‘न ह वै स्नात्वा भिक्षेते’ति । अवस्थाध्यासः — ‘यो ज्योगामयावी स्यात् स एतामिष्टिं निर्वपेदि’ति । आदिशब्देन‘यावज्जीवं जुहुयादि’ति जीवनाध्यासः ।
एवमध्याससद्भावं प्रसाध्य, ‘स्मृतिरूपः’ इत्यादिना ‘सर्वथाऽपि त्वन्यस्यान्यधर्मावभासतां न व्यभिचरति’ इत्यन्तेन सर्वथाऽपि लक्षितं निरुपचरितमतदारोपम् —
अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम्
इति परामृशति, कस्य युष्मदर्थस्य कस्मिन्नस्मदर्थे तद्विपर्ययेण चाध्यासः इति विवेकतः प्रदर्शयितुम् ।
अतस्मिन्
अयुष्मदर्थे अनिदञ्चिति
तद्बुद्धिः
युष्मदर्थावभासः इत्यर्थः ।
तदाह —
तद्यथा पुत्रभार्यादिष्वित्यादि ॥
ननु प्रणव एव विस्वरः ; न हि पुत्रादीनां वैकल्यं साकल्यं वा आत्मनि मुख्यमध्यस्यति, मुख्यो ह्यतदारोपो दर्शयितुं प्रारब्धः, सत्यं ; स एव निदर्श्यते । कथम् ? तद्यथा बालके प्रातिवेश्यमात्रसम्बन्धिना केनचित् वस्त्रालङ्कारादिना पूजिते निरुपचरितमात्मानमेव पूजितं मन्यते पिता । पूजयितापि पितरमेवापूपुजमिति मन्यते । यतो न बालकस्य पूजितत्वाभिमानः ; अव्यक्तत्वात् , तथैव राजानमुपहन्तुकामोऽनन्तरो विजिगीषुः तद्राष्ट्रे ग्राममात्रमप्युपहत्य तमेवोपघ्नन्तमात्मानं मन्यते, सोऽप्युपहतोऽस्मीति सन्तप्यते । तदेवं प्रसिद्धव्यतिरेकस्यात्मनि मुख्य एवाध्यासो दृष्टः, किमु वक्तव्यं, कृशस्थूलाद्यभिमानस्य मुख्यत्वमिति कथयितुमाह —
अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यतीति ॥
बाह्येषु पुत्रादिषु पूजादेः धर्ममात्रस्यैव युष्मदर्थस्याध्यासः ॥ अस्मदर्थश्चाहंप्रत्ययिसम्भिन्न एवानिदञ्चिदंशो विषयः, न पुनः शुद्ध एवाहंप्रत्ययिन इवाध्यासे अध्यासान्तरानास्कन्दितः ।
तथा देहधर्मान् कृशत्वादीनिति ॥
धर्मिणोऽपि ; धर्मशब्दस्तु मनुष्यत्वादिधर्मसमवायिन एवाध्यासः, न ‘देहोऽहमि’ति कथयितुम् । तन्निमित्तश्च शास्त्रेणेतश्चेतश्च नियमः क्रियते ।
तथेन्द्रियधर्मान् मूकत्वादीनिति
धर्ममात्रम् ।
तथा अन्तःकरणधर्मान् कामादीनिति
धर्मग्रहणम् । अन्तःकरणमित्यहंप्रत्ययिनो विज्ञानशक्तिभागोऽभिधीयते । तस्य धर्माः कामादयः ।
एवमहंप्रत्ययिनमिति
धर्मिग्रहणम् । प्रत्ययाः कामादयोऽस्येति प्रत्ययी, अहं चासौ प्रत्ययी चेत्यहंप्रत्ययी ॥
तं
अशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्येति ॥
स्वशब्देन अहङ्कारग्रन्थिः संसारनृत्यशालामूलस्तम्भोऽभिधीयते । तस्य प्रचारः कामस्सङ्कल्पकर्तृत्वादिरनेकविधः परिणामः, यन्निमित्तं ब्रह्मादिस्थावरान्तेषु प्रदीप्तशिरा इव परवशो जन्तुर्बम्भ्रमीति । तं प्रचारमशेषमसङ्गितया अविकारित्वेन च हानोपादानशून्यः साक्षादव्यवधानमवभासयति चितिधातुः । स एव देहादिष्विदन्तया बहिर्भावमापद्यमानेषु प्रातिलोम्येनाञ्चतीवोपलक्ष्यते, इति प्रत्यगुच्यते, आत्मा च ; निरुपचरितस्वरूपत्वात् तत्राध्यस्य ।
तं च प्रत्यगात्मानमिति ॥
यदि युष्मदर्थस्यैव प्रत्यगात्मनि अध्यासः स्यात् , प्रत्यगात्मा न प्रकाशेत ; न हि शुक्तौ रजताध्यासे शुक्तिः प्रकाशते । प्रकाशते चेह चैतन्यमहङ्कारादौ । तथा यदि चैतन्यस्यैवाहङ्कारादावध्यासो भवेत्तदा नाहङ्कारप्रमुखः प्रपञ्चः प्रकाशेत ; तदुभयं मा भूदित्यनुभवमेवानुसरन्नाह —
तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति ॥
नात्र विवदितव्यम् , इतरेतराध्यासे पृथगवभासनात् न मिथ्या गौणोऽयमिति ; तथा अनुभवाभावात् मुख्याभिमानः । न हि दृष्टेऽनुपपन्नं नाम ॥
ननु अन्तःकरणे एव प्रत्यगात्मनः शुद्धस्याध्यासः, अन्यत्र पुनः चैतन्याध्यासपरिनिष्पन्नापरोक्ष्यमन्तःकरणमेवाध्यस्यते, अत एव ‘तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम्’ इत्युक्तम् ; अन्यथा चैतन्यमात्रैकरसस्य कुतो धर्माः ? येऽध्यस्येरन् , सत्यमाह भवान् ; अपि तु अन्यत्रान्तःकरणं सचित्कमेवाध्यस्यमानं यत्राध्यस्यते, तस्यैवात्मनः कार्यकरणत्वमापाद्य स्वयमविद्यमानमिव तिरस्कृतं तिष्ठति, चिद्रूपमेव सर्वत्राध्यासे, स्वतः परतो वा न विशिष्यते, तेनोच्यते —
तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति ॥
अत एव बुद्ध्यादिष्वेव चिद्रूपमनुस्यूतमुत्प्रेक्षमाणा बुद्धिमनःप्राणेन्द्रियशरीरेष्वेकैकस्मिन् चेतनत्वेनाहङ्कर्तृत्वं योजयन्तो भ्राम्यन्ति ॥
एवमयमनादिरनन्तो नैसर्गिकोऽध्यास
इति निगमयति ॥ ननु उपन्यासकाले नैसर्गिकोऽयं लोकव्यवहार इति लोकव्यवहारो नैसर्गिक उक्तः, कथमिहाध्यासो निगम्यते ? अनादिरिति चाधिकावापः, अत्रोच्यते — तत्रापि प्रत्यगात्मन्यहङ्काराध्यास एव नैसर्गिको लोकव्यवहारोऽभिप्रेतः ; स च प्रत्यगात्मा अनादिसिद्धः ; तस्मिन् नैसर्गिकस्यानादित्वमर्थसिद्धम् । अतः प्रक्रमानुरूपमेव निगमनम् , न चाधिकावापः ॥
ननु भवेदनादिः, अनन्तः कथम् ? यदि स्यात्तत्प्रहाणाय कथं वेदान्ता आरभ्यन्ते ? अन्तवत्त्वेऽपि तर्हि कथम् ? स्वतोऽन्यतो वा तत्सिद्धेः । तस्मात् अनन्तस्य प्रहाणाय वेदान्ता आरभ्यन्ते इत्युक्ते, अर्थादेष एव प्रहाणहेतुः, असत्यस्मिन् अनन्तः इति निश्चीयते ।
‘मिथ्याप्रत्ययरूप’
इति रूपग्रहणं लक्षणतस्तथा रूप्यते, न व्यवहारतः इति दर्शयितुम् ।
‘कर्तृत्वभोक्तृत्वप्रवर्तकः’
इति अनर्थहेतुत्वं दर्शयति हेयतासिद्धये । तेन कर्तृर्भोक्तुश्च सतो मिथ्याज्ञानं दोषप्रवर्तनमिति येषां मतं, तन्निराकृतं भवति ।
सर्वलोकप्रत्यक्षः इति
‘देहेन्द्रियादिष्वहंममाभिमानहीनस्ये’त्युपन्यस्य‘नहीन्द्रियाण्यनुपादाये’त्यादिना योऽनुभवो मिथ्यात्वसिद्धये अनुसृतः तं निगमयति ॥
एवं तावत् सूत्रेणार्थादुपात्तयोः विषयप्रयोजनयोः सिद्धये जीवस्याब्रह्मस्वरूपत्वमध्यासात्मकमुपदर्श्य, अस्यानर्थहेतोः प्रहाणायेति प्रयोजनं निर्दिशति । हेतोः प्रहाण्या हि हेतुमतः प्रहाणिरात्यन्तिकी यतः । ननु अनर्थहेतुरध्यासोऽनादिः, स कथं प्रहीयते ? तथा हि — मनुष्यादिजातिविशेषमात्राध्यासः ततो विविक्तेऽपि न्यायतः अहंप्रत्यये अनादित्वात् पूर्ववदविकलो वर्तते । नायं दोषः ॥
तत्त्वमसीत्यादिवाक्याद्ब्रह्मरूपावगाहिज्ञानान्तरोत्पत्तेरिष्टत्वात् । तद्धि ब्रह्मणोऽवच्छिद्यैव चैतन्यस्य ब्रह्मरूपत्वप्रच्छादनेन जीवरूपत्वापादिकामनादिसिद्धामविद्यामहङ्कारादिविक्षेपहेतुं निराकुर्वदेवोत्पद्यते । ततः कारणनिवृत्तौ तत्कार्यम् ‘अहमि’ति जीवे भोक्तृत्वरूपता सपरिकरा निवर्तत इति युज्यते । अहंप्रत्ययः पुनरनादिसिद्धोऽनादिसिद्धेनैव कार्यकरणमात्रेण सहभावादविरोधात् न स्वरूपविवेकमात्रेण निवर्तते । नापि ज्ञानान्तरमुत्पन्नमिति विशेषः ॥
ननु निरतिशयानन्दं ब्रह्म श्रूयते, ब्रह्मावाप्तिसाधनं च ब्रह्मविद्या ‘स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवती’त्यादिश्रुतिभ्यः ; तस्मान्निरतिशयसुखावाप्तय इति वक्तव्यम् , किमिदमुच्यते — ‘अनर्थहेतोः प्रहाणाये’ति ? ननु चानर्थस्यापि समूलस्य प्रहाणं श्रूयते ब्रह्मविद्याफलं ‘तरति शोकमात्मवित्’ (छा. उ. ७-१-३) ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३-१-२) इति च ॥ उभयं तर्हि वक्तव्यं ; श्रूयमाणत्वात् पुरुषार्थत्वाच्च ? न वक्तव्यम् ॥ कथम् ? ‘आत्मैकत्वविद्याप्रतिपत्तये’ इत्यात्मनो जीवस्य ब्रह्मात्मकता शास्त्रस्य विषयः, तेनानन्दात्मकब्रह्मस्वरूपताप्राप्तिः जीवस्य विषयतयैव संवृत्ता । न च सा विषयाद्बहिः, येन पृथङ्निदेशार्हा स्यात् , समूलानर्थहानिस्तु बहिः शास्त्रविषयाद्ब्रह्मात्मरूपात् । अनर्थहेतुप्रहाणमपि तर्हि न पृथङ्निर्देष्टव्यम् ? यतः सर्वेषु वेदान्तेष्वलौकिकत्वाद्ब्रह्मणस्तत्प्रतिपादनपूर्वकमेव जीवस्य तद्रूपता प्रतिपाद्यते । तद्यथा — ‘सदेव सोम्येदमग्र आसीदि’त्युपक्रम्य ‘ऐतदात्म्यमिदं सर्वं तत् सत्यं स आत्मे’त्यवसानं निरस्तसमस्तप्रपञ्चं वस्तु तत्पदाभिधेयं समर्पयदेकं वाक्यम् ; तथा सति तादृशेन तत्पदार्थेन संसृज्यमानः त्वम्पदार्थः पराकृत्यैव निर्लेपमनर्थहेतुमग्रहणमन्यथाग्रहणं च तथा निश्चीयत इति । यद्येवं ब्रह्मात्मावगतिनान्तरीयकम् अनर्थहेतोरविद्यायाः प्रहाणं, न शब्दस्य तत्र व्यापारः, तेन पृथङिनर्दिश्यते । युक्तं चैतत् — न हि विपर्यासगृहीतं वस्तु तन्निरासादृते तत्त्वतो निर्णेतुं शक्यम् । तस्मात् पूर्वावसितमतद्धर्मं निरस्यदेव तत्त्वावद्योति वाक्यं तत्त्वमवसाययति ॥
ननु च नञादेः निरासकृतो निरस्यमानवाचिनश्च पदस्याश्रवणात् कथं तन्निरस्यदेवेति ? उच्यते — नेदं रजतमिति यत्र विपर्यासमात्रं निरस्यते, न वस्तुतत्त्वमवबोध्यते ; तत्र तथा भवतु ; इह पुनः विज्ञानमेव तादृशमुत्पन्नं, यद् विरोधिनिराकरणमन्तरेण न स्वार्थं साधयितुमलम् , तुलोन्नमनव्यापार इव आनमननान्तरीयकः । तथा हि — उन्नमनव्यापारः स्वविषयस्य तुलाद्रव्यस्योर्ध्वदेशसम्बन्धं न साधयितुमलं, तत्कालमेव तस्याधोदेशसम्बन्धमनापाद्य । न चोन्नमनकारकस्य हस्तप्रयत्नादेरानमनेऽपि कारकत्वं ; प्रसिद्ध्यभावादनुभवविरोधाच्च । तदेवं विपर्यासगृहीते वस्तुनि तत्त्वावद्योतिशब्दनिमित्त आत्मनो ज्ञानव्यापारो ‘नाहं कर्ता ब्रह्माहमि’ति ग्राहयति ; ‘नेदं रजतं शुक्तिकेयमि’ति यथा । तस्मात् ‘शुक्तिकेयमि’त्येव निराकाङ्क्षं वाक्यम् , ‘नेदं रजतमि’त्यनुवादः । अत एवाख्यातपदस्य वाक्यत्वे क्रियाज्ञानादेव तत्साधनमात्रेऽपि प्रतीतिसिद्धेः पदान्तराणि नियमायानुवादाय वेति न्यायविदः । तथा चाहुः — ‘यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वादि’ति ।
अपरे तु ‘यज्ञं व्याख्यास्यामो द्रव्यं देवता त्यागः’ इति । कथं ? क्रियामात्रवाचिनो द्रव्यदेवताभिधानं नान्तरीयकं तद्विषयज्ञाननिमित्तत्वं विहाय । प्रत्यक्षबाधस्याप्ययमेव प्रकारः, असम्प्रयुक्तविषयत्वाद्बाधस्य । तदेवमशाब्दमविद्याविलयं मन्वानः श्रुतिन्यायकोविदो भगवान् भाष्यकारो विषयात् पृथक् निर्दिशति —
अस्यानर्थहेतोः प्रहाणायेति ॥
चतुर्थीप्रयोगोऽपि विद्यासामर्थ्यसिद्धिमभिप्रेत्य, न तदर्थमुपादानम् । प्रयोजनत्वं च पुरुषाकाङ्क्षाया एवास्तु । न हि विद्या गवादिवत् तटस्था सिध्यति, येनाप्तिः पृथगुपादीयेत । सा हि वेदित्राश्रया वेद्यं तस्मै प्रकाशयन्त्येवोदेति । सत्यमेवमन्यत्र ; प्रकृते पुनर्विषये विद्या उदिताऽपि न प्रतिष्ठां लभते ; असम्भावनाभिभूतविषयत्वात् । तथा च लोके अस्मिन् देशे काले चेदं वस्तु स्वरूपत एव न सम्भवतीति दृढभावितं, यदि तत् कथं चित् दैववशादुपलभ्येत, तदा स्वयमीक्षमाणोऽपि तावन्नाध्यवस्यति, यावत् तत्सम्भवं नानुसरति । तेन सम्यग्ज्ञानमपि स्वविषयेऽप्रतिष्ठितमनवाप्तमिव भवति । तेन तत्स्वरूपप्रतिष्ठायै तर्कं सहायीकरोति । अत एव प्रमाणानामनुग्राहकस्तर्कः इति तर्कविदः ॥
अथ कोऽयं तर्को नाम ? युक्तिः । ननु पर्याय एषः ? स्वरूपमभिधीयताम् । इदमुच्यते — प्रमाणशक्तिविषयतत्सम्भवपरिच्छेदात्मा प्रत्ययः । ननु एवं तर्कसापेक्षं स्वमर्थं साधयतोऽनपेक्षत्वहानेरप्रामाण्यं स्यात् , न स्यात् ; स्वमहिम्नैव विषयाध्यवसायहेतुत्वात् , क्व तर्हि तर्कस्योपयोगः ? विषयासम्भवाशङ्कायां तथा अनुभवफलानुत्पत्तौ तत्सम्भवप्रदर्शनमुखेन फलप्रतिबन्धविगमे । तथा च तत्त्वमसिवाक्ये त्वम्पदार्थो जीवः तत्पदार्थब्रह्मस्वरूपतामात्मनोऽसम्भावयन् विपरीतं च रूपं मन्वानः समुत्पन्नेऽपि ज्ञाने तावत् नाध्यवस्यति, यावत्तर्केण विरोधमपनीय तद्रूपतामात्मनो न सम्भावयति । अतः प्राक् विद्या उदितापि वाक्यात् अनवाप्तेव भवति । अवाप्तिप्रकारश्च वेदान्तेष्वेव निर्दिष्टः साक्षादनुभवफलोद्देशेन । तेनोच्यते —
विद्याप्रतिपत्तये इति ॥
ननु आत्मैकत्वविद्याप्रतिपत्तिः नानर्थहेतुप्रहाणाय प्रभवति ; तथाहि — जीवस्य कार्यकारणसङ्घातादन्यत्वप्रतिपत्तेः ब्रह्मस्वरूपताप्रतिपत्तिः न विशिष्यते ; उभयत्राप्यहङ्कारग्रन्थेः मनुष्याभिमानपर्यन्तस्याविकलमनुवर्तमानत्वात् , उच्यते — भवतु तत्राविद्याया अनिवर्तितत्वात् तत् , इह पुनरपसारिताविद्यादोषं ब्रह्मात्मज्ञानमुदयमासादयत् कथं तन्निमित्तं भोक्त्रादिग्रन्थिप्रवाहं नापनयति ? न हि जीवस्य ब्रह्मात्मावगमः तद्विषयानवगममबाधमानः उदेति ॥
ननु ब्रह्मज्ञानादग्रहणापाये तन्निमित्तस्याहङ्कारग्रन्थेः तत्कालमेवाभावः प्रसज्येत ? न ; संस्कारादप्यग्रहणानुवृत्तेः सम्भवात् ; भयानुवृत्तिवत् । तथाहि — सम्यग्ज्ञानात् निवृत्तमपि भयं स्वसंस्कारादनुवर्तते, कम्पादिनिमित्तं च भवति । तथा ग्रहणमपि स्वसंस्कारादनुवर्तते अहङ्कारग्रन्थेश्च निमित्तं भवतीति न किञ्चिदनुपपन्नमस्ति ॥
ननु न सर्वे वेदान्ता विद्यार्थमेवारभ्यन्ते, तदेकदेशः क्रममुक्तिफलाय ऐश्वर्याय अभ्युदयार्थं कर्मसमृद्धये चोपासनानि विविधान्युपदिशन् उपलभ्यते । सत्यम् ; उपासनाकर्म तु ब्रह्म, तच्च अपाकृताशेषप्रपञ्चं जीवस्य निजं रूपमिति निरूपयितुम् अखिलप्रपञ्चजन्मादिहेतुतया प्रथमं सर्वात्मकं सर्वज्ञं सर्वशक्ति च ब्रह्म लक्षितम् । अस्यां चावस्थायामनपाकृत्यैव ब्रह्मणि प्रपञ्चं तेन तेन प्रपञ्चेनोपधीयमानं ब्रह्म तस्मै तस्मै फलायोपास्यत्वेन विधीयते, दर्शपूर्णमासार्थाप्प्रणयनमिव गोदोहनोपरक्तं पशुभ्यः ; तस्मात् तदर्थोपजीवित्वादितरस्य
आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्त
इति न विरुध्यते ॥
ननु अब्रह्मोपासनान्यपि वेदान्तेषु दृश्यन्ते प्राणादिविषयाणि, सत्यं, तान्यपि कार्यब्रह्मावाप्तिक्रमेण मुक्तिफलान्येव । वक्ष्यत्येतत् सूत्रकारः — ‘कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्’ इति ।
यथा चायमर्थः सर्वेषां वेदान्तानां, तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः इति
प्रतिज्ञातेऽर्थे वेदान्तानां तात्पर्यमुपदर्शयितुं समन्वयसूत्रप्रमुखैः सूत्रवाक्यैः ग्रथितो न्यायः इति दर्शयति । शरीरमेव शरीरकं, शरीरके भवः शारीरको जीवः । तमधिकृत्य कृतो ग्रन्थः शारीरकः । तदिह वेदान्तानां जीवस्य तत्त्वमधिकृत्य प्रवृत्तानां ब्रह्मरूपतायां पर्यवसानमिति कथयितुं प्रणीतानां शारीरकं जीवतत्त्वमधिकृत्य कृतत्वमस्तीति शारीरकाभिधानम् ।
मुमुक्षुत्वे सति अनन्तरं ब्रह्मज्ञानं कर्तव्यमिति यद्यप्येतावान् सूत्रस्य श्रौतोऽर्थः ; तथापि अर्थात् ब्रह्मज्ञानस्य मोक्षः प्रयोजनं निर्दिष्टं भवति । तथा हि — पुरुषार्थवस्तुकामनानन्तरं यत्र प्रवृत्तिरुपदिश्यते, तस्य तत्साधनत्वमप्यर्थान्निर्दिष्टं प्रतीयते । तथा सति कुतः तत् मोक्षसाधनं ब्रह्मज्ञानं भवतीत्यपेक्षायां अर्थात् अस्माच्छास्त्राद्भवतीति शास्त्रस्य ब्रह्मज्ञानं विषयो निर्दिष्टः । तदेवं मुमुक्षुत्वानन्तरं ब्रह्मज्ञानकर्तव्यतोपदेशमुखेन वेदान्तानां विषयप्रयोजननिर्देशेऽप्यार्थं सूत्रस्य व्यापारं दर्शयित्वा तदपेक्षितमप्यर्थात् सूत्रितमविद्यात्मकबन्धमुपर्वण्य प्रतिज्ञातार्थसिद्धये हेत्वाकाङ्क्षायामस्मिन्नेव तं प्रदर्शयिष्याम इति व्याख्येयत्वमुपक्षिप्य व्याख्यातुकामः प्रथमं तावत् प्रयोजनविषययोरुपादाने निमित्तमाह —
वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम् — अथातो ब्रह्मजिज्ञासेति ॥
अयमस्यार्थः — शास्त्रस्यादिरयम् । आदौ च प्रवृत्त्यङ्गतया प्रयोजनं विषयश्च दर्शनीयः । सूत्रं चैतत् । अतो यः कश्चिदर्थः शब्दसामर्थ्येनार्थबलाद्वा उत्प्रेक्षितः स सर्वः तदर्थमेवेति भवत्ययमर्थकलापः तन्महिमाधिगतः । एवं सूत्रस्यादित्वेन कारणेन सूत्रतया च विषयप्रयोजनं तत्सिद्धिकरं चाविद्याख्यं बन्धं तत्सामर्थ्यावगतमापाद्य तत्र सूत्रसामर्थ्यं दर्शयितुं प्रतिपदं व्याख्यामारभ्यते ।
इति परमहंसपरिव्राजकादिश्रीशङ्करभगवद्पादान्तेवासिवरश्रीपद्मपादाचार्यकृतौ पञ्चपादिकायामध्यासभाष्यं नाम प्रथमवर्णकं समाप्तम् ॥
अथ द्वितीयवर्णकम्
सिद्धैव ननु ब्रह्मजिज्ञासा ? ‘अथातो धर्माजिज्ञासे’ति सकलवेदार्थविचारस्योदितत्वात् । ब्रह्मज्ञानस्य च चोदनालक्षणत्वेन धर्मस्वरूपत्वात् , अतः सिद्धैव ब्रह्मजिज्ञासापि ॥ अभ्यधिकाशङ्काभावादिति ।
