विवेकचूडामणिः
श्रीमच्छङ्करभगवत्पादाचार्यैः प्रणीतः
शृङ्गगिरिजगद्गुरुश्रीश्रीचन्द्रशेखरभारतीमहास्वामिभिः अनुगृहीतया व्याख्यया सनाथः
३०. समाधिः – ३४. आत्मयोगः कर्तव्यः
३०. समाधिः
सार्वात्म्यसिद्धये भिक्षोः कृतश्रवणकर्मणः ।
समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः ॥३४२॥
ब्रह्मनिष्ठगुरुमुखात् कृतं श्रवणरूपं वेदान्तवाक्यतदर्थश्रवणरूपं कर्म येन सः, भिक्षुः संन्यासी कृतश्रवणकर्मा तस्य सार्वात्म्यसिद्धये कैवल्यरूपसर्वात्मभावनिष्पत्तये एषा ‘शान्तो दान्त’ इति श्रुतिः ‘तस्मादेवं विच्छान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तोभूत्वाऽत्मन्येवात्मानं पश्येत्’(बृ.उ. ४.४.२३) इति श्रुतिः बहिरन्तःकरणनिरोधेन अनालम्बितबाह्यवृत्तिः आत्मसाक्षात्कारार्थं निरन्तरं समाधिं कुर्यादिति समाहितशब्देन समाधिं विदधाति कर्तव्यत्वेन बोधयतीत्यर्थः ॥३४२॥
तत्र युक्तिमाह आरूढशक्तेरिति −
आरूढशक्तेरहमो विनाशः
कर्तुं न शक्यः सहसापि पण्डितैः ।
ये निर्विकल्पाख्यसमाधिनिश्चलाः
तानन्तराऽनन्तभवा हि वासनाः ॥३४३॥
ये निर्विकल्पाख्यसमाधिनिश्चलाः, समाधिः द्विविधः सविकल्पकः निर्विकल्पकश्चेति,
ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले ।
तदाकाराकारितया चित्तवृत्तेरवस्थितिः ॥
सद्भिः स एव विज्ञेयः समाधिः सविकल्पकः ।
मृद एवावभानेऽपि मृण्मयद्विपभानवत् ॥
सन्मात्रवस्तुभानेपि त्रिपुटी भाति सन्मयी ।
समाधिरत एवायं सविकल्प इतीर्यते ॥
ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा ।
मनसो निर्विकल्पस्स्यात् समाधिर्योगसंज्ञितः ॥
जले निक्षिप्तलवणं जलमात्रतया स्थितम् ।
पृथङ्नभाति किन्त्वम्भ एकमेवावभासते ॥
यथा तथैव सा वृत्तिः ब्रह्ममात्रतया स्थिता ।
पृथङ्नभाति ब्रह्मैवाद्वितीयमवभासते ॥
ज्ञात्रादिकल्पनाभावान्मतोऽयं निर्विकल्पकः ।
वृत्तेः सद्भावबाधाभ्याम् उभयोर्भेद इष्यते ॥
(स.सं. ८२०-८२६)
इति सदृष्टान्तं तत्तल्लक्षणम् । निर्विकल्पेत्याख्या यस्य निर्विकल्पाख्यः सचासौ समाधिश्च निर्विकल्पाख्यसमाधिः, तस्मिन् निश्चलाः तेन वा निश्चलाः तानन्तरा विना, आरूढशक्तेः आरूढा प्रवृद्धा शक्तिः नानाभ्रमजनिका यस्य तस्य अहमः अहङ्कारस्य विनाशः, पण्डितैरपि कृतवेदान्तश्रवणैरपि सहसा कर्तुं न शक्यः । हि यस्मात् वासनाः अनात्मसंस्काराः अनन्तभवाः अनन्ताः असङ्ख्याकाः भवाः जन्मानि यासां ताः, यद्वा अनन्तैर्बहुभिः पदार्थैः भवाः उत्पन्नाः । अतः सकलविधवासनाक्षयार्थं निर्विकल्पकसमाधिरेव शरणम् ॥३४३॥
समूलमनष्टायाः विक्षेपशक्तेः बन्धकत्वप्रकारमाह अहमिति −
अहं बुद्ध्यैव मोहिन्या योजयित्वावृतेर्बलात् ।
विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥३४४॥
यदानात्मनि आत्मबुद्धिं करोति तदा स्वरूपं तिरोहितं भवति ‘यथापकृष्टं शैवालं’(श्लो. ३२५) इति पूर्वोक्तरीत्या मोहिन्या स्वरूपच्याविकया अहं बुद्ध्यैव योजयित्वा तत्प्रयोज्यावृतेः स्वरूपाप्रकाशस्य बलात् पुरुषं पण्डितमपि, विक्षेपशक्तिः भ्रमपरम्पराजनिका, सङ्कल्पकामादिवृत्तिजनिका च, तद्गुणैः स्वकीयकार्यैः सङ्कल्पादिरूपैः विक्षेपयति बहुबहु बहिरानयति दूरमात्मन इत्यर्थः ॥३४४॥
विक्षेपशक्तिविजयो विषमो विधातुं
निश्शेषमावरणशक्तिनिवृत्त्यभावे ।
दृग्दृश्ययोः स्फुटपयोजलवद्विभागे
नश्येत्तदावरणमात्मनि च स्वभावात् ॥
निस्संशयेन भवति प्रतिबन्धशून्यो
निक्षेपणं नहि तदा यदि चेन्मृषार्थे ॥३४५॥
