विवेकचूडामणिः
श्रीमच्छङ्करभगवत्पादाचार्यैः प्रणीतः
शृङ्गगिरिजगद्गुरुश्रीश्रीचन्द्रशेखरभारतीमहास्वामिभिः अनुगृहीतया व्याख्यया सनाथः
२५. ब्रह्मणोऽद्वितीयत्वम् – २९. प्रमादत्यागः
२५. ब्रह्मणोऽद्वितीयत्वम्
ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् ।
येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधः ॥२२५॥
ब्रह्माभिन्नत्वविज्ञानम् अहं ब्रह्मास्मीत्यपरोक्षानुभवः भवमोक्षस्य संसारमुक्तेः कारणं येन विज्ञानेन अद्वितीयं निर्भेदम् आनन्दं सुखस्वरूपं ब्रह्म बुधः सम्पद्यते प्राप्नोति भवतीति वा अर्थः ‘ब्रह्मविदाप्नोति’(तै.उ. २.१) , ‘ब्रह्मविद् ब्रह्मैव भवति’(मु.उ ३.२.९) इति श्रुतेः । ‘असतो मा सद् गमय मृत्युर्वा असत् सदमृतं मृत्योर्मा अमृतं गमय अमृतं मा कुरु इत्येवैतदाह’(बृ.उ. १.३.२८) इति श्रुतेः ब्रह्मभाव एव मोक्षः ॥२२५॥
ब्रह्मभावे भवमोक्षः कथमिति शङ्कमानं प्रत्याह ब्रह्मभूत इति −
ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः ।
विज्ञातव्यमतः सम्यग् ब्रह्माभिन्नत्वमात्मनः ॥२२६॥
ब्रह्मभूतः विद्वान् पुनः संसृत्यै नैवावर्तत इत्यर्थः । ‘न स पुनरावर्तत’(छा.उ. ८.१५.१) इति श्रुतेः । तुरवधारणे । अतः आत्मनः ब्रह्माभिन्नत्वं सम्यक् विज्ञातव्यम् ॥२२६॥
प्रपञ्चमिथ्यात्वकथनेन निष्प्रपञ्चत्वं ब्रह्मणो वक्तुमारभते सत्यं ज्ञानमिति −
सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतः सिद्धम् ।
नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ॥२२७॥
कालत्रयेऽपि बाधरहितं स्वयम्प्रकाशं देशतः कालतः वस्तुतश्च परिच्छेदशून्यं व्यापकत्वात् नित्यत्वात् अद्वितीयत्वात् ब्रह्म विशुद्धं स्वाभाविकागन्तुकसकलमलशून्यं परं मायातीतं स्वतस्सिद्धं सत्तायां स्फूर्तौ वा परनिरपेक्षम् । नित्यानन्दैकरसं दुःखास्पृष्टनित्यसुखस्वरूपं जीवाभिन्नं निर्भेदमखण्डं ब्रह्म सर्वोत्कर्षेण वर्तत इत्यर्थः । इति वस्तूपक्षेपः ॥२२७॥
तत्र अनन्तपदार्थैकदेशं वस्तुपरिच्छेदशून्यत्वमुपपादयति सदिदमिति −
सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् ।
नह्यन्यदस्ति किञ्चित्सम्यक्परतत्वबोधसुदशायाम् ॥२२८॥
इदं प्रकृतं ब्रह्म सत् अस्तीति सत् । परमाद्वैतं परमं च तदद्वैतं च परमाद्वैतम् । अद्वैते परमत्वं गुणगुणिभावादिप्रयुक्ततादात्म्येनापि शून्यत्वं सदाप्यस्तीति । न विद्यते द्वैतं द्वयोर्भावः द्विता द्वितैव द्वैतं यत्र तत् भेदशून्यमित्यर्थः । तत्र हेतुः स्वस्मादिति स्वस्मादन्यस्य वस्तुनोऽभावात् यदन्यत्स्यात् तदा भेदः प्रसज्येत अतः अद्वैतम् । उच्चावचप्रपञ्चस्य बहूनां जीवानां च सत्त्वात् कथं स्वस्मादन्यस्याभावः इति चेत् , वस्तुपदेन तेषां परमार्थता नास्तीति ज्ञापितम् । कल्पितेन भेदाभावात् । नहि कल्पितसर्पेण सद्वितीयत्वं रज्ज्वाः । यदि जगदादेः परमार्थत्वं सदा भासेत, तदभावात् न वस्तुत्वम् । तदाह − सम्यक्परतत्त्वबोधसुदशायामिति ।
इदानीम् अन्यथा अविद्यया ज्ञातत्वात् सम्यगिति । ‘यत्र नान्यत्पश्यति’ इत्यादिश्रुत्या परतत्त्वविषयकसम्यग्ज्ञानं यदा तस्यां शोभनायामवस्थायाम् । हि यस्मात् अन्यत्किञ्चिन्नास्ति अतः स्वभिन्नवस्त्वभावात् इदं सत् परमाद्वैतमित्यन्वयः ॥२२८॥
अज्ञानावस्थायामपि ‘तदनन्यत्वामारम्भणशब्दादिभ्यः’(ब्र.सू. २.१.१४) इति न्यायनिर्णीतं प्रपञ्चस्य ब्रह्माव्यतिरेकमाह यदिदमित्यादिना −
यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् ।
तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥२२९॥
अज्ञानात् नानारूपं सकलं विश्वं यत् इदं प्रतीतं कल्पितं तत्सर्वं प्रत्यस्ताशेषभावनादोषम् अशेषाश्च ताः भावनाश्च अशेषभावनाः तद्रूपः दोषः प्रत्यस्तः निरस्तः यस्मात् तत् प्रत्यस्ताशेषभावनादोषं सकलकल्पनारूपदोषशून्यं ब्रह्मैव ॥२२९॥
तदुपपादयति मृदित्यादिना सदृष्टान्तम् −
मृत्कार्यभूतोऽपि मृदो न भिन्नः
कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् ।
न कुम्भरूपं पृथगस्ति कुम्भः
कुतो मृषा कल्पितनाममात्रः ॥२३०॥
मृत्कार्यभूतोऽपि मृदुपादेयोऽपि कुम्भः मृदो भिन्नो नास्ति । सर्वत्र तु मूले अग्रे पार्श्वयोर्वा सर्वत्रापि मृत्स्वरूपात् मृदभिन्नत्वात् पृथुबुध्नोदराद्याकारविशेषविशिष्टा मृदेव कुम्भ इत्युच्यते । न कुम्भरूपं पृथगस्ति । मृद्रूपव्यतिरेकेण कुम्भस्य रूपं नीलादिकं नास्ति मृदाकारव्यतिरेकेण कुम्भस्याकारो नास्ति आकारविशेषविशिष्टा मृदेव कुम्भ इत्युच्यते न तु कुम्भस्य कश्चिदाकारः । ‘वाचारम्भणं विकारो नामधेयम्’(छा.उ. ६.१.४) इति श्रुत्या मृषाकल्पितनाममात्रः कुम्भः । कुतः कस्माद्धेतोः पृथगस्ति मृद्रूपभिन्नरूपं नास्ति मृदाकारव्यतिरिक्ताकारो नास्ति । कुम्भ इति शब्दः परं कल्पितः । तावता एक एव देवदत्तः सङ्कोचितहस्तपादः प्रसारितहस्तपादश्च यथा न भिद्यते तद्वत् कुम्भोऽपि मृद इत्यर्थः ॥२३०॥
स्फुटप्रतिपत्त्यर्थं पुनरुपपादयति केनापीत्यादिना −
केनापि मृद्भिन्नतया स्वरूपं
घटस्य सन्दर्शयितुं न शक्यते ।
अतो घटः कल्पित एव मोहात्
मृदेव सत्यं परमार्थभूतम् ॥२३१॥
केनापि पुरुषेण ब्रह्मणापीति वा । घटस्य स्वरूपं मृद्भिन्नतया सन्दर्शयितुं न शक्यते यतः अतो घटः मोहात् भिन्नतया कल्पित एव । मृदेव सत्यं परमार्थभूतं घटशब्दस्य मुख्यार्थभूतम् ‘मृत्तिकेत्येव सत्यम्’ इति श्रुतेः आदावन्ते च वर्तमानत्वात् ॥२३१॥
एवं मृद्घटदृष्टान्तेन उपादानव्यतिरेकेण उपादेयं कार्यं नास्तीत्युक्त्वा दार्ष्टान्तिके तदाह सद्ब्रह्मेति −
सद्ब्रह्मकार्यं सकलं सदैव
सन्मात्रमेतन्न ततोऽन्यदस्ति ।
अस्तीति यो वक्ति न तस्य मोहो
विनिर्गतो निद्रितवत्प्रजल्पः ॥२३२॥
सद्रूपं यद् ब्रह्म तस्य कार्यं सकलं वियदादि सदैव सदापि ब्रह्मैव । परमते सत्कपालादिकार्यं घटादि भिन्नमपि सदेवोच्यते । तद्वन्नेत्याह − सन्मात्रमेतत् । यथा घटो मृदेव एवं वियदादि ब्रह्मैव । न ततोऽन्यदस्ति । तत्तदुपादेयस्य तदुपादानव्यतिरेकेणासत्त्वात् सर्वोपादानत्वात् ब्रह्मणः तद्व्यतिरेकेण किमपि नास्तीत्यर्थः । अत एव श्रुतौ मृत्तिकेत्येव सत्यमिति इतिपदेन योगः । मृण्मयं सर्वं सत्यं चेत् मृत्तिकेत्येव मृत्तिकात्वेन सत्यं न स्वरूपत इत्यर्थः । एवं मृदः तदुपादानरूपेण तस्याः पञ्चीकृतभूतकार्यत्वात् तद्व्यतिरेकेणाभाव इति तद्रूपेण सत्यत्वम् । ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य, अपागादग्नेरग्नित्वम्’ , ‘वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्’(छा.उ. ६.४.३) इति श्रुत्यनुसारेण तेषां भूतानामपञ्चीकृतभूतरूपेण पृथक्करणे पृथिव्याः अब्रूपेण अपां तेजोरूपेण तस्य वायुरूपतया तस्य वियत्त्वेन तस्य सत्त्वेन इति सद्रूपब्रह्मभिन्नतया किमपि सत्यं नास्तीति सन्मात्रमेतदित्युक्तम् । ततोऽन्यन्नास्तीति तदेव स्पष्टीकृतम् । एवं स्थितेऽपि अस्तीति यो वक्ति ब्रह्मभिन्नतया वियदादिकं जगत् अस्तीति यो ब्रवीति तस्य मोहः भ्रमः अज्ञानं वा न विनिर्गतः नष्टो नाभूत् निद्रितवत् निद्रितस्येव प्रजल्पः यथा सुप्तः अनन्वितार्थकं किं वा किं वा असम्बद्धं वदति तद्वत् विचारजन्यज्ञानमन्तरा कथनमुपादानव्यतिरेकेण कार्यमस्तीति ॥२३२॥
छान्दोग्यश्रुत्यनुसारेण कथितमर्थं गतिसामान्याय आथर्वणिकश्रुत्या आह ब्रह्मैवेदमित्यादिना −
ब्रह्मैवेदं विश्वमित्येव वाणी
श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा ।
तस्मादेतद् ब्रह्ममात्रं हि विश्वं
नाधिष्ठानाद् भिन्नतारोपितस्य ॥२३३॥
श्रौती सामान्यतः वैदिकीति । विशेषत आह − अथर्वनिष्ठेति । अथर्वनिष्ठा अथर्ववेदघटकीभूता अथर्वाख्यब्रह्मज्येष्ठपुत्रनिष्ठा वा श्रौती वैदिकी अत्यन्तवरिष्ठा वाणी ‘ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’(मु.उ. २.१.१२) इति रूपा, इदं विश्वं सर्वं जगत् , ब्रह्मैव नातिरिक्तमित्येव एवकारेण पृथक् सत्तां निषिध्य ब्रूते यस्मात् तस्मादेतत्सर्वं ब्रह्ममात्रं विश्वम् । हि निश्चयः आरोपितस्य कल्पितस्य अधिष्ठानाद् भिन्नता न । एतेन अज्ञानादेरनादेः ब्रह्मोपादानकत्वाभावात् भिन्नत्वशङ्का परास्ता ॥२३३॥
एवं श्रुत्या प्रपञ्चसत्यत्वं निरस्य युक्त्यापि तदनुसारिण्या निरस्यति सत्यमिति −
सत्यं यदि स्याज्जगदेतदात्मनोऽ-
नन्तत्वहानिर्निगमाप्रमाणता ।
असत्यवादित्वमपीशितुः स्यात्
नैतत्त्रयं साधु हितं महात्मनाम् ॥२३४॥
एतत् जगत् परिदृश्यमानं विश्वं यदि सत्यम् अकल्पितं स्यात् आत्मनोऽनन्तत्वहानिः अन्योन्याभावाप्रतियोगित्वरूपवस्तुपरिच्छेदशून्यत्वं न स्यात् अकल्पितेन जगता वस्तुभूतेन परिच्छिद्यमानत्वात् । हीयतामनन्तत्वमिति चेत् , निगमाप्रमाणता ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ. २.१) इति वेदस्य बाधितार्थबोधकता स्यात् । इष्टापत्तिरिति चेत् ईशितुरपि परमाप्तस्य सर्वज्ञस्य परमेश्वरस्य असत्यवादित्वम् अयथार्थवक्तृत्वं स्यात् । तदपि भवत्विति चेत् , महात्मनाम् आस्तिकानामित्यर्थः । महानात्मा येषां श्रुत्याचार्योपदेशेन परिच्छिन्नपञ्चकोशात्मबुद्धिं त्यक्त्वा कृतब्रह्मसाक्षात्कारतया अखण्डाकारवृत्तिमदन्तःकरणानां वा तेषाम् । नैतत्त्रयं साधु हितं सौमनस्यकरं सम्मतमित्यर्थः । स्वानुभवविरोधात् ॥२३४॥
प्रपञ्चमिथ्यात्वे भगवद्गीतां प्रमाणयति ईश्वर इति −
ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः ।
न च मत्स्थानि भूतानीत्येवमेव व्यचीकथत् ॥२३५॥
अज्ञानाभावेन भ्रमादिदोषशून्यः वस्तुयाथात्म्यज्ञानवानीश्वरः −
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् (भ.गी. ९.४,५)
इत्येकस्मिन्वाक्ये मत्स्थानि सर्वभूतानि न च मत्स्थानीति प्रतियोग्यभावयोः एकत्र विरोधशङ्कायां पश्य मे योगमैश्वरम् इति ईश्वरस्य मम अघटितघटनोपायरूपं योगं मायाम् इत्यर्थः । पश्येति मायिकत्वमुक्तवान् । तदेव मिथ्यात्वम् , प्रतिपन्नोपाधौ अभावप्रतियोगित्वस्यैव मिथ्यात्वात् । मत्स्थानि न च मत्स्थानीति पदाभ्याम् अयमर्थः उक्तः । स्वाश्रयत्वेनाभिमतयावन्निष्ठाभावप्रतियोगित्वं स्वप्रकारकधीविशेष्यताव्यापकात्यन्ताभावप्रतियोगित्वपर्यवसितं प्रतिपन्नोपाधौ इत्यादेरर्थः । तथा च मत्स्थानीत्यत्र ईश्वरः भूतानामाश्रय इति ज्ञातः । न च मत्स्थानीत्यनेन भूतानां तन्निष्ठात्यन्ताभावप्रतियोगित्वमवगम्यते । तथा च −
सर्वेषामेव भावानां स्वाश्रयत्वेन सम्मते ।
प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता ॥ (त.प्र. १.७)
इति चित्सुखाचार्यवचनेन पूर्वोक्तमिथ्यात्वं जगति सिद्धम् । घटवत्तया भ्रमविशेष्यनिष्ठाभावप्रतियोगित्वं परमतेऽप्यस्तीति अर्थान्तरवारणाय स्वप्रकारकधीविशेष्यताव्यापकेति । तथा च यत्रास्तीति प्रमा तत्रापि स्वरूपतः कल्पितत्वेन अभावात् यत्र यत्र स्वप्रकारकधीविशेष्यता तत्र सर्वत्र घटादेर्वस्तुतोऽभावात् तत्प्रतियोगित्वं सूपपादमिति बोध्यम् । ‘मया ततमिदं सर्वं जगदव्यक्तमूर्तिना’(भ.गी. ९.४) इति सर्वाधिष्ठानतया इदं सर्वं जगद्व्याप्तम् , न तु तदधिष्ठानकत्वं मम ‘स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि, यदि वा न महिम्नि’(छा.उ. ७.२४.१) इति निराधारत्वस्य कथितत्वात् । अतः जगदधिष्ठानकत्वभ्रमं निराकरोति ‘न चाहं तेष्ववस्थितः’(भ.गी. ९.४) इति । धूमेन व्याप्तं गृहमित्यादौ गृहाधिकरणकत्वं धूमे प्रतीयते तद्वदिदं ‘मया ततम्’(भ.गी. ९.४) इत्यादिना ज्ञेयमिति । तथा च नाधिष्ठानाद् भिन्नतारोपितस्येति ब्रह्माधिष्ठानकं तत्रारोपितं तद्व्यतिरेकेण नास्तीति मिथ्येत्येव व्यचीकथत् अवोचदित्यर्थः ॥२३५॥
जगन्मिथ्यात्वे युक्तिमाह यदीति −
यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् ।
यन्नोपलभ्यते किञ्चिदतोऽसत् स्वप्नवन्मृषा ॥२३६॥
सत्यस्य सदा भानमावश्यकं यथात्मनः । यदि विश्वं जगत् सत्यं भवेत् सुषुप्त्यवस्थायाम् उपलभ्यताम् । यत् यस्मात् किञ्चिदपि नोपलभ्यते ‘न किञ्चिदवेदिषम्’ इति स्मृतेः । अतः स्वप्नवत् जागरे अनुपलभ्यमानः स्वप्नः यथा असन् तथा । असदित्यस्यार्थः मृषेति, न तु शशविषाणवदसत्त्वम् । किन्तु दृष्टनष्टस्वरूपत्वात् मिथ्या इति भावः ॥२३६॥
इदानीं ब्रह्मव्यतिरेकेण जगतः अभावं निगमयति अत इति −
अतः पृथङ्नास्ति जगत्परात्मनः
पृथक्प्रतीतिस्तु मृषा गुणाहिवत् ।
आरोपितस्यास्ति किमर्थवत्ताऽ-
धिष्ठानमाभाति तथा भ्रमेण ॥२३७॥