अत्र केचिदभ्यधिकाशङ्कां दर्शयन्तो ब्रह्मजिज्ञासां पृथक् आरभन्ते । केयमत्राभ्यधिका ॥ शङ्का चोदनालक्षणोऽर्थो धर्मः इति ब्रुवता विधेः प्रामाण्यं दर्शितम् । अत्र केषुचिद्वाक्येषु विधिरेव न श्रूयते, ‘सदेव सोम्येदमग्र आसीत्’ (छा. उ. ६-२-१) इत्येवमादिषु ; यत्रापि विधिः श्रूयते ‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २-४-५) ‘तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ (छा.उ.५-१०-५) इति तत्र यद्यपि कृत्या अविशेषेण विधौ स्मर्यन्ते ; तथापि, यो भावाभिधायी तव्यप्रत्ययः, स क्रियायां पुरुषं नियोक्तुं शक्नोति । यत्र पुनः कर्म प्राधान्येनोच्यते, तत्र द्रव्ये गुणभूतां क्रियां न कार्यान्तरसम्बन्धित्वेन विधातुं शक्नोति । द्रव्यपरत्वे चानुत्पाद्यत्वात् , अविकार्यत्वात् , अनाप्यत्वात् , असंस्कार्यत्वात् , संस्कृतस्य च कार्यान्तरे उपयोगाभावादसंस्कार्यत्वम् । अतः ‘आत्मानमुपासीते’त्यात्मन ईप्सिततमत्वं न सम्भवति ॥ अथ पुनर्विपरीतो गुणप्रधानभावः सक्तुन्यायेन कल्प्येत, तत्रापि न ज्ञायते किं तदुपासनम् ? कथं चात्मना तत् क्रियत इति ? अथ ज्ञायते ज्ञानमुपासनम् , आत्मा च विषयभावेन तन्निर्वर्तयतीति, एवं तर्हि तदेवायातं ज्ञानेनात्माऽऽप्यत इति, तच्च कृतकरणमनर्थकम् ; नित्याप्तत्वादात्मनः । संस्कार्यत्वे चोपयोगाभाव उक्तः । अतो विध्यभावादविवक्षितार्था वेदान्ताः, इति धर्मजिज्ञासानन्तरं स्नाने प्राप्त इदमारभ्यते — अथातो ब्रह्मजिज्ञासेति ॥ अनन्तरं ब्रह्म जिज्ञासितव्यं, न स्नातव्यमित्यभिप्रायः । कर्माभिधायिनोऽपि कृत्यप्रत्ययान्नियोगसंप्रत्ययान्न नियोक्तृत्वं निराकर्तुं शक्यते ; ‘कटस्त्वया कर्तव्यः’ ‘ग्रामस्त्वया गन्तव्यः’ इतिवत् । यत्तूक्तं — द्रव्यपरत्वे प्रयोजनाभावादानर्थक्यं नियोगस्येति, तदसत् ; अविद्योच्छेदस्योपलभ्यमानत्वात् । अविद्या च संसारहेतुभूता ॥
अपरे पुनरेवमारभन्ते — ब्रह्मणि प्रत्यक्षादिप्रत्ययान्तराणामसम्भवात् परिनिष्पन्ने वस्तुनि प्रतिपत्तिहेतुतया सम्भावितसामर्थ्यानामपि आम्नायस्य पुनः कार्यविषयतया सुतरामसम्भवं मन्वानस्य भवति सङ्कर्षपर्यन्ते एव वेदार्थविचारावसानामिति बुद्धिः, तन्निरासार्थं पुनः प्रतिज्ञातम् । इहापि सर्वेष्वेवात्मज्ञानविधानेषु कार्यनिष्ठतां वर्णयन्ति समाम् । तत्त्वावबोधश्च कार्यम् ; अधिकारिनियोगविषयतया अवगमात् इति ; ततः तद्विचारार्थं शास्त्रमारब्धव्यमिति ॥
अत्रोच्यते — नारब्धव्यम् ; गतार्थत्वात् । कथम् ? यस्तावत् प्रथम आरम्भप्रकारः कर्मणि कृत्यप्रत्यये न नियोगसंप्रत्यय इति, तत् स्वयमेव विधायकत्वं दर्शितम् । प्रसिद्धं चैतत् ‘स्वाध्यायोऽध्येतव्यः’ इत्येवमादीनां विधायकत्वम् । नात्राधिकाशङ्काकारणं किञ्चित् । ननु चतुर्विधस्यापि क्रियाफलस्यात्मन्यसम्भव उक्तः । यद्येवं सक्तुन्यायो भविष्यति ? तदपि न ; आत्मविषयज्ञानस्य नित्यसिद्धत्वादित्युक्तम् । सिद्धस्यैव पुनरभ्यासो विधिनिमित्त उपासनाख्यो भविष्यति ; अभ्युदयफले हिरण्यधारणवत् । ननु न विधानतोऽप्यात्मविषयज्ञानसन्तानः कर्तव्यः, स तु नित्यमात्मनि जाग्रतः सिद्धः ? एवं तर्ह्यर्थाविरुद्धेषु कालेष्वात्मन्येव चेतस्समाधानं भविष्यति ॥
यत् पुनरात्मज्ञानादविद्योच्छेदः तदुच्छेदात् संसारनिवृत्तिः फलमित्युपन्यस्तम् , तदसत् ; अहमित्यात्मानं नित्यमेव जानाति सर्वो लोकः । न च संसारो निवृत्तः । अथ पुनरहंप्रत्ययावसेयादन्यदेवात्मरूपं पराकृतभोक्तृभोक्तव्यभोगग्रन्थिज्ञेयत्वेनात्मज्ञानविधिना ज्ञाप्यत इति, तदसत् ; विधिर्हि सामान्यतः सिद्धस्य क्रियात्मनो विशेषसिद्धौ प्रभवति, नात्यन्तमसिद्धसद्भावे । तद्यदि नाम ज्ञानं लोके सिद्धं, तथापि निरस्तप्रपञ्चात्मविषयमसिद्धं आकाशमुष्टिहननवत् न विधातुं शक्यम् । अथ तादृगात्मज्ञानं सिद्धम् ? किं विधिना ? यदपि मतान्तरं प्रत्यक्षादेरगोचरत्वात् शास्त्रस्य च कार्यार्थत्वात् सङ्कर्षपर्यन्त एव विचारे वेदार्थपरिसमाप्तौ प्राप्तायां वेदान्तेष्वपि कार्यनिष्ठता समाना, ब्रह्मतत्त्वावबोधश्च कार्यम् ; अधिकारिनियोगविषयतया अवगमात् ; अतः तद्विचाराय शारीरकारम्भः इति, तदप्युक्तेन न्यायेन ब्रह्मावगमस्य सिद्धत्वे असिद्धत्वे च कार्यत्वासम्भवेन प्रत्युक्तम् ॥
अपरं मतम् — सत्यं कार्यविषयो वेदः, न तु तावन्मात्रे ; तस्मिन् सति यो योऽर्थोऽवगम्यते स स वेदार्थः, यथा रूपे सति चक्षुषः प्रवृत्तिः, न च रूपमात्रं चक्षुषो विषयः, किं तु तस्मिन् सति द्रव्यमपि ; एवमिहापि वस्तुतत्त्वमपि विषयः । कथम् तत् ? उच्यते — ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २-४-६) इति न तावत् सर्वात्मरूपता आत्मन उपदिश्यते । यदि सर्वरूपता आत्मन उपदिश्येत, ततः सर्वस्य अचेतनत्वात् तद्रूपत्वे बोद्धृत्वहानौ बोधकत्वं शब्दस्य हीयेत ; अतः सर्वस्य आत्मस्वभावता विधीयते । अनात्मस्वरूपविलयेन हि वस्तुनोऽवगतिर्दृष्टा । ननु अत्र विधिः न श्रूयते ; कल्प्यतां तर्हि विधिः । किं प्रतीते विध्यर्थे विधिः कल्प्यते ? उत अप्रतीते ? यदि प्रतीते कल्प्यते, कल्पनावैर्यथ्यम् । अर्थप्रतीत्यर्थं हि शब्दो मृग्यते । प्रतीतेऽर्थे शब्दं कल्पयता किं कृतं स्यात् ? अथाप्रतीत एव विध्यर्थे विधिं कल्पयित्वा ततोऽर्थः प्रतिपत्तव्य इति, अपूर्वं प्रमाणकौशलम् । ननु अश्रूयमाणविधिष्वपि ‘तस्मात् पूषा प्रपिष्टभागोऽदन्तको हि’ इत्यादिषु विधिः कल्पितः । सत्यम् ; युक्तं तत्र पूष्णः पिष्टद्रव्यसम्बन्धः समासाभिहितो न सिद्धो वर्तते, नापि कुतश्चिद्भविष्यतीति ; प्रमाणाभावात् । नापि विधिना केनचित् पदैकवाक्यता, येन वपोत्खननादिवत् कथञ्चिदालम्बनं कल्प्येत ; अतो निरालम्बनत्वपरिहाराय कार्यपरता कल्प्यत इति ॥ ननु इहाप्यात्मपदं चेतनस्य भोक्तुर्वाचकम् ; स च नियोज्यत्वान्नियोगमाक्षिपति, नैतत् सारम् ; नियोगो हि पुरुषविशेषमनाश्रित्य अनुपलब्धो लोके तमाक्षिपेत् विश्वजिदादिषु । पुरुषः पुनः किं नियोगमन्तरेण नोपलब्धो लोके ? येन विधिकल्पना भवेत् । अथापि भवतु नाम विधिः, नासौ धातुना विना केवलो लभ्यते, धातुनैव सह कल्प्यते । कोऽसौ धातुः ? यदि तावत् कर्तव्यमिति, तत्र अनात्मस्वभावता न निवृत्ता प्रपञ्चस्य । यथा — ‘अमी पिष्टपिण्डाः सिंहाः क्रियन्तामि’ति पिष्टस्वभावता न निवृत्ता । इतिकर्तव्यता चानिर्दिष्टा ; तत्र साकाङ्क्षं वचनमनर्थकं स्यात् । अथ ज्ञातव्य इत्यध्याह्रियेत ? एवमपि स एव दोषः ; अनात्मस्वभावता न निवृत्तेति, अशक्यार्थोपदेशश्च । न हि वस्तु वस्त्वन्तरात्मना ज्ञातुं शक्यते । एवं तर्हि ज्ञातव्य इत्यध्याह्रियेत, तत्र धात्वर्थोनुवादः, प्रत्ययो विधायकः । कुतः प्राप्तेरनुवादः ? अभिधानत इति ब्रूमः । एवं तर्हि विधानमनर्थकं, स्वाध्यायकाले एव निष्पन्नत्वात्ज्ञानस्य । पुनः कर्तव्यतया चोद्यते, यथा मन्त्रेषु । प्रयोगवचनः तत्र विधायकः इति । इहापि प्रयोगवचनो विधायकः ? ननु मन्त्रेषु स्वार्थस्यान्यतः सिद्धत्वात् प्रत्ययपरत्वं युज्यते, इह तु स्वार्थविधिपराणां शब्दानां प्रत्ययपरत्वं विरुध्यते, नैष दोषः ; अन्यार्थमपि कृतमन्यार्थं भवति, तद्यथा — शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयत उपस्पृश्यते च ; एवमिहापि । यथा पदार्थानां विधायकः शब्दः क्रमस्यापि विधायकः, एवं स्वार्थस्य विधायकः शब्दः प्रत्ययस्यापि विधायको भविष्यति ॥
तदेतदनिरूपितमिव दृश्यते । कथम् ? मन्त्राः स्वाध्यायविधिनोपादापिताः स्वार्थस्यान्यतः सिद्धत्वात् तं प्रमातुमशक्नुवन्तः प्रमाणत्वात् प्रच्युताः व्रीह्यादिवत् प्रमेयतामापन्नाः श्रुत्यादिप्रमाणैः, युक्तं यद्विनियुज्येरन् , विनियुक्ताश्चानुष्ठेयस्यानुष्ठानकाले स्मृत्यपेक्षस्य स्मारकतया गृह्येरन्निति, इह तु ‘इदं सर्वं यदयमात्मेति यत् पदसमन्वयनिमित्तं सर्वस्यात्मस्वभावताग्राहिविज्ञानं, तत् स्वविषयस्य अन्यतोऽसिद्धत्वात् प्रमेयपरत्वात् न विधेर्विषयः । अथ विधेर्विषयो न प्रमेयमवगमयितुमलम् । न युगपदुभयं सम्भवति ; वैरूप्यप्रसङ्गात् ॥
ननु एवं सति गुणकर्मणां सर्वत्र विधानं निराकृतं स्यात् । न निराकृतं स्यात् ; यत्र प्रमाणान्तरसिद्धं गुणकर्मणः कर्मकारकं, तत्र तस्योत्पत्त्याद्यन्यतमं फलं, तद्विधीयते ; यत्र पुनः प्रमाणान्तरादसिद्धो ज्ञानस्य कर्मभूतो विषयः, स तेनैव प्रमीयमाणो न सिद्धवदुद्देश्यः, येन तदुद्देशेन तत्रातिशयाधानाय ज्ञानं विधीयते ॥ तस्मादत्र युगपदुभयासम्भवात् भवत्येव वैरूप्यप्रसङ्गः । न च स एव समन्वयः स्वावयवाद्विधेर्विभक्तः कार्यक्षमः ; अवान्तरवाक्यस्य प्रमाणत्वायोगात् । अथ अर्थवादपदानामिव परस्परतः संसृज्य कञ्चिदर्थमवबोध्य विधिसम्बन्धमनुभवेदित्यभिप्रायः ? तदसत् ; युक्तमर्थवादपदानि स्वार्थफलरहितानि तत्र पर्यवसानाभावात् फलवदङ्गतामश्नुवीरन्निति, इह पुनरपरामृष्टविधिः पदसमन्वयः स्वार्थमवगमयन् निरस्तनिखिलप्रपञ्चावग्रहमपास्तातिशयानन्दनित्यानुभवैकरसं शिवमद्वैतमात्मतत्त्वमवगमयेत् , तत्र कुतो विधिशेषता कृतं कृत्यं प्राप्तं प्रापणीयम् ? ‘आत्मलाभान्न परं विद्ययते’ इति स्मृतेः ॥
अथ पुनः शाब्दज्ञानान्न तथा अनुभवः, तेन साक्षात्करणाय विधिरिति, किं तत् ज्ञानमनुभवाय विधीयते ? प्रत्यक्षादीनां तावदगोचरः ; ‘न चक्षुषा गृह्यते’ (मु. उ. ३-१-८) इत्यादिमन्त्रवर्णात् । शाब्दं च नेष्यते भवता, सत्यम् न शाब्दज्ञानं विधिविकलमनुभवायालं, विहितं तु अनुभवहेतुरिति, तदयुक्तम् ; यत्तावत् स्वाध्यायाध्ययनविधिग्राहितात् पदसमन्वयात् स्वभावतः समुत्पन्नं, तत् तावन्न विधीयते ; प्रमेयपरतया विधिविषयत्वानुपपत्तेरित्युक्तम् । अथ पुनस्तदेव ज्ञानं सन्तनुयादिति विधीयते, तत् कथं लभ्यत उपास्तिध्यायत्योः ज्ञानसन्तानवाचिनोरन्यतरस्याप्युपादानमन्तरेण ? नापि ज्ञानेनैव स्वसन्तानो लक्ष्यते ; साहचर्याद्यव्यभिचरितसम्बन्धाभावात् । नाप्यभ्यासात् साक्षाद्भावः सिद्धः । नापि श्रूयते, येन तदुद्देशेन ज्ञानसन्तानो विधीयेत । ननु किमत्र श्रवणेन ? स्वयमेव साक्षात्कारकरणाय पुरुषार्थत्वादभिमुखः पुरुषः ; सिद्धश्च ज्ञानाभ्यासः शास्त्रश्रवणादौ साक्षात्करणे हेतुः, यद्येवं किं विधिना ? स्वयमेव पुरुषार्थे निर्ज्ञाते हेतौ प्रवर्तते । यत् पुनः निदर्शनं शाल्यर्थं कुल्याः प्रणीयन्ते इति, युक्तं तत्र ; प्रत्यक्षत उभयार्थताया उपलभ्यमानत्वात् , इह पुनः निदर्शनं न्यायतः प्रतिपत्तव्यम् । स च न्यायो न युगपत् सम्भवतीत्युक्तम् । यदपीदमुक्तं — पदार्थानां विधायकः शब्दः क्रमस्यापि विधायकः, एवमैकात्म्यस्य प्रतिपादकः समन्वयो विधिविषयमपि ज्ञापयिष्यतीति, तदप्यपेशलम् । यत् तावत् प्रत्येकं प्रयाजादिविधयः, तैः पुनः न तेषामेव विधानम् । नापि ते क्रमशब्दाभिधेयाः । प्रयोगवचनोऽपि प्रयुञ्जानः तानेव प्रयुङ्क्ते । न ते क्रम इत्युक्तम् ॥ न च क्रमो नाम एकान्ततो नास्त्येव ; तद्बुद्धिशब्दयोः निरालम्बनत्वप्रसङ्गात् । तत्र क्रमो नाम वस्तुभूतो धर्मो विद्यत एव । त एव केनचिदुपाधिना वनवत् क्रमबुद्धिशब्दालम्बनं भवेयुः । स्मृतिविज्ञानमेव वा अनुष्ठानकाले यथोपलब्धिपदार्थान् परामृशेत् । सर्वथा अस्ति तावत् एकैकपदार्थालम्बनज्ञानातिरिक्तं ज्ञानान्तरम् ॥ तच्च एकत्वात् कर्तुः अनेकत्वाच्च पदार्थानां, युगपदनुष्ठानासम्भवादपेक्षितं सन्निहितं च प्रयोगवचनेन गृह्यत इति युक्तम् । न तथेह ज्ञानद्वयमस्ति ; यदैकात्म्ये विधिविषयत्वे च वर्तेत । तस्मादिह विधेयाभावाद्विधानाश्रवणादध्याहारे च प्रमाणाभावात् न प्रयोगवचनोऽस्ति, यो मन्त्राणामिव ज्ञानस्यापि पुनः प्रयोगं विधास्यते । तस्मादसदेतत् कार्यविषयोऽपि वेदो वस्तुतत्त्वं अवबोधयति इति ॥ यत् पुनः निदर्शनं — चक्षू रूपे सति द्रव्यमपि बोधयति एवं कार्ये सति तत्त्वमपि वेदोऽवगमयतीति । युक्तं तत्र यद्यदवबोधयति चक्षुः, तत्र स्वतन्त्रमेव प्रमाणम् , इह पुनः यत्र तात्पर्यं, तस्य प्रमेयता, न यद्यत् प्रतीयते, तस्य तस्य इति वैषम्यम् । आह — मा भूद्ज्ञानद्वयं, योऽयमाभिधानिकः प्रत्ययः, स विधिविषय एव भवतु । तस्मिन् विहिते अर्थात् सर्वस्यात्मस्वभावता सिध्यति ; सविषयत्वादवगमस्य । एवमपि अविवक्षितोऽर्थः शब्दात् , विवक्षितस्त्वर्थादिति शोभतेतरां वाक्यार्थवित्ता ? न च नियोगतः प्रतिपत्तिविधिः वास्तवं संसर्गं गमयति । भवन्ति हि परिकल्पितविषया अपि प्रतिपत्तयश्चोदनालक्षणाः फलवत्यः ‘वाचं धेनुमुपासीते’त्येवमाद्याः । एतदेवात्र युक्तम् ; अतत्परस्य प्रत्यक्षादिविरोधे तथाध्यवसायहेतुत्वायोगात् । तस्मात् कार्यनिष्ठे वेदे वस्तुतत्त्वसिद्धिः मनोरथ एव । अतो अहंप्रत्ययावसेय एवात्मा । न तस्य शब्दावसेयमतीन्द्रियं रूपान्तरमस्ति ; शब्दस्य तत्र सामर्थ्याभावात् । एवं च सति ‘अयमात्मा ब्रह्म’ (बृ. उ. २-५-१९) ‘एष त आत्मान्तर्याम्यमृतः’ (बृ. उ. ३-७-३) इति ब्रह्मान्तर्याम्यादिशब्दा अहंप्रत्ययावसेय एवात्मनि कथञ्चिद्वर्तन्ते । तेन ‘स आत्मा तत्त्वमसि’ (छा. उ. ६-८-७) इति विद्यमानैरारोपितैश्च गुणैरात्मोपासनं मोक्षफलं च विधीयते इति, युक्तम् । अतः कार्यानुरक्तस्य वेदार्थस्य सम्भवात् तस्य च सर्वात्मना विचारितत्वात् किमपरमवशिष्टम् ? यत् ब्रह्मजिज्ञासारम्भं प्रयुञ्जीत, उच्यते — स्यादेतदेवम् , यदि सर्व एव वेदार्थो विचार्यत्वेन ‘अथातो धर्मजिज्ञासे’ति उपक्रान्तो विचारितश्च स्यात् , यावता कार्यनिष्ठ एव वेदभागो विचारितो, न वस्तुतत्त्वनिष्ठः ॥
तथा हि — शास्त्रारम्भो व्याख्यातृभिरेवं निरूपितः । कथम् ? धर्मो नाम कश्चित् साधयितुः कालान्तरे श्रेयस्साधनो लोकाख्यप्रमाणाभासोत्थेन ज्ञानेन सामान्यतो विषयीकृतः । तद्विशेषं प्रति विप्रतिपन्नाः परीक्षकाः केचिदग्निहोत्रादिकं धर्ममाचक्षते ; केचिच्चैत्यवन्दनादिकम् । तत्र अग्निहोत्रादिलक्षण एव धर्मोऽभिप्रेतः । न तत्प्रतिपादकानां वेदवाक्यानां विचारावसरो नापि विवक्षितार्थत्वम् । अतः चैत्यवन्दनादीनामेवान्यतमो धर्मः । तत्प्रतिपादकानां बुद्धादिवाक्यानामेवान्यतमं विचार्यम् ; न वा तदपि । न हि पौरुषेये वाक्ये शब्दशक्त्यनुसारेणार्थः, अपि तु तेन विवक्षितः इत्येवमाशङ्किते धर्माय वेदवाक्यानि विचारयिष्यन् तदर्थविवक्षाविचारावसरप्रदर्शनार्थम् ‘अथातो धर्मजिज्ञासा’ इति सूत्रयामास जैमिनिः । वेदमधीत्य अनन्तरं धर्मजिज्ञासा कर्तव्या, न स्नानं गुरुकुलनिवृत्तिरूपमिति दर्शयितुमिति । एवं स्थिते शास्त्रारम्भे, न सर्ववेदार्थविषयं शास्त्रमिति प्रतीतिः, किन्तु धर्मातिरिक्तोऽपि सिद्धरूपो वेदार्थोऽस्ति, स च पर्युदस्तो जैमिनिना ; न्यायान्तरविषयत्वादिति, गम्यते ॥