विक्षेपेति । निश्शेषमावरणशक्तिनिवृत्त्यभावे विक्षेपशक्तिविजयः विधातुं कर्तुं विषमः असाध्य इत्यर्थः । दृग्दृश्ययोः आत्मानात्मनोः स्फुटं पयोजलवत् क्षीरनीरवत् भेदेन मनस्त्रोट्या हंसैः परमैः कृते सति आत्मनि तदा स्वभावात् अयत्नत एव आवरणं नश्येत् । तथा − विवेकानन्तरम् आवरणभङ्गार्थं करणीयांशः कोऽपि नास्ति । तदामृषार्थे मिथ्याभूते अनात्मनि निक्षेपणं मनसः न चेद्यदि विक्षेपशक्तिविजयः निस्संशयेन प्रतिबन्धशून्यः भवति ॥३४५॥
एतादृशविवेके स्फुटबोधं हेतुमाह सम्यगिति −
सम्यग्विवेकः स्फुटबोधजन्यः
विभज्य दृग्दृश्यपदार्थतत्त्वम् ।
छिनत्ति मायाकृतमोहबन्धं
यस्माद्विमुक्तस्य पुनर्न संसृतिः ॥३४६॥
स्फुटः असन्दिग्धः, अविपर्यस्तः यो बोधः श्रुत्याचार्यप्रसादजनितः महावाक्यार्थानुभवः तज्जन्यः तदनन्तरकालिकः सम्यग्विवेकः ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्येवंरूपः दृग्दृश्यपदार्थतत्त्वम् आत्मानात्मयाथात्म्यम् , विभज्य क्षीरनीरवत्पृथक्कृत्य मायाकृतमोहबन्धं मायया अविद्यया कृतः यो मोहः स्वरूपतिरोधानम् , तेन यो बन्धः अनात्मस्वात्मबुद्धिः तं छिनत्ति समूलकाषं कषति । तत्र मानमाह यस्मात् विमुक्तस्य पुनर्न संसृतिरिति ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुतेः, नहि क्षीरादुद्धृतमाज्यं पुनः क्षीरीभवति तथा स्वप्रकाशानन्दाकारतां यातं मनः न पुनरनात्मसु सज्जत इति भावः ॥३४६॥
चतुर्थपादार्थमुपपादयति परावरेति −
परावरैकत्वविवेकवह्निः दहत्यविद्यागहनं ह्यशेषम् ।
किं स्यात् पुनस्संसरणस्य बीजम् अद्वैतभावं समुपेयुषोऽस्य ॥३४७॥
हि यस्मात्कारणात् परावरैकत्वविवेकवह्निः परः ईश्वरः अवरः जीवः तयोरेकत्वविषयकः विवेकः विचारजनितबोधः स एव वह्निः अशेषं सकलकार्यैः साकम् अविद्यागहनम् अविद्यैव गहनमरण्यं दहति भस्मीकरोति ‘विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति’(वि.पु. ६.७.९४) इति प्रमाणात् । अद्वैतभावं निर्भेदब्रह्मभावं समुपेयुषः निरन्तरं साक्षात्कुर्वतः अस्य महात्मनः पुनः संसरणस्य देहादावात्मभ्रमस्य बीजं किं स्यात् न किमपीत्यर्थः ॥३४७॥
सम्यग्वस्तुज्ञानस्य संसारनाशकत्वप्रकारमाह आवरणस्येति −
आवरणस्य निवृत्तिर्भवति च सम्यक्पदार्थदर्शनतः ।
मिथ्याज्ञानविनाशः तद्वद्विक्षेपजनितदुःखनिवृत्तिः ॥३४८॥
‘एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः’(श्लो. १४६) इत्युक्तत्वात् आवरणविक्षेपनाशे कुतः संसारबन्ध इति भावः ॥३४८॥
सम्यक्पदार्थदर्शनतः आवरणस्य निवृत्तिर्भवति, मिथ्याज्ञानस्य अयथाबोधस्य विनाशः भवति, तद्वत् अयथावबोधरूपविक्षेपेण जनितं यद्दुःखं तस्य निवृत्तिश्च भवति इतीममर्थं दृष्टान्तेनोपपादयति एतदिति −
एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् ।
तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥३४९॥
सम्यग्रज्जुस्वरूपविज्ञानात् एतत्त्रितयं रज्ज्वावरणनिवृत्तिः सर्पभ्रान्तिनाशः रज्जुसर्पविक्षेपजनितभयकम्पादिप्रयोज्यदुःखनिवृत्तिश्च इति त्रयं दृष्टम् । तस्माद्विदुषा एतज्जानता पुरुषेण बन्धमुक्तये बन्धहेत्वावरणविक्षेपनाशाय वस्तुसतत्त्वं वस्तुनः याथात्म्यं ज्ञातव्यम् ॥३४९॥
आत्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं सोपपत्तिकं कथयति अय इति −
अयोऽग्नियोगादिव सत्समन्वयान्मात्रादिरूपेण विजृम्भते धीः ।
तत्कार्यमेतत्त्रितयं यतो मृषा दृष्टं भ्रमस्वप्नमनोरथेषु ॥३५०॥