अतः स्वप्नवत् सदा उपलम्भाभावात् , जगत् , परात्मनः ब्रह्मणः, पृथक् नास्ति व्यवाहारदशायां पृथक्घटादिरूपेण प्रतीतिः गुणाहिवत् । गुणः रज्जुः, अहिः सर्पः, रज्ज्वामारोपितः यथा मृषा तथा जगदपि मृषा तु मृषैवेत्यर्थः । अर्थक्रियाकारित्वाभावादपि मृषात्मत्वमाह − आरोपितस्येति । आरोपितस्य कल्पितस्य अर्थवत्ता प्रयोजनवत्ता अर्थक्रियाकारित्वमिति यावत् अस्ति किम् ? नास्त्येवेति भावः । तर्हि कुतः प्रतीतिरत आह अधीति, अधिष्ठानमाभाति तथा भ्रमेण, नहि भ्रमस्थले प्रयोजनगवेषणा विफलप्रवृत्तेः सिद्धत्वात् ॥२३७॥
दृष्टान्तान्तरेण जगतः ब्रह्माव्यतिरेकं द्रढयति भ्रान्तस्येति −
भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं
ब्रह्मैव तत्तद्रजतं हि शुक्तिः ।
इदन्तया ब्रह्म सदेव रूप्यते
त्वारोपितं ब्रह्मणि नाममात्रम् ॥२३८॥
भ्रान्तस्य भ्रमतः यद्यत्प्रतीतं तत्तत् अधिष्ठानभूतं ब्रह्मैव हि यस्मात् शुक्त्यज्ञानात् शुक्तौ भातं रजतं शुक्तिरेव तथा ब्रह्मण्यारोपितं वस्तुतः विचार्यमाणे ब्रह्म सदेव इदन्तया रूप्यते तत्तु नाममात्रम् । ‘वाचारम्भणश्रुतेः’(छा.उ. १.४) इत्यर्थः ॥२३८॥
प्रपञ्चस्य मिथ्यात्वेन तत्कारणत्वमपि तत्पदप्रवृत्तिनिमित्तं तादृशमेवेति शोधितं तत्पदार्थमुपसंहरति अत इति चतुर्भिः −
अतः परं ब्रह्म सदद्वितीयं
विशुद्धविज्ञानघनन्निरञ्जनम् ।
प्रशान्तमाद्यन्तविहीनमक्रियं
निरन्तरानन्दरसस्वरूपम् ॥२३९॥
अतः जगतः पृथक्सत्ताशून्यत्वात् आरोपिततया नाममात्रत्वात् । परं ब्रह्म अबाध्यं विजातीयरहितं निर्विषयविज्ञानशरीरम् अज्ञानास्पृष्टम् अपरिणामि जन्मनाशरहितममूर्तमखण्डानन्दविग्रहम् ॥२३९॥
निरस्तमायाकृतसर्वभेदं
नित्यं ध्रुवं निष्कलमप्रमेयम् ।
अरूपमव्यक्तमनाख्यमव्ययम्
ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥२४०॥
निरस्ताः मायाकृताः सर्वभेदाः यस्मात् यस्मिन्निति वा निर्भेदं सजातीयस्वगतभेदशून्यम् आद्यन्तविहीनत्वान्नित्यम् अक्रियत्वात् ध्रुवं कूटस्थं निष्कलं निरवयवम् अप्रमेयं ">°फलव्याप्तिरहितम् । अरूपम् ‘अशब्दमस्पर्शमरूपमव्ययम्’(क.उ. ३.१५) इति श्रुतेः ‘न चक्षुषा गृह्यते’(मु.उ १.३.८) इत्यादेश्च । अत एवाव्यक्तम् । वागगोचरतामाह अनाख्यमिति नामशून्यं प्रवृत्तिनिमित्तानां जातिगुणक्रियासम्बन्धानामभावात् । अव्ययं नव्येति इत्यव्ययम् अपक्षयरहितम् । ज्योतिः स्वयं पराप्रकाश्यम् । किञ्चिदिदम् अपरोक्षं चकास्ति प्रकाशते ॥२४०॥
निश्चलतायाः तत्र बुद्धेः स्थापनार्थं तत्र तत्र श्रुत्युक्तानि तावन्ति विशेषणानि पुनराह −
२६. ब्रह्मस्वरूपम्
ज्ञातृज्ञानज्ञेयशून्यमनन्तं निर्विकल्पकम् ।
केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः ॥२४१॥
ज्ञातृज्ञानज्ञेयशून्यं त्रिपुटीरहितम् । तत्रहेतुः अनन्तं परिच्छेदत्रयशून्यमिति । अत एव निर्विकल्पकम् । केवलाखण्डचिन्मात्रं सर्वोपाधिसम्बन्धविधुरापरिच्छिन्न ज्ञानैकरूपं परं तत्त्वं बुधाः विदुः ।
अहेयमनुपादेयं मनोवाचामगोचरम् ।
अप्रमेयमनाद्यन्तं ब्रह्म पूर्णं महन्महः ॥२४२॥
स्वात्मत्वेन अहेयमनुपादेयं मनोवाचामगोचारं ‘यतो वाचः’(तै.उ. २.४,.२.९) इति श्रुतेः अप्रमेयं श्रवणमनननिदिध्यासनसंस्कृतमनोवृत्तिव्याप्तम् अनाद्यन्तं कालदेशपरिच्छेदशून्यम् अतः पूर्णं महत् सूर्यादिभासकं महः ज्योतिः ब्रह्म इति तत्पदार्थशोधनम् ॥
पदार्थौ शोधयित्वा वाक्यार्थं वक्तुमारभते तत्त्वमित्यादिना −
२७. तत्त्वमसिमहावाक्यार्थः
तत्त्वम्पदाभ्यामभिधीयमानयोः
ब्रह्मात्मनोः शोधितयोर्यदित्थम् ।
श्रुत्या तयोस्तत्त्वमसीति सम्य −
गेकत्वमेव प्रतिपाद्यते मुहुः ॥२४३॥
‘तत्त्वमसि’(छा.उ. ६.८.७) इत्यत्र तत्पदेन त्वम्पदेन च जगत्कर्तृत्वादिविशिष्टत्वेन जाग्रदाद्यवस्थाविशिष्टत्वेन च अभिधीयमानयोः शक्त्या बोध्यमानयोः ब्रह्मात्मनोः ब्रह्म च आत्मा च ब्रह्मात्मानौ तयोरीश्वरजीवयोः । इत्थं पूर्वोक्तप्रकारेण शोधितयोः । ‘तत्त्वमसि’ इति श्रुत्या तयोः केवलचिन्मात्रयोः एकत्वमेव मुहुः नवकृत्वः छान्दोग्ये एतादृशयोः भेदे मानाभावात् सम्यक्प्रतिपाद्यते, तदैक्यमिति उत्तरेण सम्बन्धः ॥२४३॥
ऐक्यं तयोर्लक्षितयोर्न वाच्ययोः
निगद्यतेऽन्योन्यविरुद्धधर्मिणोः ।
खद्योतभान्वोरिव राजभृत्ययोः
कूपाम्बुराश्योः परमाणुमेर्वोः ॥२४४॥
किञ्चिज्ज्ञत्वसर्वज्ञत्वविषये दृष्टान्तः खद्योतभान्वोरिति अतिपरिच्छिन्नापरिच्छिन्नप्रकाशवत्त्वात् । नियम्यनियामकभावविषये राजभृत्ययोरिति दृष्टान्तः ‘भीषास्माद्’(तै.उ. २.८) इत्यादिश्रुतेः । आनन्दलेशापारानन्दविषये कूपाम्बुराश्योरिति । एकदेशगतत्वसर्वगतत्वविषये परमाणुमेर्वोरिति । एवम् अन्योन्यविरुद्धौ ऐक्यायोग्यौ यौ धर्मिणौ तयोः अन्योन्यविरुद्धधर्मिणोः वाच्ययोः तयोः जीवेश्वरयोः ऐक्यं न निगद्यते बाधितत्वात् । किन्तु लक्षितयोःलक्षणावृत्त्या बोधितयोः निगद्यते उपक्रमादिलिङ्गावगततात्पर्यानुसारेण कथ्यत इत्यर्थः ॥२४४॥
अन्योन्यविरोधे कारणमाह तयोरिति −
तयोर्विरोधोऽयमुपाधिकल्पितो
न वास्तवः कश्चिदुपाधिरेषः ।
ईशस्य माया महदादिकारणं
जीवस्य कार्यं शृणु पञ्च कोशाः ॥२४५॥
तयोर्वाच्ययोः अयं विरोधः ऐक्यायोग्यत्वरूपः उपाधिना कल्पितः । न वास्तवः स्वाभाविकः कश्चित् । क उपाधिरिति चेदाह उपाधिरेष इति । तत्र तत्पदार्थस्य उपाधिमाह ईशस्य माया । तत्स्वरूपमाह महदादिकारणं महत्तत्त्वाहङ्कारपञ्चतन्मात्रादिसकलजगत्कारणं माया ईश्वरस्य उपाधिः । जीवस्य त्वम्पदार्थस्य कार्यमुपाधिः । किं तदिति चेत् शृणु पञ्च कोशाः । ‘कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः’(शुकरहस्य ३.१२) इति श्रुतेः ॥२४५॥
एतावुपाधी परजीवयोस्तयोः
सम्यङ्निरासे न परो न जीवः ।
राज्यं नरेन्द्रस्य भटस्य खेटकः
तयोरपोहे न भटो न राजा ॥२४६॥
जीवपरयोः एतावुपाधी माया पञ्चकोशाश्च । ‘नात्र काचन भिदास्ति’(नृ.उ.उ. ८) ‘नेह नानास्ति किञ्चन’(बृ.उ. ४.४.१९) ‘असङ्गो ह्ययं पुरुषः’(बृ.उ. ४.३.१५) ‘असङ्गो नहि सज्जते’(बृ.उ. ३.९.२६) इत्यादिश्रुतिभिः तत्त्वम्पदार्थशोधिकाभिः तयोरुपाध्योः सम्यङ्निरासे, न परो न जीवः केवलचिन्मात्ररूपत्वात् भेदकाभावात् । तत्र दृष्टान्तमाह − नरेन्द्रस्य राज्यमुपाधिः । खेटकः आयुधविशेषः भटस्य उपाधिः भेदकधर्मः । तयोरपोहे अभावे, न भटो न राजा । स्पष्टम् ॥२४६॥
उपाधिनिरासः कथं करणीय इति चेदाह अथेति −
अथात आदेश इति श्रुतिस्स्वयं
निषेधति ब्रह्मणि कल्पितं द्वयम् ।
श्रुतिप्रमाणानुगृहीतयुक्त्या
तयोर्निरासः करणीय इत्थम् ॥२४७॥
‘अथात आदेशो नेति नेति’(बृ.उ. २.३.६, ३.९.२६) इति श्रुतिः स्वयं ब्रह्मणि कल्पितं द्वयं द्वैतं वस्तु निषेधति । इतिशब्दस्य इदमित्यर्थः । वीप्सा सकलदृश्यवर्गनिषेधार्था । इदमिदमिति यद्यत्प्रतीयते तत्सर्वमपि अधिष्ठानव्यतिरेकेण नास्ति स्वतःसत्तास्फूर्तिशून्यम् । एवं श्रुत्यैव साक्षान्निषिध्यमानत्वात् सकलप्रमाणमूर्धन्यश्रुत्यनुगृहीतयुक्त्या तयोः मायाकोशपञ्चकरूपोपाध्योः । इत्थं वक्ष्यमाणरीत्या निरासःकरणीयः ॥२४७॥
नेदं नेदं कल्पितत्वान्न सत्यं
रज्जौ दृष्टव्यालवत्स्वप्नवच्च ।
इत्थं दृश्यं साधुयुक्त्या व्यपोह्य
ज्ञेयः पश्चादेकभावस्तयोर्यः ॥२४८॥
नेदमिति । प्रथमेदं शब्देन ईशोपाधिर्माया, द्वितीयेदम्पदेन कोशपञ्चकं जीवोपाधिः ग्राह्यः प्रत्येकं निषेद्धुं नञ्द्वययोगः । कारणं वा माया, कार्यं वा कोशपञ्चकं कल्पितत्वात् न सत्यं ‘भूयश्चान्ते विश्व मायानिवृत्तिः’(श्वे.उ. १.३) इति मायानाशश्रवणात् । कोशपञ्चकस्य दृष्टनष्टस्वरूपत्वमुपपादितमेव अवस्थात्रयेऽनुवृत्त्यभावात् । ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’(७.१४) इति गीता वचनाच्च । ‘ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्’(श्वे.उ. १.३) इति तस्या अपि दृश्यत्वश्रुतेः । अतः इदं कारणं मायारूपोपाधिः न वस्तुतोऽस्ति, सत्त्वे निवृत्त्ययोगात् ‘नाभावो विद्यते सतः’(भ.गी. २.१६) इति गीतावचनात् । एवं कोशपञ्चकमपि निपुणं विचारयतो नैवास्ति धीमता शिष्येण ‘सर्वाभावं विना किञ्चिन्न पश्यामि’(श्लो. २१४) इत्युक्तत्वात् । अतः पूर्वोक्तोपाधिद्वयमपि रज्जौ दृष्टव्यालवत् सर्पवत् स्वप्नवच्च न सत्यम् । इत्थं दृश्यं साधुयुक्त्या श्रुत्यनुसारिण्या युक्त्या साधु व्यपोह्य निरस्य पश्चात् तयोःअनुपहितयोः केवलयोःचिन्मात्रयोः यः एकभावः भेदाभावः सः ज्ञेयः ॥२४८॥
ततस्तु तौ लक्षणया सुलक्ष्यौ
तयोरखण्डैकरसत्वसिद्धये ।
नालं जहत्या न तथाऽजहत्या
किन्तूभयार्थैकतयैव भाव्यम् ॥२४९॥
तत इति । ततः यतः दृश्यव्यपोहानन्तरं शब्दादेव तयोः एकत्वं ज्ञेयं ततः तस्मात्कारणात् तौ शुद्धौ, लक्षणया शक्यसम्बन्धो लक्षणा तया अर्थस्मृत्यनुकूलपदपदार्थसम्बन्धरूपया वृत्त्या सुलक्ष्यौ सम्यगुपस्थापनीयौ । अत्र स्वात्मनिरूपणे,
मानान्तरोपरोधात् मुख्यार्थस्यापरिग्रहे जाते ।
मुख्याविनाकृतेऽर्थे या वृत्तिस्सैव लक्षणा प्रोक्ता ॥ (श्लो. ३२) इत्युक्तम् ।
प्रमाणान्तरविरोधवशात् मुख्यार्थस्य वाच्यार्थस्य अपरिग्रहे जाते वाच्यार्थविषयकान्वयबोधानुपपत्तौ सत्यामिति यावत् मुख्याविनाकृते वाच्यसम्बद्धेऽर्थे या वृत्तिः सा लक्षणा इत्यर्थः । प्रकृते विशिष्टयोरैक्यं बाधितमिति तत्त्वम्पदाभ्यां शुद्धौ आत्मानौ लक्षणीयौ तत्र विशिष्टतादात्म्यसम्बन्धस्य सत्त्वात् लक्षणा शक्यसम्बन्धरूपा निर्वहति । तदपि तत्र स्पष्टमुक्तम् −
देहेन्द्रियादिधर्मानात्मन्यारोपयन्नभेदेन ।
कर्तृत्वाद्यभिमानी बोधस्स्यात् त्वम्पदस्य वाच्योर्थः ॥
देहस्य चेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन ।
प्रतिभाति योऽवबोधःप्रोक्तोऽसौ त्वम्पदस्य लक्ष्योऽर्थः ॥
वेदावसानवाचा संवेद्यं सकलजगदुपादानम् ।
सर्वज्ञताद्युपेतं चैतन्यं तत्पदस्य वाच्योऽर्थः॥
विविधोपाधिविमुक्तं विश्वातीतं विशुद्धमद्वैतम् ।
अक्षरमनुभववेद्यं चैतन्यं तत्पदस्य लक्ष्योऽर्थः ॥ (स्वा.नि. २७-२८) इति ।
प्रत्यक्त्वपरोक्षत्वे परिपूर्णत्वं च सद्वितीयत्वम् ।
इतरेतरं विरुद्धं ततइह भवितव्यमेव लक्षणया ॥ (स्वा.नि. ३१) इति च ।
त्वम्पदार्थे प्रत्यक्त्वं तत्पदवाच्ये परोक्षत्वम् अहमिति प्रतित्यभावात् , एवमीश्वरस्य परिपूर्णत्वं जीवस्य सद्वितीयत्वम् अल्पत्वमिति यावत् । इतरेतरं विरुद्धम् , कथं तयोरैक्यान्वयः इति मानान्तरोपरोधे प्राप्ते उपक्रमादिलिङ्गावधृततात्पर्यानुपत्त्या शुद्धौ लक्षणया बोधनीयौ । तत्र लक्षणा त्रिविधा, जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणा चेति । प्रकृते तु तृतीया ग्राह्या इत्याह । तयोरखण्डैकरसत्वसिद्धये संसर्गाविषयकप्रमाविषयत्वसिद्धये इत्यर्थः । उक्तं हि वाक्यवृत्तौ −
संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः ।
अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ (३८) इति ।
तत्र जहल्लक्षणा नाम स्वात्मनिरूपणे लक्षिता −
निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे ।
जहतीति लक्षणा स्यात् गङ्गायां घोषवदिह न ग्राह्या ॥ (३३)
इति । वाच्यार्थाविषयणी लक्ष्यार्थविषयणी या उपस्थितिः तादृशोपस्थितिजनिका शक्यसम्बन्धरूपा या वृत्तिः पदपदार्थसम्बन्धः सा जहल्लक्षणा । यथा ‘गङ्गायां घोष’ इत्यत्र घोषपदवाच्याभीरपल्ल्याः गङ्गापदवाच्यप्रवाहवृत्तित्वं न सम्भवतीति गङ्गापदस्य प्रवाहसंयुक्ततीरबोधकत्वम् । तत्रापि यदि गङ्गातीरे घोष इति बोधोऽभिप्रेतः तदा अजहल्लक्षणैव । तीरे घोष इति चेत् , बोधे तज्जनकोपस्थितौ च वाच्यार्थस्याप्रवेशात् जहल्लक्षणा । प्रकृते नालं जहत्या इत्युक्तं वाच्यैकदेशस्य विशेष्यस्य सङ्ग्रहात् ‘निखिलमपि वाच्यमर्थं त्यक्त्वा’ इत्युक्तलक्षणाभावात् । एवं न तथा अजहत्या अखण्डैकरसत्वसिद्धये अजहत्या लक्षणयापि नालं न पर्याप्तम् । तथा हि − अजहल्लक्षणा नाम वाच्यार्थविषयणी लक्ष्यार्थविषयणी च या उपस्थितिः तज्जनकशक्यसम्बन्धरूपा वृत्तिः । तदुक्तम् −
वाच्यार्थमत्यजन्त्या यस्या वृत्तेः प्रवृत्तिरन्यार्थे ।
इयमजहतीति कथिता शोणो धावतिवदत्र न ग्राह्या ॥ (स्वा.नि. ३४) इति ।
शोणशब्दस्य वाच्यस्य रक्तगुणस्य धावनकर्तृत्वान्वयासम्भवात् तद्गुणविशिष्टे अश्वे लक्षणा । तत्र शोणगुणविशिष्टाश्वविषयकोपस्थितौ वाच्यार्थस्य शोणगुणस्यापि भानात् इयं लक्षणा अजहती वाच्यार्थं न त्यजतीति । प्रकृते विशेषणांशस्य वाच्यार्थस्य परित्यज्यमानत्वात् नाजहल्लक्षणा किन्तु उभयार्थैकतयैव भाव्यम् उभयोरर्थयोः एकता यया लक्षणया तया जहदजहल्लक्षणया भाव्यं तयोरखण्डैकरसत्वसिद्धये । तल्लक्षणमुक्तम् −
जहदजहतीति सा स्यात् या वाच्यार्थैकदेशमपहाय ।
बोधयति चैकदेशं सोऽयं द्विज इतिवदाश्रयेदेनाम् ॥
सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्यक्परोक्षदेशाद्यम् ।
द्विजमात्रलक्षकत्वात् कथयत्यैक्यं पदार्थयोरुभयोः ॥
तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक्परोक्षतादीनि ।
चिद्वस्तु लक्षयित्वा बोधयति स्पष्टमसिपदेनैक्यम् ॥ (स्वा.नि. ३५-३८) इति ।
तथा च किञ्चिद्वाच्यार्थाविषयणी किञ्चिद्वाच्यार्थविषयणी च या उपस्थितिःतादृशोपस्थितिजनकशक्यसम्बन्धरूपा वृत्तिः जहदजहल्लक्षणा । प्रकृते तया लक्षणया तत्त्वम्पदार्थयोःसंसर्गाविषयकयथार्थज्ञानविषयत्वसिद्धये भाव्यम् ॥२४९॥
तद्दृष्टान्तपुरस्सरमाह स इति −
स देवदत्तोऽयमितीह चैकता
विरुद्धधर्मांशमपास्य कथ्यते ।
यथा तथा तत्त्वमसीति वाक्ये
विरुद्धधर्मानुभयत्र हित्वा ॥२५०॥
संलक्ष्य चिन्मात्रतया सदात्मनोः
अखण्डभावः परिचीयते बुधैः ।
एवं महावाक्यशतेन कथ्यते
ब्रह्मात्मनोरैक्यमखण्डभावः ॥२५१॥
सोऽयं देवदत्त इतीह तच्छब्दस्य तद्देशतत्कालवृत्तित्वविशिष्टोऽर्थः । अयमिति इदम्पदस्य एतद्देशैतत्कालवृतित्त्वविशिष्टः अर्थः । तत्र विशेषणयोः अत्यन्तभिन्नत्वात् विशिष्टैक्यमनुपपन्नम् । कालान्तरे देशान्तरे स्थितः देवदत्तः इदानीमत्रागतः इत्यप्यर्थस्य ज्ञातत्वात् व्यक्तिमात्रविषयकबोधतात्पर्येणोच्चरितादस्माद् वाक्यात् स्वघटकतदिदम्पदाभ्यामुभयत्र विरुद्धांशं तद्देशतत्कालैतद्देशैतत्कालरूपम् , अपास्य हित्वा देवदत्तरूपविशेष्यांशमात्रमुपस्थाप्यते । तत्र भेदो नास्तीति एकता यथा कथ्यते तथा तत्त्वमसि वाक्ये कारणोपाधिकार्योपाधिप्रत्यक्त्वपरोक्षत्वपरिपूर्णत्वसद्वितीयत्वादिरूपान् विरुद्धधर्मान् उभयत्र हित्वा चिन्मात्रतया ईशजीवौ संलक्ष्य तयोः अखण्डभावः वस्तुपरिच्छेदशून्यत्वं बुधैः विद्वद्भिः परिचीयते अनुभूयत इत्यर्थः । एकत्र ऐक्यबोधप्रकारमुपदिश्य अन्यत्रातिदिशति, एवं महावाक्यशतेन ब्रह्मात्मनोरैक्यं तदर्थः अखण्डभावः कथ्यत इति ॥२५१॥
विधिमुखेन जीवब्रह्मैक्यबोधकं वाक्यमुदाहृत्य निषेधमुखेन तद्वोधकं वाक्यमुदाहरति अस्थूलमिति −
अस्थूलमित्येतदसन्निरस्य सिद्धं स्वतो व्योमवदप्रतर्क्यम् ।
अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् ।
ब्रह्माहमित्येव विशुद्धबुध्या विद्धि स्वमात्मानमखण्डबोधम् ॥२५२॥
‘अस्थूलमनण्वह्रस्वमदीर्धम्’(बृ.उ. ३.८.८) इत्यादिवाक्यानि स्थूलशरीरादितादात्म्याभिमानेन तथा स्वात्मानं जानानं जीवं तद्रूपत्वं परिहाप्य ब्रह्मस्वरूपं बोधयन्ति । तदाह − एतत् दृश्यमानम् असत् स्थूलं शरीरादि, अस्थूलमिति निरस्य निषिध्य, सकलनिषेधसाक्षित्वेन स्वतः सिद्धम् , व्योमवत् आकाशवदप्रतर्क्यम् नह्याकाशस्य आयामः एतावानिति तर्कयितुं शक्यते, तथा शास्त्रमन्तरेण तर्कानधिगम्यमित्यर्थः । तादृशं ब्रह्म अहमित्येव विशुद्धबुद्ध्या मनननिदिध्यासनसंस्कृतबुद्ध्या, स्वम् आत्मानम् अखण्डबोधं विद्धि । अतः यत् स्वात्मतया गृहीतं स्थूलशरीरादिकम् इदं प्रतीतमज्ञानात् ज्ञातं मृषामात्रं मिथ्याभूतं, जहीहि परित्यज, इत्यन्वयः ॥२५२॥
छान्दोग्यषष्ठाध्याये श्वेतकेतुं प्रति उद्दालकेन कृतमुपदेशं शिष्यसुखबोधाय सङ्गृह्योपदिशति मृत्कार्यमिति −
मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाभितः
तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् ।
यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं
तस्मात् तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५३॥
मृत्कार्यं मृदुपादानकं, घटादि घटशरावोदञ्चनादि सकलं, सततं कालत्रयेऽपि उत्पत्तेः प्राक् उत्पत्त्यनन्तरं नाशानन्तरं च, अभितःसर्वशः प्रागूर्ध्वं पश्चादधः पार्श्वयोः, मृन्मात्रमेव मृद्व्यतिरेकेण नास्ति । विस्तरेणेदमुपपादितमधस्तात् ‘मृत्कार्यभूत’(श्लो. २३०) इत्यादि श्लोकाभ्यां तद्वत् । ‘सदेव सोम्येदमग्र आसीत्’, ‘एकमेवाद्वितीयं’(छा.उ. ६.२.१) , ‘तदैक्षत, तत्तेजोऽसृजत, तदपोऽसृजत, तदन्नमसृजत’(छा.उ. ६.२.३...) इत्यादिना ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’(छा.उ. ६.८.४., ६) इत्यन्तं श्रुत्या बोधितप्रकारेण सज्जनितं घटः सन् पटः सन् इति सामानाधिकरण्यविषयकप्रतीत्या च सदात्मकमिदमखिलं सन्मात्रमेव । यस्मात् सतः परब्रह्मणःपरं भिन्नं किमपि नास्ति तत् सर्वोपादानभूतं, सत्यं कालत्रयाबाध्यं, सः आत्मा तव मुख्यं स्वरूपं स्वयं सत्तास्फूर्त्योः परनिरपेक्षं, तस्माद्धेतोः अद्वयं स्वसत्ताव्यतिरिक्तसत्ताकपदार्थशून्यं, प्रशान्तं निर्विकारम् , अमलम् अज्ञानाद्यस्पृष्टं, यत्परं ब्रह्म तदेव त्वमसि इत्यर्थः ॥२५३॥
निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा
मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः ।
यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्
तस्मात् तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५४॥
‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान् पथः सृजते’(बृ.उ. ४.३.१०) इति श्रुत्या निद्रावशात् कल्पितः देशश्च कालश्च विषयाश्च ज्ञाता च देशकालविषयज्ञातारः ते आदयः यस्य सर्वस्य स्वप्ने भासमानवस्तुजातस्य शरीरकरणादेः तत्सर्वं प्रबोधे अप्रतीयमानत्वात् निद्रारूपदोषजन्यत्वात् दृष्टनष्टस्वरूपत्वाच्च यथा मिथ्या बाध्यं, तद्वदिह जाग्रत्यपि जगत् मिथ्या । तत्र हेतुः स्वाज्ञानकार्यत्वतः, स्वस्य अज्ञानं स्वाज्ञानं निष्प्रपञ्चस्वरूपावरकं मूलाज्ञानं तत्कार्यत्वात् । उक्तं हि − ‘यदबोधादिदं भाति यद्बोधाद्विनिवर्तते’ इति । ‘यत्र त्वस्य सर्वात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुतेः ।
यदज्ञानप्रभावेन दृश्यते सकलं जगत् ।
यज्ज्ञानाल्लयमाप्नोति तस्मै ज्ञानात्मने नमः ॥
इति ‘ज्ञाते द्वैतं न विद्यते’(आगम. १८) इति माण्डूक्यकारिकायाश्च । यस्मादेवं जगत् मिथ्या, इदं शरीरकरणप्राणाहमाद्यपि त्वया पूर्वमात्मत्वेनाभिमतं शरीरेन्द्रियप्राणाहङ्कारादिकमपि असत् बाध्यं मिथ्याभूतम् । तस्मात् प्रशान्तममलम् अद्वयं यत्परं ब्रह्म तदेवासित्वम् इति पूर्ववत् ॥२५४॥
शब्दानुविद्धतया ब्रह्मानुसन्धानधारायै दशभिः श्लोकैः ब्रह्मतत्त्वं स्फुटयन् जीवब्रह्मैक्यमाविष्करोति जातिनीतीति −
जातिनीतिकुलगोत्रदूरगं
नामरूपगुणदोषवर्जितम् ।
देशकालविषयातिवर्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥२५५॥
ब्राह्मण्यादिजातेः, औचित्येन स्थितिरूपनीतेः, कुलस्य वंशस्य, गोत्रस्य च स्थूलसूक्ष्मशरीराश्रितत्वात् तेभ्यः दूरं गच्छतीति जातिनीति कुलगोत्रदूरगं ‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्’(१.६) इति मुण्डकश्रुतेः । ‘नामरूपगुणदोषवर्जितम् आकाशो ह वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’(छा.उ. ८.१४.१) ‘केवलो निर्गुणश्च’(श्वे.उ. ६.११) इति श्रुतेः चकारान्निर्दोषश्च । देशकालविषयान् अतीत्य वर्तत इति देशकालविषयातिवर्ति आनन्त्यश्रुतेः परिच्छेदत्रयशून्यमित्यर्थः । ईदृशं यद् ब्रह्म तत्त्वमसि आत्मनि बुद्धौ ऐक्येन भावय अनुसन्धेहि ॥२५५॥
यत्परं सकलवागगोचरं
गोचरं विमलबोधचक्षुषः ।
शुद्धचिद्घनमनादि वस्तु यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥२५६॥
यदिति । यत्परं सर्वोत्कृष्टम् , सकलवागगोचरं ‘यतो वाचो निवर्तन्ते’(तै.उ. २.४.१) इति श्रुतेः उपनिषद्भिरपि लक्षणावृत्त्या प्रतिपाद्यमानत्वात् । विमलबोधरूपं यच्चक्षुः तस्य गोचरं ‘ज्ञानप्रसादेन विशुद्धसत्त्वः ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु.उ. ३.१.८) इति श्रुतेः । शुद्धा निर्विषया या चित् सैव घनः मूर्तिः यस्य, यद्वा शुद्धं च तत् चिद्घनं निरुपहितज्ञानस्वरूपम् , अनादि वस्तु नित्यं यथार्थं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५६॥
षड्भिरूर्मिभिरयोगि योगिहृद्
भावितं न करणैर्विभावितम् ।
बुद्ध्यवेद्यमनवद्यभूति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥२५७॥
षड्भिरिति । क्षुत्पिपासे शोकमोहौ जराम्रुत्यू ऊर्मिवत् तरङ्गवत् उपर्युपरि सम्भवन्तीति एते षडूर्मय इति कथ्यन्ते । तैः षड्भिः ऊर्मिभिः अयोगि योगरहितं सम्बन्धशून्यम् , क्रमेण प्राणमनःशरीराश्रितत्वात् तेषाम् । योगिहृद्भावितं विषयेभ्यो निरुद्धचित्ताः योगिनः तेषां हृदा मनसा भावितम् आदरेण ध्यातमित्यर्थः । न करणैर्विभावितं ‘न चक्षुषा गृह्यते नापि वाचा’(मु.उ ३.१.८) ‘नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा’(क.उ. ६.१२) ‘न तत्र चक्षुर्गच्छति न वाग्गच्छति’(के.उ. १.३) इत्यादिश्रुतिभ्यः । शब्दस्पर्शरूपादिरहितत्वात् बुद्ध्यवेद्यं सौक्ष्म्याग्र्यत्व हीनबुद्ध्या वेत्तुमशक्यम् , अनवद्यभूति अनवद्या भूतिः महिमा यस्य निर्दोषैश्वर्यमित्यर्थः । ‘वैषम्यनैर्घृण्ये न सापेक्षत्वात्’(ब्र.सू. २.१३४) इति सूत्रात् । ‘निरवद्यम्’(श्वे.उ. ६.१९) इति श्रुतेश्च । तादृशं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५७॥
भ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् ।
निष्कलं निरुपमानमृद्धिमत् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५८॥
‘पादोऽस्य सर्वा भूतानि’(छा.उ. ३.१२.५) इति श्रुतेः भ्रान्त्या कल्पिता या जगद्रूपा कला अंशः तदाश्रयम् अधिष्ठानं, ‘स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि’(बृ.उ. ३.९) इति श्रुतेः स्वमाश्रयः यस्य अनाधारं सत्यमित्यर्थः । सदसद्विलक्षणं प्रत्यक्षपरोक्षपञ्चभूतविलक्षणं, निष्कलं निरवयवं, निरुपमानम् असदृशं ‘न तत्समश्चाभ्यधिकश्च दृश्यते’(श्वे.उ. ६.८) इति श्रुतेः । ऋद्धिमत् ‘एष सर्वेश्वरः’(बृ.उ. ४.४.२१) इत्यादिश्रुतेः । ‘सत्यकामः सत्यसङ्कल्पः’(छा.उ. ८.१.५) इत्यादिश्रुतेश्च । एतादृशं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५८॥
जन्मवृद्धिपरिणत्यपक्षयव्याधिनाशनविहीनमव्ययम् ।
विश्वसृष्ट्यवनघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि ॥२५९॥
जन्म उत्पत्तिः । तदनन्तरकालिकस्थितेरुपलक्षणम् । वृद्धिः अवयवोपचयः । परिणतिः विपरिणामः पाकादिना रूपान्तरोत्पत्तिः आम्रादिफलादिषु । अपक्षयः अवयवापचयः । व्याधिः रोगः । नाशनमन्त्यविकारः तैर्विहीनं षड्भावविकारशून्यमित्यर्थः । अत एव अव्ययं न व्येतीत्यव्ययं स्वतो वा परतो वा नाशरहितं नित्यम् । विश्वसृष्ट्यवनघातकारणं ‘यतो वा इमानि भूतानि जायन्ते ।’ ‘येन जातानि जीवन्ति ।’ ‘यत्प्रयन्त्यभिसंविशन्ति’(तै.उ. ३.१) ‘इदं सर्वमसृजत’(तै.उ. २.६, छां.उ. १.२.५) ‘आकाशः परायणम् आकाशं प्रत्यस्तं यन्ति’(छा.उ. १.९.१) इत्यादिश्रुतिभ्यः सकलप्रपञ्चसृष्टिस्थितिसंहारकारणं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५९॥
अस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम् ।
नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६०॥
अस्तभेदम् अस्तः गतः भेदः यस्मात् ‘एकमेवाद्वितीयम्’(छा.उ. ६.२.१) ‘इदं सर्वं यदयमात्मा’(बृ.उ. २.४.६, ४.५.७) इति श्रुतेः, अनपास्तलक्षणम् अनपास्तमत्यक्तम् अनपायि सार्वदिकमित्यर्थः, लक्षणं सच्चिदानन्दस्वरूपं यस्य तत् , निर्गताः तरङ्गाः यस्मात् स चासौ जलराशिश्च समुद्रः तद्वन्निश्चलं, नित्यमुक्तं कदापि बन्धरहितम् , अविभक्तमूर्ति सच्चिदानन्दस्वरूपत्वेऽपि तत्पदलक्ष्याखण्डस्वरूपभेदाभावात् अविभक्ता भेदरहिता मूर्तिः स्वरूपं शरीरं यस्य तत् अविभक्तमूर्ति निरवयवमिति वा यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६०॥
एकमेव सदनेककारणं कारणान्तरनिरासकारणम् ।
कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६१॥
एकमेव सत् कल्पितानामनेकेषाम् अधिष्ठानत्वेन कारणम् , कारणान्तरनिरासकारणं ‘परास्य शक्तिर्विविधैव श्रूयते’(श्वे.उ. ६.८) इति श्रुतेः, स्वभिन्नकारणनिरपेक्षमित्यर्थः । सकलदृश्यनिषेधसाक्षित्वेन कारणान्तरस्य आकाशादेः निरासे नेति नेतीति निषेधे कारणमिति वा, कार्यकारणविलक्षणं ‘तदेतद् ब्रह्मापूर्वमनपरम्’(बृ.उ. २.५.१९) इति श्रुतेः कार्यं जगत् , कारणं माया, तद्विलक्षणम् । ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’(१५.१७) इति गीतोक्तेश्च । यद्यप्येककारणम् , इति अस्मिन्नेव श्लोके कारणत्वमुक्तं तथापि तस्य मिथ्याकार्यनिरूपितत्वेन मिथ्यात्वात् वस्तुतः कारणत्वं नास्तीत्यपि मन्तव्यं जगज्जन्मादिकारणत्वस्य तटस्थलक्षणत्वात् । यावल्लक्ष्यकालमनवस्थितं यद्व्यावर्तकं तदेव तटस्थलक्षणम् । स्वयं स्वतः सिद्धं, ब्रह्म यत् तत्त्वमसि भावयात्मनि ॥२६१॥