तत् कथम् ? यत् तावदिदम् उच्यते ; धर्मो नाम लोकप्रवादात् सामान्यतः सिद्धः । तस्य स्वरूपप्रमाणयोः विप्रतिपत्तावग्निहोत्रादिरपि वेदार्थो धर्मतया विचारपदवीमुपारोहति ; यतः तस्यापि विचारावसरो विद्यते, तेन विवक्षितोऽसौ । न चाध्ययनमात्रात् कृतकृत्यता । अतोऽध्ययनानन्तरं न गुरुकुलान्निवर्त्तितव्यं, किन्तु वेदार्थो धर्मः, किं वा अन्य एवेति जिज्ञासामर्हतीति वदितुं धर्मग्रहणं युक्तम् अथातो धर्मजिज्ञासेति, न वेदार्थजिज्ञासेति ; यतो न वेदार्थतया ज्ञाने प्रवृत्तिः । यत् पुनः धर्मस्य स्वरूपप्रमाणकथनाय द्वितीयं सूत्रं, तत् वेदप्रमाणको धर्म इति स्यात् किमिदं ‘चोदनालक्षणः’ इति ? तत् नूनं न सर्वो वेदो धर्म एव कार्यात्मके पर्यवस्यति, कश्चिदस्य भागः कार्यताशून्ये वस्तुतत्त्वेऽपि वर्तते इति मन्यते ॥ ननु चोदनाग्रहणस्यान्यदेव प्रयोजनं, ‘चुद प्रेरणे’ इति प्रेरणकर्मणश्चोदनेति रूपम् ; ततः प्रेरणात्मको विधिरपुरुषार्थे प्रेरयितुमशक्नुवन् पदान्तराभिहितमपि स्वर्गादिकं भावनाकर्मतामापादयति एकपदोपादानात् संनिहिततरं धात्वर्थं विहायेति कथयितुमिति, नैतत् सारम् , अध्ययनविधिरध्ययने माणवकं प्रेरयन् अध्ययनस्य पुरुषार्थरूपार्थावबोधकत्वमनापाद्य न शक्नोति प्रेरयितुम् ; पारम्पर्येणाप्यपुरुषार्थे विधेरपर्यवसानात् , अतः तदर्थं न चोदनाग्रहणम् ; वेदग्रहणेनापि तत्सिद्धेः । अपि च वेदग्रहणमेव युक्तम् ; असन्देहात् , चोदनाग्रहणे हि सन्देहः स्यात् ; लोकेऽपि विद्यमानत्वात् । अथ वेदाधिकरणे ‘वेदांश्चैके सन्निकर्षमि’ति विशेषाभिधानात् वैदिकत्वसिद्धिरिति, सोऽयमाभाणको लोके ‘पिण्डमुत्सृज्य करं लेढी’ति, सूत्रकारस्याप्यकौशलं प्रदर्शितं स्यात् । ततश्चोदनाग्रहणादचोदनात्मकोऽपि वेदभागोऽभिप्रेत इति गम्यते, येन वेदार्थमात्रस्य धर्मत्वं मा भूदिति चोदनेत्यवोचत् । तदेवं सूत्रकार एव स्वशास्त्रविषयातिरिक्तं वेदभागमविचारितमसूसुचत् ॥ ननु ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्’ ‘तद्भूतानां क्रियार्थेन समाम्नायः’ ‘आम्नायस्य क्रियार्थत्वात्’ इति च सर्वस्य कार्यार्थत्वं दर्शितं, सत्यम् ; तत् प्रक्रमबलात् तन्निष्ठो वेदभाग इति गम्यते, न सर्वत्र । अपि च ‘दृष्टो हि तस्यार्थः कर्मावबोधनमि’ति न सर्वस्य कर्मावबोधनमर्थ उच्यते, कथम् ? वेदाध्ययनानन्तरं स्नानविधायकमाम्नायमुपलभ्य वेदस्यानर्थकत्व आशङ्किते ‘अतिक्रमिष्याम इममाम्नायम् , अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवकल्पयेम ; दृष्टो हि तस्यार्थः कर्मावबोधनम्’ इत्यर्थसद्भावः प्रदर्शितो नार्थान्तरासद्भावः । सोऽयमयोगव्यवच्छेदो नान्ययोगव्यवच्छेदः । कर्मशब्देन धर्म एव कार्यत्वादभिहितः ; यतः तदवबोधप्रवृत्तो वेदस्यार्थवत्त्वं मृगयते, किं वेदस्यार्थो विद्यते ? न वा ? स च धर्मत्वेनावगन्तुं शक्यते ? न वा इति ? तस्मात् न कर्मावबोधनमेव वेदार्थोऽभिप्रेतो भाष्यकृतः । यत् पुनः ‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामि’ति, तत्र यद्यानर्थक्यमर्थाभावः, तदसत् ; यतः एवमेवभूतार्थमनुवदन्तीति दर्शितोऽर्थः । अथ निष्प्रयोजनत्वम् ; स्वाध्यायाध्ययनविधिर्निष्प्रयोजनमक्षरमात्रमपि न ग्राहयतीति, भवतु ‘सोऽरोदीतित्यादीनाम् ; अपुरुषार्थप्रतिपादकत्वात् एकवाक्यत्वात् पृथक्कार्यकल्पनानुपपत्तेः, कल्पयितुं चाशक्यत्वात् । यानि पुनः अपास्ताशेषाशिवमात्मानमनुभवपर्यन्तम् अवबोधयन्ति वाक्यानि, तान्यनवद्यप्रयोजनत्वाद्भवन्तितरामेव प्रयोजनवन्ति । अतः स्वयमपुरुषार्थत्वात् तदर्थोपकारितया कथञ्चित् पुरुषार्थस्तावकत्वेन प्रयोजनवत्त्वमुक्तं, न सर्वस्यैवाक्रियार्थत्वेन आनर्थक्यमाशङ्क्य क्रियार्थत्वेनार्थवत्वमुक्तम् । तथा च तद्विधान्येव तत्र वाक्यान्युदाहृतानि ॥
यदपि केचित् — शास्त्रप्रस्थानमन्यथा वर्णयन्ति । न हि किलैवं शास्त्रं प्रस्थितं, किं वेदलक्षणो धर्मः ? उत बुद्धवाक्यादिलक्षणः ? इति । किं तर्हि ? अधीतवेदस्य योऽर्थोऽवगतः, तत्रैव विप्रतिपत्तयः सन्ति, किमयमसौ ? उतायम् इति ? तन्निराकरणार्थः शास्त्रारम्भः इति ॥ तत्रापि न निखिलवेदार्थविचारप्रतीतिः । तत् कथम् ? तथा सति ‘अथातो वेदार्थजिज्ञासा’ इति स्यात् ; यतो न धर्म इति कृत्वा विचारः, किन्तु वेदार्थ इति, सत्यं, तथापि शास्त्रकाराणां पुरुषार्थसिद्ध्यर्थं शास्त्रप्रणयनं, ततश्च पुरुषार्थकथनार्थं धर्मग्रहणमिति । एवं तर्हि धर्म इत्येव कृत्वा विचारो भवतु ; तस्य पुरुषार्थत्वात् सन्दिग्धत्वाच्च । तथा च उत्तरमपि सूत्रमनुगुणं भवति ‘चोदनालक्षणोऽर्थो धर्मः’ इति धर्मस्वरूपविप्रतिपत्तिनिरासपरं ; इतरथा वेदार्थविप्रतिपत्तौ तन्निरासार्थं ‘चोदनालक्षणो वेदार्थः’ इति स्यात् , यतो न धर्मग्रहणे सति वेदार्थविप्रतिपत्तिः शक्या निराकर्तुम् । कथम् ? यत् तावत् चोदनालक्षणो योऽर्थः, स धर्म इति धर्मत्वं ज्ञाप्येत, तदा स एव वेदार्थो नान्य इति न लभ्यते । अथ पुनः स धर्म इति नामनामिसम्बन्धो विधीयते, तदप्रक्रान्तम् ; निष्प्रयोजनम् , अतिप्रसङ्गश्च आपद्येत ॥ अथापि कथञ्चित् धर्मशब्देन वेदार्थ एवोच्यते इति कल्प्येत, तथा सति चोदनालक्षणो वेदार्थो नार्थवादादिलक्षणः, इति सिद्धप्रामाण्यवेदार्थविचारोऽयं स्यात् , उत्तरलक्षणवत् । तत्रानन्तरं प्रामाण्यप्रतिपादनं न युज्येत ॥ ‘वृत्तं प्रमालक्षण’मिति च मन्त्रार्थवादेषु च कार्यार्थत्वे विप्रतिपत्तिः न स्यात् । सा चोत्तरत्रैव निरस्यते । अतः पूर्वोक्तेन न्यायेन कार्यनिष्ठ एव वेदभागो विचार्यतया प्रक्रान्तो विचारितश्च, न वस्तुनिष्ठः ; इत्यतो वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यते -
अथातो ब्रह्मजिज्ञासा इति ॥
इति परमहंसपरिव्राजकादिश्रीशङ्करभगवद्पादान्तेवासिवरश्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां जिज्ञासासूत्रावतरणं नाम द्वितीयवर्णकं समाप्तम् ॥
अथ तृतीयं वर्णकम्
तत्राथशब्द आनन्तर्यार्थः परिगृह्यते, नाधिकारार्थः । बह्मजिज्ञासाया अनधिकार्यत्वात्
इत्यादि भाष्यम् । तत् जिज्ञासाशब्दस्यावयवार्थेनार्थवत्त्वे युज्यते ? अधिक्रियायोग्यस्य ब्रह्मणस्तज्ज्ञानस्य वा प्राधान्येनानिर्देशात् , प्रधानस्य चेच्छाया अनधिकार्यत्वात् ॥
अयं तु जिज्ञासाशब्दो विचारवचनो मीमांसापरपर्यायः प्रयुक्तोऽभियुक्तैः — ‘इदमतो जिज्ञासन्ते, किं क्रतुगुणकमुपासनं स्वामिकर्म ? उतर्त्विक्कर्मे’ति । इदन्तु जिज्ञास्यम् , किं नु खल्विमौ तप्यतापकावेकस्यात्मनो भेदौ ? उत जात्यन्तरम् ? इति । धर्ममीमांसाभाष्यकारोऽपि सङ्घातमेव प्रायुङ्क्त ‘धर्मं जिज्ञासितुमिच्छेदि’ति, सङ्घातवाच्यत्वाद्विचारस्य ; अन्यथैवमवक्ष्यत् — ‘धर्मं ज्ञातुमिच्छेदि’ति । अत एवं धर्माय जिज्ञासा ‘धर्मजिज्ञासे’ति सङ्घातस्यार्थवत्त्वमङ्गीकृत्य चतुर्थीसमासो दर्शितः । तदनुसारेण चैतानि भाष्याणि — ‘एवं वेदवाक्यान्येवैभिर्विचार्यन्ते’ ‘वेदवाक्यानि विचारयितव्यानि’ ‘कथं वेदवाक्यानि विचारयेदि’ति च ; पुनश्च ‘क्रत्वर्थपुरुषार्थयोर्जिज्ञासा’ ‘क्रत्वर्थपुरुषार्थौ जिज्ञास्येते’ इति । इहापि भाष्यकारो वक्ष्यति — ‘तस्माद् ब्रह्म जिज्ञासितव्यमि’ति । पुनश्च ‘वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते’ इति । अतः सङ्घातस्यार्थवत्त्वादधिकारार्थता युज्यते । शास्त्रवचनो हि जिज्ञासाशब्दः ; तेन ब्रह्मजिज्ञासाऽधिकृता वेदितव्येति ॥ उच्यते — नायं जिज्ञासाशब्दः परित्यक्तावयवार्थः केवलमीमांसापर्यायः प्रयुज्यमानो दृश्यते । नापि स्मरणमस्ति । न चावयवार्थेनार्थवत्त्वे सम्भवति समुदायस्यार्थान्तरकल्पना युक्ता । ननु न वयं कल्पयामः ; दर्शितः शिष्टप्रयोगः, न ; तस्यान्यथासिद्धत्वात् । कथमन्यथासिद्धत्वम् ? अन्तर्णीतविचारार्थत्वाज्जिज्ञासाशब्दस्य । तथाहि — विचारपूर्वकसाध्यज्ञानविषयेच्छा जिज्ञासाशब्दात् प्रतीयते, नोपदेशमात्रसाध्यज्ञानविषया ; एवं प्रयोगप्रत्यययोर्दर्शनात् , तेन जिज्ञासाशब्दस्यावयवार्थेनार्थवत्त्वाद् युक्तमुक्तम् — ब्रह्मजिज्ञासाया अनधिकार्यत्वादिति ॥
ननु एवमपि कुत एतत् ? अन्तर्णीतं विचारमाश्रित्य शब्दतो गुणत्वेऽप्यर्थलक्षणेन प्राधान्येन ब्रह्मतज्ज्ञानयोरधिकारयोग्यत्वाच्चाधिक्रियमाणत्वमङ्गीकृत्याधिकारार्थत्वं किमिति न गृह्यते ? येन शब्दलक्षणेन प्राधान्येनेच्छाया अनधिकार्यत्वादानन्तर्यार्थत्वमेव परिगृह्यत इति, उच्यते — शास्त्रस्यानारम्भप्रसङ्गादधिकारार्थत्वानुपपत्तेः । अधिकारार्थत्वे ह्यप्रयोजनं शास्त्रं काकदन्तपरीक्षावदनारभ्यं स्यात् , तत्र कस्याधिकार उच्येत ?
ननु ब्रह्मज्ञानं प्रयोजनम् ; तदर्थः शास्त्रारम्भः, न ; ब्रह्मज्ञानेऽर्थित्वानुपपत्तेः, ब्रह्मज्ञानाद्धि मनसोऽपि वियोगान्निखिलविषयानुषङ्गनिवृत्तिः श्रूयते । सा च सार्वभौमोपक्रमं ब्रह्मलोकावसानमुत्कृष्टोत्कृष्टसुखं श्रूयमाणं सोपायं निवर्तयति । अतो ब्रह्मज्ञानादुद्विजते लोकः ; कुतस्तत्र प्रवृत्तिः ? ननु आनन्दरूपताऽपि ब्रह्मज्ञानादाप्यते, अतस्तदर्थं प्रवर्तते तत्र, मैवम् ; न हि ब्रह्मानन्दोऽननुभूतपूर्वोऽनुभूतभोग्यसुखाभिलाषं मन्दीकर्तुमुत्सहते, येन तदुज्झित्वा ब्रह्मज्ञाने प्रवर्तेत । ननु परितृप्तरूपताऽपि ब्रह्मज्ञानात् , अतः परितृप्तः किं कामयते ? अतृप्तिनिमित्तकत्वात् कामस्य ; तथा च श्रुतिः — ‘आप्तकामः आत्मकाम’ इति । स्मृतिरपि ‘आत्मलाभान्न परं विद्यते’ ‘एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारते’ति । न ; तृप्तेरेवोद्वेगदर्शनाद्विषयविच्छेदात्मिकायाः । तथा च वक्तारो भवन्ति, अहो कष्टं किमिति सृष्टिरेवं न बभूव ? यत् सर्वमेव भोक्तुं सामर्थ्यमतृप्तिर्भोग्यानां चाक्षयः — इति । रागिगीतं श्लोकमप्युदाहरन्ति — ‘अपि वृन्दावने शून्ये श्रृगालत्वं स इच्छति । न तु निर्विषयं मोक्षं कदाचिदपि गौतम ॥ ’ इति ।
मा भूद् ब्रह्मज्ञानार्थिता, वेदार्थत्वादेव ब्रह्मज्ञानं कर्तव्यम् ; स्वाध्यायाध्ययनस्यार्थावबोधफलकत्वात् । स्यादेतदेवम् ; यद्यर्थावबोधफलाध्ययनक्रिया स्यात् , सा ह्यधीयमानावाप्तिफलत्वादक्षरग्रहणान्ता । अथाक्षरग्रहणं निष्प्रयोजनमिति न तत्र पर्यवसानं विधेः, भवतु तर्हि सक्तूनां गतिः । तदपि न ; अक्षरेभ्यः प्रयोजनवदर्थावबोधदर्शनात् । न तर्हि निष्प्रयोजनान्यक्षराणि ; अतस्तत्पर्यन्तमध्ययनं न निष्फलम् ; अतोऽक्षरग्रहणादेव नियोगसिद्धेः फलप्रयुक्त एवार्थावबोधः । अपि च अक्षरग्रहणान्तो विधिर्निष्प्रयोजनः, इति न सर्वत्र, प्रयोजनवदर्थावबोधपर्यन्तता कल्पयितुमपि शक्यते । तत्रावश्यं कल्पनीयाऽक्षरग्रहणान्तता । तद्यथा राजन्यस्य सत्रवैश्यस्तोमबृहस्पतिसवानामाम्नानं वैश्यस्य चाश्वमेधराजसूयसत्राणां पाठः । न च तेषामनध्ययनमेव ; स्वाध्यायशब्देन सकलवेदवाचिनाऽध्ययनस्य विहितत्वात् । ननु चाश्रूयमाणाधिकारोऽध्ययनविधिः, दृष्टश्चाक्षरग्रहणेऽर्थावबोधः, स कल्पनामधिकारस्य निरुन्धन् स्वयमधिकारस्य हेतुः सम्पद्यते । दृष्टाधिकारेषु प्रत्यक्षतस्तदुपलब्धावधिकारसिद्धिः । अतोऽर्थावबोधपर्यन्तः स्वाध्यायाध्ययननियोगः ; तेन नियोगसिध्यर्थमेव सकलवेदार्थविचारः, अत्रोच्यते — भवेदध्ययनविधेरर्थावबोधः प्रयोजनम् , नाधिकारहेतुता, अध्ययनात्प्रागसिद्धत्वात् । प्राक् चाधिकारज्ञानेन प्रयोजनम् ; अतो न विधेर्दृष्टाधिकारत्वेनार्थावबोधसिद्धिः ।
यद्येवमधिकारश्रवणादर्थावबोधे च प्रतिपक्षकल्पनानुपपत्तेस्तस्य चाधिकारहेतुत्वानभ्युपगमादप्रवृत्तिरेवाध्ययने प्राप्ता । अत्र केचिदाहुः — आचार्यकरणविधिप्रयुक्तस्याध्ययनस्यानुष्ठानम् आधानस्येव कामश्रुतिप्रयुक्तस्य इति । तदयुक्तमित्यपरे । कथम् ? ‘अष्टवर्षं ब्राह्मणमुपनयीते’ति यद्ययमाचार्यस्य नियोगः ? माणवको न नियुक्तो भवति । अनियुक्तस्य च स्वाध्यायाध्ययने प्रवृत्तिर्न सम्भवति । किञ्चान्यत् — आचार्यकरणविधिरनित्यः, ‘ब्राह्मणस्याधिकाः प्रवचन याजनप्रतिग्रहाः’ इति वृत्त्यर्थोऽधिकारः ; अतः स्वेच्छातः प्रवृत्तिः । उपनयनाख्यस्तु संस्कारो नित्यः ; अकरणे दोषश्रवणात् — ‘अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ नैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित् । ब्राह्मान् यौनांश्च सम्बन्धानाचरेद् ब्राह्मणः क्वचिदि’ति ॥ संस्कारश्च स्वाध्यायाध्ययनार्थः । एवं च स्वाध्यायाध्ययनमपि नित्यम् । तथा च निन्दाश्रवणम् — ‘अश्रोत्रिया अननुवाक्या अनग्नयः शूद्रसधर्माणो भवन्ती’ति । एवं चेत् कथं नित्यमनित्येन प्रयुज्यते ? इति वाच्यम् । ननु कथमाचार्यकरणविधिरनित्यः ? यावता वृत्त्यर्थो हि सः । न हि कश्चिद्विना धनेन जीविष्यति । तथा चोक्तं — ‘जीविष्यति विना धनेनेत्यनुपपन्नमि’ति । अतः सर्वेषां सर्वदा समीहितफलः सन् कथमनित्यः स्यात् ? भवेदेवं नित्यता फलवशेन, न शब्दात् । तथाहि — फलस्य नित्यसमीहितत्वादवश्यकर्तव्यता वास्तवी । तत्रासति शब्दव्यापार इच्छातः कर्तव्यताप्रतिपत्तिः स्यात् , न कर्तव्यताप्रतिपत्तेरिच्छा । शाब्द्यां हि नित्यकर्तव्यताप्रतिपत्तौ शब्दस्य सर्वदा सर्वान् प्रत्येकरूपत्वादिच्छाऽपि तद्वशवर्तिनी तथैव स्यात् ; औचित्यादिभावेऽपि कस्यचित् कथञ्चित् क्वचित् कदाचिदिच्छायाः । प्रमाणतस्तावान्नित्यः । तेन नित्येन तथाविधमेव प्रयुज्यते, इति न नित्यानित्यसंयोगविरोधः फलवशात्तु तत्कर्तव्यताप्रतिपत्तौ यद्यपि नित्याभिलषितं फलम् ; तथाऽप्युपायान्तरादपि तत्सिद्धेः, तदेकोपायत्वेऽप्यालस्यादायासासहिष्णुतया वा कामस्य कुण्ठीभावे न कर्तव्यतायाः प्रतिपत्तिः, इत्यनित्यत्वे सति न तेन नित्यस्य प्रयोज्यत्वमुपपद्यते ॥
ननु पितुः पुत्रोत्पादनविधिरनुशासनपर्यन्तः श्रूयते — ‘तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासती’ति । अतः पुत्रोत्पादनस्य नित्यत्वात् तस्य चानुशासनपर्यन्तत्वात् तदाक्षिप्तत्वाच्चोपनयनाध्ययनयोः कथमाचार्यकरणविधिरनित्यः स्यात् ? कथं वाऽध्ययनस्यार्थावबोधपर्यन्तता न भवेत् ? उच्यते — नानेन पुत्रानुशासनं विधीयते, पुत्रोत्पादनविधिशेषत्वेन स्वतन्त्रमेव वा, किन्तु सम्पत्तिकर्मविधिशेषोऽयमर्थवादः ; तेनैकवाक्यत्वात् । अतो यथाप्राप्तमनुशासनमनुवदति । किं तदनुशासनम् ? कथं वा तत् प्राप्तवदनूद्यते ? उच्यते — नित्यस्य पुत्रोत्पादनविधेः प्रयोजनं यत् पितॄणां लुप्तपिण्डोदकक्रियाणां नरकपातश्रवणात् पितृपिण्डोदकक्रियाद्यनुष्ठानेन नरकपातत्राणम् । न च शास्त्रीयेण परिज्ञानेन विना तदनुष्ठानं सम्भवति । तेन पित्रा नित्यमात्मनः पुत्रोत्पादनाधिकारं परिसमापयितुं पुत्रस्यावश्यकर्तव्यार्थविषयं गर्भाष्टवर्षेण ब्राह्मणेन त्वयोपनयनाख्यः संस्कारः कारयितव्यः, यः स्वाध्यायाध्ययनार्थो विहित इति यदनुशासनम् , तदिहानूद्यते — ‘तस्मादेनमनुशासतीति’ ॥ तथाच लिङ्गं — ‘श्वेतकेतुर्हाऽऽरुणेय आस । तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यम् । न वै सोम्यस्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवती’ति । तदेवमनित्येनाचार्यकरणविधिना कथं नित्यं प्रयुज्यत इति वाच्यम् । किं च आचार्ये प्रेत आचार्यान्तरकरणं न प्राप्नोति ; नह्यधिकारी प्रतिनिधीयते, नाप्यधिकारः । अधिकारी स्वाधिकारसिध्यर्थं साधनान्तरभ्रेषे साधनान्तरं प्रतिनिधाय स्वाधिकारं निर्वर्तयतीति युक्तम् ; एवमेषा बहुदोषा कल्पना दृश्यते । तस्माद् माणवकस्यैवैष नियोगः । कथं गुणकर्तृव्यापारसम्बद्धो विधिः प्रधानकर्तृस्थो भवति ? यथा — ‘एतया ग्रामकामं याजयेदि’ति ग्रामकामस्य यागो विधीयते, गुणकर्तृव्यापारः प्राप्तोऽनूद्यते ; तस्य याजनस्य वृत्त्यर्थत्वात् , एवमिहापि गुणकर्तृव्यापारो वृत्त्यर्थत्वेन प्राप्तोऽनूद्यते ॥
अत्रैके प्रत्यवतिष्ठन्ते — युक्तं ‘याजयेदि’ति प्रधानकर्तृव्यापाराभिधायिनो यजतेः परस्य गुणकर्तृव्यापाराभिधायिनः शब्दान्तरस्य णिच उपादानात् तस्य चाविधेयत्वात् प्रधानकर्तृव्यापारस्याभिधानम् , इह पुनरेको नयतिर्माणवकस्य व्यापारं ब्रूयात् ? आचार्यस्य वा ? न तावद् माणवकस्य नयत्यर्थकर्तृत्वम् ; कर्मकारकत्वात् तस्य । अतोऽनभिधेयव्यापारः कथं नियुज्येत ? न हि परव्यापारे परो नियोक्तुं शक्यते । स्वव्यापारे हि पुरुषस्य नियोगः । तस्मान्नैष माणवकस्य नियोगः । तदेवमाचार्यकरणविधिप्रयुक्तत्वादध्ययनस्य नात्राधिकारचिन्तया मनः खेदयितव्यम् इति । उच्यते — माणवकस्यैवायं नियोगः, नाचार्यस्येह किञ्चिद्विधेयमस्ति । कथम् ? यत्तावत् ‘उपनयीते’त्यस्याभिधानतो न्यायतश्च निरूप्यमाणोऽर्थ एतावान् प्रतीयते, आत्मानमाचार्यं कर्तुं कञ्चिदात्मसमीपमानीयाध्यापयेत् ? इति । एतच्च सर्वं वृत्त्यर्थत्वेन ब्राह्मणस्यान्यत एव प्राप्तम् , नात्र विधातव्यम् । तत्र कमध्यापयेत् ? इति विशेषाकाङ्क्षायां ‘ब्राह्मणमष्टवर्षमि’ति विशेषस्य विधायकमेतत् स्यात् । तत्र प्राप्ते व्यापारेऽर्थद्वयविधानमेकस्मिन् वाक्ये न शक्यते वक्तुम् ; वाक्यभेदप्रसङ्गात् । अतो नाचार्यस्य किञ्चिद् विधेयमिहास्ति । ननु माणवकस्यापि न किञ्चिद् विधेयमस्ति, अस्तीति ब्रूमः । कथम् ? यदैव ‘उपनयीते’ति शब्दतो न्यायतश्चात्मानमाचार्यं कर्तुमुपनयनेन संस्कृत्य कञ्चिदध्यापयेदिति प्रतीयते, तदैव यागश्रुतौ द्रव्यदेवतामात्रप्रतीतिवदध्ययनार्थोपनयनसंस्कार्योऽपि सामान्यतः प्रतीयते । तस्य च प्रेक्षावतो निष्प्रयोजने प्रवर्तयितुमशक्यत्वात् , विद्यमानस्याप्यध्ययनेऽर्थावबोधस्य प्रागसिद्धेः प्रवृत्तिहेतुत्वासिद्धेः, विधितोऽवश्यकर्तव्यतां प्रतिपद्य स्वयमेव प्रवर्तते । तेन ‘अष्टवर्षं ब्राह्मणमुपनयीते’त्यष्टवर्षो ब्राह्मण उपसर्पेदाचार्यमित्यर्थः ; ग्रामकामं याजयेद् ग्रामकामो यजेतेति यथा । ननु एवमप्यधिकारो न लभ्यते, अस्त्यत्राधिकारहेतुर्नित्यं निमित्तं वयोविशिष्टा जातिः, जातिविशिष्टं वयो वा । ननु जातिवयसी विशेषणमुपादेयस्य, अनुपादेयविशेषणमधिकारहेतुरिति स्थितिः, सत्यमस्तीयं स्थितिः ॥