अग्नेर्योगात् अयः यथा दग्धृ प्रतीयते मृषा, तथा सत्समन्वयात् सतः परमात्मनः समन्वयात् प्रतिफलनरूपसम्बन्धवशात् धीः बुद्धिः मात्रादिरूपेण माता मितिः मेयमिति त्रिपुटीरूपेण विजृम्भते अनेकाकारा भवति । मातुर्ज्ञातुः जीवस्यापि धीविशिष्टवेषेण कल्पितत्वमेव । ‘अन्वेष्टव्यात्मविज्ञानात् प्रमातृत्वमात्मनः । अन्विष्टस्स्यात्प्रमातैव पाप्मदोषादिवर्जितः’(सू.भा. १.१.४) इति प्रमातृत्वमपि कल्पितम् ॥३५०॥
भ्रमस्वप्नमनोरथेषु एतत्त्रितयं त्रिपुटीरूपं तत्कार्यं सत्समन्वययुक्तधीकार्यं यतः मृषा दृष्टम् −
ततो विकाराः प्रकृतेरहम्मुखाः
देहावासना विषयाश्च सर्वे ।
क्षणेऽन्यथाभाविन एष आत्मा
नोदेति नाप्येति कदापि नान्यथा ॥३५१॥
ततः धीकार्याणां मृषात्वात् प्रकृतेः अविद्यायाः विकाराः अहंमुखाः देहावसानाः सर्वे विषयाश्च शब्दादयः घटादयश्च, क्षणेऽन्यथाभाविनः सत्वेन प्रतीयमाना एव विमर्शे क्रियमाणे असन्तो भवन्ति । अतः दृष्टनष्टस्वरूपतया न सत्यभूताः । एष आत्मा तु कदापि नोदेति नोत्पद्यते, नाप्येति न नश्यति वा, अन्यथापि न भवति तस्य धिय इव परिणामोऽपि नास्ति नियतैकरूप एव सर्वदावतिष्ठते अतः सत्य इति भावः ॥३५१॥
नित्याद्वयाखण्डचिदेकरूपो बुध्यादिसाक्षी सदसद्विलक्षणः ।
अहं पदप्रत्ययलक्षितार्थः प्रत्यक्सदानन्दघनः परात्मा ॥३५२॥
नित्या आद्यन्तविधुरा, अद्वया स्वभिन्नवस्तुशून्या, अत एवाखण्डा त्रिविधपरिच्छेदरहिता या चित् सैव एकं रूपं यस्य सः नित्याद्वयाखण्डचिदेकरूपः, तत्र मानं बुध्यादिसाक्षी पूर्वमेवोक्तं ‘विकारिणां सर्वविकारवेत्ता नित्योऽविकारो भवितुं समर्हति’(श्लो. २९६) इति । अतः सदसद्विलक्षणः ‘अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते’(भ.गी. १३.१२) इति गीतावचनात् अविद्यातत्कार्यभिन्न इत्यर्थः, अहंपदप्रत्ययलक्षितार्थः लक्षणावृत्या अहंपदजन्योपस्थितिविषय इत्यर्थः, प्रत्यक्सदानन्दघनः प्रातिलोम्येन अञ्चतीति प्रत्यङ् असज्जडदुःखाहङ्कारादिविलक्षणतया सच्चिदानन्दस्वरूपेण प्रकाशमानः सदानन्दघनः कालत्रयाबाध्यानन्दस्वरूपः परात्मा इत्यात्मयाथात्म्यं कथितम् ॥३५२॥
इत्थं विपश्चित् सदसद्विभज्य
निश्चित्य तत्त्वं निजबोधदृष्ट्या ।
ज्ञात्वा स्वमात्मानमखण्डबोधं
तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥३५३॥
इत्थं पूर्वोक्तप्रकारेण विपश्चित् श्रुतिप्रमाणः परमार्थदर्शी मुमुक्षुः सत् ब्रह्म असत् अविद्यातत्कार्यं विभज्य सत्यत्वेन मिथ्यात्वेन च निजबोधदृष्ट्या विचारजनितस्वानुभवनेत्रेण, तत्त्वं विनिश्चित्य वस्तुयाथात्म्यं निश्चयेन विज्ञाय, स्वमात्मानम् अखण्डबोधं ज्ञात्वा तेभ्यो विमुक्तः, अनात्मभ्यः अविद्यादिदेहान्तेभ्यः शब्दादिभ्यो विषयेभ्यश्च विशेषेण मुक्तः, वासनाया अप्यभावः विशेषः मुक्तौ, स्वयमेव शाम्यति अनावृतस्वच्छप्रकाशरूपेणावतिष्ठत इत्यर्थः ॥३५३॥
एवं कदा भवतीति ज्ञातव्यमत आह अज्ञानेति −
अज्ञानहृदयग्रन्थेर्निश्शेषविलयस्तदा ।
समाधिनाऽविकल्पेन यदाद्वैतात्मदर्शनम् ॥३५४॥
अविकल्पेन निर्विकल्पेन समाधिना पूर्वं कथितलक्षणेन, यदा अद्वैतात्मदर्शनं निर्भेदपरमात्मसाक्षात्कारः तदा अज्ञानहृदयग्रन्थेः अज्ञानप्रयोज्यः यः हृदयग्रन्थिः चिज्जडतादात्म्यं तस्य निश्शेषविलयः वासनया साकं नाशः इत्यर्थः ॥३५४॥
त्वमहमिदमितीयं कल्पना बुद्धिदोषात्
प्रभवति परमात्मन्यद्वये निर्विशेषे ।
प्रविलसति समाधावस्य सर्वो विकल्पः
विलयनमुपगच्छेद् वस्तुतत्त्वावधृत्या ॥३५५॥
बुद्धिदोषात् तमोरजोरूपात् त्वम् अहम् इदम् इतीयं कल्पना प्रभवति अद्वये अत एव निर्विशेषे परमात्मनि भासते । अस्य विदुषः समाधौ प्रविलसति वस्तुतत्त्वावधृत्या वस्तुयाथाम्यावधारणेन, सर्वः विकल्पःविलयनमत्यन्तनिवृत्तिम् उपगच्छेत् प्राप्नुयात् ॥३५५॥
ससामग्रीकं समाधिं तत्फलं च एकश्लोकेन विशदं कथयति शान्त इति −