निर्विकल्पकमनल्पमक्षरं यत्क्षराक्षरविलक्षणं परम् ।
नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६२॥
निर्विकल्पकं मायिकत्वात् विकल्पानां वस्तुतः विकल्पशून्यम् , अनल्पं ‘यो वै भूमा’(छा.उ. ७.२३.१, २४.२) ‘ज्यायानाकाशात्’(छा.उ. ३.१.४.३) इत्यादिश्रुतेः । अक्षरं न क्षरति अश्नुते व्याप्नोतीति वा अक्षरम् । यत्क्षराक्षरविलक्षणम् ,
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरस्सर्वाणि भूतानि कूटस्थोक्षर उच्यते ॥ (भ.गी. १५.१६)
इति स्मृतेः । पूर्वं कार्यकारणविलक्षणमित्युक्तं विवृतं पदान्तरेण, जगन्मायाविलक्षणं सत्यमित्यर्थः । अत एव परं सर्वोत्कृष्टं, नित्यम् अक्षरत्वान्नित्यं ‘नित्यो नित्यानाम्’(क.उ. २.५.१३) इति श्रुतेः । परं नित्यमिति वा अन्वयः । अव्ययसुखं ‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति’(छा.उ. ७.२४.१) इति श्रुतेः अखण्डसुखरूपं, निरञ्जनं तमश्शून्यं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६२॥
यद्विभाति सदनेकधा भ्रमान्नामरूपगुणविक्रियात्मना ।
हेमवत्स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥२६३॥
यथा एकं हेम सुवर्णं कटककुण्डलाद्यनेकात्मना विभाति स्वयमेकरूपं कारकव्यापारमात्रेण एवं यत् सद् ब्रह्मस्वयं सदा अविक्रियं, भ्रमात् नामरूपगुणविक्रियात्मना अनेकधा विभाति तद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६३॥
यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम् ।
सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६४॥
‘तदेतद् ब्रह्मापूर्वमनपरम्’(बृ.उ. २.५.१९) इति श्रुतेः अनपरं न विद्यते परं कार्यं यस्य वस्तुभूतकार्यशून्यं, परात् हिरण्यगर्भादपि परं, यद्वा सर्वकार्यकारणात् अज्ञानात् परम् ‘अक्षरात्परतः परः’(मु.उ २.१.२) इति श्रुतेः ‘स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते’(प्रश्नो. ५.५) इति श्रुतेः, परशब्देन हिरण्यगर्भोऽपि ग्रहीतुं शक्यते । प्रत्यगेकरसं जीवाभिन्नं सर्वान्तरम् −
]यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।
*
यच्चास्य सन्ततो भावः तस्मादात्मा प्रकीर्तितः ॥
इत्युक्तात्मलक्षणोपेतं सत्यचित्सुखमनन्तमपरिच्छिन्नम् , अव्ययं नित्यं, ब्रह्म भावयात्मनि ॥२६४॥
उक्तमर्थमिममात्मनि स्वयं भावय प्रथितयुक्तिभिर्धिया ।
संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्यति ॥२६५॥
उक्तमिति । इमम् ऐक्यरूपम् उक्तमर्थं प्रथितयुक्तिभिः युक्तिषु प्रथितत्वं श्रुत्यनुसारित्वम् । धिया निर्मलान्तःकरणेन आत्मनि बुद्धौ स्वयं भावय । तेन भावनेन कराम्बुवत् हस्तगतजलं यथा निस्संशयं स्पष्टं गृह्यते एवं तत्त्वनिगमः तत्त्वनिर्णयः, संशयादिरहितं यथा तथा भविष्यति । रहितपदस्य राहित्यमर्थः । संशयादीति विपर्ययः आदिपदेन गृह्यते असम्भावना च । असम्भावनासंशयविपर्ययभावनानां राहित्यं यस्मिन् कर्मणि तद्यथा भवति तथा इति भविष्यतीत्यत्र भवनक्रिया विशेषणम् ॥२६५॥
स्वं बोधमात्रं परिशुद्धतत्वं विज्ञाय सङ्घे नृपवच्च सैन्ये ।
तदात्मनैवात्मनि सर्वदा स्थितो विलापय ब्रह्मणि दृश्यजातम् ॥२६६॥
स्वमिति । सैन्ये बहुयोधघटिते सैन्ये छत्रादिचिन्ह्नेन नृपमिव सङ्घे शरीरेन्द्रियप्राणाहङ्काररूपकार्यकरणसङ्घाते, परिशुद्धतत्त्वं परिशुद्धं तत्त्वं याथात्म्यं यस्य सः परिशुद्धतत्त्वः तं स्वम् आत्मानं बोधमात्रं सर्वावभासकज्ञानमात्रं दृश्यसन्बन्धरहितं विज्ञाय विवेकेनानुभूय, तदात्मनैव ज्ञानात्मनैव सर्वदात्मनि स्थितः स्वरूपनिष्ठः, ब्रह्मणि दृश्यजातं विलापय −
पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ ।
नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥ (ब्रह्म.चिन्त. १२)
इति रीत्या तत्तुदुपादेयानां स्वोपादानव्यतिरेकेण असद्भावं विनिश्चित्य सर्वस्य सर्वोपादानभूतब्रह्मव्यतिरेकेणाभावं निश्चिनुहि इत्यर्थः ॥२६६॥
बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् ।
तदात्मना योऽत्र वसेद्गुहायां पुनर्न तस्याङ्गगुहाप्रवेशः ॥२६७॥
सदसद्विलक्षणं सत्यम् अद्वितीयं परं ब्रह्म गुहायां बुद्धौ अस्ति ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’(बृ.उ. ४.३.७) इति श्रुतेः ‘स वा एष आत्मा हृदि’(छा.उ. ८.३.३) इति च, ‘प्रतिबोधविदितं’(के.उ. २.४) ‘दृश्यते त्वग्र्यया बुध्या सूक्ष्मया’(क.उ. १.३.१२) इति श्रुतेः बुद्धिं विना वेत्तुमशक्यत्वात् दर्पणमिव मुखस्य बुद्धिवृत्तिरेव आवरणं भङ्क्त्वा ब्रह्म गृह्णातीति सर्वगतमपि बुद्धावस्तीति कथ्यते, सुषुप्तौ बुद्ध्यभावेन दुर्ग्रहत्वात् । सामीप्यसप्तमी पाषाणे वृक्ष इतिवत् स्वरूपस्य । यद्यपि पञ्चापि कोशाः गुहापदेन कथ्यन्ते तथापि तत्र मनोमयादीनां बुद्धिद्वारकसम्बन्धात् आनन्दमयकोशे बुद्धिं विना विवेक्तुमशक्यत्वात् प्राधान्येन सत्वप्रधानबुद्धावेव स्थितिरित्युक्तमिति बोध्यम् । तदात्मना ब्रह्मात्मना यः पुरुषः अत्र गुहायां स्थुलसूक्ष्मदेहात्मकगुहायां, वसेत् पुनः तस्य अङ्गगुहाप्रवेशः अङ्गमेव गुहा, अङ्गेति शिष्यसम्बोधनं वा, अत्र प्रवेशः तादात्म्याभिमानः न विद्यते । ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुतेः ।
आत्मानं चेद्विजानीयात् अयमस्मीति पुरुषः ।
किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ (बृ.उ. ४.४.१२)
इति च ॥२६७॥
एतावता ग्रन्थेन ‘आत्मानात्मविवेचनं स्वनुभवः’ इत्येतत्प्रदर्शितं ग्रन्थद्वितीयश्लोकोक्तम् , ब्रह्मात्मना संस्थितिर्मुक्तिरितीममर्थं सूत्रितं विशदयितुम् उपक्रमते ज्ञात इति −
२८. वासनाक्षयोपायः
ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा
कर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः ।
प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्नात्
मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥२६८॥
वस्तुनि आत्मनि ज्ञातेऽपि पञ्चकोशविलक्षणतया ब्रह्माभिन्नतया च शास्त्रतः युक्तितश्च ज्ञातेऽपि, या वासना अस्य संसारहेतुः कर्तृत्वभोक्तृत्वादिरूपसंसारकारणम् अहं कर्ता भोक्तापीति दृढा दुरुच्छेद्या, अनादिः बहुकालानुवृत्ता, एषा वासना बलवती, सम्यक्प्रबुद्धोऽपि स्वप्नेऽत्यन्तं भीतः कञ्चित्कालं निराकुलितान्तःकरणो न भवतीति दृश्यते हि । अतः आत्मनि ब्रह्मणि प्रत्यग्दृष्ट्या बहिर्मुखत्वं नितरां दूरीकृत्य अन्तर्मुखतया निर्विकल्पकसमाधिनेत्येतत् , अभेदज्ञानेन निवसता नितरां स्थितिमता सा प्रयत्नादपनेया नाशनीया । यतः वासनातानवं स्वकार्यानाधायकत्वम् अनुत्कटत्वं यत् तदेव लोके शास्त्रे वा मुनयः शास्त्रार्थमननशीलाः मुक्तिं प्राहुः । अतः ब्रह्मात्मना संस्थितिः अप्रमादेन संस्थितिः मुक्तिरिति दृढतमसाधनचतुष्टयसम्पत्तिं विना जन्मान्तरसुकृतवशात् ब्रह्मविदोऽपि वासनाक्षयमनोनाशार्थं प्रयत्नः निरन्तरसमाधिरूपः आवश्यक एवेत्युक्तं भवति ॥२६८॥
प्रतिबन्धे सति प्रत्यग्दृष्ट्या आत्मनि निवासः न सम्भवतीति तत्प्रतिबन्धं तन्निरासोपायं च करुणानिधिर्भगवान् विस्तरेणोपदिशति अहं ममेत्यादिना −
अह ममेति यो भावो देहाक्षादावनात्मनि ।
अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥२६९॥
अनात्मनि देहाक्षादौ । अक्षाणि इन्द्रियाणि । आदिपदेन प्राणमनोबुद्ध्यादि । तत्र अहं मम इति यो भावः अहन्ता ममता इत्यर्थः । अयमध्यासः विदुषा श्रवणमननवता पुरुषश्रेष्ठेन स्वात्मनिष्ठया स्वात्मनि ब्रह्मणि नितरां स्थितिरूपनिदिध्यासनेन निरस्तव्यः समूलघातं हन्तव्य इत्यर्थः ॥२६९॥
तत्प्रकारमुपदिशति ज्ञात्वेति −
ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् ।
सोऽहमित्येव सद्वृत्याऽनात्मन्यात्ममतिं जहि ॥२७०॥
स्वं बुद्धितद्वृत्तिसाक्षिणं प्रत्यगात्मानं ज्ञात्वा सोऽहमित्येव सद्वृत्या कालत्रयेऽपि बाधायोग्यवस्त्वभेदज्ञानेन अनात्मनि बुद्ध्यादौ आत्ममतिम् अहन्तां जहि नाशय ॥२७०॥
भ्रान्तिपरम्पराहेतुत्याजनेन भ्रान्तिं त्याजयति लोकेति −
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥२७१॥
उक्तं हि साधनपञ्चके ‘जनकृपानैष्ठुर्यमुत्सृज्यताम्’ इति ‘देहेऽहम्मतिरुज्झ्यताम्’ इति च । शास्त्रानुवर्तनं नाम मोक्षप्रयोजकग्रन्थपरिशीलनं विना इतरग्रन्थाध्ययनादिकम् , दृढतरं कर्माशु सन्त्यज्यतामित्युपदेशानुसारेण शास्त्रपदं कर्मशास्त्रपरं वा । तत्त्रयं त्यक्त्वा स्वाध्यासापनयं कुरु अहन्तां ममतां च नाशय ॥२७१॥
तत्कुत इत्यत आह लोकवासनयेति −
लोकवासनया जन्तोः शास्त्रवासनयापि च ।
देहवासनया ज्ञानं यथावन्नैव जायते ॥२७२॥
सर्वे जनाः यथा मां न निदन्ति यथा स्तुवन्ति तथैव सर्वदा चरिष्यामि इत्यभिनिवेशः लोकवासना । इयं वासना अत्यन्तं प्रतिबन्धिका, तथा केनापि स्थातुमशक्यत्वात् । इदन्तु जीवन्मुक्तिविवेके वासनाक्षयप्रकरणे विद्यारण्यगुरुचरणैः विस्तरेणोपपादितं ‘को लोकमाराधयितुं समर्थः’
विद्यते न खलु कश्चिदुपायः सर्वलोकपरितोषकरो यः ।
सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः ॥ इति ।
अत एव ‘तुल्यनिन्दास्तुतिः’(१२.१९) भगवद्भक्त इत्युक्तं गीतायाम् ।
शास्त्रवासना त्रिविधा पाठव्यसनं शास्त्रव्यसनम् अनुष्ठानव्यसनं चेति भरद्वाजदुर्वासोदाशूरदृष्टान्तैः जीवन्मुक्तिविवेके सूपपादिता । एवं देहवासनापि आत्मत्वगुणाधानदोषापनयनभ्रान्तिभिः त्रिविधा इत्यादिना विवृता । तत एव विज्ञेया । तिसृभिरेताभिः वासनाभिः ज्ञानं यथावन्नैव जायते ॥२७२॥
एतत्त्रययमेव सम्यग्ज्ञानप्रतिबन्धकमित्याह प्रामाणिकोक्तिं मूलीकृत्य संसारेति −
संसारकारागृहमोक्षमिच्छोः
अयोमयं पादनिबद्धशृङ्खलम् ।
वदन्ति तज्ज्ञाः पटु वासनात्रयं
योऽस्माद्विमुक्तः समुपैति मुक्तिम् ॥२७३॥
तज्ज्ञाः ब्रह्मविदः, पटुवासनात्रयं तानवमयातं लोकशास्त्रदेहवासनात्रयं संसार एव कारागृहं तस्मान्मोक्षम् इच्छोः पुरुषस्य, अयोमयं बहुदृढं पादनिबद्धशृङ्खलं पादयोः निबद्धं शृङ्खलमितिरूपकम् । यथा आयसशृङ्खलाबद्धपादयुग्मः गन्तुं न शक्नोति एवं लोकादिवासनात्रययुतः विष्णोः परमं पदं नैव प्राप्तुं शक्नोतीत्यभिप्रायः । यो नरः अस्मात् पूर्वोक्तवासनात्रयात् विमुक्तः तनूकृतवासनः स मुक्तिं समुपैति यथावज्ज्ञानेनेति शेषः ॥२७३॥
तत्र प्रतिबन्धकवासनापनयने सदृष्टान्तम् आत्मवासनासमेधनं कारणमाह जलादीत्यादिना −
जलादिसम्पर्कवशात् प्रभूत-
दुर्गन्धधूतागरुदिव्यवासना ।
सङ्घर्षणेनैव विभाति सम्यक्
विधूयमाने सति बाह्यगन्धे ॥२७४॥
अगरोः जलादिसम्पर्कवशात् प्रभूतः बहुलः यः दुर्गन्धः तेन धूतागरुदिव्यवासना सौरभ्यं, सङ्घर्षणेन वाह्यगन्धे विधूयमाने अपनीयमाने तिरस्क्रियमाण एव सम्यग्विभाति इति दृष्टान्तः ॥२७४॥
अन्तश्श्रितानन्तदुरन्तवासना-
धूलीविलिप्ता परमात्मवासना ।
प्रज्ञातिसङ्घर्षणतो विशुद्धा
प्रतीयते चन्दनगन्धवत्स्फुटा ॥२७५॥
अन्तःश्रिता या अनन्ता बहुविधा दुरन्ता दुष्फलदा वासना अनात्मवासना सैव धूली तया विशेषेण लिप्ता अभिभूता परमात्मवासना, प्रज्ञया ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः’(बृ.उ. ४.४.२१) इति श्रुत्या −
ब्रह्मात्मनोः शोधितयोः एकभावावगाहिनी ।
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ॥ (श्लो .४२८)
इति वक्ष्यमाणया, यदतिसङ्घर्षणं मनसः कोशासम्पर्केण स्थापनं ततः विशुद्धा अनात्मवासनाऽसम्पृक्ता चन्दनगन्धवत् स्फुटा प्रतीयते इति दार्ष्टान्तिकम् ॥२७५॥
उक्तमर्थं सङ्गृह्णाति अनात्मेति −
अनात्मवासनाजालैः तिरोभूतात्मवासना ।
नित्यात्मनिष्ठया तेषां नाशे भाति स्वयंस्फुटा ॥२७६॥
अनात्मविषयिण्यः या वासनाः लोकदेहशास्त्रवासनाः ‘दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च’(भ.गी. १६.४) इत्यादिना आसुरसम्पत्त्वेन दर्श्यमानमानसवासनाश्च, तासां जालैः समूहैः आत्मवासना तिरोभूता न्यक्कृता । तेषाम् अनात्मवासनाजालानां नित्या या आत्मनिष्ठा ब्रह्मणि परिसमाप्तिः तया नाशो स्वयं स्फुटा विविक्ता भाति ॥२७६॥
‘अस्माल्लोकाप्रेत्य ।’, ‘एतमन्नमयमात्मानमुपसङ्क्रामति’(तै.उ. २.८) इत्यादिश्रुत्या,
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ (भ.गी. ६.२५)
इति स्मृत्या च कथितमर्थं वासनाक्षयोपायम् आह यथायथेति −
यथा यथा प्रत्यगवस्थितं मनः
तथा तथा मुञ्चति बाह्यवासनाः ।
निश्शेषमोक्षे सति वासनानां
आत्मानुभूतिः प्रतिबन्धशून्या ॥२७७॥