किन्तु कर्तुरधिकार इत्यपि स्थिता न्यायविदः । किं चेह न माणवको जातिवयोविशिष्ट उपादेय उपनयने, किं तूपनयनमेव तदर्थं विधीयते ; संस्कारस्य संस्कार्योद्देशेन विधानात् । अतः संस्कार्यस्यावच्छेदकत्वं वयोजात्यवच्छिन्नं सद् भवति नित्यनिमित्तं माणवकस्य संस्कार्यत्व इति । तदेवमुपनयनस्याध्ययनार्थत्वात् तस्य च साधिकारत्वात् तेन चाधिकारेण साधिकारोऽध्ययनविधिः । अक्षरग्रहणमात्रेण चाधिकारसिद्धिः, अर्थावबोधस्तु कारणान्तरादिति ॥
ननु चैवमधीतो वेदो धर्मजिज्ञासाया हेतुर्ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्यः, इति वेद एवाधीतोन्यनिरपेक्षो धर्मजिज्ञासाया हेतुरिति वदन्ति, सत्यम् ; तथैव तत् , को वाऽन्यथा वदति ? अधीतवेदो ह्यवश्यकरणीयानि नित्यनैमित्तिकान्यकरणे प्रत्यवायजनकानि कर्माणि प्रतिपद्यते, तान्यनन्तरमेवावश्यविचारणीयानि, कथमेतान्यनुष्ठेयानीति । अतः प्रागध्ययनादप्रतिपत्तेरयोग्यत्वादधीतवेदत्वमेवान्यनिरपेक्षमर्थावबोधहेतुरिति गीयते । न तथा ब्रह्मज्ञानमवश्यकर्तव्यम् , अकरणे प्रत्यवायहेतुरिति प्रमाणमस्ति । तस्मादधीतवेदेनावश्यकर्तव्या धर्मजिज्ञासा, नैवं ब्रह्मजिज्ञासा । तदेव ब्रह्मजिज्ञासाया अधिकारानर्हत्वादर्हयोश्च ब्रह्मतज्ज्ञानयोरनर्थ्यमानत्वाद् जिज्ञासाऽनुपपन्ना ॥
मङ्गलस्यापि वाक्यार्थे समन्वयाभावात् श्रुतिमात्रोपयोगाच्च साधूक्तम् —
अथ शब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थ इति ॥
ननु प्रक्रियमाणात् पूर्वप्रकृतमपि किञ्चिद् नियमेन प्रतीयतेऽथशब्दात् , ततस्तत्प्रतिपत्त्यर्थं किमिति न गृह्यते ? उच्यते — नैतदानन्तर्याद् व्यतिरिच्यते । कथम् ? एवम् — तत् प्रक्रियमाणस्य नियमेन पूर्ववृत्तं भवति, यदि तस्यानन्तरं तन्मात्रापेक्षं तत्प्रक्रियेत, एवं सति प्रक्रियमाणस्य हेतुभूतोऽर्थः पूर्वनिर्वृत्तो भवति ; अन्यथा यस्मिन् कस्मिंश्चित् पूर्ववृत्तापेक्षायामनुवादादृष्टार्थत्वयोरन्यतरत्वप्रसङ्गात् , अतो हेतुभूतोऽर्थोऽपेक्षितव्यः, तदेतदाह —
पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकादिति । सति चानन्तर्यार्थत्वे यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासाऽपि यत् पूर्ववृत्तं नियमेनापेक्षते, तद् वक्तव्यम् । स्वाध्यायानन्तर्यन्तु समानमिति ॥
येन विना नियमेनानन्तरस्य न प्रक्रिया स तादृशो हेतुः पूर्वनिर्वृत्तो वक्तव्यः ; यस्यानन्तर ब्रह्मजिज्ञासा प्रक्रियते । स्वाध्यायाध्ययनन्तु समानम् साधारणो हेतुर्धर्मब्रह्मजिज्ञासयोः । अतश्च ‘अथातो ब्रह्मजिज्ञासे’ति पुनरथशब्देन तन्मात्रापेक्षणं व्यर्थं स्यात् । अथवा समानं नात्यन्तमपेक्षितं, न स्वयमेव सामर्थ्यं जनयितुं प्रयोक्तुं च शक्तम् । अतः समानो हेतुः, नावश्यं निष्पादक इत्यर्थः ॥
नन्विह कर्मावबोधानन्तर्यं विशेषः ॥ तथाच वृत्त्यन्तरे वर्णितम्-'कर्मणामधिकारपरम्परया शब्दतो वा संस्कारतया वा यथाविभागं तार्दथ्यावगमाद् निःश्रेयसप्रयोजनत्वाच्चानन्तर्यवचनोऽथशब्दोऽधिगतानन्तरमि'ति । अन्यैरपि स्ववृत्तौ वर्णितम्—'तत्राथातःशब्दौ प्रथम एवाध्याये प्रथमसूत्रे वर्णितौ । अथेति पूर्वप्रकृतां धर्मजिज्ञासामपेक्ष्यानन्तरं ब्रह्मजिज्ञासाप्रारम्भार्थः । अत इति पूर्वनिर्दिष्टस्यैवार्थस्य हेतुतामाचष्टे ब्रह्मजिज्ञासां प्रती'ति । अत्राह-
न ; धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति ॥
वेदान्ताध्ययनं यद्यपि केवलं न पुष्कलं कारणम् ; तथाऽपि न तेन विनोत्पद्यते ब्रह्मजिज्ञासा, उपपद्यते तु धर्मावबोधनं विनाऽपीत्यभिप्रायः । कथम्? तत्र तावद् धर्मजिज्ञासायां त्रयं वृत्तम्-द्वादशलक्षणे प्रतिपादितन्यायसहस्रम् , तदनुग्रहोपजा-तश्च वाक्यार्थनिर्णयः, वाक्यार्थश्चाग्निहोत्रादिकं कर्म । तत्र यः प्रथमसूत्रेऽथशब्दोपादानसूचितो न्यायः स्वाध्यायस्यार्थावबोधोपयोगप्रतिपत्तिहेतुः, यदप्यौत्पत्तिकसूत्रे शब्दार्थयोः सम्बन्ध-नित्यत्त्वेन वेदान्तानां चापौरुषेयत्वेन कारणेनानपेक्षत्वं नाम प्रामाण्यकारणमुक्तम् , तदुभयमि-हाप्युपयुज्यते ; अपेक्षितत्वात् , इतरस्य पुर्नन्यायकलापस्य न ब्रह्मजिज्ञासायामुपयोगोस्ति, यतो न निरस्ताशेषप्रपञ्चं ब्रह्मात्मैकत्वं प्रतिज्ञातं तत्र । न तत्प्रतिपादने तत्प्रतिपादनसामर्थ्ये वा शब्दानां कश्चित् न्यायोऽभिहितः । यत्पुनः प्रथमतन्त्रसिद्धन्यायोपजीवनमस्मिन्नपि तन्त्रे , तत् सगुणविद्याविषयम् । तत्र च मानसी क्रियोपासना विधेयाऽनित्यफला धर्मविशेष एव । तदेवं न्यायकलापस्य न ब्रह्मजिज्ञासायामुपयोगः । अतो न तदपेक्षोऽथशब्दः । यत्पुनः स्वाध्याय-स्यार्थावबोधोपयोगेऽनपेक्षत्वेन स्वतःप्रामाण्यसिद्धौ च न्यायद्वयम् , तत् अपेक्षितमपि न केवलं ब्रह्मजिज्ञासाकारणम् ; स्वाध्यायवदेव, तेन न तदपेक्षोऽथशब्दः । यः पुनर्वाक्यार्थनिर्णयः, स न कथमपि ब्रह्मजिज्ञासायामुपयुज्यते । न ह्यन्यविषयं ज्ञानमन्यत्र प्रवृत्तौ हेतुः । प्रतिपत्तौ कदाचित् स्यादपि यथाऽनुमानादौ, तदपीह नास्ति ; धर्मब्रह्मणोः सम्बन्धानिरूपणात् , अतः कर्मणामुप-योगः परिशिष्यते । तथा च तैरप्युक्तम्—कर्मणामधिकारपरम्परया शब्दतो वा संस्कारतया वा यथाविभागं तार्दथ्यावगमात्' इति । अत्रेदं निरूप्यते- केयमधिकारपरम्परा? कथं वा तार्दथ्य-मिति? यथा तावत् प्रासादमारुरुक्षोः सोपानपरम्परा क्रमशः प्राप्यमाणा प्रासादारोहणहेतुः, न तथेह ब्रह्मजिज्ञासां चिकीर्षोः कर्माणि सहस्रसंवत्सरपर्यन्तानि तत्क्रियाहेतुतया स्थितानि ; प्रमाणाभावात् । अथ कामोपहतमनास्तदभिमुखो ब्रह्मजिज्ञासायां नावतरति, कर्मभिस्तु कामा-वाप्तौ तदुपशमाद् ब्रह्वजिज्ञासायामवतरति । तथाच सार्वभौमत्वाद्युत्तरोत्तरशतगुणोत्कर्षावस्थितान् ब्रह्मलोकावाप्तिपर्यन्तान् कामानवापयन्त्यधिकारपरम्परया कर्माणि ; ब्रह्मलोकात् परं कामयितव्याभावात् , निर्विषयस्य च कामस्यानुपपत्तेर्दग्धेन्धनाग्निवत् कामोपशमे ब्रह्मजिज्ञासां करोति ; कर्मानुष्ठानानन्तर्यं तर्हि वक्तव्यम् न धर्मावबोधानन्तर्यम् ॥
कथं वा कामाप्तिः कामोपशमहेतुः? दृष्टान्तसामर्थ्यात् , यथा हविषा कृष्णवर्त्मा वर्धमानोऽपि सर्वहविःप्रक्षेपे सर्वं दग्ध्वा स्वयं शाम्यति, एवं विषयेन्धनः कामो यावद्विषयं वर्धमानोऽपि तत्क्षये क्षीणेन्धनाग्निवत् स्वयं शाम्यतीति युक्तम् , सत्यं युक्तम् ; यदि हैरण्यगर्भो भोगो न क्षीयेत, क्षीयते तु कृतकत्वात् परिच्छिन्नविषयत्वाच्च ; तत्क्षये पूर्ववदनवाप्तोऽवाप्तव्यः, इति कामः समुल्लसत्येव । अतो विषयस्य क्षयादिदोषदर्शनात् कामोपशमो हिरण्यगर्भस्यापि । तथाचोक्तम्-'ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्' ॥ इति । तस्मात् सर्वत्र कामस्य विषयदोषदर्शनमेवोच्छेदकारणम् , नित्यवस्तुदर्शनं च ; रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते' इति स्मृतेः । नचैवंलक्षण आगमोऽस्ति—हिरण्यगर्भोपभोगाद् निखिलविषयावाप्तौ कामोच्छेदो भवतीति । ननु कामावाप्तौ स्वस्थहृदयः कार्यान्तरक्षमो भवतीति सर्वेषां स्वसंवेद्यमेतत् , सत्यम् ; तदुत्कलिकोपशमात् , तदुत्कलिकोपशमश्च तदा सामर्थ्यहानेः ; सति च सामर्थ्ये स्वच्छन्दोपभोगसम्भवात् । यदि पुनरेकान्ततो निवृत्तकामो भवेत् , न तं विषयं पुनः सङ्गोपायेत् । तस्माद् न कर्मणां कामनिर्बहणद्वारेण ब्रह्मजिज्ञासायोग्यतापादनम् ; अतो न कर्मावबोधापेक्षोऽप्यथशब्दः ।
भवतु तर्हि संस्कारद्वारेण कर्मणां पूर्ववृत्तत्वम्? `यस्यैतेऽष्टाचत्वारिंशत्संस्काराः, अष्टौ चात्मगुणाः स ब्रह्मणः सायुज्यं गच्छती'ति `महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुरि'ति `ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथाऽऽदर्शतलप्रख्ये पश्यन्त्यात्मानमात्मनी'ति च स्मृतेः ; `विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने'ति `येन केनचन यजेतापि दर्विहोमेनानुप-हतमना एव भवती'ति च श्रुतेः । वक्ष्यति च सूत्रकारः—'अत एवाश्रमकर्मापेक्षा' `सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदि'ति च । सत्यमेवम् ; यदि समानजन्मानुष्ठितमेव कर्म संस्कुर्वद् ब्रह्मजिज्ञासा-योग्यत्वहेतुः स्यात् । न च नैयोगिके फले कालनियमोऽस्ति । तेव पूर्वजन्मानुष्ठितकर्मसंस्कृतो धर्मजिज्ञासां तदनुष्ठानं चाप्रतिपद्यमान एव ब्रह्मजिज्ञासायां प्रवर्तते, इति न नियमेव तदपेक्षोऽथशब्दो युज्यते । एतेन —ऋणापाकरणद्वारेणापि नियमेन पूर्ववृत्तत्वम्— प्रत्युक्तम् ॥ तथाच श्रुति-स्मृती `यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्' `तस्याश्रमविकल्पमेके ब्रुवते' इति ॥ तस्मात् साधूक्तम्— धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति ॥ अथापि स्यात् —न हेतुत्वेनानन्तरवृत्तकर्मावबोधापेक्षमथशब्दं ब्रूमः, अपितु क्रमप्रतिपत्त्यर्थम् ; यथा `हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः' इति, तदेतदयुक्तम् ; न्यायसूत्रेऽपि चैककर्तृकाणां बहूनां युगपदनुष्ठानासम्भवादवश्यम्भाविनि क्रमे ब्रूयादपि तन्नियममथशब्दः । एककर्तृकत्वं च शेष-शेषिणोः शेषाणां च बहूनामेकशेषिसम्बद्धानामधिकारान्तरप्रयुक्त्त्युप-जीविनां च भवति, नेतरथा । न हि धर्मब्रह्मजिज्ञासयोरेतेषामन्यतमत्वे प्रमाणमस्ति, तदिदिमाह- - यथा च हृदयाद्यवदानानामानन्तर्यनियमः ; क्रमस्य विवक्षितत्वात् , न तथेह क्रमो विवक्षितः ; शेषशेषित्वे(१)ऽधिकृताधिकारे वा प्रमाणाभावाद् धर्म-ब्रह्मजिज्ञासयोरिति ॥
अथापि स्यात् न हेतुत्वेनानन्तरवृत्तकर्मावबोधापेक्षमथशब्दं ब्रूमः, अपि तु क्रमप्रतिपत्त्यर्थम् ; यथा ‘हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः’ इति, तदेतदयुक्तम् ; न्यायसूत्रेऽपि चैककर्तृकाणां बहूनां युगपदनुष्ठानासम्भवादवश्यम्भाविनि क्रमे ब्रूयादपि तन्नियममथशब्दः । एककर्तृकत्वं च शेषशेषिणोः शेषाणां च बहूनामेकशेषिसम्बद्धानामधिकारान्तरप्रयुक्त्त्युपजीविनां च भवति, नेतरथा । न हि धर्मब्रह्मजिज्ञासयोरेतेषामन्यतमत्वे प्रमाणमस्ति, तदिदमाह —
यथा च हृदयाद्यवदानानामानन्तर्यनियमः ; क्रमस्य विवक्षितत्वात् , न तथेह क्रमो विवक्षितः ; शेषशेषित्वेऽधिकृताधिकारे वा प्रमाणाभावाद् धर्मब्रह्मजिज्ञासयोरिति ॥
अथापि स्यात् , यथाऽऽग्नेयादीनां षण्णां यागानामेकं फलं स्वर्गविशेषः, एवं धर्मब्रह्मजिज्ञासयोरप्येकं फलं स्वर्गः, ततः क्रमापेक्षायां तन्नियमार्थोऽथशब्द इति, यथावा द्वादशभिरपि लक्षणैर्धर्म एको जिज्ञास्यः, प्रतिलक्षणमंशान्तरपरिशोधनया, यथावाऽस्मिन्नपि तन्त्रे चतुर्भिरपि लक्षणैरेकं ब्रह्म जिज्ञास्यम् , तत्र चांशान्तरपरिशोधनेन लक्षणानां क्रम नियमः । एवं तन्त्रद्वयेनैकं ब्रह्म जिज्ञास्यं, तत्र क्रमनियमार्थोऽथशब्द इत्याशङ्क्याह —
फलजिज्ञास्यभेदाच्च ॥
धर्मब्रह्मजिज्ञासयोरिति सम्बन्धः ॥ तमेव भेदं कथयति —
अभ्युदयफलं धर्मज्ञानम् । तच्चानुष्ठानापेक्षम् ।
अभ्युदयः फलं धर्मज्ञानस्येति प्रसिद्धमेव, न कस्यचिद् विसंवादः । तदपि न ज्ञानस्य फलम् , अपितु ज्ञेयस्य, तस्यापि न ज्ञेयत्वादेव फलम् ; किन्त्वनुष्ठीयमानत्वात् ।
निःश्रेयसफलं तु ब्रह्मज्ञानं, न, चानुष्ठानान्तरापेक्षमिति ॥
ब्रह्मज्ञानस्य फलमपवर्गः । स च नित्यसिद्धोऽव्यवहितः स्वसंवेद्यः, यतोऽविद्या संसारहेतुः । न चाविद्यामनिवर्तयन्ती विद्योदेति । तदेवमत्यन्तविलक्षणत्वात् प्रस्थानभेदाच्च न फलद्वारेणाप्येकोपनिपातः ; तेन न क्रमाकाङ्क्षा तन्त्रद्वयस्य । जिज्ञास्यं पुनरत्यन्तविलक्षणं, यतः कार्यो धर्मः पुरुषव्यापारतन्त्रः स्वज्ञानकालेऽसिद्धसत्ताकः प्रथमे तन्त्रे जिज्ञास्यः, इह तु नित्यनिर्वृत्तं पुरुषव्यापारानपेक्षं ब्रह्म जिज्ञास्यम् ।
किं च
चोदनाप्रवृत्तिभेदाच्च ।
इदमपरं प्रमाणोपाधि प्रमेयवैलक्षण्यम् । धर्मचोदना हि प्रेरयन्ती पुरुषमसति विषये प्रेरयितुमसमर्था सती विषयमप्यवबोधयति । ब्रह्मप्रमाणं पुनर्बोधयत्येव केवलं नावबोधे पुरुषः प्रेर्यते । अवबोधो हि यथावस्तु यथाप्रमाणं चोदेति, न पुरुषस्येच्छामप्यनुवर्तते ।
तत्र कुतः प्रेर्येत ? यथाऽक्षार्थयोः सन्निकर्षे सति तेन सन्निकर्षेणाक्षावगम्यार्थज्ञाने पुरुषो न नियुज्यते, तद्वत् ; अनिच्छतोऽपि स्वयमुत्पत्तेः, ब्रह्मणि तु नित्यसिद्धत्वान्न प्रेरणा सम्भवति । ‘ब्रह्मचोदने’ति चोदनाशब्दो भाष्ये प्रमाणविवक्षया प्रयुक्तः, न प्रेरणाविवक्षया, तदाह —
या हि चोदना धर्मस्य लक्षणं, सा स्वविषये विनियुञ्जानैव पुरुषमवबोधयति, ब्रह्मचोदना पुनः पुरुषमवबोधयत्येव केवलम् ; अवबोधस्य चोदनाजन्यत्वान्न पुरुषोऽवबोधे नियुज्यते ; यथाऽक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत् ॥
तदेवं जिज्ञास्यैक्यनिबन्धनाऽपि न क्रमापेक्षा तन्त्रद्वयस्य ; येन तदपेक्षोऽथशब्दो व्याख्यायेत, अत उपसंहरति —
तस्मात् किमपि वक्तव्यं, यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति ॥ उच्यते — नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं चेति ॥
उक्तं पुरस्ताद् अधिकारार्थत्वेऽथशब्दस्य शास्त्रारम्भवैयर्थ्यम् ; प्रवृत्त्यभावादिति, प्रवृत्त्यभावे च कारणमुक्तम् , अखिलसुखभोगाद्धिरण्यगर्भावाप्तिपर्यन्तान्निवर्तयति ब्रह्मजिज्ञासा क्रियमाणा, तेन तत उद्वेगो लोकस्य, कुतस्तत्र प्रवृत्तिरिति ? तस्माद् यावदस्य हिरण्यगर्भावाप्तिपर्यन्तस्य भोगस्योत्पादपरिच्छेदाभ्यां विनाशित्वादनित्यत्वं नावैति । विनश्यदपीदं कूटस्थनित्यवस्तुपर्यन्तमेव विनश्यति ; अन्यथा निरुपादानस्य पुनरुत्पत्त्यसम्भवः, इति वर्तमानस्याप्यसम्भवादभावोऽभविष्यदिति निरूपणाद् नित्यानित्यवस्तुविवेको यावन्न जायते । यावच्चाभिमुखविनाशदर्शनाद् भुञ्जानस्यापि भोगान् स्रक् - चन्दन - वस्त्रालङ्कार - भोगानिवाग्निप्रवेशार्थं भोगार्थव्यापारजनितदुःखानुभवाच्च तन्निमित्तां निर्वृतिमप्यलभमानो भोगाद् विरक्तः । ततो मुमुक्षुत्वं तत्साधनशमदमोपरमतितिक्षासमाधानसम्पन्नो भूत्वा यावन्नालम्बते, तावद् ब्रह्मजिज्ञासां कः प्रतिपद्येत ? कथञ्चिद् वा दैववशात् कुतूहलाद्वा बहुश्रुतत्वबुद्ध्या वा प्रवृत्तोऽपि न निर्विचिकित्सं ब्रह्म आत्मत्वेनावगन्तुं शक्नोति ; यथोक्तसाधनसम्पत्तिविरहात् , अनन्तर्मुखचेता बहिरेवाभिनिविशमानः । तस्माद् वर्णितवस्तुकलापानन्तर्यमभिप्रेत्याथशब्दं प्रयुक्तवानाचार्यः । तदाह भाष्यकारः —
तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च, न विपर्यये । तस्मादथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यत इति ॥
अतःशब्दो हेत्वर्थ इति ॥
स्यादेतत् , कृतकत्वपरिच्छेदौ नैकान्ततः क्षयिष्णुतां गमयतः ; परमाणुषु पाकजलोहितस्य कृतकस्य, तेषां च परिच्छिन्नानां नित्यत्वाभ्युगमात् , वेदेऽपि ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति’ ‘अपाम सोमममृता अभूमे’त्यादिपुण्यफलस्याक्षयित्वश्रवणात् , अतो विषयभोगाद् न नियमेन विरागो विवेकिनामपि । नापि कूटस्थनित्यवस्त्ववष्टम्भेन मुमुक्षुत्वम् । ततश्च न शमदमादिपरिग्रहः, यतो न तादात्म्यं भोक्तुः सम्भाव्यते । नापि तदवाप्तिः ; दुःखाभावेऽपि सुखभोगाभावान्नानवद्यः पुरुषार्थः । अतोऽजीर्णभयान्नाहारपरित्यागः, भिक्षुभयान्न स्थाल्या अनधिश्रयणं दोषेषु प्रतिविधातव्यमिति न्यायः । अतो न तस्य ब्रह्मजिज्ञासायां हेतुत्वमित्यतस्तस्य हेतुत्वप्रदर्शनार्थोऽतःशब्दः । कथम् ?