शान्तो दान्तः परमुपरतः क्षान्तियुक्तस्समाधिं
कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् ।
तेनाविद्यातिमिरजनितान् साधु दग्ध्वा विकल्पान्
ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥३५६॥
शान्तः निगृहीतमनाः दान्तः निरुद्धबाह्येन्द्रियः, परमत्यन्तम् उपरतःअनालम्बितबाह्यवृत्तिः, क्षान्तियुक्तः द्वन्द्वसहिष्णुः, समाधिं निर्विशेषे ब्रह्मणि चित्तस्य संस्थापनं नित्यं कुर्वन् यतिः स्वस्य सर्वात्मभावं केवलीभावं कलयति अनुभवति, तेन निर्विकल्पसमाधिना, अविद्यैव तिमिरम् अन्धकारः तेन जनितान् उत्पादितान् विकल्पान् विविधकल्पनाः साधु दग्ध्वा भस्मीकृत्य अत्यन्तमुच्छिद्य निष्क्रियः निर्विकल्पः ब्रह्माकृत्या ब्रह्माकारेण सुखं निवसति । एतेन −
क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः ।
वासनाप्रक्षयो मोक्षः स जीवन्मुक्त इष्यते ॥ (श्लो. ३१८)
इत्युक्तं कथितं भवति । तदर्थं निष्क्रियो निर्विकल्प इति विशेषणद्वयम् ॥३५६॥
एवं मुक्तिसिद्धये समाध्यर्थम् अन्तर्बहिःप्रपञ्चप्रविलापनं हेतुः, न केवलं बाह्यशब्दैर्मुक्तिरित्याह समाहिता इति −
समाहिता ये प्रविलाप्य बाह्यं
श्रोत्रादि चेतस्स्वमहं चिदात्मनि ।
त एव मुक्ता भवपाशबन्धैः
नान्ये तु पारोक्ष्यकथाभिधायिनः ॥३५७॥
ये पुरुषाः बाह्यं श्रोत्रादि, एतेन वियदादीनां चिदात्मनि प्रविलापनं कथितमेव भवति । अहं शृणोमीत्यादि तादात्म्याध्यासविषयतया श्रोत्रादीत्युक्तम् । आन्तरं चेतःमनः स्वं स्वकीयम् , अहम् अहङ्कारञ्च, चिदात्मनि प्रविलाप्य चिदात्मव्यतिरेकेण आन्तरं वा बाह्यं वा किमपि नास्तीति दृढं निश्चित्य ये समाहिताः चिदात्मनि संस्थापितमनस्काः, त एव भवपाशबन्धैः पाशवद्बन्धकसांसारिकभ्रमैः मुक्ताः । नान्ये तु पारोक्ष्यकथाभिधायिनः अन्ये अकृतप्रविलापनाः परोक्षशब्दमात्राभिधायकाः न तु नैव मुक्ता इत्यर्थः ॥३५७॥
एवं सर्वोपादानसर्वकल्पनाधिष्ठानब्रह्मव्यतिरेकेण किमपि नास्तीति प्रपञ्चस्य शून्यत्ववासनायां दृढीभूतायां मनोनाशेन कैवल्यं निष्प्रत्यूहमिति निरन्तरं निर्विकल्पकसमाधिः कार्य इत्याह उपाधीति −
उपाधियोगात् स्वयमेव भिद्यते
चोपाध्यपोहे स्वयमेव केवलः ।
तस्मादुपाधेः विलयाय विद्वान्
वसेत्सदाऽकल्पसमाधिनिष्ठया ॥३५८॥
‘एकमेवाद्वितीयं’(छा.उ. ६.२.१) , ‘नेह नानास्ति किञ्चन’(क.उ. ४.११) ‘नात्र काचन भिदास्ति’(नृ.उ.उ. ८) इति श्रुतिजेगीयमानस्वरूपः परमात्मा उपाधियोगादेव भिद्यते । उपाध्यपोहे मायापञ्चकोशरूपोपाधिनिरासे च स्वयं केवल एव, तस्मात् उपाधेर्भेदहेतोः अहङ्कारस्य विलयाय आत्यन्तिकनिवृत्तये सदा निरन्तरम् अकल्पसमाधिनिष्ठया अकल्पः निर्विकल्पकः यः समाधिः योगः तस्मिन्निष्ठा नितरां स्थितिः तया वसेत् ॥३५८॥
एवं समाधिनिष्ठस्य जीवस्य ब्रह्माकारतायां दृष्टान्तमाह सतीति −
सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया ।
कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ॥३५९॥
एकनिष्ठया ऐदम्पर्येण सति ब्रह्मणि सक्तः समाहितमनाः नरः सद्भावं याति हि निश्चयः । तत्र दृष्टान्तः कीटकः अल्पः कीटः एकनिष्ठया भ्रमरं ध्यायन् भ्रमरत्वाय भ्रमरभिन्नोऽपि कल्पते समर्थो भवति । किम्पुनः प्रकृते ब्रह्मैव सन् जीवः अज्ञानादारोपिताब्रह्मभावः सदापि ब्रह्मध्यानात् ब्रह्मैव भवतीति इति भावः ॥३५९॥
उक्तमर्थं दृष्टान्ते विशदयन् दार्ष्टान्तिके योजयति क्रियेति −
क्रियान्तरासक्तिमपास्य कीटको
ध्यायन्यथालिं ह्यलिभावमृच्छति ।
तथैव योगी परमात्मतत्त्वं