यथा यथा प्रत्यक् अन्तः मनः अवस्थितम् अभ्यासवैराग्याभ्यां तथा तथा बाह्यवासनाः पुत्रादिषु ममताम् अन्नमयादौ अहन्तां च मुञ्चति । वासनानां निश्शेषमोक्षे निर्विकल्पकसमाधिनैरन्तर्येण वेदान्तार्थविचारपुरस्सरं क्रियमाणेन ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.४९) इति स्मृत्या निश्शेषं यथा सूक्ष्मात्मनापि न स्यात् तथा मूलाज्ञानेन आश्रयेण सह मोक्षे अत्यन्तं निवृत्तौ आत्मानुभूतिः प्रतिबन्धशून्या निरर्गला ॥२७७॥
कार्यनाशनद्वारा कारणं क्षपणीयम् इति वासनाकार्यभ्रान्तिनाशं वासनाक्षये कारणमाह नवभिः श्लोकैः स्वात्मन्येवेत्यादिभिः −
स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।
वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥२७८॥
योगिनः चित्तस्य राजसीः तामसीश्च वृत्तीः निरुन्धतः सत्वोत्कर्षेण स्वात्मन्येव ब्रह्मण्येव सदा स्थित्या निदिध्यासनेनेत्यर्थः । मनो नश्यति प्रदीपज्वालासन्तानवत् वृत्तिसन्तानरूपेण परिणममानम् अन्तःकरणं स्ववेगं त्यक्त्वा निरुद्धं भवति । ततः ब्रह्मसामीप्यबलेन शान्तिदान्तिरूपशुद्धवासनायां दृढायां भवन्त्यां बाह्यनिमित्ते सत्यपि क्रोधाद्यनुत्पत्तिः वासनानां क्षयः, पूर्वापरपरामर्शमन्तरेण सहसा उत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतोः चित्तगतसंस्कारविशेषस्यैव वासनाशब्दार्थत्वात् । अतः स्वाध्यासापनयं कुरु विपरीतभावनाः निवर्तय । पञ्चसु कोशेषु सम्यग्विचार्य आत्मबुद्धिं परित्यज ॥२७८॥
राजसतामसवृत्तिनिरोधरूपयोग एव कथमिति चेदाह तम इति −
तमो द्वाभ्यां रजः सत्त्वात् सत्त्वं शुद्धेन नश्यति ।
तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ॥२७९॥
द्वाभ्यां रजस्सत्त्वाभ्यां तमः नश्यति । प्रसिद्धं हि व्यायामादिना काव्यशास्त्रविनोदादिना वा आलस्यनिद्रादितामसधर्मान् नाशयन्तीति । रजः सत्त्वात् चित्तैकाग्र्यरूप सत्त्वकार्येण कर्मणि प्रवृत्तीश्च त्यजन्तीति रजः सत्त्वान्नश्यति । तदपि सत्त्वं शुद्धेन निर्गुणेन नश्यति । निर्गुणप्राप्तौ सत्त्ववृत्तेः ज्ञानस्यापि नाशात् । तस्मात्सत्त्वमवष्टभ्य अवलम्ब्य तमःकृतावरणकालिकरजःकृतविक्षेपरूपाणां स्वाध्यासानां भ्रमाणाम् अपनयं नाशं कुरु ॥२७९॥
ज्ञानसाधनत्वात् शरीरस्य तद्रक्षायै तदभिमान आवश्यकः इति चेदाह प्रारब्धमिति −
प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः ।
धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥२८०॥
प्रारब्धं कर्म वपुः शरीरं पुष्यति रक्षतीति निश्चित्य निश्चलः निर्विकारचित्तः धैर्यं विकारहेतावपि अविकृतचित्तत्वम् अवलम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥२८०॥
तत्प्रकारं विशदयति नाहमिति −
नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् ।
वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥२८१॥
नाहं जीवः किन्तु परं ब्रह्म इति न तत् अतत् ब्रह्मभिन्नं तस्य सर्वस्य बुद्धिमनःप्राणशरीरादेः व्यावृत्तिपूर्वकम् −
नाहं देहो नेन्द्रियाण्यन्तरङ्गं नाहङ्कारः प्राणवर्गो न बुद्धिः ।
दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥
(अद्वै.पञ्च. १)
इति निषेधपुरस्सरं वासनावेगतः पूर्वं प्राप्ताः ये स्वाध्यासाः तेषाम् अपनयं कुरु । यद्वा वासनापदेन अनादिकालप्रवृत्तानात्मवासनाः ग्राह्याः तासां वेगतः प्राप्तस्वाध्यासानाम् अपनयम् अतद्व्यावृत्तिपूर्वकम् अहं परं ब्रह्मेति निरन्तरानुसन्धानेन कुरु इति योजनीयम् ॥२८१॥
श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ।
क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ॥२८२॥
श्रुत्येति । ‘आत्मैवेदं सर्वं’(छा.उ. ७.२५.२) इत्यादिश्रुत्या, यस्य स्फुरणं विना यन्न स्फुरति तत्ततो नातिरिच्यते यथा मृदो घटः दुन्दुभिशङ्खवीणाशब्दसामान्यविशेषा वा इति श्रुत्यनुसारिण्या युक्त्या ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’(क.उ. ५.१४) इति श्रुतेः, सर्वस्य आत्मभानभास्यत्वात् न तदतिरिक्तत्वं सकलकल्पनाधिष्ठानत्वाच्च ‘नाधिष्ठानाद् भिन्नताऽऽरोपितस्य’ इत्यादि युक्त्या, तदनुसारिण्या स्वानुभूत्या आत्मनः सार्वात्म्यं ज्ञात्वा कल्पितानां सर्वेषां वास्तवस्वरूपतां विदित्वा क्वचित्कोशादौ आभासतः चैतन्यप्रतिफलनमात्रात् प्राप्तस्वाध्यासापनयं कुरु अहन्तां नाशय ॥२८२॥
अन्नादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः ।
तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥२८३॥
अन्नादानेति । मुनेः सततं परमात्ममननशीलस्य अन्नादानविसर्गाभ्याम् अन्या क्रिया ईषदपि नास्ति, अतः नित्यं तदेकनिष्ठया तस्मिन् परमात्मनि एका अनन्यतया या निष्ठा नितरां स्थितिः तस्मिन् एकस्मिन् निष्ठा वा तया स्वाध्यासापनयं कुरु ॥२८३॥
तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः ।
ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥२८४॥
तत्त्वमसीति । तत्त्वमस्यादिवाक्येभ्यः उत्थः जातः, यः ब्रह्मात्मनोः एकत्वस्य बोधः ततः तद्बलेन, ब्रह्मण्यात्मत्वदार्ढ्याय दार्ढ्यं च देहात्मज्ञानवत् ब्रह्मात्मत्वज्ञानं तस्मै स्वाध्यासापनयं कुरु अनात्मभ्रान्तौ महावाक्येभ्यः बोधस्यैवाजननात् ॥२८४॥
कियत्कालं भ्रान्तिनिरासप्रयत्नः करणीय इति चेदाह अहमिति −
अहंभावस्य देहेऽस्मिन् निश्शेषविलयावधि ।
सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥२८५॥
अस्मिन् स्थूलदेहे अहंभावस्य निश्शेषविलयावधि वासनया सह नाशपर्यन्तं, सावधानेन युक्तात्मा अप्रमत्तान्तःकरणः सन् स्वाध्यासापनयं कुरु ॥२८५॥
एवम् −
प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता ।
तावन्निरन्तरं विद्वन् स्वाध्यासापनयं कुरु ॥२८६॥
प्रतीतिरिति । यावता कालेन जीवस्य जगतश्च प्रतीतिः प्रबुद्धस्य स्वप्नवत् निश्चितमिथ्यात्वकं भाति तावत्कालपर्यन्तं निरन्तरं विद्वन् ! स्वाध्यासापनयं कुरु ॥२८६॥
एवं नवभिः श्लोकैः अनात्मभ्रान्त्यपनयमुपदिश्य आत्मनाशहेतोः विस्मृतेः किञ्चिदप्यवकाशो न देय इति विस्मृतिहेतुविशदनेन उपदिशति निद्राया इति −
निद्राया लोकवार्तायाश्शब्दादेरपि विस्मृतेः ।
क्वचिन्नावसरं दत्वा चिन्तयात्मानमात्मनि ॥२८७॥
निद्रायाः पञ्चमी, एवं लोकवार्तायाः शब्दादेरपि विषयात् प्रसज्यमाना या विस्मृतिः आत्मविस्मरणं तस्याः, क्वचित् कदाचिदपि अवसरमवकाशम् अदत्त्वा आत्मानं परं स्वरूपम् , आत्मनि बुद्धौ चिन्तय । उक्तं हि − ‘दद्यान्नावसरं किञ्चित्कामादीनां मनागपि’ इति । यद्वा सर्वत्र षष्ठी निद्रायाः लोकवार्तायाः शब्दादेः विस्मृतेरपि क्वचिदप्यवसरमदत्त्वा चिन्तयात्मानमात्मनीत्यर्थः । उक्तं हि मोक्षधर्मेषु −
अप्राशनमसंस्पर्शमसन्दर्शनमेव च ।
पुरुषस्यैष नियमो मन्ये निःश्रेयसं वरम् ॥ (१७३.३१) इति ॥२८७॥
यदभिमाननिबन्धनाः सर्वे दोषाः तं स्थूलदेहं मा कदाचिदप्यात्मत्वेन मंस्था इत्याह मातापित्रोरिति −
मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः ।
त्यक्त्वा चण्डालवद्दूरं ब्रह्मीभूय कृतीभव ॥२८८॥
मातापित्रोः मलोद्भूतं शुक्लशोणितजन्यं, मलमांसमयं हेतुतः स्वभावतश्च बीभत्समित्यर्थः, वपुः शरीरं चण्डालमिव दूरं त्यक्त्वा तत्रात्मत्वाभिमानमकृत्वा, ब्रह्मीभूय आज्ञानिकम् अब्रह्मत्वं विधूय स्वयं ब्रह्मेति विज्ञाय, कृती कृतकृत्यो भव । कृती धीमान्वा ॥२८८॥
त्यक्त्वा स्थूलाभिमानं तत्परिच्छेदात्परिच्छिन्नमिव भासमानं जीवमपि उपाधिप्रविलापनेन विलापयेत्याह घटेति −
घटाकाशं महाकाश इवात्मानं परात्मनि ।
विलाप्याखण्डभावेन तूष्णीं भव सदा मुने ॥२८९॥
महाकाश एव घटेनावच्छिद्यमानः घटाकाश उच्यते । एवं बुद्ध्याद्युपाधिना परात्मा जीव उच्यते । धिया घटस्य पृथक्करणे घटाकाशो महाकाश एव । एवमुपाधीनां सर्वोपादानसर्वकल्पनाधिष्ठानब्रह्माव्यतिरिक्तत्वज्ञानेन स्वरूपतः निषेधे कृते अखण्डभावेन परिच्छेदापादकस्याभावात् अपरिच्छिन्नाकारतया सदा मुने तूष्णीं भव कर्तव्यान्तराभावात् । उक्तं हि गीतासु ‘एतद् बुद्ध्वा बुद्धिमान्स्यात् कृतकृत्यश्च भारत’ । (१५.२०) इति ॥२८९॥
स्वप्रकाशमधिष्ठानं स्वयम्भूय सदात्मना ।
ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥२९०॥
स्वप्रकाशमिति । स्वप्रकाशं चिद्रूपतया स्वतः सिद्धम् , अधिष्ठानं सर्वकल्पनानां मायाविद्ययोश्च कल्पनाधिष्ठानम् , स्वयम्भूत्वा सदात्मना, ब्रह्माण्डं चतुर्दशभुवनात्मकं पिण्डाण्डमपि स्वशरीरमपि, मलभाण्डवत् मलपूर्णघटवत् त्यज्यतां नैव स्मर्यतामित्यर्थः ‘अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः’ इति प्रमाणात् । सदात्मना त्यागो नाम नास्तित्वापादानमेव ॥२९०॥
चिदात्मनि सदानन्दे देहारूढामहन्धियम् ।
निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥२९१॥
चिदात्मनीति । देहारूढामहन्धियम् अहमितिमतिं सदानन्दे चिदात्मनि स्वयम्प्रकाशनित्यानन्दस्वरूपे परमात्मनि निवेश्य आधाय, लिङ्गं सूक्ष्मशरीरम् उत्सृज्य तादात्म्येनानभिमत्य सर्वदा केवलो भव असङ्गो भव सजातीयविजातीयस्वगतभेदरहितो वा भव । भेदस्याज्ञानिकत्वात् परमात्माहमिति ज्ञाने तस्य नाशात् कैवल्यं सहजमभिव्यज्यत इति भावः ॥२९१॥
यत्रैष जगदाभासः दर्पणान्तः पुरं यथा ।
तद् ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥२९२॥
यत्रेति । स्वच्छे अच्छिद्रे दर्पणे अन्तः यथा पुरं जनगिरिनदीप्रासादादिरूपं पुरं प्रतिफलति अन्तरवर्तमानमपि दृश्यते तथा यत्र ब्रह्मणि एष जगदाभासः मिथ्याभूतं जगत् भाति तद् ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥२९२॥
यत्सत्यभूतं निजरूपमाद्यं
चिदद्वयानन्दमरूपमक्रियम् ।
तदेत्य मिथ्यावपुरुत्सृजैत-
च्छैलूषवद्वेषमुपात्तमात्मनः ॥२९३॥
यदिति । चित् अद्वयं च तत् आनन्दं च अद्वयानन्दम् अरूपमक्रियं यदाद्यं सत्यभूतं निजरूपं वास्तविकं तव स्वरूपं तदेत्य प्राप्य ज्ञानमेवात्र प्राप्तिः कण्ठचामीकरवत् , एतत् मिथ्याभूतं वपुरुत्सृज त्यक्ताहम्भावं कुरु । यथा शैलूषः नटः आत्मनः उपात्तं वेषमुत्सृजति तद्वत् ॥२९३॥
पुनरात्मानम् अहंपदार्थं शरीरादिभ्यो विवेचयति ज्ञानदाढर्याय सर्वात्मनेति −
सर्वात्मना दृश्यमिदं मृषैव
नैवाहमर्थः क्षणिकत्वदर्शनात् ।
जानाम्यहं सर्वमितिप्रतीतिः
कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥२९४॥
अहंपदार्थः सत्यः नित्यश्च, इदं दृश्यं मृषैव क्षणिकत्वदर्शनात् क्षणे अहं पश्यामीति क्षणे अहं शृणोमीति एवम् अहं जिघ्रामि रसयामि गच्छामीत्यादिना यत्र यत्र अहंवृत्तिसम्बन्धः स सः अहमहमित्यभिलप्यते नहि बहूनाम् अहन्त्वं सम्भवति आत्मनः एकत्वात् । यदा अहंवृत्तिसम्बन्धः तदैषां भानं वृत्तेः क्षणिकत्वात् सम्बद्धानां च तथात्वमेव अभासमानस्य सत्त्वे प्रमाणाभावात् अतः जडत्वेन क्षणिकत्वेन सर्वात्मना सर्वप्रकारैश्च इदं दृश्यं मृषैव नैवाहमर्थः । तदुपपादयति अहं सर्वं जानामीति प्रतीतिः क्षणिकस्य अहमादेः कथं सिध्येत् इति । नहि चक्षुः रसं जानाति श्रोत्रं वा रूपम् । अतः ‘गन्धाय घ्राणं’(ब्र.सू.भा. २.३.१८) इत्यादिश्रुत्या तेषां रूपाद्याकारवृत्तिकरणत्वेऽपि नाहमर्थत्वम् । नहि मनो वा स्वकीयवृत्तीः ज्ञातुमीष्टे जडत्वात् कर्तृकर्मविरोधाच्च ॥२९४॥
अतः आत्मा अन्यः, तत्स्फुटयति अहमिति −
अहंपदार्थस्त्वहमादिसाक्षी
नित्यं सुषुप्तावपि भावदर्शनात् ।
ब्रूते ह्यजो नित्य इति श्रुतिस्स्वयं
तत्प्रत्यगात्मा सदसद्विलक्षणः ॥२९५॥
अहमादेः दृश्यस्य अहंपदार्थत्वाभावे कस्य तथात्वमिति चेत् आह अहंपदार्थस्तु तु शब्दः दृश्यानाम् अहंपदार्थत्वव्यावर्तकः । अहमादिसाक्षी अहमादीनां सर्वेषाम् अज्ञानादिदृश्यानां साक्षी नित्यं वस्तु सुषुप्तावपि यदा अहंवृत्तेरभावः लयः तस्यां सुषुप्तावपि भावदर्शनात् ‘सुखमहमस्वाप्सम्’ इति । अनुभवे विवदमानमाह ब्रूत इति । ‘अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।’(कठ. २.१८) इत्यात्मा नित्य इति ब्रूते श्रुतिः स्वयम् , तत् तस्मात् कारणात् प्रत्यगात्मा सच्चिदानन्दरूपः आत्मा सदसद्विलक्षणः व्यक्ताव्यक्तभिन्न इत्यर्थः ॥२९५॥
विकारिणां सर्वविकारवेत्ता
नित्योऽविकारो भवितुं समर्हति ।
मनोरथस्वप्नसुषुप्तिषु स्फुटं
पुनः पुनः दृष्टमसत्त्वमेतयोः ॥२९६॥