यस्माद्वेद एवाग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयति— ‘तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इत्यादिना ॥
ननु पुण्यस्याप्यक्षय्यफलत्वं वेद एवाहेत्युक्तं, न ; तस्य वस्तुबलप्रवृत्तानुमानविरोधेऽर्थवादस्य नित्यत्वप्रतिपादनासामर्थ्यात् , परमाणूनां पाकजस्य च तद्गुणस्य अनित्यत्वात् । अतो भवत्यनित्यत्वदर्शनं विषयभोगानां मुमुक्षुत्वे हेतुः । यत्पुनर्मुमुक्षुत्वाभावे निमित्तमुक्तं, तत्राह —
तथा ब्रह्मज्ञानादपि परं पुरुषार्थं दर्शयति — ब्रह्मविदाप्नोति परमित्यादि ॥
अत उपसंहरति —
तस्माद्यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्येति ॥
यतः परिपूर्णो हेतुरनन्तरमवश्यं कार्यमारभते, अतः कर्तव्येत्यावश्यकतामाह भाष्यकारः । यतो द्वैतानुषङ्गादतितरामुद्विजमानेन ब्रह्मात्मत्वं च हस्तप्राप्तमिव मन्यमानेन प्रवर्तितव्यमेव ब्रह्मजिज्ञासायाम् ; प्रदीप्तशिरसेव जलराशौ, स्पृशतेव च सुस्वादु फलमङ्गुल्यग्रेणाग्रपादस्थेन । एवं सत्यर्थाद् धर्मजिज्ञासाया नियमेन पूर्ववृत्तत्वमथशब्देन पूर्वोक्तेन न्यायेन निराक्रियते ॥
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति ॥
अन्तर्णीतविचारार्थान्वये हि चतुर्थीसमासः स्यात् , न शब्दाभिधेय इत्यवयवार्थमङ्गीकृत्य षष्ठीसमासो दर्शितः ॥
ब्रह्मशब्दस्यार्थनिर्देशावसरे प्राप्ते सूत्रकार एव निर्देक्ष्यतीति कथयति —
ब्रह्म च वक्ष्यमाणलक्षणं जन्माद्यस्य यत इति ॥
तत्र यदन्यैर्वृत्तिकारैर्ब्रह्मशब्दस्यार्थान्तरमाशङ्क्य निरस्यते । न खलु ब्राह्मणजातिरिह गृह्यते ; प्रत्यक्षसिद्धत्वाद् जिज्ञास्यत्वाभावात् , नापि तत्कर्तृका जिज्ञासा ; त्रैवर्णिकाधिकारात् , नापि जीवपरिग्रहः ; तत्कर्तृत्वे विशेषणानर्थक्यात् , कर्मत्वे नित्यसिद्धत्वात् , न शब्दराशेर्ग्रहणम् ; तस्य धर्मजिज्ञासौत्पत्तिकसूत्राभ्यामर्थवत्त्वप्रमाणत्वयोर्निरूपितत्वात् , नापि हिरण्यगर्भस्य ; तदवाप्तेरपि विरक्तस्य ब्रह्मजिज्ञासोपदेशात् , नापि तत्कर्तृकता ; ज्ञानवैराग्ययोः सह सिद्धत्वात् इति, तदपि न कर्तव्यमित्याह —
अत एव न ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यमिति ॥
ब्रह्मण इति कर्मणि षष्ठी ॥
वृत्त्यन्तरे तु शेषलक्षणा व्याख्याता, तां निरस्यति —
न शेष इति ॥
तत्र हेतुमाह —
जिज्ञास्यापेक्षत्वाज्जिज्ञासाया इति ॥
अथापि स्यात् अन्यत् जिज्ञास्यमिति, तदर्थमाह —
जिज्ञास्यान्तरानिर्देशाच्चेति ॥
पुनः शेषषष्ठीवाद्याह —
ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्यते ; सम्बन्धसामान्यस्य विशेषनिष्ठत्वादिति ॥
यद्यपि ‘शेषे षष्ठी’ति सम्बन्धमात्रे षष्ठी विहिता ; तथाऽपि व्यवहारो विशेषमवलम्बते, बहवश्च सम्बन्धविशेषाः, तत्रावश्यमन्यतमः प्रतिपत्तव्यः ; अन्यथा व्यवहारानुपपत्तेः । तत्र प्रकरणोपपदयोर्विशेषहेत्वोरभावादर्थाद्विशेषक्रियोपादानात् कारकत्वेनैव सम्बन्धः । तत्रापि सकर्मिकायाः कर्मकारकमभ्यर्हितम् , इति कर्मत्वं ब्रह्मणो न विरुध्यते । एवमपि साधारणे शब्देऽभिप्रेतमर्थं विहायार्थान्तरं परिगृह्य, पुनस्तद्द्वारेणाभिप्रेतमर्थं प्रतिपद्यमानस्य व्यर्थः प्रयासः स्यात् , तदाह —
एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यादिति ॥
ननु किमिति व्यर्थः ? शेषषष्ठीपरिग्रहे सामान्येन यत् किञ्चिद् ब्रह्मसम्बन्धि येन येन जिज्ञासितेन विना ब्रह्म जिज्ञासितं न भवति तत्सर्वं जिज्ञास्यत्वेन प्रतिज्ञातं स्यात् ; अतो न विशिष्टसम्बन्धो विवक्ष्यते ; सामान्ये तस्याप्यन्तर्भवादिति यद्युच्यते, तदाह —
न व्यर्थः ; ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेति ॥
स्वयमेव परोक्तमाशङ्क्योत्तरमाह —
न ; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वादिति ।
सङ्क्षेपतो वस्तुसङ्ग्रहवाक्यम् । एतदेव प्रपञ्चयति —
ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात् प्रधानम् । तस्मिन् प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति, तान्यर्थाक्षिप्तान्येव, इति न पृथक् सूत्रयितव्यानि । यथा ‘राजाऽसौ गच्छती’त्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वदिति ॥
यस्माद् ब्रह्मावाप्तिः पुरुषार्थः, तेन तद् ज्ञानेनाप्तुमिष्टतमम् , अतस्तदर्थत्वात् प्रवृत्तेः प्रधानं तत् । तस्मिन् प्रधाने जिज्ञास्यमाने, येन जिज्ञासितेन विना न सम्पूर्णा जिज्ञासा, तत् सामर्थ्यादेव तादर्थ्येन जिज्ञास्यते, न पृथगभिधानेन कृत्यमस्ति । यथा ‘राजाऽसौ गच्छती’त्युक्ते यावता परिवारेण विना राज्ञो गमनं न सम्पद्यते, तावतो गमनमाक्षिप्तमिति न पृथगभिधीयते लोके, तद्वदिहापि स्वरूप - प्रमाण - युक्ति - साधन - प्रयोजनानि ब्रह्मज्ञानपरिपूर्णतार्थमर्थादेव जिज्ञास्यत्वान्न पृथक् सूत्रयितव्यानि । किञ्च शास्त्रप्रवृत्तिरेव कर्मणि षष्ठीं गमयति । कथम् ? एवं हि शास्त्रमारब्धव्यम् । ‘पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इत्यादिश्रुतेर्न्यायतश्च पुण्यस्य क्षयदर्शनाद् विरक्तस्य ‘ब्रह्मविदाप्नोति परमि’त्यादिश्रुतेर्ब्रह्मज्ञानात्पुरुषार्थसिद्धिः परेति । अतस्तज्ज्ञातुमिच्छतः श्रुत्या ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्येवमाद्यया तत्प्रतिपादनपूर्वकं ‘तद्विजिज्ञासस्व’ (तै. उ. ३-१-१) इति साक्षादेव कर्मतया ज्ञेयत्वेनानुशासनं यत् , तदिदम् — ‘अथातो ब्रह्मजिज्ञासे’ति सूचितम् । तेन कर्मषष्ठीपरिग्रहे श्रुतिन्यायसूचनपरं सूत्रं तदनुगतं भवति ; अन्यथा लक्ष्याननुगतमसम्बद्धं स्यात् । तदाह — श्रुत्यनुगमाच्चेति वस्तुसङ्ग्रहवाक्यम् । तत्प्रपञ्चः —
‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्याद्याश्च श्रुतयः ‘तद्विजिज्ञासस्व तद् ब्रह्मेति’ (तै. उ. ३-१-१) प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति । तच्च कर्मणि षष्ठीपरिग्रहे सूत्रेणानुगतं भवति । तस्माद् ब्रह्मण इति कर्मणि षष्ठी ॥
ज्ञातुमिच्छा जिज्ञासेति जिज्ञासापदस्यावयवार्थं कथयतीच्छाप्रदर्शनार्थम् । ततश्चेच्छायाः फलविषयत्वात् तज्ज्ञानस्यापवर्गपर्यन्तता सूचिता भवति । तदाह —
अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म ; फलविषयत्वादिच्छाया इति ॥
अवगतिरिति साक्षादनुभव उच्यते । ज्ञानन्तु परोक्षेऽनुभवानारूढेऽपि सम्भवति । सन्निहितेऽप्यसम्भावितविषयेऽनवसितरूपमित्युक्तं पुरस्तात् ; तदाह —
ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म, ब्रह्मावगतिर्हि पुरुषार्थः ॥
ब्रह्मरूपतासाक्षात्करणमित्यर्थः ।
तदेतच्छास्त्रान्तर्भूतं सूत्रम् । अनेन च प्रयोज्यसम्बन्धिनोर्जिज्ञासामुमुक्षाक्रिययोरेकस्याः कारणान्तरसिद्धायाः पूर्ववृत्ततया हेतुत्वमर्थादुपात्तमितरस्यास्तदनन्तरं तत्प्रयुक्तायाः कर्तव्यता श्रुत्याऽभिहिता । तत्र जानात्येवासौ मयैतत् कर्तव्यमिति, उपायन्तु न वेद । ततस्तस्योपायः कथनीयः । शास्त्रस्य च सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि ; इतरथा प्रेक्षारहितमिव सर्वमापद्येत । अतोऽनेनैव सूत्रेणेदमपि सर्वं सूचितमिति कथयितुमाह —
तस्माद् ब्रह्म जिज्ञासितव्यमिति ॥
अन्तर्णीत विचारार्थविधेयत्वाङ्गीकारेण मीमांसितव्यमित्यर्थः । एतदुक्तं भवति — ब्रह्मज्ञानकामेनेदं शास्त्रं श्रोतव्यम् ; यस्माद् ब्रह्मज्ञानमनेन शास्त्रेण निरूप्यते । तेन प्रयोज्यस्याभिमतोपायः शास्त्रम् , इत्यर्थात् शास्त्रस्य सम्बन्धाभिधेयप्रयोजनं कथितं भवति ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां प्रथमसूत्रार्थवर्णनं नाम तृतीयवर्णकं समाप्तम् ॥
अथ तुरीयं वर्णकम्
तत् पुनर्ब्रह्म प्रसिद्धं वा स्यात् ? अप्रसिद्धं वा ? यदि प्रसिद्धं, न जिज्ञासितव्यम् ; अथाप्रसिद्धं, नैव शक्यं जिज्ञासितुम् इति
प्रयोजनविषयसम्बन्धानाक्षिपति । कथम् ? प्रसिद्धशब्देन प्रतिपन्नमुच्यते । तद् यदि प्रतिपन्नमन्येन केनचित् , तदाऽस्य शास्त्रस्य न विषयः ; कस्मात् ? प्रतिपाद्यत्वेन हि विषयता, प्रतिपन्ने च तस्मिन्नकिञ्चित्करं शास्त्रम् , इति नास्य विषयः स्यात् । ततश्चानेनानवगमान्नास्य प्रयोजनं ब्रह्मावगतिः स्यात् । अतः प्रयोजनमप्याक्षिप्तम् । अथाप्रसिद्धं न शक्यं जिज्ञासितुम् ॥ कथम् ? यत् न कदाचिदपि बुद्धौ समारूढविशेषं, कथं तत् प्रतिपाद्येत ? अतः प्रतिपादनाशक्तेर्न तत् स्पृशत्यपि शास्त्रम् । प्रसिद्धं पुनर्यदि नामानेन प्रतिपाद्यते प्रसिद्धत्वादेव ; तथाऽपि न तेनार्थेन निरालम्बनम् , अप्रसिद्धं पुनरालम्बनमपि न स्यात् । अतो न केनचिदर्थेन सम्बद्धं शास्त्रम् , इति सम्बन्ध आक्षिप्तः ।
अस्ति तावद् ब्रह्म इत्यादिना
त्रितयमपि समाधत्ते श्रोतृप्रवृत्त्यर्थम् । ननु प्रेक्षावताऽविसंवादकेन प्रणीतं शास्त्रम् । नेदृशो निष्प्रयोजनं निर्विषयमसम्बद्धं चारभते, इति तद्गौरवादेव प्रवर्तन्ते श्रोतारः ; किमनेन प्रयासेन ? सत्यं भवति सामान्येन प्रयोजनवत्त्वप्रतीतिः प्रणेतृगौरवात् , न तु तावन्मात्रेण प्रवृत्तिः । अभिप्रेतप्रयोजनाय हि प्रवर्तन्ते, न तत् निर्देशादृते शक्यतेऽवगन्तुम् । एवमपि प्रयोजनविशेष एव निर्दिश्यताम् । न च विषयभावमनापन्नमशक्यप्रतिपादनं च प्रयोजनं भवति, छिदिक्रियाविषय एव वृक्षश्छिन्नः प्रयोजनमित्युच्यते, दण्डादेरपि मृद्विषयस्य मृदेव घटावस्था प्रयोजनं, सत्यमेवम् ; तथाऽपि यथा चिकित्साज्ञानस्य चरकसुश्रुतात्रेयप्रभृतीनि बहूनि, यथा वा तण्डुलनिष्पत्तिप्रयोजना अवघातनखनिर्भेददलनक्रिया बह्व्यः, तत्र नावश्यमेकत्रैव प्रवृत्तिः, तथेहाप्यन्यस्मादपि कथञ्चिद् ब्रह्मावगतिसिद्धौ नावश्यमत्रैव प्रवृत्तिः ; अतोऽनन्यसाधारणो विषयो वक्तव्यः, यथाऽर्जुनस्यायं विषय इत्यनन्यसाधारणता प्रतीयते । तेनानन्यसाधारणत्वाय विषयो निर्देश्यः प्रवृत्त्यङ्गत्वेन । सम्बन्धोऽपि वक्तव्यः प्रवृत्त्यङ्गत्वेनैव । यथा साधुशब्दपरिज्ञानं व्याकरणारम्भात् प्राक् न केनचित्साध्यते, तेन न केनचित् सम्बद्धम् ; अतस्तदर्थी न क्वचित् प्रवर्तते, यथा वौदननिष्पत्तिरेकक्रिया नियताऽपि न गमनाद्येकक्रियासाध्या, तेन न तया सम्बन्धः । ततश्च न गमनादिक्रियायामोदनार्थी प्रवर्तते, तेन पुरुषार्थरूपताऽनन्यसिद्धता तत्प्रतिपाद्यता चेति भिद्यन्ते विषयसम्बन्धप्रयोजनानि । तानि च त्रीण्यपि प्रवृत्त्यङ्गम् ; नापुरुषार्थे काकदन्तपरीक्षायां तुषकण्डने वा प्रवर्तते प्रेक्षावान् । नापि पुरुषार्थे चिकित्साज्ञाने सुश्रुतादिसिद्धे, चरके नियमेन प्रवर्तते । नापि तण्डुलेषु दलनसिद्धेष्ववघाते । नाप्यनन्यसिद्धेऽपि साधुशब्दपरिज्ञाने पुरुषार्थे, अतत्साधने वैद्यकादौ कश्चित् प्रवर्तते, गमने वाऽनोदनसाधने । तत्र विप्रतिपत्त्यैकान्ततः प्रसिद्धतामप्रसिद्धतां च निरस्य शक्यप्रतिपाद्यमानतामनन्यसिद्धतां च दर्शयन् विषयसम्बन्धौ समर्थितवान् ,
‘निःश्रेयसप्रयोजना प्रस्तूयते’
इति च प्रयोजनम् ॥
ननु ब्रह्म वेदान्तानां विषयः, शास्त्रं च तेषां ब्रह्मप्रतिपादनानुसरणोपायन्यायविषयं, तत् कथं शास्त्रस्य विषयसम्बन्धौ भवतः ? प्रयोजनन्तु कदाचित् स्यादपि प्रणाड्या धर्मार्थविषययोरिव शास्त्रयोः कामावाप्तिः । ननु आग्नेयादीनां स्वर्गफलानां प्रयाजादीतिकर्तव्यतावत् वेदान्तानामप्यर्थमवबोधयतामितिकर्तव्यता मीमांसा, तेनार्थावबोधे वेदान्तानामुपकारकत्वाद् भवति शास्त्रमपि तद्विषयम् । न हि शालिबीजस्याङ्कुरं जनयतः सहकारिणो जलादेरङ्कुरो न कार्यम् । तेन यद्यपि वेदान्ता एव ब्रह्मावबोधे कारणं, मीमांसा चेतिकर्तव्यताभागं पूरयति ; तथाऽपि ब्रह्मविषयैव । न हि छेत्तुरुद्यमननिपातनलक्षणो व्यापारः परशुविषयो न वृक्षविषयः ; तदर्थत्वात् , करणस्य च द्वारत्वात् ; अन्यथाऽन्यत्र कर्तृव्यापारोऽन्यत्र फलमिति वैयधिकरण्यं स्यात् , उच्यते — विषय उपन्यासः ; युक्तं यत्र यदुपकारमन्तरेण फलोत्पत्तिरेव न सिध्यति, तस्यापि तद्विषयत्वम् , इह पुनर्विनाऽपि मीमांसया सम्बन्धग्रहणतदनुस्मरणबुद्धिसन्निधानमात्रोपकृतं वाक्यमर्थमवगमयति, नापरमपेक्षते । ननु संशयविपर्यासनिरासद्वारेण निर्णयहेतुत्वान्निर्णयस्य च निर्णेयप्रधानत्वाद्भवति निर्णेयं वस्तु निर्णयहेतोर्विषयः, नैतत्सारम् ; यत्र ह्यनेकं विज्ञानं वाक्यश्रवणे सति जायते मीमांसानिरपेक्षमेव, तत्रैकं वाक्यजन्यम् ; एकार्थनियतत्वादेकस्मिन् प्रयोगे वाक्यस्य, इतराणि पुनः सामान्यतोदृष्टनिबन्धनानि । तत्र मीमांसया लोकप्रसिद्धशब्दशक्त्यनुसारिण्येदं शब्दजनितं ज्ञानमिति तदालम्बनं वेदार्थ इति ज्ञात्वाऽन्यदुपेक्षते, न पुनर्निर्णयज्ञानोत्पत्तौ व्यापारः शास्त्रस्य । यथा चक्षुः कुतश्चिन्निमित्तात्सम्प्रयुक्तेऽपि स्थाणुः पुरुषो वेति संशयात्मकं पुरुष एवेति वा विपर्ययस्वरूपं ज्ञानमुत्पाद्य पुनर्निमित्तान्तरानुगृहीतं सन्निर्णयात्मकं सम्यग्रूपं ज्ञानमुत्पादयति, नैवं शब्दो मीमांसायाः प्राक् संशयितं विपर्यस्तं वा ज्ञानमुत्पाद्य पुनस्तदनुमहान्निर्णयात्मकं सम्यग्ज्ञानं वा जनयति ; किन्तु प्रागेव मीमांसानुग्रहात् स्वसामर्थ्यजन्यं ज्ञानमजीजनदेव । तस्मान्न ब्रह्मविषयं शास्त्रम् , अत्रोच्यते — यद्यपि वाक्यार्थज्ञानं शास्त्रानुग्रहात्प्रागेवोदेति ; तथाऽपि स्वोत्पत्तिसमकालसमुत्थेन तत्र सामान्यतोदृष्टनिबन्धनेनार्थान्तरनिवेशिना समकक्षाभिमतेन ज्ञानेन विरोधादुन्मज्जननिमज्जनमिवानुभवदस्यामवस्थायां संशयज्ञानकोटिनिक्षिप्तं सत् मीमांसया शब्दशक्त्यनुसरणे सति प्रतिपक्षज्ञानस्यानुत्पत्तौ निमज्जनाभावान्निश्चलं निर्णयज्ञानमिव जातमिति लक्षणया मीमांसया निर्णयः क्रियत इत्युच्यते, न पुनः साक्षान्निर्णयज्ञानहेतुत्वात् । तदेवं लक्षणया वेदान्तानां ब्रह्मविषयाणां सहकारिकारणं मीमांसा इति ब्रह्मज्ञानविषयं शास्त्रमभिधीयते । तच्चेदं त्रयमप्यवश्यं वक्तव्यं प्रयोजनं विषयः सम्बन्धश्च शास्त्रादौ श्रोतुः प्रवृत्त्यङ्गत्वेन । यद्यपि प्रणेतृगौरवादेव सप्रयोजनत्वं शास्त्रस्य ; तथाऽपि न प्रयोजनविशेषसिद्धिस्तत्प्रत्ययमात्रेण निर्देशादृते । तस्मात्तन्निर्देश्यम् । निर्दिष्टेऽपि तस्मिंस्तस्याशक्यप्रतिपादनतां मन्वानो विहतश्रद्धत्वान्न प्रवर्तेतेति साध्यो निर्देश्यः । शक्यप्रतिपादनप्रतिपत्तावप्यन्यतः सिद्धेऽर्थे निर्दिष्टे नैव प्रवृत्तिरित्यनन्यसाध्योऽपि निर्देश्यः । तदेतत् त्रयमेकत्र समवेतं विभक्तं चोपलभ्यत इत्यलमतिविस्तरेण ॥