ध्यात्वा समायाति तदेकनिष्ठया ॥३६०॥
कीटकः क्रियान्तरासक्तिम् अपास्य त्यक्त्वा यथा अलिं भ्रमरं ध्यात्वा स्वात्मानं हिनस्तीति भयादेव चिन्तयित्वा अलिभावं भ्रमरभावं स्वयमपि भ्रमरत्वम् ऋच्छति प्राप्नोति । तत्र पूर्वादारभ्य भेद एव पश्चादपि अयं भ्रमरो भवति नतु ध्यातभ्रमराभेदः । अत्र भेदस्याज्ञानिकत्वात् अभेदध्यानजनितसाक्षात्कारेण अज्ञाने नष्टे भेदप्रसक्तेरेवाभावात् तथैव कीटकवत् एकनिष्ठया अनन्यसक्ततया परमात्मतत्त्वं ध्यात्वा तदेव याथात्म्यं समायाति । नष्टाज्ञानिकभेदः अभिव्यक्तस्वतात्विकस्वरूपः भवतीति भावः । अत एव समायातीति समुपसर्गः । ध्यानेन अन्यस्याप्यन्यभावे सम्भवति स्वध्यानेन स्वस्वरूपाप्तौ कः प्रत्यूह इतिमात्रे तत्र तत्र भ्रमरकीटन्यायोदाहरणमिति मन्तव्यम् ॥३६०॥
अतीव सूक्ष्मं परमात्मतत्त्वं
न स्थूलदृष्ट्या प्रतिपत्तुमर्हति ।
समाधिनाऽत्यन्तसुसूक्ष्मवृत्त्या
ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः ॥३६१॥
निर्गुणतया अतीव सूक्ष्मं परं पञ्चकोशविलक्षणम् आत्मतत्त्वं त्रिविधपरिच्छेदरहितं स्वप्रकाशसदानन्दरूपम् आत्मयाथात्म्यं स्थूलदृष्ट्या शरीरादिस्थूलवस्तुविषयिण्या दृष्ट्या अन्तःकरणवृत्त्या प्रतिपत्तुं व्याप्तुं नार्हति । अतिशुद्धबुद्धिभिः ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ ‘कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’(ब्र.सू.भा. ३.४.२६) ‘दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’(क.उ. १.३.१२) ‘ज्ञानप्रसादेन विशुद्धसत्वः ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु.उ. ३.१.८) इत्यादिवचनानुसारेण निर्मलान्तःकरणैः आर्यैः श्रुतिस्मृत्युक्तमार्गकैः समाधिना अत्यन्तसुसूक्ष्मा प्रपञ्चाविषयकतया अखण्डाकारा या वृत्तिः तया ज्ञातव्यं विषयीकर्तव्यम् ॥३६१॥
सदृष्टान्तं मनोनैर्मल्ये ध्यानं कारणमाह यथेति −
यथा सुवर्णं पुटपाकशोधितं
त्यक्त्त्वा मलं स्वात्मगुणं समृच्छति ।
तथा मनस्सत्वरजस्तमोमलं
ध्यानेन सन्त्यज्य समेति तत्त्वम् ॥३६२॥
सुवर्णं पुटपाकशोधितम् , स्वगुणतिरोधायकमलापनयार्थक्रियमाणपाकविशेषः पुटे निक्षिप्य रक्तमृदादिसंयोगेन क्रियमाणाग्निसंयोगः पुटपाकः तेन शोधितं वियोजितमलम् , यथा मलं त्यक्तवा स्वात्मगुणं भास्वरत्वादिकं समृच्छति सम्यगाप्नोति तथा मनः अन्तःकरणं सत्त्वरजस्तमोमलं, यद्यपि सत्वस्य रजसा तमसा वा अमिश्रितस्य मलत्वं दुर्घटं ‘तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु’(श्लो. २७९) इत्युक्त्वात् ‘निर्द्वन्द्वो नित्यसत्त्वस्थो भव’(२.४५) इति गीतोपदेशाच्च, तथापि सत्त्वं शुद्धेन नश्यति इत्युक्तत्वात् ‘स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते’(भ.गी. १४.२६) , ‘निस्त्रैगुण्यो भवार्जुन’(भ.गी. २ ८५) इति भगवद्वचनाच्च निर्गुणं ब्रह्म प्राप्तुं मनोऽपि रजस्तमोविनाशार्थं सत्त्वावलम्बनं त्यजतीति भावः । ‘नास्वादयेद्रसं तत्र निस्सङ्गः प्रज्ञया भवेत्’(अद्वैत. ४५) इति गौडपादोक्तेः सत्त्वकार्यः रसास्वादः त्यक्तव्य इत्युक्तेः ‘येन त्यजसि तत्त्यज’(सं.उ. २.१२, म.भा.मो.ध. ३२९.४०) इत्युक्तेः ‘भूयश्चान्ते विश्वमायानिवृत्तिः’(श्वे.उ. १.१०) इति शुद्धसत्त्वप्रधानायाः मायायाश्च निवृत्तिश्रुतेः मिथ्यात्वेन शुद्धसत्त्वस्यापि मलत्वं मन्तव्यम् । ध्यानेन सन्त्यज्य, तत्त्वं ब्रह्मत्वं (‘नेह नानास्ति किञ्चन’ इति गुणगुणिभावस्यानिष्टत्वात्) समेति ब्रह्मणः निर्गुणत्वात् सत्त्वगुणसत्त्वे तत्त्वप्राप्तेरसम्भवात् । सात्विक्याः अखण्डाकारवृत्तेरपि मूलाज्ञानभञ्जिकायाः विलयेन अधिष्ठानमात्रावशेषत्वं भवतीति भावः ॥३६२॥