विकारिणां देहादीनां जन्मादिनाशान्ताः ये विकाराः तेषां सर्वेषां वेत्ता यः नित्यः अविकारश्च स भवितुं समर्हति युज्यते । अनित्यत्वे सर्वविकारवेत्तृत्वासम्भवात् । स्वस्य विकारवत्वे कर्तृकर्मविरोधेन तज्ज्ञानासम्भवात् अनित्यत्वाच्च स्वविकारज्ञाने व्यापृतस्य इतरविकारिविकारज्ञानासम्भवाच्च । अतः नित्यत्वमविकारत्वं च वक्तव्यम् । एतेन बुद्धिसुखदुःखादिमत्त्वेन स्वीक्रियमाणस्य तार्किकात्मनः नित्यत्वं दुर्घटमिति सूचितम् । पिण्डतदभिमानिनोः आत्मत्वं न सम्भवतीत्याह मनोरथेति । मनोरथे मनोराज्ये स्वप्ने सुषुप्तौ च एतयोः पिण्डतदभिमानिनोः पुनःपुनरसत्त्वं स्फुटं दृष्टं प्रसिद्धम् धारावाहिक्यां कल्पनायां व्यासक्तमनसा वर्षवातातपादिबाधा न ज्ञायते तदा शरीरभानाभावात् । तत्सत्त्वेऽपि तत्राभिमानाभावात् अभिमानिनश्च विशिष्टस्याभावो ज्ञेयः । एवं स्वप्ने शरीरान्तरस्यैव सृष्टेः तदभिमान्यपि अन्य एव । सर्वदा साक्षी एकः अत एवोक्तम् −
स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या
भोक्त्रादि विश्वं मन एव सर्वम् । (श्लो. १७२) इति ।
सुषुप्तौ पिण्डाहङ्कारयोः अभावः सिद्ध एव इति स्फुटं दृष्टमित्युक्तम् । एतेन सर्वभावाभावसाक्षी नित्यः एकरूपः इत्युक्तं भवति ॥२९६॥
अतोऽभिमानं त्यज मांसपिण्डे
पिण्डाभिमानिन्यपि बुद्धिकल्पिते ।
कालत्रयाबाध्यमखण्डबोधं
ज्ञात्वा स्वमात्मानमुपेहि शान्तिम् ॥२९७॥
अतः अनित्यत्वात् विकारित्वाच्च मांसपिण्डे बुद्धिकल्पिते पिण्डाभिमानिन्यपि चित्प्रतिबिम्बे अभिमानम् आत्मबुद्धिं त्यज । तह्यर्हं क इति चेत् कालत्रयाबाध्यं नित्यबोधं स्वम् आत्मानं ज्ञात्वा शान्तिम् आत्यन्तिकदुःखनिवृत्तिम् उपेहि मुक्तिं लभस्व ॥२९७॥
स्वाध्यासापनयं कुरु इत्यत्रोक्तमर्थं स्फुटयति त्यजेति −
त्यजाभिमानं कुलगोत्रनाम-
रूपाश्रमेष्वार्द्रशवाश्रितेषु ।
लिङ्गस्य धर्मानपि कर्तृतादीं-
स्त्यक्त्वा भवाखण्डसुखस्वरूपः ॥२९८॥
आर्द्रशवाश्रितेषु स्थूलदेहाश्रितेषु कुलगोत्रनामरूपाश्रमेषु अभिमानं ममतां त्यज । एवं लिङ्गस्य सूक्ष्मदेहस्य धर्मान् कर्तृतादीनपि त्यक्त्वा अनित्यत्वात् विकारित्वाच्च स्थूलसूक्ष्मयोः अखण्डसुखस्वरूपः भव इत्युपदेशः आशीश्च ॥२९८॥
सर्वानर्थहेतुम् आत्मानुभूतौ मुख्यं प्रतिबन्धकमाह यस्मिन्ननुन्मूलिते इतरन्नैव जायते ‘सन्त्यन्य’ इत्यादिभिः त्रयोदशभिः −
सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः ।
तेषामेषां मूलं प्रथमविकारो भवत्यहङ्कारः ॥२९९॥
पुंसः पुरुषस्य संसारहेतवः रागद्वेषादयः अन्ये अहङ्कारादन्ये प्रतिबन्धाः आत्मज्ञानानुत्पत्तिप्रयोजकाः दृष्टाः । तेषामेषाम् अज्ञानप्रथमविकारः अहङ्कारः मूलं भवति ॥२९९॥
यावत्स्यात्स्वस्य सम्बन्धोऽहङ्कारेण दुरात्मना ।
तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥३००॥
दुरात्मना सकलबन्धहेतुतया दुष्टस्वभाववता अहङ्कारेण, यावत्स्वस्य पुंसः सम्बन्धः स्यात् तावत्पर्यन्तम् , विलक्षणा बन्धविरुद्धनित्यनिरतिशयसुखस्वरूपा या मुक्तिः तद्वार्ता लेशमात्रापि न सम्भवति । सर्वबन्धमूलभूताऽहङ्कारवान् न सुतरां मुक्तशब्दार्ह इति भावः ॥३००॥
तदभावे मुक्तिमाह अहङ्कारेति −
अहङ्कारग्रहान्मुक्तः स्वरूपमुपपद्यते ।
चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयम्प्रभः ॥३०१॥
अहङ्कार एव ग्रहः गृह्णातीति राहुः तस्मात्स्वरूपतिरोधायकान्मुक्तः चन्द्रवत् स्वरूपमुपपद्यते प्रत्यक्त्वेन प्राप्नोति । स्वस्वरूपं कीदृगित्यत आह विमलः शुद्धः पूर्णः अपरिच्छिन्नः सदानन्दः नित्यसुखरुपः स्वयम्प्रभः चिद्रूपतया स्वयम्प्रकाशः इत्यर्थः । एतद्धर्मचतुष्टयं राहुमुक्ते चन्द्रेऽपि समानम् । तत्र सदानन्दो येन इत्यर्थो वाच्यः । स्वरूपप्राप्तेरेव मुक्तित्वात् अहङ्कारमोक्षे मुक्तिः सिद्ध्यतीत्युक्तम् ॥३०१॥
तस्य कल्पिततया नाशं सम्भावयति य इति −
यो वा पुरैषोऽहमिति प्रतीतः
बुद्ध्याऽविविक्तस्तमसातिमूढया ।
तस्यैव निश्शेषतया विनाशे
ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥३०२॥
तमसा अज्ञानेन अतिमूढया आत्मस्वरूपं विविच्य ज्ञातुमसमर्थया बुद्ध्या अविविक्तः पुरा एषोऽहमिति यो वा । वेति प्रसिद्धौ । प्रतीतः परिच्छिन्नतया ज्ञातः । तस्य निश्शेषतया विनाश एव इत्येवकारः भिन्नक्रमः । ब्रह्मात्मभावः प्रतिबन्धशून्यः । नो चेत् विपरीतभावना यावत्पर्यन्तं न तावदपरिच्छिन्नब्रह्मात्मत्वज्ञानं सुलभम् ॥३०२॥
तस्याहङ्कारस्य नाशः कथमिति चेदाह ब्रह्मेति −
ब्रह्मानन्दनिधिर्महाबलवताऽहङ्कारघोराहिना
संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डैस्त्रिभिर्मस्तकैः ।
विज्ञानाख्यमहासिना द्युतिमता विच्छिद्य शीर्षत्रयं
निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुं क्षमः ॥३०३॥
सुखबोधार्थं रूपकं कल्पयति । ब्रह्मानन्द एव निधिः हिरण्यनिधिवत् सः महाबलवता विषयक्षीरपानेन रूढमूलतया महाबलवता, अहङ्कार एव घोराहिः भयानकसर्पः तेन गुणमयैः सत्त्वरजस्तमोरूपैः त्रिभिः चण्डैः भीकरैः मस्तकैः आत्मनि स्वस्मिन् स्थितैः संवेष्ट्य आवृत्य रक्ष्यते अनुभोक्तुमनर्हः क्रियते । विज्ञानाख्यमहासिना निदिध्यासनजन्यानुभवनाम्ना महता खड्गेन द्युतिमता निशितेन स्वयम्प्रकाशात्मविषयकतया द्युतिमत्त्वम् , शीर्षत्रयं सत्त्वरजस्तमोगुणात्मकं विच्छिद्य अहिम् अहङ्कारसर्पं निर्मूल्य निरवशेषं कृत्वा, सुखकरम् इमं निधिं ब्रह्मानन्दाभिधं, धीरः वश्यात्मा अनुभोक्तुं क्षमः समर्थः । एतेन सम्यग्विवेकजनितविज्ञाननाश्यत्वम् अहङ्कारस्योक्तम् ॥३०३॥
वासनात्मनापि साहन्ता नावशेषणीयेत्याह । पूर्वश्लोके निर्मूल्येत्युक्तं विव्रियते यावदिति −
यावद्वा यत्किञ्चिद् विषदोषस्फूर्तिरस्ति चेद्देहे ।
कथमारोग्याय भवेत् तद्वदहन्तापि योगिनो मुक्त्यै ॥३०४॥
देहे यावद्वा यत्किञ्चित् ईषदपि इति पदद्वयस्यार्थः । विषदोषस्फूर्तिरस्ति चेत् कथमारोग्याय भवेत् । तद्वदहन्तापि वासनात्मना वा यावदस्ति तावद्योगिनो मुक्त्यै प्रतिबन्धिका इति भावः । अतः निरवशेषमुन्मूलनं कार्यं तस्याः ॥३०४॥
तदा तु −
अहमोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या ।
प्रत्यक्तत्त्वविवेकादयमहमस्मीति विन्दते तत्त्वम् ॥३०५॥
अहमः अहङ्कारस्य अत्यन्तनिवृत्त्या अपुनरुत्पादं नाशेन, तत्कृतनानाविकल्पसंहृत्या निमित्तापायान्नैमित्तिकानाम् अपाय इति द्योतयति तत्कृतेति । प्रथमविकारभूताहङ्कारमूलकानां नानाविधानां कुलगोत्रनामरूपाश्रमाद्याश्रितानाम् अभिमानानां विविधकल्पनारूपाणां संहृत्या, अनेन सर्वभ्रान्तिनिरास उक्तः । तदा प्रत्यक्तत्त्वविवेकात् आत्मयाथात्म्यस्य विविच्य अनात्मासङ्कीर्णतया ज्ञानात् अयमहमस्मीति तत्त्वं विन्दते अपरोक्षतया जानाति ॥३०५॥
अहङ्कर्तर्यस्मिन् अहमितिमतिं मुञ्च सहसा
विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि ।
यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला
प्रतीचश्चिन्मूर्तेः तव सुखतनोः संसृतिरियम् ॥३०६॥
अहमिति । प्रतीचः आन्तरस्य चिन्मूर्तेः ज्ञानशरीरस्य, सुखतनोः आनन्दघनस्य, तव आत्मनः यदध्यासात् यस्मिन्नहमिति तादात्म्यभ्रान्त्या, जनिमृतिजरादुःखवहुला स्पष्टम् , इयमनुभवसिद्धा संसृतिः, प्राप्ता प्राप्तेव भाति, अस्मिन् विकारात्मनि सूक्ष्मभूतकार्ये, आत्मप्रतिफलजुषि आत्मप्रतिबिम्बग्राहिणि, स्वस्थितिमुषि स्वस्य या सहजा स्थितिः चिदानन्दरूपता तां मुष्णातीति स्वस्थितिमुट् तस्मिन् पराक्त्वापादकत्वेन स्वस्वरूपच्यावके अहङ्कर्तरि अहङ्कारे, अनात्मनि अहमितिमतिम् , सहसा मुञ्च इति परमोपदेशः ॥३०६॥
उक्तमर्थं बुद्धौ सम्यगारोहाय कृपया पुनराह सदेति −
सदैकरूपस्य चिदात्मनो विभोरानन्दमूर्तेरनवद्यकीर्तेः ।
नैवान्यथा क्वाप्यविकारिणस्ते विनाहमध्यासममुष्य संसृतिः ॥३०७॥
सर्वाणि विशेषणानि हेतुगर्भाणि अहङ्काराध्यासेन नानारूपता जडता परिच्छिन्नता दुःखं दुर्यशस्त्वं च प्राप्तमिति द्योतयितुम् । सदा नित्यम् एकरूपस्य, सदेकरूपस्य इति वा पाठः कालत्रयाबाध्यैकस्वरूपस्येत्यर्थः । चिदात्मनो विभोः अपरिच्छिन्नस्य आनन्दमूर्तेः अनवद्यकीर्तेः श्रुतिशिखरेषु परब्रह्मस्वरूपतया बोद्ध्यमानतया नित्यशुद्धबुद्धमुक्तस्वरूपस्य अविकारिणः ते तव, अमुष्य पराचः अहङ्कारस्य, अहमध्यासं विना तादात्म्यभ्रान्तिमन्तरा अहङ्कारे अहमिति या बुद्धिः तां विनेति यावत् , अमुष्येति षष्ष्ठी सम्बन्धार्थिका संसृतिः जनिमृतिजरा दुःखजटिला अन्यथा प्रकारान्तरेण वस्तुत इति यावत् नैव सम्भवति ॥३०७॥
यस्मादेवम् ,
तस्मादहङ्कारमिमं स्वशत्रुं
भोक्तुर्गले कण्टकवत्प्रतीतम् ।
विच्छिद्य विज्ञानमहासिना स्फुटं
भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥३०८॥
भुञ्जानस्य कण्ठे कण्टकमिव प्रतिपन्नं स्वरूपानन्दानुभवप्रतिबन्धकतया स्वशत्रुम् इमं प्रत्यक्षसिद्धम् अहङ्कारं, तस्मादसंसारिणोऽपि संसारापादकत्वात् , विज्ञानमहासिना पञ्चकोशविवेकजनितविज्ञाननिशितखङ्गेन विच्छिद्य अपुनर्भवं विनाश्य आत्मसाम्राज्यसुखम् अनन्याधीननिरन्तराखण्डानन्दं यथेष्टं निरर्गलं स्फुटं करतलामलकवत् भुङ्क्ष्व अनुभव ॥३०८॥
अनन्तरकर्तव्यमुपदिशति तत इति −
ततोऽहमादेर्विनिवर्त्य वृत्तिं
सन्त्यक्तरागः परमार्थलाभात् ।
तूष्णीं समास्वात्मसुखानुभूत्या
पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥३०९॥
ततः अहङ्कारादौ तादात्म्यभ्रान्तिनाशानन्तरम् , अहमादेः पञ्चमी, अहङ्कारादेः सकाशात् वृत्तिं विनिवर्त्य मनः पराङ्मुखीकृत्य, परमार्थलाभात् नित्यस्वप्रकाशानन्दरूपोत्कृष्टप्रयोजनलाभात् , बहिः सन्त्यक्तरागः विषयविमुख इति यावत् , आत्मसुखानुभूत्या निर्विकल्पः पूर्णात्मना ब्रह्मणि तूष्णीं समास्स्व ॥३०९॥
पुनः पुनः उपदिष्टस्योपदेशे कारणमाह समूलकृत्तोऽपीति −
समूलकृत्तोऽपि महानहं पुन-
र्व्युल्लेखितस्स्याद्यदि चेतसा क्षणम् ।
सञ्जीव्य विक्षेपशतं करोति
नभस्वता प्रावृषि वारिदो यथा ॥३१०॥
महान् अनादिकालात् शाखोपशाखतया वृद्धः अहम् अहङ्कारः, समूलकृत्तोऽपि विवेकविज्ञानेन स्वमूलभूतेन अज्ञानेन सह छिन्नोऽपि पुनःचेतसा यदि क्षणं व्युल्लेखितः प्रबुद्धेन पुरुषेण भीकरस्वप्न इव स्मृतः स्यात् , सञ्जीव्य पुनरुत्पद्य विक्षेपशतं करोति । तत्र दृष्टान्तः शरदादौ नष्टोऽपि नामावशेषतां नीतोऽपि वारिदः मेघः, प्रावृषि वर्षर्तौ नभस्वता वायुना नीतः सम्भृतसलिलः यथा वर्षति तथा ॥३१०॥
नष्टस्य कथं जीवनमिति चेत् मृतस्यामृतसेक इव विषयानुचिन्तनमेव तत्र हेतुरिति सदृष्टान्तमाह निगृह्येति −
निगृह्य शत्रोरहमोऽवकाशः
क्वचिन्न देयो विषयानुचिन्तया ।
स एव सञ्जीवनहेतुरस्य
प्रक्षीणजम्बीरतरोरिवाम्बु ॥३११॥
निगृह्य निग्रहं कृत्वा शत्रोरहमः सर्वनाशहेतोः अहङ्कारस्य, विषयानुचिन्तया क्वचिदप्यवकाशो न देयः, स एव विषयानुचिन्तैव अस्य अहङ्कारस्य सञ्जीवनहेतुः । वक्ष्यति हि
न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः ।
ततो मोहस्ततोऽहन्धीस्ततो बन्धस्ततो व्यथा ॥ (श्लो. ३२३) इति ।
सञ्जीवनहेतुरिति विधेयप्राधान्यात् विषयानुचिन्तायाः स एवेति पुंलिङ्गव्यपदेशः । क्षीणस्य पुनर्वृद्धौ दृष्टान्तमाह प्रक्षीणेति । प्रक्षीणजम्बीरतरोः शुष्कस्यापि जम्बीरवृक्षस्य अम्बु जलं वृद्धिहेतुभूतं भवति । एवं विवेकविज्ञानेन नाशितोऽप्यहङ्कारः प्रमादाद्विषयानुचिन्ता यदि क्रियेत पुनः प्राप्तजीवनः संसारयतीति भावः । विषयानुचिन्तायामपि नष्टस्याहङ्कारस्य कथमुज्जीवनम् इति शङ्कायाम् −
विषयेष्वाविशच्चेतः सङ्कल्पयति तद्गुणान् ।
सम्यक्सङ्कल्पनात्कामः कामात्पुंसः प्रवर्तनम् ॥
ततः स्वरूपविभ्रंशः विभ्रष्टस्तु पतत्यधः ।
पतितस्य विना नाशं पुनर्नारोह इष्यते ॥ (श्लो. ३२७-३२८)
इति प्रणालिकया विषयेषु कामः सङ्कल्पजन्यः सङ्कल्पश्च सम्यक्त्वबुद्धिः आनन्दजनकत्वज्ञानं, स चानन्दः वैषयिकः मनस एव । यदि सन्ततं स्वरूपनिष्ठः तदा कुतःविषयचिन्ता कुतस्तरां तेषु सङ्कल्पः कुतस्तमां कामः । ततः स्वरूपविस्मृतिः विषयचिन्तया भवति । यदा विस्मृतं स्वरूपं तदा अहङ्कारमेव आत्मत्वेन मन्यते तत्राहन्धियं विना देहानुकूलतया प्रतीयमानेषु विषयेषु कामानुत्पत्तेः । ततः अहङ्कारद्वारा मनःप्राणस्थूलदेहादिकम् आत्मत्वेन मत्वा पूर्ववत् विषयान्कामयमानः संसरति, तदिदमुक्तं पूर्वम् −
ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा
कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः ।
प्रत्यग्दृष्ट्यात्मनि निवसता सापनेया प्रयत्नात्
मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥ (श्लो. २६८)
इति सूत्रेण श्लोकेन । अनन्तरग्रन्थः तद्विवरणरूपः ज्ञातवस्तुनः पुरुषस्य निरन्तरब्रह्मनिष्ठां द्रढयति ॥३११॥
तत्र याऽस्य संसारहेतुरित्यस्यार्थमाह देहात्मनेति −
देहात्मना संस्थित एव कामी
विलक्षणः कामयिता कथं स्यात् ।