‘अस्ति तावद् ब्रह्मे’त्यादिना प्रसिद्धत्वप्रदर्शनेनाप्रसिद्धतां निराकुर्वञ्छक्यप्रतिपाद्यतया सम्बन्धं समर्थितवान् । कथम् ? ब्रह्मशब्दस्तावज्जातिजीवकमलासनशब्दराशीनां नान्यतमाभिप्रायेण सूत्रे प्रयुक्तः ; अनुपपत्तेरित्युक्तम् ; अतो नूनमन्यदेव किञ्चिदभिधेयमभिप्रेत्यायं प्रयुक्त इति गम्यते । तेन स्वर्गापूर्वदेवताद्यर्थवत्पदप्रयोगादेव कश्चिदर्थोऽस्तीत्यवसीयते । नैतत्सारम् ; न हि पदं चक्षुरादिवदप्रतीतपूर्व एवार्थे झटिति विज्ञानं जनयति, येनापूर्वमन्यतोऽसिद्धमर्थं पदप्रयोगादेव प्रतीमः ; स्वर्गाद्यर्थोऽपि नैव पदप्रयोगादेव सिद्धः, अत्रोच्यते — यस्मिन् वाक्य एकं पदं मुक्त्वेतरेषां पदानामर्थः प्रसिद्धः, स किमेकपदार्थानवगमापराधेन त्यज्यताम् ? उत बहुपदार्थप्रसिद्धिबलेनाप्रसिद्धोऽपि कथञ्चिदगम्येतेति ? तत्र निगमनिरुक्तव्याकरणानामेवंरूपपदार्थानुगमहेतूनां विद्यमानत्वात् तद्बलेनार्थमनुगम्य वाक्यार्थावगतिर्युक्ता, न पुनरेकाप्रसिध्या प्रसिद्धपदार्थसंसर्गस्त्यक्तुं युक्तः । न हि प्रसिद्धिरप्रसिध्या त्यज्यते ; प्रसिद्धिबलेनाप्रसिद्धमपि कल्प्यत इति न्यायात् । ननु निगमादिवशेनार्थानुगमे सर्वत्रैव कथञ्चिदर्थान्वयस्यानुगन्तुं शक्यत्वादव्यवस्थितः पदार्थः स्यात् ; ततश्च वाक्यार्थो नावधार्येत, न तर्हि निगमादीनामर्थवत्ता । भवत्यर्थवत्ता, यत्र स्वार्थादन्यत्रापि विनियोगात् प्रयोगस्तत्र कथमभिदध्यात् ? इत्यपेक्षायां तद्गतस्यैवावयवार्थान्वयलेशस्यानुगमात् । एवं तर्हि, एकार्थनियमाय प्रयोगपरतन्त्रता मृग्यते, तदन्तरेणापि प्रयोगमेकार्थनियम एव कथञ्चिन्निगमादिव्याप्रियेतेति न कश्चिद् दोषः । तदत्र ब्रह्मशब्दे व्युत्पाद्यमाने बृंहतेर्धातोर्वृद्धिकर्मणोऽर्थानुगमात् , प्रयोगानुगमे चासति विशिष्टार्थविषयस्यापेक्षिकमहत्त्वस्यापरिग्रहात् सर्वतो निरवग्रहमहत्त्वसम्पन्नं वस्तु वाक्यार्थान्वयि ब्रह्मपदादनुगम्यते । ततश्च कालकृतावच्छेदनिमित्तस्याल्पत्वस्याभावात् सदा सत्त्वान्नित्यं किञ्चिद्वस्तु ब्रह्मपदात् प्रतीयते । तथा रूपान्तरसद्भावे तद्रूपविकलत्वात् तदवच्छेदकृतमल्पत्वं स्यात् , तच्च ब्रह्मपदादेवापास्यते । तस्मादेकरसमद्वैतं वस्तु ब्रह्मपदात् प्रतीयते । एतेन देशकृतोऽपि परिच्छेदो निराकृतोवेदितव्यः ॥ वस्त्वन्तरसद्भावे हि तदपेक्षयैतावति सद्भावः, नातः परमस्ति, इति स्यात् एतस्माद् व्यावृत्त इति, तदभावे न परिच्छिन्नबुद्धिर्भवति । बुद्धत्वं च बृहत्यर्थान्वयादेव कथम् ? अबोधात्मकं हि वस्तु भोग्यम् , अतो भोक्तारं प्रति शेषत्वान्निकृष्टम् । चेतनः पुनर्न कस्यचिद्गुणभावमेति । तेनोत्कृष्टं सर्वस्माद् बुद्धस्वरूपं किञ्चित् , इति बृहत्त्यर्थान्वयमेवानुसृत्य गम्यते । ’मुक्तमिति’ चाविद्याकामकर्मपरतन्त्रस्तैरितश्चामुतश्च पशुवन्नीयमानो निकृष्टो भवति । ब्रह्मशब्दस्तु स्वार्थप्रक्षेपेण वाच्यं किञ्चिद्गमयन् सदैवाविद्यादिसंसारबीजानाकलिततया तस्योत्कृष्टमहत्त्वमावेदयति । ‘सर्वज्ञं सर्वशक्तिसमन्वितं च तदि’ति ब्रह्मशब्दादेवावगम्यते । कथम् ? यदि किञ्चिदविदितं तेन, कुतश्चिद्वा कार्याद् व्यावर्तते शक्तिः, आपेक्षिकस्तदोत्कर्षः स्यात् । न तद्युक्तमन्यतोऽसिद्धस्य वस्तुनः पदप्रयोगादेव प्रतिपत्तौ । सिद्धे हि वस्तुनि प्रयोगे तस्य यथासिद्धमेव महत्त्वं निरुच्यते ।
शब्दादेव तदर्थान्वयप्रतीतौ निरङ्कुश एवार्थोऽभ्युपेतव्यः । एवं च बृंहतेरर्थः परिपूर्णो भवति, यदि सर्वमस्य साक्षादेव संविद्गोचरे वशे च वर्तेत, तदेतदाह —
अस्ति तावद् ब्रह्म नित्यशुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते ; बृंहतेर्धातोरर्थानुगमादिति ॥
ननु एवमपि व्युत्पत्त्यनुसरणेन भवत्येवमात्मके वस्तुनि प्रतीतिः, न पुनरेतावता तस्य सिद्धिः, पदमात्रस्याप्रमाणत्वात् , सत्यमेवम् ; अत एव जिज्ञासा धर्मस्येव लोकाख्यप्रमाणाभाससिद्धस्य । इदमपरं ब्रह्मशब्दार्थस्य सिद्धत्वे कारणमुच्यते साध्यत्वसिध्यर्थम् —
सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिरिति ॥
तदेव दर्शयति —
सर्वो ह्यात्मास्तित्वं प्रत्येति, न नाहमस्मीति ॥
यदि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात् । आत्मा च ब्रह्मेति ॥
कथं पुनरात्मा ब्रह्म ? वेदान्तेष्वात्मनि ब्रह्मशब्दप्रयोगात् । आत्मानमेव च लोकः अहमिति व्यपदिशति । तदेवमहंप्रत्यय एव ब्रह्मणः प्रसिद्धत्वाद् नाप्रसिद्धिशङ्का ॥
यदि तर्हि लोके ब्रह्मात्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नमिति
विषयमाक्षिपति । असिद्धं हि वस्तु साध्यमानं विषयः, सिद्धं तु न पुनः साध्यते, इति न शास्त्रस्य विषयः ॥
न तद्विशेषं प्रति विप्रतिपत्तेः इति
विषयसम्बन्धौ समर्थ्येते ।
सत्यमहमित्यात्मनि प्रत्ययः, आत्मा च ब्रह्म, किन्तु तस्मिन्नेव विप्रतिपत्तयः अयमसौ, अयमसाविति । ताश्च वस्तुतो ब्रह्मपदार्थविषया एव ; तदेकार्थत्वाद् ब्रह्मशब्दस्य । ततः सामान्यतः प्रसिद्धमपि विशेषतोऽसिद्धेरसिद्धकल्पमेव, इति भवत्यस्य विशेषसिद्धिहेतोर्विषयः ; सामान्यतः सिद्धत्वाच्च शक्यते विशेषतः प्रतिपादयितुम् , इति भवति तस्य शास्त्रं साधनम् , इति सम्बन्धोऽपि समर्थितः । विप्रतिपत्तिं दर्शयति —
देहमात्रमित्यादि ॥
तद्यथा गोशब्दस्य व्यक्त्याकृतिजातिक्रियागुणसास्नाद्यनेकार्थसन्निधौ प्रयुज्यमानस्य कैश्चिज्जातिः, अन्यैर्व्यक्तिः, इत्याद्यभिधेयं प्रतिपन्नम् , एवं सचैतन्यकार्यकारणसङ्घातसन्निधावहंप्रत्ययस्योत्पद्यमानस्य कैश्चित् किञ्चिदालम्बनं प्रतिपन्नं, तदाह —
देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्ना इति ।
तथाहि — ‘मनुष्योऽहमि’त्यात्मनि मनुष्यत्वाभिमानो ‘गच्छामी’ति च गन्तृत्वाभिमानो देहविषयत्व उपपद्यते । ‘देहमात्रमि’ति सशिरस्कपिण्डाभिप्रायं द्रष्टव्यम् । मात्रशब्देन न देहातिरिक्तं स्वतन्त्रं चैतन्यमन्यविशेषणं वा, किन्तु देहाकारपरिणतभूतचतुष्टयान्तर्भूतमेवेति दर्शयति । आत्मेति अहंप्रत्ययालम्बनमित्यर्थः । प्राकृता इति ॥ शास्त्रोपदेशासंस्कृतमतयो दृष्टमात्राविकल्पितव्यवहारिण इत्यर्थः । लोकायतिका इति भूतचतुष्टयतत्त्ववादिनः प्रसिद्धाः ॥
एवम् इन्द्रियाण्येव चेतनान्यात्मेत्यपरे ॥
इन्द्रियाणां चक्षुरादिमनःपर्यन्तानामेकैकस्मिन्नसत्यपि शरीरे रूपादिज्ञानानामभावात् तेषामेव व्यस्तानां चेतनत्वमहंप्रत्ययविषयत्वं च मन्यन्ते, क्रमेण वरगोष्ठीवदितरेतरगुणभावम् । तथा चेन्द्रियधर्मसामानाधिकरण्यमहंप्रत्ययस्य दृश्यते ‘काणोऽहं मूकोऽहमि’त्यादि ॥
मनः
एव चेतनमहंप्रत्ययस्य विषयमन्ये मन्यन्ते । दृश्यते हि स्वप्न इन्द्रियदशकोपरमेऽपि मनस एव ‘अहमि’ति सर्वव्यवहारास्पदत्वमिति वदन्तः ॥
विज्ञानमात्रं क्षणिकमित्येक इति
मात्रग्रहणेन नाहमित्याकारादिवर्णत्रयातिरिक्तं किञ्चिदवभासते, यदहंप्रत्ययस्य विषयः कल्प्येत । तेन विज्ञानमेव स्वरसभङ्गुरमविरतोदयमखिललोकयात्रानिलयमनुभवभग्नपक्षान्तरमहमित्युत्पद्यत इत्यन्ये मन्यन्ते ॥
शून्यमित्यपर इति ॥
सुषुप्ते विज्ञानलेशस्याप्यभावादकस्मादेवाहमिति समुदयदर्शनादकारणस्य कादाचित्कस्य परमार्थवस्तुत्वाभावादसदवभास एवाहङ्कार इत्यपरे सङ्गिरन्ते ॥
अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपर इति ॥
अहमुल्लेखशून्यस्य भोक्तृत्वस्यादर्शनात् , तस्य च प्रत्यभिज्ञानात् स्थिरत्वसिद्धेः, स्थिरस्य चावधिहेत्वनुपलब्धेर्नित्यत्वम् । निर्विकारस्य च भोगासम्भवात् , विकारस्य च क्रियाफलत्वात् , क्रियावेशात्मकत्वाच्च कर्तृत्वस्य, एवमात्मकत्वाच्च संसारित्वस्य, देहादेश्च बुद्धिपर्यन्तस्य भोक्तृत्वानुपपत्तेः, तद्व्यतिरिक्तः संसारी कर्ता भोक्ताऽहंप्रत्ययविषय इत्यपरे प्रतिजानते । कथं पुनस्तद्व्यतिरिक्तत्वं मन्यन्ते । तस्य भोक्तृत्वानुपपत्तेरित्युक्तम् ॥
कथं तस्य भोक्तृत्वानुपपत्तिरिति ? उच्यते — भूतसङ्घातस्तावत् शरीरम् । तत्र व्यस्तानां समस्तानां वा युगपत् क्रमेण वा भोगः परिकल्प्येत, सर्वथाप्यसम्भवः । यदि तावत् व्यस्तानां युगपत् परिकल्प्येत, ततः स्वार्थप्रयुक्तत्वात् प्रवृत्तेरङ्गाङ्गिभावो नावकल्पेत । न चाङ्गाङ्गिभावमन्तरेण सङ्घात उपपद्यते । तस्मान्न व्यस्तेषु युगपद् भोगः । अस्ति तर्हि क्रमेण विरोधाद्वरगोष्ठीवदिति, नैतदेवं युक्तम् ; तत्र भोग्यस्यासाधारणत्वात् , असाधारणत्वञ्च प्रतिपुरुषनियमात् , इह पुनर्विपरीतम् ; बहूनां सन्निधौ साधारणे च भोग्ये प्रतिनियतभोगव्यवस्थाहेत्वसम्भवात् । अस्तु तर्हि समूहस्य ; तिलज्वालावच्चेतनासमन्वयोपपत्तेः, मा भूत् प्रत्येकं युगपत् क्रमेण वा, नैतदेवम् ; भोगेषु समूहासम्भवात् । कथमसम्भवः ? भोक्तुर्भोगं प्रति प्राधान्यात् । ननु भोगेऽपि समूहो दृष्टः, यथा स्त्रीपुंसयोः, नैतत् सारम् ; सन्दिग्धत्वात् , समूहस्य ? उत तद्व्यतिरिक्तस्येति । तिलज्वालायान्तु विपरीतम् ; समूहकार्ये समूहिनां गुणभावोपपत्तेः । अस्त्वेकस्य तर्हि नियतो भोगः, न ; तत्रापि कस्यैकस्येत्यनवधारणात् । किमवधारणेन ? विनाऽपि तेन विवक्षितार्थोपपत्तेः ? यद्येवं, समेषु केषाञ्चिद्गुणभावानुपपत्तेरयुक्तः कार्यात्मकेषु । एवं कारणात्मकेष्वपि समानश्चर्चः ; भूतस्वाभाव्याविशेषात् । तथोभयात्मके समूहे । तस्माद् देहादिव्यतिरिक्तमहंप्रत्ययविषयं मन्यन्ते ॥
भोक्तैव केवलं न कर्तेत्येक इति ॥
पूर्वोक्तस्यैव देहादिव्यतिरिक्तस्य कर्तृत्वमतत्स्वभावं मन्वाना भोक्तैव केवलोऽहंप्रत्ययविषय इत्येके प्रस्थिताः । करोमि, जानामि, भुञ्जे चेति न सर्वदाऽहंप्रत्ययेनानुषङ्गः, तेन नायं तद्विषयः । यदि स्यात् , न तदुल्लेखविकल उदियात् । ननु भोक्तापि तर्हि नासौ ; तदुल्लेखाभावात् , नैतदेवम् ; अहमिति चेतनत्वसमुल्लेखात् , तदर्थत्वात्सर्वस्य, तदात्मकमेव भोक्तृत्वम् , इति भोक्तैव केवलमिति युक्तं मन्यन्ते ।
अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचिदिति ॥
तस्मादपि देहादिव्यतिरिक्तादहंप्रत्ययविषयादन्यः सर्वस्येशिता, ततश्चेशितव्यस्य सर्वात्मना वेत्ता, नियमनशक्तिसम्पन्नश्च शरीरिणां मनसाप्यचिन्त्यरूपात् तनुभुवनविरचनकार्यात् प्रेक्षावत्कर्तृकत्वमन्तरेणासम्भाव्यमानात् , कुलालादिरिव घटादिकार्यात्प्रतिपन्नः सातिशयानां काष्ठाप्राप्तिः परिणामानामुपलब्धा । सातिशयञ्च ज्ञानम् , अतः क्वचित् काष्ठां प्राप्तं सर्वविषयमिति सर्ववित् , सर्वदा सिद्धः, ईश्वरः प्रतिपन्नो ब्रह्मशब्दार्थ इति केचित् प्रतिपेदिरे । ननु ‘अहमिति सर्वो लोक आत्मानं प्रत्येति । आत्मा च ब्रह्मे’त्यहंप्रत्ययविषयस्यात्मनो ब्रह्मत्वेन तद्विप्रतिपत्तौ ब्रह्मविप्रतिपत्तिं दर्शयितुं प्रक्रान्तं, तत् कथमनहंप्रत्ययविषयेऽनात्मनीश्वरे ब्रह्मत्वविप्रतिपत्तिः प्रदर्श्यते ? उच्यते — ब्रह्मणि विप्रतिपत्तिप्रदर्शनस्य प्रक्रान्तत्वादहंप्रत्ययविषयविप्रतपत्त्यापि प्रणाड्या ब्रह्मविप्रतिपत्तिरेव निर्दिश्यते । यतो नाहंविषयविप्रतिपत्तिप्रदर्शनेन किञ्चित् कृत्यमस्ति । तस्मात् साध्वेतत् ॥
आत्मा स भोक्तुरित्यपर इति ॥
योऽयमहमित्युल्लिख्यमानश्चेतनो भोक्ता, स ब्रह्मेति कैश्चित्प्रतिपन्नः, तस्याहंप्रत्ययसिद्धो भोक्तृत्वावभासः । स मिथ्यैवानिर्वचनीयानाद्यविद्याविलसितः । परमार्थतस्तु यः सर्वज्ञ ईश्वरोऽहंप्रत्ययेऽनन्तर्भूतः प्रमाणान्तरानवसितः, सोऽस्यात्मा स्वरूपम् । एवमसौ बृंहत्यर्थान्वयाद् ब्रह्मशब्दाभिधानीयतां लभते ; इतरथा तद्रूपविकलस्य न निरङ्कुशं बृहत्त्वम् , इति न ब्रह्मशब्दाभिधेयः स्यात् ।
एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः इत्युपसंहरति ।
एवम् उक्तेन प्रकारेण केचित् किञ्चिद् ब्रह्मेति प्रतिपन्नाः । किमेवमेव मनोरथमात्रेण ? नेत्याह —
युक्तिं
प्रमाणानां स्वविषयनिश्चयेऽनुग्राहिकां तर्कशब्दपर्यायां,
वाक्यञ्च
प्रतिवेदान्तं यथावद् ब्रह्मस्वरूपप्रतिपादनपरमालोचयन्तः । ‘आत्मा स भोक्तुरि’ति युक्तिवाक्याभ्यामन्त्यं पक्षं निश्चितवन्तः सम्यग्दर्शिनः । इतरे तु — युक्तय इवावभासन्त इति युक्त्याभासाः, न परमार्थतो युक्तयः, ताः समाश्रित्य, वाक्यानीवावभासन्ते, न तानि वाक्यानि ; अतत्परत्वात् ; तानि वाक्याभासानि परिगृह्य, पक्षान्तरेषु विप्रतिपन्नाः । युक्त्याभासत्वं लेशतो दर्शितमेव देहादिव्यतिरिक्तात्मपक्षं दर्शयद्भिः । इतरेषां युक्त्याभाससिद्धत्वं स्वावसरे दर्शयिष्यामः । दर्शितं च लेशत उत्तरोत्तरपक्षग्रहणकारणप्रदर्शनेन, वाक्याभासतां तु तत्र तत्राधिकरणे सिद्धान्तयिष्यन्तः प्रदर्शयिष्यामः ।
तत्राविचार्य यत् किञ्चित् प्रतिपद्यमानो निःश्रेयसात् प्रतिहन्येतानर्थञ्चेयादिति ॥
तत्रैवं स्थिते मुमुक्षुर्ब्रह्मज्ञानेन परं निःश्रेयसमाप्तुकामोऽविचार्य एतच्छास्त्रमश्रुत्वा प्रवर्तमानोऽन्त्यपक्षादर्वाचीनं कञ्चित् पक्षं परिगृह्णीयात् , तदा मोक्षस्य सम्यग् ज्ञानफलत्वात् , तस्य चातथाभावान्निःश्रेयसात् प्रतिहन्येत मोक्षफलं न प्राप्नुयात् । अनर्थञ्च प्रतिपद्येत ; ‘अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः’ इति श्रुतेः । अनात्मदर्शनेनात्मनोऽसत्कल्पत्वापादनमात्महननम् । एवंरूपस्यात्महननस्य कृतत्वात् , अन्यथाऽऽत्मनो हननासम्भवात् , प्राणत्यागस्य प्रकृतानुपयोगादिति ॥
तस्माद् ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयत इति ॥
ब्रह्मजिज्ञासोपन्यासव्याजेन जिज्ञासापदेनान्तर्णीतमीमांसावेदान्तवाक्यानामारभ्यते । अथवा ब्रह्मज्ञाने कर्तव्यतयोपदिष्टे तज्ज्ञानाय प्रवृत्तेभ्योऽर्थादेव तत्प्रतिपादनं प्रतिज्ञातम् , इति तदर्थं वेदान्तमीमांसाऽऽरभ्यते ।
किम्प्रयोजना ? किमुपकरणा चेति ? उच्यते —
तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना चेति ॥
तैः वेदान्तैः, अविरोधी तर्कः ; युक्तिः, उपकरणम् इतिकर्तव्यता, सहकारिकारणमिति यावत् । अथवा तर्कः अनुमानं, वेदान्तैरविरुद्धम् ; तदर्थप्रतीतेरेव दृढत्वहेतुतयोपकरणमस्या इत्यर्थः ॥ १ ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां विषय - प्रयोजनाक्षेपपरिहारवर्णनं नाम तुरीयवर्णकं समाप्तम् ॥
अथ पञ्चमं वर्णकम्
‘ब्रह्म जिज्ञासितव्यमि’त्युक्तमिति
ब्रह्मज्ञानकामेनेदं शास्त्रं श्रोतव्यमित्युक्तमित्यर्थः ।
यदैवेदमित्युक्तं तदैव ब्रह्मणो लक्षणं प्रमाणं युक्तिः साधनं प्रयोजनमिति सर्वं व्याख्येयत्वेन प्रतिज्ञातम् । तत्र स्वरूपस्याभ्यर्हितत्वात् तत् प्रथमं वक्तव्यम् ।
किं लक्षणं पुनस्तद् ब्रह्मेति ?