निरन्तराभ्यासवशात्तदित्थं
पक्वं मनो ब्रह्मणि लीयते यदा ।
तदा समाधिः स विकल्पवर्जितः
स्वतोऽद्वयानन्दरसानुभावकः ॥३६३॥
इत्थं निरन्तराभ्यासवशात् पक्वं विपरीतभावनादिदोषशून्यं मनः यदा ब्रह्मणि लीयते निर्वृत्तिकं ब्रह्ममात्रावशेषं भवति तदा स्वतः अप्रयत्नेन अद्वयानन्दरसानुभावकः अद्वयः यः आनन्दः ब्रह्मस्वरूपभूतः स एव रसः ‘रसो वै सः’(तै.उ. ७) इति श्रुतेः परमप्रेमास्पदत्वाच्च रसत्वम् । तदनुभवजनकः विकल्पवर्जितः सः अहमादिसकलविश्ववासनाक्षयहेतुः समाधिः निर्विकल्पाख्य इत्यर्थः ॥३६३॥
तत्फलं कार्त्स्न्येनोपपादयति समाधिनेति −
समाधिनानेन समस्तवासना-
ग्रन्थेर्विनाशोऽखिलकर्मनाशः ।
अन्तर्बहिः सर्वत एव सर्वदा
स्वरूपविस्फूर्तिरयत्नतः स्यात् ॥३६४॥
अनेन निर्विकल्पकाख्येन समाधिना योगेन समस्तवासनाग्रन्थेः ग्रन्थिवद्दुरुच्छेद्यतया स्थितानां समस्तवासनानां मिथ्याज्ञानजनितानां विनाशः अत्यन्तमुच्छित्तिः, अखिलकर्मनाशः सञ्चितानां सर्वेषां कर्मणां नाशः ‘भिद्यते हृदयग्रन्थिः, क्षीयन्ते चास्य कर्माणि’(मु.उ २.२.८) इति श्रुतेः । अन्तर्बहिः सर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात् स्पष्टम् ॥३६४॥
अतः
श्रुतेः शतगुणं विद्यान्मननं मननादपि ।
निदिध्यासं लक्षगुणम् अनन्तं निर्विकल्पकम् ॥३६५॥
श्रुतेः श्रवणात् । स्पष्टम् ॥३६५॥
निर्वकल्पकसमाधिना स्फुटं
ब्रह्मतत्त्वमवगम्यते ध्रुवम् ।
नान्यथा चलतया मनोगतेः
प्रत्ययान्तरविमिश्रितं भवेत् ॥३६६॥
निर्विकल्पकसमाधिना ब्रह्मतत्त्वं स्फुटं करतलामलकवत् अवगम्यते ध्रुवं निश्चयः । अन्यथा प्रकारान्तरेण नावगम्यते । तत्र हेतुमाह मनोगतेश्चलतया प्रत्यायान्तरविमिश्रितं वृत्त्यन्तरसङ्कीर्णं भवेत् ॥३३६॥
अतः समाधत्स्व यतेन्द्रियस्सन्
निरन्तरं शान्तमनाः प्रतीचि ।
विध्वंसय ध्वान्तमनाद्यविद्यया
कृतं सदेकत्वविलोकनेन ॥३६७॥
अतः ब्रह्मतत्त्वस्फुटावगमार्थं सदा यतेन्द्रियः सन् यतानि निगृहीतानि इन्द्रियाणि श्रोत्रादीनि येन सः यतेन्द्रियः निरन्तरं सन्ततं प्रशान्तमनाः शान्तं निर्विकारं मनः यस्य सः शान्तमनाः सन् प्रतीचि प्रत्यगात्मनि समाधत्स्व मनः संस्थापय, तज्जन्येन सदेकत्वविलोकनेन गतसकलभेदबह्मसाक्षात्कारेण, अनाद्यविद्यया अनादिः या अविद्या सर्वसंसारमूलभूता तया कृतं ध्वान्तं स्वरूपाप्रकाशं विध्वंसय विनाशय ॥३६७॥
निर्विकल्पकसमाधौ क्रमेणोपायानाह योगस्येति −
योगस्य प्रथमं द्वारं वाङ्निरोधोऽपरिग्रहः ।
निराशा च निरीहा च नित्यमेकान्तशीलता ॥३६८॥
योगस्य बाह्यसकलवृत्तिनिरोधस्य वाङ्निरोधः मौनं प्रथमं द्वारं कारणं व्यवहारेण मनोवृत्तीनां वर्धमानत्वात् । अपरिग्रहः शरीरस्थितिमात्रसाधनातिरिक्तभोगसाधनास्वीकारः तत्स्वीकारे तद्रक्षणादौ व्याप्रियमाणचित्तस्य वृत्तिनिरोधस्यासम्भावितत्वात् । आशायां कर्मणि च चित्तं विक्षिप्यते जनसङ्घे स्थितौ च अतः निराशा च वैराग्यम् , निरीहा च कर्मभ्य उपरतिः, नित्यमेकान्तशीलता एकान्ते विजने देशे शीलं स्थितिः यस्य एकान्तशीलः सः तद्भावः तत्ता च योगस्य हेतवः ॥३६८॥
एकान्तशीलतायाः योगहेतुत्वम् उपपादयति एकान्तेति −
एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसः
संरोधे करणं शमेन विलयं यायादहंवासना ।
तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः
तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नान्मुनेः ॥३६९॥