अतोऽर्थसन्धानपरत्वमेव
भेदप्रसक्त्या भवबन्धहेतुः ॥३१२॥
देहात्मना संस्थित एव कामी, निरन्तरानन्दस्वरूपेण स्थितौ कुतः क्षणिकानन्दहेतुषु कामः ? तेन स्वरूपभ्रंशः कथितः । तदिदमुक्तम् विलक्षणः कामयिता कथं स्यादिति ।
आत्मानं चेद्विजानीयात् अयमस्मीति पूरुषः ।
किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ (बृ.उ. ४.४१२)
इति श्रुतेः, ‘आप्तकामम् , आत्मकामम् , अकामं शोकान्तरम्’ इति च । अतोऽर्थसन्धानपरत्वमेव विषयानुचिन्तनसक्तत्वमेव स्वरूपविभ्रंशनद्वारा देहादौ अहन्तामाबध्य भेदप्रसक्त्या भेदप्रसञ्जनेन भवबन्धहेतुः, नो चेत् सदा स्वरूपनिष्ठस्य काम्यकामयितृकामनादिभेदः कुतस्त्य इति भावः ॥३१२॥
तावतापि नष्टस्याहङ्कारस्य सञ्जीवनं कथमिति चेदाह कार्येति −
कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते ।
कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् ॥३१३॥
लोके कार्यप्रवर्धनात् कार्यस्याङ्कुरादेः प्रकर्षेण स्कन्धशाखोपशाखादिरूपेण वर्धनात् उपचयात् बीजप्रवृद्धिः परिदृश्यते बीजाभावे तथा वृद्धेः असम्भवात् कीटादिभक्षिते बीजे अङ्कुरादीनामनुत्पत्तेः । अत एकमपि बीजं धरणिसलिलसंयोगदोहदादिना सम्यक्प्रवृद्धम् अङ्कुरपत्रस्कन्धशाखापुष्पफलरूपेण वृद्धिं प्राप्य सहस्रशः बीजानि जनयतीति परिदृश्यते । कार्यनाशात् बीजनाशोऽपि, अङ्कुरादिनिमित्तस्य बीजस्यैव नाशे पुनः फलानुत्पत्त्या बीजानि कुतस्त्यानि । अतः कार्यं विषयानुचिन्तनं भवति चेत् विकारेषु प्रथमो योऽहङ्कारः तं विना नैव भवति, विषयानुचिन्तनवृद्ध्या बीजभूताहङ्कारो वृद्धो ज्ञेयः । एवं विवेकविज्ञाननाशितोप्यहङ्कारः अनादिकालप्रवृत्ततया वासनात्मना शिष्यमाणः सदा प्रत्यग्दृष्ट्या आत्मनि निष्ठाभावे वृद्धिं प्राप्य पुनः संसारमापादयेत् । अतः निरन्तरब्रह्मनिष्ठया अप्रमादेन स्थितौ विषयानुचिन्तनादेरनवकाशात् वासनात्मनापि न शिष्यते । तस्मात्कार्यं निरोधयेत् विषयानुचिन्तनं न कुर्यात् ॥३१३॥
तस्य संसारसम्पादकत्वमुपपादयति वासनेति −
वासनावृद्धितः कार्यं कार्यवृध्या च वासना ।
वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥३१४॥
यथा एकोऽपि स्फुलिङ्गः सूक्ष्मोऽपि शुष्कतृणसंयोगाद्वृद्धिं प्राप्य महानग्निर्भूत्वा सर्वं वनमेव दहेत् , एवं वासनात्मना स्थितोऽप्यहङ्कारः विषयानुचिन्तनेन आत्मानं स्वरूपतः प्राच्याव्य स्वयं तत्प्रतिफलनबलेन अनेकाकारेण परिणममानः जातं विवेकमपि न्यक्कुर्वन् विवेकात्प्रागिव भ्रान्तिपरम्परां कामकर्मादीनि च वितन्वन् स्वयं प्रवर्धमानः निवृत्तप्रायमपि संसारं पुनः प्रवर्तयेत् । अतः अप्रमादेन भवितव्यम् इत्याह वासनावृद्धित इति । कार्यं विषयचिन्ता । स्वरूपानन्दविस्मृत्या विषयलाभार्थं प्रयत्नः, अलाभे दुःखम् , लाभे हर्षः, हर्षे दर्पः, दर्पे धर्मातिक्रमणम् , तेन धियो मालिन्यम् , तेन पुनरात्मग्रहणसामर्थ्याभावः, ततश्च सर्वदा देहाद्यात्मत्वम् , तेन जरामरणजन्मादिरूपसंसाराविच्छेदः इति पुंसः संसारो न निवर्तत इत्युक्तम् ॥३१४॥
तस्मात् −
संसारबन्धविच्छित्यै तद्द्वयं प्रदहेद्यतिः ।
वासना प्रेर्यते ह्यन्तः चिन्तया क्रियया बहिः ॥३१५॥
यतिः प्रयत्नशीलः पुमान् संसारबन्धविच्छित्यै संसारहेतुभूतः देहात्मत्वादिसकल बन्धविनाशाय तद्द्वयं वासनातत्कार्यरूपं द्वयं प्रदहेत् प्रकर्षेण भस्मीकुर्यात् । यथा भस्मीभूतं बीजं न रोहति तथा कुर्यात् । करुणया तद्वृद्धिनिमित्तं तन्नाशोपायं च कथयति वासनेति । वासना चिन्तया बहिः क्रियया च हि यस्मात् अन्तः प्रेर्यते अतः प्रदहेत् । पूर्वं कार्यशब्देन कथितं स्फुटयति चिन्तया मानस्या बहिः क्रियया च इति । अन्तश्चिन्ता बहिश्शरीरादिना क्रिया चित्प्रतिबिम्बबलाभावे जडस्य मनसः क्रियाजनकचिन्तासामर्थ्यं नास्ति । तत्र चित्प्रतिफलनं च अहङ्कारद्वारैव । जडस्य शरीरस्य कर्मकरणसामर्थ्यमपि मन आदिद्वारा चिदनुप्रवेशादेव । तस्मात् चिन्तया बहिः क्रियया च सूक्षात्मना स्थितः अहङ्कारः वृद्धिं प्राप्त इति विज्ञेयम् ॥३१५॥
ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः ।
त्रयाणां च क्षयोपायस्सर्वावस्थासु सर्वदा ॥३१६॥
सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् ।
सद्भाववासनादार्ढ्यात् तत्त्रयं लयमश्नुते ॥३१७॥
ताभ्यां चिन्ताक्रियाभ्यां प्रवर्धमाना सा वासना, आत्मनः संसृतिं सूते जनयति । पूर्वोक्तरीत्या त्रयाणां च वासनाचिन्ताक्रियारूपाणामपि क्षयोपायः सर्वावस्थासु सर्वदा सर्वत्र सर्वतः कालतः देशतः वस्तुतश्च, जाग्रदाद्यवस्थासु ब्रह्मव्यतिरेकेण किमपि नास्ति ‘इदं सर्वं यदयमात्मा ब्रह्मैवेदं विश्वम्’(मु.उ २.१२) इत्यादिश्रुतिभिः, ‘प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्’(ब्र.सू. १.४.२३) ‘तदन्यत्वमारम्भणशब्दादिभ्यः’(ब्र.सू. २.१.१४) इत्यादिसूत्रैः मृल्लोहदुन्दुभ्यादिदृष्टान्तैश्च यश्चोरः स स्थाणुः यद्रजतं सा शुक्तिः इतिवत् सर्वत्र सर्वत्वं बाधित्वा केवलाधिष्ठानभूतब्रह्मव्यतिरेकेण किमपि नास्तीति सर्वब्रह्ममात्रावलोकनम् । एवं यदि ज्ञानं तदा ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुत्यनुसारेण, ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.५९) इति स्मृत्या च क्व विषयाः क्वतरां तच्चिन्ता क्वतमां बहिःक्रिया । सर्वं ब्रह्ममात्रावलोकनेन सद्भाववासनादार्ढ्ये तत्त्रयं वासनाचिन्ताक्रियारूपं त्रयं लयं नाशमश्नुते प्राप्नोति ॥३१७॥
तथा सर्वं ब्रह्मेत्यवलोकनासमर्थं प्रत्युपायमाह कार्यनिरोधेन कारणं निरोद्धव्यमिति क्रियानाश इति −
क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः ।
वासनाप्रक्षयो मोक्षः सजीवन्मुक्तिरिष्यते ॥३१८॥
पूर्वपूर्वस्य उत्तरोत्तरज्ञापकत्वं वा । वासनां विना चिन्तायाः तां विना क्रियायाः अभावात् कार्यनाशात् कारणनाशोऽनुमेय इति भावः । तथा च नैष्कर्म्येणावस्थानपर्यन्तं प्रयत्नः पुरुषेण कर्तव्यः । तदा वासनानां प्रकर्षेण क्षयः सिध्यत्येव स एव मोक्षः स एव जीवन्मुक्तिरिष्यते अभिप्रेयते ब्रह्मविद्भिरिति शेषः । उक्तं हि ‘मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत्’(श्लो. २६८) इति । वस्तुनः सूक्ष्मावस्थैव वासना तस्याः तानवं नाश एव ॥३१८॥
‘सद्भाववासनादार्ढ्ये तत्त्त्रयं लयमश्नुते’(श्लो. ३१७) इत्युक्तमर्थं सदृष्टान्तमाह सद्वासनेति −
सद्वासनास्फूर्तिविजृम्भणे सति
ह्यसौ विलीना त्वहमादिवासना ।
अतिप्रकृष्टाप्यरुणप्रभायां
विलीयते साधु यथा तमिस्रा ॥३१९॥
सद्वासनास्फूर्तिविजृम्भणे सति श्रवणमनननिदिध्यासनसंस्कृतस्य मनसः सदा सर्वत्र सद्भावनया सत्संस्कारस्फुरणवृद्धौ सत्यां तु असौ विप्रकृष्टा अहमादिवासना आदिपदेन देहेन्द्रियविषयपरिग्रहः । हि निश्चयेन विलीना विशेषेण नष्टा भवतिति शेषः । तत्र दृष्टान्तः अतिप्रकृष्टापि तमिस्रा रात्रिः तमोमयी दर्शादिदिनेषु, अरुणप्रभायाम् अरुणः सूर्यसारथिः तस्य प्रभायां साधु विलीयते नश्यति यथा तथा इति पूर्वेणान्वयः ॥३१९॥
ततः −
तमस्तमःकार्यमनर्थजालं
न दृश्यते सत्युदिते दिनेशे ।
तथाऽद्वयानन्दरसानुभूतौ
नैवास्ति बन्धो न च दुःखगन्धः ॥३२०॥
अरुणोदयानन्तरं दिनेशे भास्करे उदिते सति उदयाचलमारूढे सति तमः शार्वरं तमः अन्धकारः तत्कार्यम् अनर्थजालं चक्षुः पीडा चोरबाधामार्गस्स्वलनादिजातदुःखकदम्बं न दृश्यते यथा तथा अद्वयानन्दरसानुभूतौ सद्वासनास्फुरणवृद्धिवशात् सच्चिदानन्दैकरसप्रत्यग्ब्रह्मानुभवे सति नैवास्ति बन्धः अनात्मन्यात्मबुद्धिः न च दुःखगन्धः हेतोरध्यासस्य नाशात् । ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई.उ. ७) इति श्रुतेः ॥३२०॥
यदि प्रारब्धवशात् जगद् भासेत, तदापि −
दृश्यं प्रतीतं प्रविलापयन्स्वयं
सन्मात्रमानन्दघनं विभावयन् ।
समाहितस्सन् बहिरन्तरं वा
कालं नयेथास्सति कर्मबन्धे ॥३२१॥
विपरीतार्थधीर्यावत् निश्शेषं विनिवर्तते ।
स्वरूपस्फुरणं यावन्न प्रसिध्यत्यनर्गलम् ।
तावत् समाधिषट्केन नयेत् कालं निरन्तरम् ॥ (स.वे.सि. ९०१)
इत्युक्तत्वात् प्रतीतं दृश्यं नामरूपप्रविलापनेन केवलाधिष्ठानभूतं ब्रह्म भावयन् स्वयं च सन्मात्रमानन्दघनं विभावयन् बहिरन्तरं वा समाहितः सन् कालं नयेथाः ।
इयं भूर्न सन्नापि तोयं न तेजो
न वायुर्न खं नापि तत्कार्यजातम् ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं यत्तदेवाहमस्मि ॥ (स.वे.सि. ८८६)
इत्यादिरीत्या बहिः,
न देहो न चाक्षाणि न प्राणवायुः
मनो नापि बुद्धिर्न चित्तं ह्यहन्धीः ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं यत्तदेवाहमस्मि ॥ (स.वे.सि. ८८९)
इत्यन्तः, शब्दानुविद्धदृश्यानुविद्धसविकल्पकनिर्विकल्पकभेदेन बहिरन्तर्वा समाहितमनसा त्वया कर्मबन्धे प्रारब्धाद्विक्षेपे प्रसक्ते कालो नेयः इत्यर्थः ॥३२१॥
कदापि कथञ्चिदपि शिष्यो दुःखभाक् माभूदित्यनुक्रोशेन जातविवेकस्यापि दुःखप्रसक्तिमार्गं पुनराह प्रमाद इत्यादिना विस्तरेण −
२९. प्रमादत्यागः
प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन ।
प्रमादो मृत्युरित्याह भगवान् ब्रह्मणस्सुतः ॥३२२॥
कदाचन कदापि, ब्रह्मनिष्ठायां प्रमादः अनवधानता च्युतिः न कर्तव्या नाश्रयणीया । यतः भगवान् सर्वज्ञः आजानसिद्धः ब्रह्मणः सुतः सनत्सुजातः धृतराष्ट्रम्प्रति ‘प्रमादं वै मृत्युमहं ब्रवीमि’ इति प्रमादो मृत्युरित्याह ॥३२२॥
तदुपपादयति न प्रमादादित्यादिना −
न प्रमादादनर्थोन्यो ज्ञानिनः स्वस्वरूपतः ।
ततो मोहस्ततोहन्धीः ततो बन्धस्ततो व्यथा ॥३२३॥
ज्ञानिनः स्वस्वरूपतः प्रमादात् प्रच्युतेः अन्यः अनर्थः हानिः न विद्यते यस्मात् ततः स्वरूपप्रच्युतौ सत्यां मोहः विस्मरणं ततोऽनात्मनि अहङ्कारे अहन्धीः ततः बन्धः देहादावध्यासः ततो व्यथा जरामरणादि जन्या ॥३२३॥
अज्ञानिनः एवमस्तु ज्ञानिनोऽप्येवं किं स्यात् इति शङ्कायामाह विषयेति −
विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः ।
विक्षेपयति धीदोषैः योषा जारमिव प्रियम् ॥३२४॥
योषा प्रियं जारमिव जारम् अन्यासक्तं प्रियमिव स्वपतिमिव वा विस्मृतिः ब्रह्मविस्मृतिः विद्वांसमपि विवेकिनमपि विषयाभिमुखं बहिर्मुखं दृष्ट्वा धीदोषैः ‘पराञ्चि खानि’(क.उ. ४.१) इति श्रुतेः, ‘विषयेष्वाविशच्चेतः’(श्लो. ३२७) इत्यादिना वक्ष्यमाणदोषैः, विक्षेपयति नष्टात्मबोधं करोति विशेषेण चालयति दूरं नयति भ्रामयति ॥३२४॥
उक्तमर्थं दृष्टान्तान्तरेण आह सुष्ठुप्रतिपत्तये यथेति −
यथाऽपकृष्टं शैवालं क्षणमात्रं न तिष्ठति ।
आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥३२५॥
पूर्वं कोशपञ्चकस्य शैवालदृष्टान्तेनैव आवारकत्वमुक्तं ‘तच्छैवालापनये सम्यक्सलिलं प्रतीयते शुद्धम्’(श्लो. १५२) इति क्षणमात्रं शैवालमपकृष्टं यथा न तिष्ठति पुनरावृणोति सलिलं तथा माया प्राज्ञं वापि कृतकोशपञ्चकनिषेधमपि पराङ्मुखम् आवृणोति तिरोहितस्वरूपं करोति ॥३२५॥
‘न प्रमादादनर्थोऽन्यः’(श्लो. ३२३) इत्युक्तं दृष्टान्तान्तरेण स्फुटयति लक्ष्यच्युतमिति −
लक्ष्यच्युतं चेद् यदि चित्तमीषद्
बहिर्मुखं सन्निपतेत् ततस्ततः ।
प्रमादतः प्रच्युतकेलिकन्दुकः
सोपानपङ्क्तौ पतितो यथा तथा ॥३२६॥
चित्तं यदीषत् लक्ष्यं ब्रह्म ततः च्युतं चेत् बहिर्मुखं सत् अनात्मप्रवणं सत् ततस्ततः अहङ्कारबुद्धिमनःप्राणेन्द्रियदेहविषयेषु निपतेत् यथा प्रमादतः क्रीडतः पुरुषस्य इच्छाभावेऽपि प्रमादतः अनवधानवशात् प्रच्युतकेलिकन्दुकः सोपानपङ्क्तौ पतितः अधोऽधो गच्छति न ग्रहीतुं शक्यते तथा ॥३२६॥
प्रमादस्य मृत्युत्वं सुष्ठूपपादयति सार्धद्वयेन −
विषयेष्वाविशच्चेतः सङ्कल्पयति तद्गुणान् ।
सम्यक्सङ्कल्पनात्कामः कामात्पुंसः प्रवर्तनम् ॥३२७॥
ततःस्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः ।
पतितस्य विना नाशं पुनर्नारोह ईक्षते ।
सङ्कल्पं वर्जयेत्तस्मात् सर्वानर्थस्य कारणम् ॥३२८॥
अपथ्यानि हि वस्तूनि व्याधिग्रस्तो यथोत्सृजेत् ॥
३२८विषयेषु शब्दादिषु चेतः मनः आविशत् सत् सज्जमानं सत् तद्गुणान् तेषु भोगहेतुतया आनन्दजनकत्वादिगुणान् सङ्कल्पयति चिन्तयति । सम्यक्सङ्कल्पनात् कामः तेषु इच्छा जायते कामात् पुंसः प्रवर्तनं तत्सम्पादने यत्नः ।