अत आह भगवान् सूत्रकारः —
जन्माद्यस्य यत इति ॥
युक्तिरपि लक्षणनिर्णयेऽर्थात् सूत्रितैव ।
जन्म उत्पत्तिः आदिरस्येति तद्गुणसंविज्ञानो बहुव्रीहिरिति
पदच्छेदः पदार्थः पदविग्रह इत्येतत् त्रितयमपि व्याख्यानाङ्गं सम्पादयति । तद्गुणसंविज्ञाने प्रयोजनमाह —
जन्मस्थितिभङ्गं समासार्थ इति ॥
तृतीयलिङ्गनिर्देशात् संहतिप्रधानं समासार्थः ।
ननु आदिः पूर्वकालकोटिमतो भवति, तदभावे प्रपञ्चस्य को नामाऽऽदिः ? इत्याशङ्क्याह —
जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं चेति ॥
यदनेन सूत्रेण लक्षितं ब्रह्म, तत्स्वरूपकथनपरं वाक्यम् । तत्रादौ जन्म निर्दिष्टमिति तस्यादित्वम् । वस्तुस्वभावापेक्षमपि । न हि वस्तु प्रलीय तिष्ठति । स्थित्वा वा जायते । नापि जनित्वैव प्रलीयते ; क्षणिकत्वनिराकरणात् । अतो जनित्वा स्थित्वा प्रलीयते । एवमनादिरयं प्रपञ्चः ।
‘अस्य’ इति भाष्येण पदभागस्येदमः प्रकृतिमात्रस्यार्थनिर्देशः । तथाहि सर्वत्र सर्वनामप्रक्रमादिकारणान्तरबलेन कतिपयाभिधेयपरं, तदभावे स्वमहिम्ना प्रमाणविषयमात्राभिधायकं, तेनाह —
प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देश इति ॥
षष्ठी जन्मादिधर्मसम्बन्धार्थेति ।
सर्व एवेह सम्बन्धः सम्भवति, न तद्विशेष आदरणीय इति कथयति । यत इति कारणनिर्देश इति प्रकृतित्वनिबन्धना हि पञ्चमी, नान्यनिबन्धनेति दर्शयति ॥
अस्य जगतः
इत्यादिना भाष्येण लक्ष्यस्य ब्रह्मणः स्वरूपलक्षणं कथयितुमुपक्रमते ।
द्विविधं हि लक्षणम् उपलक्षणं विशेषलक्षणं च । तत्रेदं लक्षणं प्रपञ्चधर्मत्वात् पृथग्भूतमेव कारणमुपलक्षयति न विशेषणत्वेन । अतः पृथक् स्वलक्षणकथनम् ।
नामरूपाभ्यां व्याकृतस्येति ॥
कार्यप्रपञ्चं केचित् स्वप्रक्रियानुसारेण विभजन्ति, तद्व्युदासाय प्रसिद्धार्थानुवादश्रुतिबलेन द्वैराश्यं कृत्वाऽऽह —
नामरूपाभ्यामिति ॥
इत्थम्भावे तृतीया ॥
व्याक्रियमाणं हि वस्त्वभिधेयरूपं स्वनामगर्भं विकल्पपूर्वमेव व्याक्रियत इति स्वसंवेद्यमेतत् ।
अनेककर्तृभोक्तृसंयुक्तस्येति ॥
कर्तृत्वभोक्तृत्वमपि नामरूपात्मकत्वात्प्रपञ्चानुयायीति दर्शयति —
प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्येति ॥
प्रतिकर्मफलोपभोगे नियतो देशः स्वर्गफलस्य मेरुपृष्ठं, ग्रामादिफलस्य भूमण्डलम् । कालोऽपि स्वर्गफलस्य देहपातादूर्ध्वं, पुत्रफलस्य बालभावात् । निमित्तमपि उत्तरायणादिमरणस्य ।
मनसाऽप्यचिन्त्यरचनारूपस्येति ॥
न ह्यर्वाग्दर्शी क्वचिद्बहिर्लोकसन्निवेशप्रकारमध्यात्मं च प्रतिनियतार्थक्रियासमर्थावयवशिराजालसन्निवेशं निरूपयितुमपि समर्थः, किं पुनर्विरचयितुम् ॥
जन्मस्थितिभङ्गं यतः सर्वज्ञात् सर्वशक्तेः कारणाद् भवति, तद् ब्रह्मेति वाक्यशेष इति
साकाङ्क्षस्य सूत्रवाक्यस्याकाङ्क्षितपदपूरणम् , उपलक्षितब्रह्मस्वरूपं लक्षणं च दर्शयति ॥
ननु अन्येऽपि परिणामादयो भावविकाराः सन्ति, ते किमिति न सङ्गृह्यन्ते ? इत्याशङ्क्याह —
अन्येषामपीति ॥
न क्वचिद्वस्तुनो ह्यवस्थाविशेषो विनाशरहितः, नाप्यनिर्वृत्तजन्मनोऽस्थित स्वभावस्य विनाशः । अतस्त्रिष्वेवान्तर्भावान्न पृथगुपन्यासस्तेषाम् ।
ननु षड् भावविकारा इति नैरुक्ताः । तेषां ग्रहणेऽन्तर्भावोक्तिप्रयासोऽपि परिहृतः स्यादित्याशङ्क्याह —
यास्कपरिपठितानां तु जायतेऽस्तीत्यादीनामिति ॥
पृथिव्यप्तेजःसु जगद्रचनारूपस्थितेषु तन्मयानामेव ते सम्भाव्यन्ते । ततस्तद्ग्रहणे तेषामेव ब्रह्मत्वेन लक्षितत्वाशङ्का स्यात् , न च तद्युक्तम् ; अतः सूत्रार्थवत्त्वाय श्रुतिनिर्दिष्टा एवोत्पत्त्यादयो गृह्यन्ते ; तदर्थनिर्णयार्थत्वात्सूत्राणाम् । अतो यदवष्टम्भो विश्वो विवर्तते प्रपञ्चः, तदेव मूलकारणं ब्रह्मेति सूत्रार्थः ॥
ननु श्रुतिनिर्दिष्टग्रहणे सूत्रमर्थशून्यं स्यात् ; न हीमां पृथिवीं जायमानां पश्यामः, नापो न तेजः, कथं सिद्धवल्लक्षणत्वोनोपादीयेतेति ? उच्यते, तेजसस्तावदरणिनिर्मथनादिषु दृश्यते जन्म, इन्धनापाये विनाशः । अपामपि चन्द्रकान्तादिषु जन्म, क्रमेण च शोषः । पृथिव्या अप्यवयवसंयोगविभागदर्शनात् तन्निमित्तौ जन्मविनाशावनुमीयेते । दृश्येत चाद्याऽप्यवयवसंयोगविभागकृतौ पृथिव्येकदेशस्य जन्मविनाशौ । वाय्वाकाशकालदिशामपि ‘यावद्विकारं तु विभागो लोकवदि’ति वक्ष्यमाणेन न्यायेन स्त एव जन्मविनाशौ ।
न यथोक्तविशेषणस्येत्यादिना
भाष्येण युक्तिरपि ब्रह्मस्वरूपनिर्णयायानेनैव सूत्रेण तन्त्रेणावृत्त्या वा जन्माद्यस्य यतः सम्भवतीति सूत्रितेति दर्शयति ।
अस्य जगतो नामरूपाभ्यां व्याकृतस्येत्याद्यभिहितविशेषणचतुष्टयस्य,
यथोक्तविशेषणमीश्वरं मुक्त्वेति
सर्वज्ञं सर्वशक्तिं विहाय
नान्यतः
परपरिकल्पितात्
प्रधानादेरचेतनात् ,
चेतनादपि परिच्छिन्नज्ञानक्रियाशक्तेः
संसारिणो
हिरण्यगर्भात्
उत्पत्त्यादि सम्भावयितुमपि शक्यम् ॥
अचेतनात्तावदचेतनत्वादेवानुपपन्नम् । चेतनादपि ; परिच्छिन्नज्ञानक्रियाशक्तित्वात् । अभावात् पुनर्नाचेतनत्वादेव केवलादनुपपत्तिः, अपि तु निरुपाख्यत्वादतीतकल्पसंस्काराभावात् , पूर्वकल्पैकरूपो वर्तमानोऽपि कल्प इति प्रमाणाभावात् , सर्व एव व्यवहारो यादृच्छिक इति न क्वचित् कश्चिन्नियमोऽभविष्यत् ।
न च स्वभावतः विशिष्टदेशकालनिमित्तोपादानादिति ॥
स्वभावो नामान्यानपेक्षः । तेनापेक्षैवानुपपन्ना, कुतो नियमसम्भवः ? अतो युक्त्याऽपि वस्त्वन्तरस्य कारणत्वसम्भावनानिराकरणेन पारिशेष्यात्पूर्वोक्तविशेषण ईश्वर एव कारणमिति सिद्धम् ॥
एतदेवानुमानमिति ॥
येयं युक्तिरभिहिता यथोक्तविशेषणमीश्वरं मुक्त्वा नान्यतो जगतो जन्मादि सम्भवतीति, एतदेव स्वतन्त्रमनुमानमीश्वरसिद्धौ सर्वज्ञत्वसर्वशक्तित्वसिद्धौ च तस्य प्रमाणम् , किं वेदवाक्यैः ? इतीश्वरकारणिनः कणादप्रभृतयो मन्यन्ते ।
जन्मादिसूत्रलक्षितान्यपि वाक्यानि ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्यादीनि परार्थानुमानवाक्यसमानि दृश्यन्त इति वदन्तः ।
नन्विहापि तदेवोपन्यस्तमिति ॥
यथा धूमविशेषस्यागरुसम्भवत्वं, तथा प्रपञ्चसन्निवेशविशेषस्य सर्वज्ञत्वादिगुणकारणकत्वमिति ।
न वेदान्तवाक्यकुसुमग्रथनार्थत्वात् सूत्राणामिति ॥
सत्यं तदेवोपन्यस्तमुपकरणत्वेन, न तत्र तात्पर्यं, तात्पर्यन्तु वेदवाक्यग्रथने ।
तदेव प्रपञ्चयति —
वेदान्तवाक्यानीति ॥
समन्वयसूत्रप्रमुखोपात्तैः शब्दशक्त्यनुसारिभिर्न्यायैर्वाक्यानां ब्रह्मणि तात्पर्याध्यवसाननिर्वृत्ता ब्रह्मावगतिः ।
नानुमानादिप्रमाणान्तरनिर्वृत्ता । सत्सु तु वेदान्तवाक्येषु तदविरोध्यनुमानमपि प्रमाणं भवन्न निवार्यते ; श्रुत्यैव सहायत्वेन तर्कस्याप्यभ्युपेतत्वात् ॥ तथा हि ‘श्रोतव्यो मन्तव्यः’ इति ।
श्रुत्या यथा श्रवणं ब्रह्मावगतिहेतुरनूद्यते, तथा मननस्यापि सिद्धवदनूद्यमानत्वात् । तथाऽपरा श्रुतिः ‘पण्डितो मेधावी’त्यादिः ‘आचार्यवान् पुरुषो वेदे’ति पुरुषबुद्धिसाहाय्यमात्मनो दर्शयति । यदाचार्येण श्रुत्यनुसारिणा स्फटिकादिनिदर्शनेन शिष्येभ्यः प्रत्ययदार्ढ्यापादनं, तदाचार्यवान् पुरुषो वेदेत्यनूद्यते ।
न धर्मजिज्ञासायामिवेत्यादिना
युक्तिसाहाय्यापेक्षणे कारणमाह ।
श्रुत्यादय इति ॥
श्रुतिः पदान्तरनिरपेक्षः शब्दः । आदिशब्देन लिङ्गवाक्यादयः शब्दप्रकारा गृह्यन्ते ।
न त एव ब्रह्मणि प्रमाणं, किन्त्वनुभवादयोऽपि । तत्र हेतुमाह —
अनुभवावसानत्वाद् भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्येति ॥
सिद्धे वस्तुनि सम्भवत्यनुभवः, तदवसाना आकाङ्क्षा निवृत्तिर्यतः ।
ननु धर्मजिज्ञासायां विनाऽप्यनुभवेन शब्दशक्त्यनुसरणमात्रेणैव निराकाङ्क्षं फलपर्यन्तं ज्ञानं भवति, न तर्कगन्धमप्यपेक्षते, तथेहापि स्यात् ; प्रमाणत्वाविशेषाद्वेदान्तवाक्यानाम् , इत्याशङ्क्य विशेषमाह —
कर्तव्ये हि विषय इत्यादिना ब्रह्मज्ञानमपि वस्तुतन्त्रमेव भूतवस्तुविषयत्वादित्यन्तेन भाष्येण ॥
कथम् ? कर्तव्यं हि कर्तव्यत्वादेवासिद्धस्वभावं नानुभवितुं शक्यमिति न तदाकाङ्क्षा, इह तु सिद्धस्य साक्षाद्रूपेण विपर्यासगृहीतस्य सम्यग्ज्ञानेन साक्षात्करणमन्तरेण न मिथ्याज्ञानोदयनिवृत्तिः ; द्विचन्द्रादिषु तथा दर्शनात् । न हि कर्तव्यसिद्धार्थनिष्ठयोः प्रमाणत्वसाम्यादवबोधनप्रकारेऽपि साम्यम् । यदि स्यात् , पुरुषेच्छावशनिष्पाद्यमपि स्यात् । ततो विधिप्रतिषेधविकल्पसमुच्चयोत्सर्गापवादबाधाभ्युच्चयव्यवस्थितविकल्पादयोऽपि प्रसज्येरन् । न वस्तुनि युक्तमेतत् ; निःस्वभावत्वप्रसङ्गात् । तथा चैकस्मिन् वस्तुनि स्थाणुः पुरुषो वेति विकल्पः, न वैकल्पिकद्रव्यत्यागवद् सम्यग्ज्ञानं भवति स्थाणुरेवेति निश्चितैकार्थता परमार्थे । यतो वस्तुस्वभावपरतन्त्रं सिद्धवस्तुज्ञानं, न ज्ञानपरतन्त्रं वस्तु । यदि स्यात् , शुक्तिरजतमपि तथा स्यात् । कर्तव्यज्ञानं पुनर्वैपरीत्येऽपि सम्यगेव ; ‘योषा वाव गौतम अग्निरि’त्यादिषु दर्शनात् ।
तत्रेवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव भूतवस्तुविषयत्वात् ।
अतो युक्तो युक्तेरनुप्रवेशः, अनुभवापेक्षा च नेतरत्र ॥
अपरः परिचोदयति —
ननु भूतवस्तुविषयत्व इत्यादिना ॥
अयमभिप्रायः — भूतत्वात् युक्तेरपि चेदनुप्रवेशः, तथा सति किं वेदवाक्यैर्विचारितैः ? यथाहुरीश्वरकारणिनः, तथा भवतु पूर्वसूत्रेण प्रतिज्ञानिर्देशोऽनेन च हेत्वभिधानमिति ।
उत्तरमाह —
नेन्द्रियादिविषयत्वेन सम्बन्धग्रहणादित्यादिना ॥
इन्द्रियाणि प्रपञ्चमात्रं गृह्णन्ति, न तत्कारणम् । यदि तद्ग्रहणमपि स्यात् , नानुमानोपन्यासेन कृत्यमस्ति । सामान्यतोदृष्टमपि न प्रमाणमतीन्द्रिये ब्रह्मणि,
अत उपसंहरति —
तस्माज्जन्मादिसूत्रं नानुमानोपन्यासार्थं, किं तर्हि ? वेदान्तवाक्यप्रदर्शनार्थमिति ॥
युक्तिमपि तदुपकरणां तदर्थानुभवप्रयोजनां सूचयतीत्युक्तम् ॥
नन्वेवं सति कथं युक्तिरब्रह्मविषया सती तद्विषयाणां वाक्यानामुपकरणं भवति ? उच्यते, ब्रह्मपरेषु मृदादिदृष्टान्तेर्युक्तस्य उपन्यस्यन्ते । ताश्च विधिप्रतिषेधवाक्ययोः प्रवर्तकत्वनिवर्तकत्वाकाङ्क्षितस्तुतिनिन्दार्थवादवत् स्वरूपवाक्यस्य फलपर्यन्तापेक्षितसम्भावनार्थवादतां प्रतिपद्यमानास्तत्र श्रुतिसाहाय्ये वर्तन्त इत्युच्यते ।
किम्पुनस्तद् वेदवाक्यं यत् सूत्रेणेह लिलक्षयिषितमिति ॥
सर्वत्र वेदान्तवाक्ये ब्रह्मपदस्याप्रसिद्धत्वान्न स्वार्थं विशेष्यत्वेन विशेषणत्वेन वा वाक्यार्थे समर्पयितुमलमित्याक्षिपति । येषां वेदान्तवाक्यानां येन सन्निवेशक्रमेण ब्रह्मप्रतिपादने समन्वयः स्वाध्यायपदे स्थितः, तल्लक्षणार्थं सूत्रद्वयमिति ।
तथैवोदाहणमाह —
भृगुर्वै वारुणिरिति ।
अथशब्दोपात्तन्यायेन प्रथमसूत्रस्योदाहरणं — ‘यतो वा इमानि भूतानी’ति जन्मादिसूत्रस्य । कथम् ? पूर्वोक्तेन न्यायेन पृथिव्यादीनां जन्मादिदर्शनात् तत्कारण एकत्वनानात्वयोरन्यतरावगमे प्रमाणाभावाद् बुद्धिमत्कारणपूर्वतामात्रे प्रतिपन्ने ‘यतो वा इमानी’ति कारणस्यैकवचननिर्देशात्तदर्थमात्रस्यैव विधित्सितत्वादर्थात्सर्वज्ञं सर्वशक्तिजगत्कारणमिति कारणविशेषो वाक्यादवगम्यते । पुनस्तद्विजिज्ञासस्वेत्यनूद्य तद् ब्रह्मेति तत्र ब्रह्मशब्दप्रयोगाद् बृहत्यर्थान्वयेन सर्वतोऽनवच्छिन्नस्वभावं जगत्कारणं ब्रह्मपदार्थ इति गम्यते । तस्य च निर्णयवाक्यमानन्दाद्ध्येव खल्विति ॥
प्रसिद्धावद्योतकेन हिशब्देन संयुक्तमानन्दावद्योतकमुपपद्यते । अनानन्दात्मके हि जगत्कारणे ब्रह्मशब्दप्रयोगो न युज्यते । न हि तस्योपेक्षणीये विषये स्वार्थप्रक्षेपेण वृत्तिः समञ्जसा । तस्माद् ब्रह्मपरे वाक्ये जन्मादिधर्मजातस्योपलक्षणत्वाद् ब्रह्मसंस्पर्शाभावात् सर्वज्ञं सर्वशक्तिसमन्वितं परमानन्दं ब्रह्मेति जन्मादिसूत्रेण ब्रह्मस्वरूपं लक्षितमिति सिद्धम् ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां जन्माद्यधिकरणं नाम पञ्चमवर्णकं समाप्तम् ॥
अथ षष्ठं वर्णकम्
शास्त्रयोनित्वात् ॥
अयमपरः प्रपञ्चकारणस्य ब्रह्मणः सर्वज्ञत्वे हेतुः । अनेकनानाविधविषयविद्यास्थानोपबृंहितस्य वेदाख्यस्यापि शास्त्रस्य प्रपञ्चान्तःपातित्वात् तत एव जन्म । न च तेनाविषयीकृतस्य सद्भावे प्रमाणमस्ति । अतः सर्वविषयत्वात्सर्वज्ञं तत् । कल्पप्रत्ययप्रयोगो भाष्ये बोद्धृत्वाभावादीषदपरिसमाप्त्या । ततश्च कारणं तद्विषयादप्यधिकतरग्रहणसमर्थं गम्यते । दृश्यते ह्यद्यापि शास्त्रकाराणां तथाभावः । ननु एवं सति बुद्धिपूर्वत्वात्सापेक्षं स्यात् । न स्यात् ; ब्रह्मवदनादित्वात् । कूटस्थनित्यत्वाच्च ॥ कथं पुनस्ततो जन्म ? तत्परतन्त्रत्वात् , रज्जुसर्पवत् । तथा च श्रुतिः ‘निःश्वसितमेतदि’ति । यथाऽपेक्षारहितैव लोके निःश्वासप्रवृत्तिः, तथाऽस्यापीति न सापेक्षतादोषः ॥ ननु एवं सति कथं सर्वज्ञता ? तस्यैव ज्ञानशक्तिविवर्तात्मकत्वाद् नामप्रपञ्चस्य । रूपप्रपञ्चस्यापि तदाश्रित्य विवर्तनात् तज्जन्मता ; नासतः प्रादुर्भावात् ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां ब्रह्मणः सर्वज्ञत्वनिरूपणं नाम षष्ठं वर्णकं समाप्तम् ॥
अथ सप्तमं वर्णकम्
अथ वा यथोक्तमृग्वेदादीत्यादिना
सूत्रस्य प्रमाणप्रतिज्ञामर्थान्तरमाह - अपेक्षितत्वात् ॥ कथं पुनरेकस्य सूत्रस्यार्थद्वयम् ? सूत्रत्वादेव । तथा च पौराणिकाः — ‘अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः’ ॥ इति ॥ विश्वतोमुखमिति नानार्थतामाह - अतोऽलङ्कार एव सूत्राणां यदनेकार्थता नाम ॥ ननु पूर्वसूत्रे शास्त्रमुदाहरता ब्रह्मावगमे शास्त्रं प्रमाणं प्रतिज्ञातमेव । सत्यमेतत्सूत्रबलेन तदुदाहृतम् ; अन्यथा सूत्रे शास्त्रोपादानाभावादनुमानाशङ्कायां ‘यतः सर्वज्ञात्सर्वशक्तेः कारणाज्जगतो जन्मादि भवति, तद् ब्रह्मेति वाक्यशेषः’ इत्यस्योपस्कारस्याप्रमाणत्वप्रसङ्गः । प्रतिप्रपञ्चं पृथक्कारणजन्मताया अपि सम्भवात् सर्वज्ञत्वसर्वशक्तित्वासिद्धेः, लोके च जगत्कारणे ब्रह्मशब्दप्रयोगादर्शनात् । अतो ‘जन्माद्यस्य यतः’ ‘शास्त्रप्रमाणकमि’त्येतावदिदं सूत्रं सदसन्दिग्धमनुमानशङ्कानिवृत्तेः पृथक्करणं प्रपञ्चान्तःपातिनः शास्त्रस्यापि हेतुत्वेन सर्वज्ञत्वं सुसम्पादमिति व्याख्यानान्तरेण कथयितुम् ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां ब्रह्मणः शास्त्रप्रमाणकत्वं नाम सप्तमं वर्णकं समाप्तम् ॥
अथाष्टमं वर्णकम्
कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते ? यावताऽऽम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामिति क्रियापरत्वं शास्त्रस्य प्रदर्शितम् । अतो वेदान्तानामानर्थक्यमक्रियार्थत्वात् ॥
यद्यपि प्रदर्शितानि वाक्यानि सर्वज्ञत्वादिगुणकं ब्रह्म जगत्कारणं प्रतिपादयन्ति ; तथाऽपि तत्र परिनिष्ठिते वस्तुनि प्रत्यक्षादीनामपि प्रवृत्तिसम्भवात् तैरसंवादे न प्रामाण्यं प्रतिलभन्ते ॥
ननु अपौरुषेयत्वात् तज्जन्यं स्वार्थपरिच्छेदेऽनपेक्षं कथमप्रमाणम् ? सत्यम् ; तथाऽपि यथा चाक्षुषं स्पर्शनगोचरचित्रनिम्नोन्नतज्ञानं तेनासंवादादप्रमाणं, तथेहापि स्यात् । किं च पुरुषार्थशून्यत्वादप्यप्रामाण्यम् । पुरुषार्थो हि नाम सुखावाप्तिर्दुःखपरिहारश्च । तौ च सिद्धत्वाद् हानोपादानविषयौ न सिद्धवस्तुन्यक्रियाशेषे सम्भवतः । ततो
न क्वचिद् वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टोपपन्ना वा ॥
किं च प्रत्यक्षाद्यविषये न शब्दमात्रस्य प्रामाण्यम् । शास्त्रस्यैष स्वभावो यदनवगतार्थावबोधकत्वम् । शब्दमात्रस्य पुनः प्रमाणान्तरगृहीतार्थप्रकाशन एव सामर्थ्यं दृष्टं, नानवगतार्थप्रकाशने । तस्मादनर्थका वेदान्ताः ; न तेषां ब्रह्मणि प्रामाण्यमिति । अत एव ‘वेदोषरा वेदान्ताः’ इति केषाञ्चिदुद्गारः ॥ यत्पुनर्भाष्यकारेण कर्तृदेवतास्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानां प्रकरणान्तरभयादनभ्युपगम्य स्ववाक्यगतोपासनाकर्मपरत्वमुक्तं, तदयुक्तम् ; उपासनाविधिशेषत्वेऽपि संवादाभावाद् जगत्कारणे न सर्वज्ञत्वादिसिद्धिः । सत्यम् ; अनुमानतोऽनिर्दिष्टविशेषे तस्मिन्नवगते समारोपितैर्धर्मैरुपासनानियोगः सेत्स्यति । एवं चाध्ययनविधिग्राहितानां वेदान्तानामेकान्ततो नानर्थक्यं भविष्यतीत्यभिप्रायः । फलं च तत्र कल्प्यमार्थवादिकम् ।
तत्तु समन्वयात्
तत् ब्रह्म सर्वज्ञत्वादिगुणकं वेदान्तशास्त्रात्प्रतीयत इति प्रतिजानीते ।
हेतुं चाचष्टे —
समन्वयादिति ।
तत्र तात्पर्येण वेदान्तवाक्यानां समन्वयादित्यर्थः ॥ सम्यगन्वयः समन्वयः । अथ केयं सम्यक्ताऽन्वयस्य ? पदानां परस्परानवच्छिन्नार्थानामनन्याकाङ्क्षाणामव्यतिरिक्तैकरसप्रातिपदिकार्थमात्रान्वयः ; ‘सोऽयमि’त्यादि वाक्यस्थपदानामिव । प्रकृष्टप्रकाशशब्दयोरिव चन्द्रपदाभिधेयार्थकथनेन । तथा च व्यक्तिविशेषः, कश्चिच्चन्द्रप्रातिपदिकाभिधेयः केनचित् पृष्टः ‘अस्मिन् ज्योतिर्मण्डले कश्चन्द्रो नाम ? ’ इति तस्य प्रतिवचनं ‘प्रकृष्टप्रकाशश्चन्द्रः’ इति । तदेवं प्रतिवचनं भवति यदि यथा चन्द्रपदेनोक्तं, तथाऽऽभ्यामपि पदाभ्यामुच्येत । एवं च सति नीलोत्पलवदयुतसिद्धपरस्परावच्छिन्नविशेषणविशेष्यभावेनाप्यन्वयो दुर्लभः ।
कुतः पृथक्सिद्धः क्रियाकारकलक्षणः सम्बन्धः ? तथाविधान्युदाहरति —
सदेव सोम्येदमग्र इत्यादीनि ॥
ननु जन्मादिसूत्रोदाहरणेष्वेव प्रामाण्यं दर्शनीयं, किमुदाहरणान्तरेण ? बाढम् ; अस्त्यत्राभिप्रायो भाष्यकारस्य । तत्र ब्रह्मणो लक्षणं वक्तव्यमिति तटस्थस्यैव ब्रह्मणो निरूपकाणि वाक्यान्युदाहृतानि, इह तु ‘तत्त्वमसी’ति जीवस्य ब्रह्मात्मतावगतिपर्यन्तानि वेदान्तवाक्यानि न तटस्थमेव जगत्कारणं प्रतिपाद्य पर्यवस्यन्ति, इत्यतस्तथाभूतान्येव वाक्यान्युदाहृतानि — ‘सदेव सोम्येदमग्र आसीदि’त्येवमादीनि । यत्पुनः सिद्धे वस्तुनि प्रत्यक्षादिसम्भवात् तदभावे मिथ्यात्वाशङ्कायामप्रामाण्यमिति, तत् रूपाद्यभावाद् नेन्द्रियगोचर इति प्रत्युक्तम् ॥
ननु इन्द्रियागोचरत्वादेव प्रत्यक्षाद्यविषयत्वान्न शब्दमात्रस्य तत्र प्रामाण्यमित्युक्तम् , उच्यते ; यद्यपि शब्दमात्रस्य प्रत्यक्षादिविषय एव प्रयोगो दृष्टः, व्युत्पत्ता तु कथं व्युत्पद्यते ? इति वाच्यम् । श्रोतृव्यवहारो हि मूलं बालानां व्युत्पत्तेः । स च श्रोतुर्ज्ञानान्तरानिमित्ततापरिशुद्धः शब्दसामर्थ्यावगमहेतुः । अतो न प्रतिपत्तुर्ज्ञानान्तरासिद्धार्थावबोधकत्वं सामर्थ्यावगमकालेऽवगतम् । तेनानवगम्यैव तद्विषयं ज्ञानं सामर्थ्यावगमः, यथाऽवगमं च विज्ञानोत्पत्तिः । यदा पुनर्व्युत्पन्नः स स्वयं प्रयुयुक्षते परप्रतिपत्तये, तदा ज्ञानान्तरसन्निधापितं स्वसाक्षिकं विवक्षन् सामर्थ्यावगमकालेऽपि तयोः सत्तां प्रतिपद्यते केवलं, न ज्ञानोत्पत्तौ तयोरुपयोगम् । तस्मान्न शब्दस्य प्रमाणान्तरगृहीतार्थप्रकाशने सामर्थ्यं व्युत्पत्तिकालेऽवगतं, किन्तु चक्षुरादिवदन्यनिरपेक्षो यथावगतसामर्थ्यश्च शब्दो विज्ञानं जनयति । तस्मान्न प्रमेयस्य प्रत्यक्षादिविषयत्वं शब्दस्य विज्ञानजनन उपयुज्यते । अपि चापौरुषेये शब्दे चक्षुषीव विज्ञानोत्पत्तावनपेक्षे कथमप्रामाण्यमाशङ्क्येत ? ननु उक्तमाशङ्काकारणं स्पर्शनगोचरचित्रनिम्नोन्नतविषयस्य चाक्षुषस्य प्रत्ययस्य तत्संवादाभावादप्रमाणत्वं, न तत्साधूक्तम् ; अदुष्टकरणत्वादस्य, तस्य च तदभावात् । तथाहि शब्दस्तावदपौरुषेयत्वाददुष्टः । प्रमेयस्य पुनर्ज्ञानहेतुत्वे न प्रमाणमस्ति ; शब्दस्यैव तदेकनिष्ठत्वेन तन्नियमात् , चित्रस्य तु चाक्षुषज्ञाने सामग्र्यन्तःपातिनः श्यामादिरेखासन्निवेशविशेषो दोषः ; तदभावे तिमिराभाव इव सम्यग्दर्शनोत्पत्तेः । अतः प्रवर्तमानमपि प्रमाणं संवादकमेव, इति नाप्रामाण्यमावहति । न च संवादलक्षणं प्रामाण्यम् , अपि तु बोधलक्षणमिति प्रमाणविदां स्थितिः । अतो यथैव विधिवाक्यानां स्वार्थमात्रे प्रामाण्यम् , एवं स्वरूपवाक्यानामपि ; अनवगतार्थपरिच्छेदसामान्यात् ॥
ननु विधिवाक्यानामेव प्रामाण्यं युक्तम् ; क्रियार्थत्वादाम्नायस्य, न ; इतरेतराश्रयत्वात् । विधिवाक्यानामेव हि प्रामाण्ये सिद्धे क्रियार्थत्वमाम्नायस्य सिद्ध्येत् , क्रियार्थत्वे च सिद्धे तेषामेव प्रामाण्यमितीतरेतराश्रयत्वं स्यात् , न ह्येकमप्यन्यतः सिद्धम् ; अतो यदवगमयत्याम्नायस्तदर्थः सः । तस्माद् यथाकार्यमवगमयन्स्तदर्थः, एवमैकात्म्यमप्यवगमयंस्तदर्थो भवितुमर्हति । प्रतीतिकृतत्वात्प्रामाण्यस्य, प्रतीतिस्तु कार्यैकात्म्ययोस्तुल्या । प्रत्यक्षादिष्वप्येतदेव प्रमाणवृत्तं, यदनवगतमवगम्यते ॥
आह — युक्तं प्रत्यक्षादीनां तावत् प्रामाण्यम् ; अपेक्षान्तराभावात् , आम्नायस्य त्वध्ययनविधिनोपादापितस्य न पुनः पुरुषार्थमप्राप्य पर्यवसानं लभ्यते ; विधानानर्थक्यप्रसङ्गात् । तस्मादैकात्म्यवाक्यानां स्वार्थमात्रनिष्ठता न युक्ता ; उच्यते, पुरुषो ह्येतावदपेक्षते, इष्टं मे स्यादनिष्टं मे मा भूदिति, न त्वित्थमन्यथा वेति । न चास्य स्वयमीष्टे । द्विविधं चेष्टं प्रेप्सति, किञ्चित्प्राप्यम् ; यथा ग्रामादि । किञ्चित्प्राप्तमपि ; यथा भ्रान्त्या हस्तगतमेव विस्मृतसुवर्णादि । अनिष्टमपि द्विविधं परिजिहीर्षति किञ्चित् परिहार्यं — यथागर्तादि किञ्चित्परिहृतमपि ; भ्रान्त्या यथा रज्ज्वादि सर्पादिबुद्धिगृहीतम् । तत्र प्राप्यपरिहार्ययोः साधनज्ञानायत्तत्वात्पुरुषार्थस्य विधिप्रतिषेधावर्थवन्तौ । इतरयोस्तावद् भ्रान्तिमात्रव्यवहितत्वान्न तदपनयादन्यत् पुरुषार्थत्वेनापेक्षते । तदपनयश्च तत्त्वज्ञानाद् भवति नान्यथा । एवमपि लभ्यमानं पुरुषार्थमनुमन्यत एव पुरुषः, सुतरां चाभिनन्दति । सधनायत्तो ह्यायासाल्लभ्येत, ज्ञानायत्ते त्वायासोऽपि परिह्रियते । तेनानेकानर्थकलुषितमिवात्मानं मन्यमानस्य भ्रान्तस्य सर्वानर्थशून्यात्मतत्त्वप्रतिपादनादेव पुरुषार्थसिद्धेरैकात्म्यवाक्यानां स्वार्थमात्रनिष्ठत्वेऽपि न विध्यानर्थक्यप्रसङ्गः । तस्मात् सिद्धं ब्रह्मणः शास्त्रप्रमाणत्वम् ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां वेदान्तानां ब्रह्मणि समन्वयनिरूपणं नामाष्टमं वर्णकं समाप्तम् ॥
अथ नवमं वर्णकम्
अत्रापरे प्रत्यवतिष्ठन्ते —
यद्यपि शास्त्रेण प्रमीयते ब्रह्म ; तथाऽपि विधिसंस्पर्शिना, न तद्रहितेन । कस्मादेवम् ? अन्यथा शब्दप्रयोगानुपपत्तेः । पुरुषेच्छासमुत्थापितो हि शब्दप्रयोगः । सा चेष्टानिष्टप्राप्तिपरिहारविषया । न च पारम्पर्येणापि सुखदुःखे विहायेष्टानिष्टे सम्भवतः । न च विस्मृतसुवर्णारोपितसर्परशनाप्रतिपत्ताविव तदनन्तरं शास्त्रादपि ब्रह्मात्मप्रतिपत्तौ सुखावाप्तिर्दुःखपरिहारश्च दृश्यते ; पूर्ववत् संसारित्वोपलब्धेः, प्रतीत्युत्तरकालं च ध्यानोपदेशात् । तस्मात् सन्तु नाम लोके विधिरहितान्यपि पुरुषार्थपर्यन्तानि वाक्यानि, वेदे तु न तद्रहितानां तत्पर्यन्तता । तस्माद् यद्यपि जिज्ञास्यवैलक्षण्यं धर्मब्रह्मजिज्ञासयोः सिद्धसाध्यविषयत्वेन ; तथाऽपि ‘सोऽन्वेष्टव्यः’ (छा. उ. ८-७-१) ‘स विजिज्ञासितव्यः’ (छा. उ. ८-७-१) इत्यादि विधिषु कोऽसावात्मेत्याकाङ्क्षायां सर्व एव ब्रह्मस्वरूपपरः पदसमन्वयस्तत्समर्पकत्वेनोपयुक्तः, न स्वतन्त्रमेव ब्रह्म प्रतिपादयितुमलम् । अतो विधीयमानज्ञानकर्मकारकत्वेनैव ब्रह्म प्रतिपाद्यत इति ॥ यः पुनः ‘तस्मात् प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमि’ति भाष्ये पूर्वपक्षोपसंहारः, तत्र प्रतिपत्तिशब्दः सर्व एव मनोव्यापारः प्रमाणात्मक इतरो वा ब्रह्मसंस्पर्शित्वेन विधेयः कैश्चित् कथञ्चित् कल्पितः, तस्य सर्वस्य सङ्ग्रहार्थो द्रष्टव्यः ॥
अत्रोच्यते, किमिदं ज्ञानं ब्रह्मकर्मकं विधीयते ? न तावच्छब्दजन्यम् । स्वाध्यायपाठादेव तत्सिद्धेः, अथ शब्दजन्यस्यैव ज्ञानस्याभ्यासो विधीयत इति, न तस्य प्रयोजनं पश्यामः ॥ ननु इष्टविषयस्य ज्ञानसन्तानस्य सुखसन्तानहेतुत्वं दृश्यते, यद्येवं तद्वदेव विध्यानर्थक्यम् । अथ पुनः साक्षात्करणाय ज्ञानसन्तानविधिरुच्यते, नैतद्युक्तम् ; न हि दृष्टाधिकारो विधिरसम्भावितदृष्टफलो भवति । न हि लैङ्गिकोऽर्थो लिङ्गजन्मनैव ज्ञानेन सहस्रशोऽप्यभ्यस्यमानेन साक्षात्क्रियते । मा भूत् शाब्दज्ञानादेवाभ्यस्यमानात्साक्षाद्भावः, तज्जन्मनो ज्ञानान्तराद्भविष्यति, नेत्थम्भावे प्रमाणमस्ति ॥
अस्तु तर्हि शब्दात् प्रतिपन्नस्य यथाप्रतिपत्ति ध्यानं नाम मनोव्यापारो विधीयत इति, किमर्थं तस्य विधानम् ? ध्येयसाक्षात्काराय चेत् , न तस्य सम्भवः । न हि परोक्षं ध्यायमानं साक्षाद्भावमापद्यमानं दृष्टम् । ननु दृष्टं परोक्षमपि ध्यायमानं साक्षाद्भावमापन्नं कामाद्युपप्लवे, मैवम् ; न तद् ध्यायमानम् , अपित्वविद्यात्मकम् , अन्यथा बाधो न भवेत् ॥
ननु ‘द्रष्टव्यः’ इति दर्शनमनूद्य ‘निदिध्यासितव्यः’ इति ध्यानं दर्शनफलं विधीयते, उक्तमेतद् न दृष्टाधिकारो विधिरसम्भावितदृष्टफलो भवतीति । न हि ध्यानं ध्येयसाक्षाद्भावहेतुः क्वचिद् दृष्टम् । अथापि भवतु नाम ध्यानाद् ध्येयसाक्षाद्भावो ध्येयस्य तथात्वे किं प्रमाणम् ? शब्दस्तावत्साक्षात्करणोपायोपासनविधाने पर्यवसितो न तत्सद्भावे, सत्यम् ; तथाऽपि तत्त्वं सिध्यति वक्ष्यमाणेन देवताविग्रहवत्त्वन्यायेन । विषम उपन्यासः तत्र हि न तथात्वे साधकं बाधकं वेति प्रतीतिशरणैस्तथाऽभ्युपेयते ; न तथेह सर्वस्यात्मत्वे ; प्रत्यक्षादिविरोधात् , आरोपितरूपेणापि ध्यानोपपत्तेः । पूर्वोक्तेष्वपि ज्ञानविधिपक्षेष्वनयैव दिशा वस्तुतथात्वसिद्धिर्निराकार्या ॥
यत्पुनः कैश्चिदुच्यते — शाब्दज्ञानादन्यदेव ज्ञानान्तरमलौकिकं वेदान्तेषु कर्तव्यत्वेन विधीयत इति, तत्र वदामः, तत्पुनः किंसाधनं किङ्कर्म चेति वक्तव्यम् । न ह्यनवगतकर्मकारकं ज्ञानं विधातुं शक्यम् ; अवगते च तस्मिन् विधानानर्थक्यम् । साधनमपि न विहितम् ; तेन विना साकाङ्क्षं वचनमनर्थकं भवेत् । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती’त्यादिना वचनेन साधनं वेदानुवचनादि विहितमेवेति चेत् , प्रमाणान्तरस्य तर्हि प्रमाणं शब्दो नात्मतत्त्वस्य, नैतदुपपद्यते ; कार्यगम्यं हि प्रामाण्यं न विधिगम्यम् । तदुक्तम् — ‘गुणाद्वाऽप्यभिधानं स्यात्सम्बन्धस्याशास्त्रहेतुत्वादि’ति । तदेवमयुक्तमेतत् , विधिसमन्वये शास्त्रप्रमाणत्वं ब्रह्मणः ॥
अथापि ‘अथ यदतः परो दिवो ज्योतिरि’ति प्रपञ्चातिरिक्तब्रह्माभ्युपगमे देवताविग्रहवत्त्वन्यायसम्भवात् मोक्षकामस्य ब्रह्मोपासनं विधीयते, तथा च श्रुतिः ‘विद्यया तदारोहन्ती’ति, न च साध्यत्वेऽप्यन्तवत्त्वम् ; शब्दगम्यत्वादनावृत्तेः ‘न च पुनरावर्तते’ (छा. उ. ८-५-१) इति । न ह्येष तर्कगम्यः, येन तर्केणास्य तत्त्वं व्यवस्थाप्येत, शब्दगम्यस्य तु शब्दादेव तत्त्वव्यवस्थेति मन्वानस्योत्तरमाह भाष्यकारः —
न कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादिति ॥
वस्तुसङ्ग्रहवाक्यमेतत् ।
अस्यैव प्रपञ्चः
अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्येतदन्तं भाष्यम् ॥
अस्याममर्थः — सङ्क्षेपतः श्रुतितो न्यायतश्च मोक्षस्य नित्यसिद्धत्वप्रतीतेर्न क्रियासाध्यो मोक्ष इति । कथम् ? यदि सन्ध्योपासनवन्मानसं ब्रह्मकर्मकमुपासनं नाम धर्मो मोक्षफलः स्वर्गादिफलयागवद्विधीयते, तथा सति शरीरवतैव तत्फलं भोक्तव्यम् इति ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छा. उ. ८-१२-१) इत्यशरीरमोक्षानुवादो योग्यप्रियाप्रियस्पर्शनाभावानुवादश्च निरालम्बनौ स्याताम् । न चाशरीरत्वमेव धर्मकार्यम् ; स्वाभाविकत्वात्तस्य । तेनानुष्ठेयविलक्षणं मोक्षाख्यमशरीरत्वं स्वभावसिद्धं नित्यमिति सिद्धम् ॥
तथापि कथञ्चित्परिणामि नित्यं स्यात् , स्यादपि कदाचिद्धर्मकार्यम् । इदन्तु कूटस्थनित्यं ब्रह्म जिज्ञास्यत्वेन प्रक्रान्तं, यत्स्वरूपावगमो जीवस्य मोक्षोऽभिप्रेयते । तत्र यदि हस्तगतविस्मृतसुवर्णादिवद् भ्रान्तिमात्रव्यवहितं मोक्षं प्रत्याख्याय, ब्रह्मविषयध्यानक्रियातो देवताविषययागादिवत्प्रीतिविशेषो भोग्यो मोक्षः कल्प्येत, ततस्तेष्वेव तारतम्यावस्थितेषु यागफलेष्वयमपि तथाभूतः स्यात् । ततः ‘तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इति लिङ्गदर्शनोपबृंहितन्यायावगतानित्यत्वो मोक्षः प्रसज्येत ।
न च तथाभ्युपगमो मोक्षवादिनाम् ।
अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्युपसंहारः ॥
यत्पुनः ‘न च पुनरावर्तते’ (छा. उ. ८-५-१) इति शास्त्रावगतं नित्यत्वं न तर्केणापनेतुं युक्तमिति, तदयुक्तम् ; वर्तमानापदेशत्वेन तथाभावे प्रमाणापेक्षणात् । न च कार्यस्य नित्यत्वे प्रमाणमस्ति ; परमाणूनां पाकजो गुणो नित्यत्वे नोदाहरणम् ; प्रक्रियामात्रसिद्धत्वात् । किं च तेषामिह न पुनरावृत्तिः ; ‘इमं मानवमावर्तं नावर्तन्ते’ इति श्रुतिरिहेममिति विशेषणादस्मिन् कल्पेऽनावृत्तिं दर्शयति, नानवधिकामनावृत्तिम् । अपि च अभ्युपेत्य ब्रह्मणः क्रियानुप्रवेशं मोक्षस्यानित्यत्वदोष उक्तः, न तु क्रियानुप्रवेशं क्षमते वेदान्तवाक्यगतः पदसमन्वयः । तथा च ‘ब्रह्म वेद ब्रह्मैव भवती’त्याद्याः श्रुतयो ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति ; वेदनब्रह्मभवनयोरेककालत्वनिर्देशात् । अतो न विदितस्य क्रियायां विनियोगः । तथा ‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे’ (बृ. उ. १-४-१०) इति ब्रह्मदर्शन सर्वात्मभावयोरेककालत्वनिर्देशाद् मध्ये क्रियान्तरं वारयति पश्यन्निति शतृप्रत्ययः ; ‘लक्षणहेत्वोः क्रियायाः’ इति क्रियाया हेतुभूताद्धातोः शतृप्रत्ययस्मरणात् , क्रियायाश्चाव्यवहिते हेतुमति हेतुत्वात् । यथा ‘तिष्ठन् गायती’ति तिष्ठतिगायत्योर्मध्ये क्रियान्तराभावः प्रतीयते, तद्वत् । अत्र न स्थितिक्रियासामर्थ्यादेव गीतिक्रियानिर्वृत्तिः, अपि तु प्रयत्नान्तरात् । शब्दतो न तयोर्मध्ये क्रियान्तरप्रतीतिरित्येतावतोदाहरणम् । इह पुनर्न सर्वात्मभावस्य ब्रह्मदर्शनातिरेकेण प्रयत्नान्तरापेक्षा विद्यते ॥
किं च ‘तस्मै मृदितकषायाय तमसः पारं दर्शयती’त्याद्याः श्रुतयस्तमसो मिथ्याज्ञानस्य मोक्षव्यवधायिनोऽपनयनमात्रं दर्शयन्ति, न मोक्षं क्रियासाध्यम् । इतश्चैतदेवम् , अन्येऽपि न्यायविदो मिथ्याज्ञानापाये तदनन्तरं दुःखाभावं निर्वाणं दर्शयन्ति मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति, न क्रियातः । कथं गम्यते ? ‘इन्द्रो मायाभिः पुरुरूप ईयते’ (बृ. उ. २-५-१९) इति मिथ्यैव भेदावभासः, तस्य प्रतिपक्षादभेदावभासादपनय इति गम्यते ॥
अथापि स्यान्नैकत्वविज्ञानं यथावस्थितवस्तुविषयं, येन मिथ्यारूपं भेदावभासं निवर्तयेत् , अपि तु सम्पदादिरूपम् ; विधितः पुरुषेच्छया कर्तव्यमिति । सम्पन्नामाल्पमपि वस्त्वालम्बनीकृत्य केनचित्सामान्येन दर्शनमात्रान्महद्वस्तुसम्पादनम् । ततश्च तत्फलावाप्तिः, फलस्यैव वा सम्पादनं ; यथा मनसो वृत्त्यनन्तत्वसामान्येनानन्तविश्वदेवसम्पादनं कृत्वाऽनन्तलोकजयः । एवं जीवस्य चिद्रूपसामान्येन ब्रह्मरूपसम्पादनं कृत्वा ब्रह्मफलमवाप्यत इति । अध्यासस्वब्रह्मणि मन आदित्यादौ ब्रह्मदृष्ट्योपासनं, जीवस्यापि ब्रह्मदृष्ट्योपासनम् । सम्पाद्य आलम्बनमविद्यमानसमं कृत्वा सम्पाद्यमानस्यैव प्राधान्येन मनसाऽनुचिन्तनम् , अध्यासे त्वालम्बनस्यैव प्राधान्येनानुचिन्तनं, क्रियायोगो वायोरग्न्यादीनां सम्हरणात्संवर्गगुणत्वेनोपासनम् । एवं जीवस्य स्वगतेन बृंहत्यर्थयोगेन ब्रह्मेत्युपासनम् । कार्यान्तरेण गुणभूतस्य ब्रह्मदृष्टिः संस्कार आज्यस्येवावेक्षणम् ॥ अत्रोत्तरम् —
सम्पदादिरूपे हीत्यादि ॥
तथा सति तत्त्वमस्यादिवाक्यानां निरुपचरितब्रह्मात्मैकत्वावगमपरः पदसमन्वयो विना कारणेन स्वेच्छामात्रेण सम्पदादिपरः परिकल्प्येत । तदवगमनिमित्तं च मिथ्याज्ञानापायपूर्विका विस्मृतहस्तगतसुवर्णावाप्तिवद्ब्रह्मावाप्तिः फलमनुभवारूढमपह्नूयेत । ‘नेह नानास्ति किञ्चने’ति च भेदाभावश्रुतिरुपरुद्ध्येत । तस्मान्न सम्पदादिवत्पुरुषव्यापारतन्त्रा ब्रह्मविद्या, किन्तु प्रत्यक्षादिजनितज्ञानवदपरामृष्टहानोपादानवस्तुस्वरूपमात्रनिष्ठेत्यभ्युपगन्तव्यम् ॥ तत्रेवं सति कथं ब्रह्म प्रतिपत्युत्तरकालं कर्मकारकतां नीयेत ? तत्तज्ज्ञानं वा तदधिगमफलपर्यन्तं सद् विधिविषयो भवेत् ? अतो मिथ्यैव भेदावभासः । तस्य प्रतिपक्षादभेदावभासादपनयः । तस्माद् मिथ्याज्ञाननिवृत्तिमात्रं मोक्ष इति श्रुतिन्यायाभ्यां सिद्धम् ॥
ननु विधिक्रियाकर्म