‘यद्यद्धि कुरुते जन्तुः तत्तत्कामस्य चेष्टितं’(म.स्मृ. २.४) इति स्मृतेः । ततस्स्वरूपविभ्रंशः स्वरूपात्प्रच्युतिः विस्मरणमित्यर्थः । विभ्रष्टस्तु अधः अनात्मसु कोशेषु तद्द्वारा दूरदूरेषु विषयेषु पतति गच्छति । पतितस्य अतिदूरं नीतस्य नाशं विना, स्वरूपादर्शनमेव नाशः स्वरूपादर्शने सर्वदा देहादिकम् आत्मत्वेन मन्यमानस्य तस्य मरणादिसत्वात् । अस्यापि सर्वमस्तीति भ्रान्त्या सन्ततसंसारलग्नत्वमेव । पुनर्नारोहः ब्रह्मलाभः ईक्ष्यते, सर्वानर्थस्य कारणं सङ्कल्पं तस्माद्वर्जयेत् न कुर्यात् यथा रोगग्रस्तः वस्तून्यपथ्यानि उत्सृजेत् तथा । स्वरूपच्युतौ महाननर्थः नाशपर्यन्तः ॥३२८॥
अतः प्रमादान्नपरोऽस्ति मृत्युः
विवेकिनो ब्रह्मविदः समाधौ ।
समाहितः सिद्धिमुपैति सम्यक्
समाहितात्मा भव सावधानः ॥३२९॥
अतः विवेकिनः ब्रह्मविदः समाधौ प्रमादात्परः मृत्युर्नास्ति । सम्यक्समाहितः ब्रह्मसंस्थः सिद्धिं मुक्तिमुपैति । त्वमपि सावधानः प्रमादरहितः समाहितात्मा निरन्तरं ब्रह्मनिवेशितान्तःकरणो भव ॥३२९॥
जीवतो यस्य कैवल्यं विदेहे च स केवलः ।
यत्किञ्चित्पश्यतो भेदं भयं ब्रूते यजुश्श्रुतिः ॥३३०॥
यस्य पुंसः जीवतः प्राणान्धरतः कैवल्यं सर्वोपाधिसम्बन्धविनिर्मुक्तत्वम् , स पुरुषधौरेयः विदेहे च देहपातानन्तरमपि केवलः । यत्किञ्चिद्भेदं पश्यतः यजुश्श्रुतिः ‘यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति’(तै.उ. २.७) इति भयं ब्रूते उत् अपि, अरं स्वल्पम् अन्तरं भेदं स्वल्पमपि भेदं कुरुते पश्यति अथ तदा तस्य भयं भवति इति । कैवल्ये हेतुश्च निर्विकल्पकसमाधिनिष्ठैव । वक्ष्यति ‘उपाधियोगात्स्वयमेव भिद्यते चोपाध्यपोहे स्वयमेव केवलः । तस्मादुपाधेः विलयाय विद्वान् वसेत्सदाऽऽकल्पसमाधिनिष्ठया’(श्लो. ३५८) इति ॥३३०॥
‘तत्त्वेव भयं विदुषोऽमन्वानस्य’(तै.उ. २.७) इत्यन्तयजुश्श्रुत्यर्थमाह यदा कदावेति −
यदा कदा वापि विपश्चिदेषः ब्रह्मण्यनन्तेप्यणुमात्रभेदम् ।
पश्यत्यथामुष्य भयं तदेव यदीक्षितं भिन्नतया प्रमादात् ॥३३१॥
एषः विपश्चित् विवेकी ब्रह्मवित् अनन्ते त्रिविधपरिच्छेदशून्ये ब्रह्मणि अणुमात्रभेदमपि ईषदपि भेदम् , यदा यदीत्यर्थः, कदा वापि कदाचिदपि यदि पश्यति अथ तर्हि, प्रमादात् अनवधानात् भिन्नतया यदीक्षितं तदेवामुष्य विदुषः अमन्वानस्य भयं भयानकं ‘द्वितीयाद्वै भयं भवति’(बृ.उ. १.४.२) इति श्रुतेः, ‘सर्वं तं परादात् योन्यत्रात्मनः सर्वं वेद’(बृ.उ. ४.५७) , ‘येन्यथातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति’(छा.उ. ७.२५.२) ति च ॥३३१॥
श्रुतिस्मृतिन्यायशतैर्निषिद्धे
दृश्येऽत्र यस्स्वात्ममतिं करोति ।
उपैति दुःखोपरि दुःखजातं
निषिद्धकर्ता स मलिम्लुचो यथा ॥३३२॥
‘नेति नेति’(बृ.उ. २.३.६) , ‘नेह नानास्ति किञ्चन’(बृ.उ. ४.४.१९) , ‘नात्र काचन भिदास्ति’(नृ.उ.उ. ८) इत्यादिश्रुतिभिः, तदनुसारिणीभिः स्मृतिभिः ‘अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते’ इत्याद्याभिः, पञ्चकोशविवेचनसमये दर्शितैः न्यायैश्च परश्शतैः दृश्यं देहादिकम् अहङ्कारान्तं नात्मा इति निषिद्धे अत्र दृश्ये देहादौ यस्स्वात्ममतिम् अहमिति धियं करोति सः निषिद्धकर्ता पापी अत एव मलिम्लुचः मलिनान्तःकरणः यथा इतिकर्तव्यतामूढः दुःखोपरि दुःखजातम् उपैति तथा असज्जडदुःखात्मकानात्मात्मत्वबुद्ध्या दुःखोपरि दुःखजातम् उपैति ॥३३२॥
तत्स्फुटयति सत्येति −
सत्याभिसन्धानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् ।
मिथ्याभिसन्धानरतस्तु नश्येद्दृष्टं तदेतद्यदचोरचोरयोः ॥३३३॥
सत्याभिसन्धानरतः ऐदम्पर्येण सत्यनिष्ठायां रतः व्यग्रः, पुरुषः नित्यमात्मीयं महत्त्वं निर्विकारमनस्त्वं सर्वपूज्यत्वं च, उपैति । मिथ्यापदार्थाभिसन्धानरतस्तु नश्येत् यस्यावलम्बनं मिथ्याभूतमेव तस्य कथं सत्त्वम् , स नश्यत्येव । दृष्टं तदेतत् यदचोरचोरयोः, उक्तमिदं छान्दोग्ये षष्ठाध्याये तप्तपरशुग्रह्मणदृष्टान्तेन सत्यवादी आरोपितचोरत्वकः तप्तपरशुं गृह्णाति न्यायस्थाने, तथापि सत्यावलम्बनेन न दह्यते अथ मुच्यते । वस्तुतः चोरस्तु नाहं चोर इति अनृतमपि वदन् तदपरित्यजन् हस्तनिक्षिप्ततप्तपरशुः दह्यते अथ बध्यते इति । एतादृशः मलिम्लुचशब्दार्थः । चौर्यमेव निषिद्धं ततः अनृतवदनादिनिषिद्धपरम्परा, एवङ्कुर्वतः मिथ्याभिसन्धानरतस्य कथं सत्यप्रतिपत्तिः स्यात् । अतः दुःखोपरि दुःखजातम् उपैतीत्युक्तम् लोकद्वयादपि भ्रंशात् ॥३३३॥
तस्मात् −
यतिरसदनुसन्धिं बन्धहेतुं विहाय
स्वयमयमहमस्मीत्यात्मदृष्ट्र्यैव तिष्ठेत् ।
सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या
हरति परमविद्याकार्यदुःखं प्रतीतम् ॥३३४॥
ब्रह्मसंस्थत्वस्य संन्यासिन एव सम्भवात् यतिः संन्यासी बन्धहेतुम् असदनुसन्धिम् अब्रह्मचिन्तां स्वयं विहाय अयं परमात्मा अहमस्मीति आत्मदृष्ट्यैव तिष्ठेत् । तत्र परमपुरुषार्थं फलमाह ननु यतः ब्रह्मणि निष्ठा अनन्यसक्ततया स्थितिः स्वानुभूत्या स्वस्वरूपस्वयम्प्रकाशसदानन्दानुभवेन सुखयति आनन्दयति । प्रतीतं पूर्वमनुभूतम् अविद्याकार्यदुःखम् अज्ञानतत्कार्यप्रयोज्यदुःखं यद्वा अविद्यायाः कार्यं यद्दुःखं तत् परम् अत्यन्तं हरति, ‘तरति शोकमात्मवित्’(छा.उ. ७.१.३) इति श्रुतेः ‘यत्र नान्यत्पश्यति........स भूमा’, (छा.उ. ७.२४.१) ‘यो वै भूमा तत्सुखम्’(छा.उ. ७.२३.१) इति च । तादृग्ब्रह्मणि सर्वदानिष्ठस्य कुतोऽविद्या कुतः तत्कार्यदुःखं वा ॥३३४॥
समूलघातं दुःखमपहन्तुं ब्रह्मणि समाधानाय पराङ्मुखत्वं शातयति बाह्येति −
बाह्याभिसन्धिः परिवर्धयेत्फलं
दुर्वासनामेव ततस्ततोधिकाम् ।
ज्ञात्वा विवेकैः परिहृत्य बाह्यं
स्वात्मानुसन्धिं विदधीत नित्यम् ॥३३५॥
बाह्याभिसन्धिः विषयसङ्गः, ततस्ततोधिकां दुर्वासनां पुनर्जन्मकरीं मलिनवासनामेव फलं परिवर्धयेत् । उक्तं हि पूर्वं ‘वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना’(श्लो. ३१३) इति । तज्ज्ञात्वा विवेकैः प्रमादस्य मृत्युताकथनावसरे कथितैः विषयसङ्गस्य महानर्थहेतुत्वबोधकैः हेतुभिः बाह्यमनात्मानं परिहृत्य बाधित्वा स्वात्मानुसन्धिं ब्रह्मानुचिन्तनं नित्यं सर्वदा विदधीत कुर्यात् ॥३३५॥
बाह्यानुसन्धेः बन्धकत्वमुक्त्वा तन्निरोधे क्रमेण परमपुरुषार्थं फलमाह बाह्य इति −
बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् ।
तस्मिन्सुदृष्टे भवबन्धनाशः बहिर्निरोधः पदवी विमुक्तेः ॥३३६॥
अत्यन्तं व्यवहरतोऽपि सुप्तोत्थितस्य मनः प्रसन्नं तिष्ठति । अत एव ‘सम्प्रसादः’ इत्युच्यते सुषुप्तिः सुषुप्तौ बाह्याभावात् । प्रयत्नपुरस्सरमेव बन्धके बाह्ये निरुद्धे आनन्दाविर्भावेन प्रसन्नतायां किमु वक्तव्यम् । मनःप्रसादे ‘प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते’(२.६५) इति गीतावचनात् दुःखमुक्तं निर्मलं मनः सूक्ष्मम् एकाग्रं, परमात्मदर्शनसमर्थं भवति । ‘मनसैवेदमाप्तव्यं, मनसैवानुद्रष्टव्यं, दृश्यते त्वग्र्यया बुध्या सूक्ष्मया’(क.उ. १.३.१२) इत्यादिश्रुतेः । तस्मिन् सुदृष्टे अनन्यतया निरन्तरं साक्षात्क्रियमाणे, भवबन्धनाशः संसारहेतूनां सर्वेषामध्यासानां समूलघातः अतः बहिर्निरोधः वृत्तेर्बाह्यानालम्बनं विमुक्तेः पदवी प्रापिका ॥३३६॥
एवं बहुप्रकारैः विषयचिन्तायां दोषान् दर्शयित्वा ततस्सर्वात्मना निवर्तयितुं तादृशानां लज्जायै कुत्सां करोति कः पण्डित इति −
कः पण्डितः सन् सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी ।
जानन्हि कुर्यादसतोवलम्बं स्वपातहेतोः शिशुवन्मुमुक्षुः ॥३३७॥
परमार्थं द्रष्टुं शीलम् अस्यास्तीति परमार्थदर्शी अत एव श्रुतिप्रमाणः श्रुतिरेव प्रमाणं यस्य सः, अतीन्द्रियार्थे तस्या एव मानत्वात् , ततः ‘यो वै भूमा तदमृतम् अतोन्यदार्तम्’(छा.उ. ७.२४.१) इति श्रुत्या सदसद्विवेकी ब्रह्म सत्यं जगन्मिथ्येति ज्ञानवान् तेन पण्डितः पण्डा ज्ञानम् अस्य सञ्जातेति पण्डितः वस्तुयाथात्म्यज्ञानवान् , मुमुक्षुः बन्धनिवृत्तिं कामयमानः स्वपातहेतोः स्वस्य अधोधः, पतनार्थं हि निश्चयेन जानन् असतःअनात्मनः अवलम्बं समाश्रयणं कः कुर्यात् । तत्र दृष्टान्तः शिशुवदिति, शिशुर्हि अज्ञानात् उपरिभागादधः पतेत् सर्पदीपादिकं गृह्णीयात् । अयं तु ज्ञानी । अतः विवेकिना अप्रमादेन ब्रह्मसंस्थेन भवितव्यमिति भावः ॥३३७॥
पदार्थानवबोधावबोधरूपविभिन्नधर्माश्रययोः सुप्तिजागरणयोः यथा एकस्मिन् समानकालिकत्वं नास्ति एवं देहाद्यभिमानमुक्त्योः इत्याह देहादीति −
देहादिसंसक्तिमतो न मुक्तिः
मुक्तस्य देहाद्यभिमत्यभावः ।
सुप्तस्य नो जागरणं न जाग्रतः
स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् ॥३३८॥
‘न स पुनरावर्तत’(छा.उ. ८.१५.१) इति श्रुत्या मुक्तस्य तु पुनः देहादावभिमानो नैव भवति । यदि भवति न स मुक्तः ‘विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः । अस्ति चेन्न सविज्ञातब्रह्मभावो बहिर्मुखः’(श्लो. ४४३) इति हि वक्ष्यति । अन्वयः स्पष्टः ॥३३८॥
मुक्तस्वरूपमाह अन्तरिति −
अन्तर्बहिस्स्वं स्थिरजङ्गमेषु
ज्ञानात्मनाधारतया विलोक्य ।
त्यक्ताखिलोपाधिरखण्डरूपः
पूर्णात्मना यस्स्थित एष मुक्तः ॥३३९॥
स्थिरजङ्गमेषु चराचरेषु वस्तुषु, अन्तर्बहिः ज्ञानात्मना आधारतया स्वं स्वात्मानं विलोक्य साक्षात्कृत्य त्यक्ताखिलोपाधिः त्यक्ताः बाधिताः अखिलाः उपाधयः अज्ञानतत्कार्यरूपाः येन सः त्यक्ताखिलोपाधिः । अत एवाखण्डरूपः देशकालवस्तुपरिच्छेदशून्यसच्चिदानन्दस्वरूपः पूर्णात्मना अपरिच्छिन्नात्मना यः स्थितः एषः मुक्तः । तेन परिच्छिन्नदेहाद्यभिमाने पूर्णात्मना स्थितिर्नास्तीति न स मुक्त इति भावः ॥३३९॥
मुक्तौ हेतुं तस्य हेतुं चाह सर्वात्मनेति −
सर्वात्मना बन्धविमुक्तिहेतुः सर्वात्मभावान्नपरोस्ति कश्चित् ।
दृश्याग्रहे सत्युपपद्यतेऽसौ सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥३४०॥
‘यतो यतो निवर्तते ततस्ततो विमुच्यते, निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि’(विदु.नी. ४.१४) इत्युक्तरीत्या सर्वात्मना बन्धविमुक्तौ हेतुः सर्वात्मभाव एव । तस्मात् परः अन्यः कश्चिन्नास्ति ‘अहं ब्रह्मास्मि यो वेद स सर्वं भवति त्विदम् । नाभूत्या ईशते देवाः तेषामात्मा भवेद्धि सः’(बृ.उ. १.४.१०) इत्युक्तेः । यद्बन्धकं तदपि स्वभिन्नं बध्नीयात् । नात्मानं कर्तृकर्मविरोधात् उक्तं हि ‘न हि नटः सुशिक्षितोऽपि स्वस्कन्धमधिरोक्ष्यति’(ब्र.सू.भा. ३.३.५४) इति ‘न ह्यग्निरात्मानं दहति’(ब्र.सू.भा. २.२.१०) इति च भाष्ये । (ऐकात्म्याधिकरणे − ३.३.५४) ततः सर्वात्मभावे प्राप्ते यद् बन्धकत्वेन मतं तदात्मत्वस्याप्यवर्जनीयतया कुतो बन्धः ‘सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । सम्पश्यन् ब्रह्म परमं याति नान्येन हेतुना’(१०) इति कैवल्यश्रुतेः इति भावः । सर्वभूतेषूपादानतया अधिष्ठानतया रज्जुसर्पे रज्जुमिव अनुस्यूतम् , सर्वभूतानि चात्मनि रज्ज्वां सर्प इव कल्पितानि सम्पश्यन्निति तदर्थः । तेन सर्वोपाधिसम्बन्धविनिर्मुक्ततया केवलीभाव एव सर्वात्मभावः । नह्युपाधिसम्बन्धेन परिच्छिन्नस्य सर्वात्मत्वं सम्भवति । यद्यपि मायायाः व्यापकत्वात् तद्विशिष्टस्य तत्कार्यसर्वाधिष्ठानत्वं सुवचं, तथापि मायायाः परिशिष्यमाणत्वात् तदधिष्ठानत्वं शुद्धस्य निरवच्छिन्नचैतन्यस्यैवेति कैवल्यमेव सर्वात्मभावः । तत्र हेतुः असौ सर्वात्मभावः अस्य ज्ञानिनः सदा निरन्तरम् आत्मनिष्ठया दृश्याग्रहे सत्युपपद्यत इति ॥३४०॥
सदात्मनिष्ठायामेव दृश्याग्रहणं नान्यथेत्युपपादयति दृश्यस्याग्रहणमित्यादिना −
दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो
बाह्यार्थानुभवप्रसक्तमनसः तत्तत्क्रियां कुर्वतः ।
संन्यस्ताखिलधर्मकर्मविषयैः नित्यात्मनिष्ठापरैः
तत्त्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥३४१॥
देहात्मना तिष्ठतः अत एव बाह्यार्थानुभवप्रसक्तमनसः विषयानुभवे प्रकर्षेण सक्तमनसः, षष्ठीबहुव्रीहिः, तेन विषयचिन्तनं सङ्कल्पः कामश्च कथिताः । ततः तत्तत्क्रियां कुर्वतः विषयलाभाद्यर्थं व्याप्रियमाणस्य दृश्यस्याग्रहणं कथन्नु घटते युज्यते । अतः संन्यस्ताखिलधर्मकर्मविषयैः धर्मश्च कर्माणि च विषयाश्च धर्मकर्मविषयाः अखिलाश्च ते धर्मकर्मविषयाश्च संन्यस्ता यैस्तैः संन्यस्ताखिलधर्मकर्मविषयैः धर्मः वैदिकः कर्म लौकिकं विषयाश्च शब्दादयः । नित्यात्मनिष्ठापरैः नित्या या आत्मनिष्ठा तस्यां परैः आसक्तैः सा परा प्रधानभूता येषां तैः इति विग्रहेण वा तदासक्तैः । तत्र हेतुः आत्मनि सदानन्देच्छुभिरिति तैः तत्त्वज्ञैः, यत्नतः करणीयं दृश्याग्रहणमित्यन्वयः ॥३४१॥
नित्यात्मनिष्ठा सार्वात्म्यसिद्धिहेतुरित्यर्थः श्रुतिप्रमाणकः इत्याह सार्वेति −