एकान्तस्थितिः विजनदेशनिवासः इन्द्रियोपरमणे बहिरिन्द्रियाणां निर्व्यापारतायां हेतुः । बहिरिन्द्रियोपरम एव दमः सः चेतसः अन्तःकरणस्य संरोधे करणं ‘इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः’(भ.गी. २.६०) इति गीतोक्तेः । विजनदेशे शब्दादिविषयाभावात् श्रोत्रादिष्वबहिर्मुखेषु अन्तःकरणम् आत्माभिमुख्यं विन्दत इति भावः । स एव शमः । शमेन अहं वासना विलयं यायात् प्राप्नुयात् तेन योगिनः अनात्मभ्यो निरुद्धवृत्तिकस्य सदा सर्वदापि ब्राह्मी आनन्दरसानुभूतिः अनावृतब्रह्मस्वरूपानन्दाभिव्यक्तिः, अचला निश्चला च्युतिशून्या । तस्मात् बाह्येभ्यश्चित्ते निरुद्धे अहंवासनाया अपि क्षयेण ब्रह्मानन्दानुभवस्य निरर्गलत्वात् मुनेः मननशीलस्य प्रयत्नात् सततं चित्तनिरोध एव कार्यः । निर्विकल्पकसमाधिः सदानुष्ठेय इत्यर्थः ॥३६९॥
‘योगस्य प्रथमं द्वारं वाङ्निरोध’(श्लो. ३६८) इत्युक्तम् । तत्र प्रमाणम् ,
यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्तः आत्मनि ॥ (क.उ. १.३.१३)
इति कठश्रुतिः, तामर्थत आह वाचमिति −
वाचं नियच्छात्मनि तं नियच्छ
बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि ।
तं चापि पूर्णात्मनि निर्विकल्पे
विलाप्य शान्तिं परमां भजस्व ॥३७०॥
वाचं वागिन्द्रियम् आत्मनि मनसि नियच्छ निरुन्धि, वाग्व्यापारं विहाय आदौ मनोमात्रेणावतिष्ठस्व इत्यर्थः । पश्वादीनामिव यदा मौनं दृढं भवति ततः सङ्कल्पविकल्पात्मकं मनोरूपात्मानं केवलाध्यवसायलक्षणायां बुद्धौ नियच्छ । तदा वास्यादिरहितः तक्षेव कर्त्र्यपि बुद्धिः बहिर्व्यापारेभ्यः शान्ता भवति । तां शान्तां धियं बुद्धिसाक्षिणि बुध्युपहिते चैतन्ये बुद्धेरुपाधित्वं भङ्क्त्वा केवलावबोधमात्रे यच्छ । शोधितत्वंपदार्थं जानीहीत्यर्थः । तच्चापि पूर्णात्मनि त्रिविधपरिच्छेदशून्ये निर्विकल्पे निर्गुणे तत्पदलक्ष्ये ब्रह्मणि विलाप्य एकीकृत्य परमाम् आत्यन्तकीं शान्तिं मोक्षरूपां भजस्व ॥३७०॥
वृत्तिनिरोधस्य स्वरूपानन्दाभिव्यञ्जकत्वं सोपपत्तिकमाह देहेति −
देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः ।
यैर्यैः वृत्तेः समायोगः तत्तद्भावोऽस्य योगिनः ॥३७१॥
तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् ।
सन्दृश्यते सदानन्दरसानुभवविप्लवः ॥३७२॥
यथा स्वच्छोऽपि स्फटिकः नीलवस्त्रादियोगेन नीलादिरूपवत्त्वेन भाति स्वयं स्वच्छः सन्नेव, तथा अस्य आत्मनः देहप्राणेन्द्रियमनोबुद्ध्यादिभिः आदिपदेन आनन्दमयकोशः गृह्यते । यैः यैः वृत्तेः समायोगः आकारताख्यसम्बन्धः आन्तरैर्वा बाह्यैर्वा कोशैः तत्तद्भावः तत्तत्तादात्म्यम् । तेन तदीयधर्मैः धर्मवत्वेन अविद्यास्मितारागद्वेषाभिनिवेशरूपाः पञ्चक्लेशाः । अस्यैव योगिनः बहिर्वृत्तीः निरुन्धतः । तत्र हेतुः मुनेरिति, कोशपञ्चकविवेकप्रकरणोक्तयुक्तिभिः ताननात्मत्वेन निषेधतः । तत्र अहं वृत्तीरकुर्वतः तन्निवृत्त्या देहाद्युपाधिनिवृत्त्या सर्वोपरमणं सर्वेषां दुःखात्मकानाम् अनात्मनाम् उपरमणम् अभानं यत्र सुखे तत्सर्वोपरमणं सुखं सम्यग्भवतीति शेषः । तत्र मानं सदानन्दरसानुभवविप्लवः सन्दृश्यत इति । विप्लवः मग्नता पूर्णता वा, निदाघतप्तस्य जाह्नवीह्रदनिमग्नस्य यथा अन्तर्बहिरानन्दस्फूर्तिः तथा सर्वोपाधिविनिर्मुक्तस्य केवलीभूतस्य अखण्डानन्दस्फूर्तिरिति भावः ॥३७२॥
एतस्मिन् निर्विकल्पकयोगे हेतुभूतसर्वोपाधिनिवृत्तौ वैराग्यं ‘योगस्य प्रथमं द्वारम्’ इति सूत्रस्थानीये श्लोके (३६८) निराशाशब्देन कथितं ‘विवेकवैराग्यगुणातिरेकात्’(श्लो. १७७) इति श्लोके मनश्शुद्धिहेतुतया ‘ताभ्यां दृढाभ्यां भवितव्यमग्रे’(श्लो. १७७) इत्युक्तं तीव्रतममन्तरङ्गसाधनमिति निरूपयति अन्तस्त्याग इति −
अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते ।
त्यजत्यन्तर्बहिस्सङ्गं विरक्तस्तु मुमुक्षया ॥३७३॥
बहिस्तु विषयैः सङ्गः तथान्तरहमादिभिः ।
विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ॥३७४॥
अन्तर्बहिर्भावेन वर्तमानानां सर्वेषाम् अनात्मनां त्यागः विरक्तस्यैव युज्यते उपपद्यते । तत्र हेतुः विरक्तस्तु विरक्त एव मुमुक्षया कैवल्येच्छया अन्तर्बहिस्सङ्गं त्यजति । अहं मम भावं न करोति । सङ्गं विभज्य दर्शयति बहिरिति, बहिस्तु विषयैः पुत्रादिभिः शब्दादिभिश्च सङ्गः, तथा अन्तः अहमादिभिः देहप्राणमनोबुद्धयः आदिपदार्थः तैः सङ्गः अवास्तवः तादात्म्यरूपसम्बन्धः । इममुभयविधमपि सङ्गं विरक्त एव निष्काममनस्क एव त्यक्तुं शक्नोति । त्यागे बीजमाह ब्रह्मणि निष्ठित इति । ब्रह्मण्येव नितरां सर्वदा स्थितः अप्रच्युतमना इत्यर्थः ॥३७४॥
ब्रह्मात्मना संस्थितौ वैराग्यवद् बोधं कारणमाह वैराग्येति −
वैराग्यबोधौ पुरुषस्य पक्षिवत्
पक्षौ विजानीहि विचक्षण त्वम् ।
विमुक्तिसौधाग्रतलाधिरोहणं
ताभ्यां विना नान्यतरेण सिद्ध्यति ॥३७५॥
हे विचक्षण त्वं पुरुषस्य मुक्तिं प्रेप्सतः वैराग्यबोधौ वैराग्यं च बोधश्च वैराग्यबोधौ वैराग्यमुक्तम् , बोधः आत्मानात्मविवेकजन्यः आत्मस्वरूपयाथात्म्यानुभवः पक्षिवत्पक्षिण इव पक्षिवत् षष्ठ्यन्ताद्वतिः पक्षौ विजानीहि । तत्र हेतुः विमुक्तिसौधाग्रतलाधिरोहणं विमुक्तिरूपं सौधाग्रतलं रम्यरम्यमुच्चस्थानं तस्याधिरोहणं प्राप्तिः, ताभ्यां समुच्चिताभ्यां विना अन्यतरेण वैराग्येण वा बोधेन वा एकेन न सिद्ध्यति । नहि पक्षी एकेन पक्षेण अम्बरतलं गाहितुमीष्टे तद्वत्प्रकृतेऽपीति भावः ॥३७५॥
तदुपपादयति अत्यन्तेति −
अत्यन्तवैराग्यवतः समाधिः
समाहितस्यैव दृढप्रबोधः ।
प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः
मुक्तात्मनो नित्यसुखानुभूतिः ॥३७६॥
अत्यन्तवैराग्यवतः अत्यन्तं यथा मनः पुनः नैव सज्जते अनात्मसु तथा तीव्रवैराग्यं जुगुप्सा अस्यास्तीति अत्यन्तवैराग्यवान् तस्य समाधिः ब्रह्मनिष्ठा सम्भवति । समाहितस्यैव ब्रह्मणि संस्थापितमनस्कस्यैव दृढप्रबोधः प्रत्ययान्तरामिश्रितब्रह्मप्रत्ययः । प्रबुद्धं तत्त्वं येन सः प्रबुद्धतत्त्वः तस्य बन्धमुक्तिः अनात्मनि आत्मबुद्ध्यनुत्पत्तिः । मुक्तात्मनो नित्यसुखानुभूतिः मुक्त आत्मा यस्य सः मुक्तात्मा अतस्मिन् तद्बुद्धिरहितान्तःकरणस्तस्य नित्यं यत् सुखम् आत्मस्वरूपं तदनुभूतिः आवरणविक्षेपशून्यज्ञानवत्त्वान्निरर्गलात्मानन्दानुभवः इति भावः ॥३७६॥
न सुखं देवराजस्य न सुखं चक्रवर्तिनः ।
यादृशं वीतरागस्य मुनेरेकान्तशीलिनः ॥ (भागवतमाहात्म्ये ४.७५)
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ (म.भा.शा.प. २८२.६)
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान्वेदेषु सर्वेषु ब्राह्मणस्य विजानतः ॥ (भ.गी. २.४६)
‘श्रोत्रियस्य चाकामहतस्य’(तै.उ. २.८) ‘सोश्नुते सर्वान्कामान् सह’(तै.उ. २.१) इत्यादिप्रमाणसिद्धमर्थं वैराग्यस्य बोधस्य च फलं स्वानुभवसिद्धं प्रस्तौति वैराग्यादिति −
वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः
तच्चेत् शुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् ।
एतद्द्वारमजस्रमुक्तियुवतेः यस्मात्त्वमस्मात्परं
सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ॥३७७॥
वश्यात्मनः वश्यः आत्मा कार्यकरणसङ्घातः यस्य आसनप्राणायामादिना देहेन्द्रियादिवशीकारेऽपि वैराग्यं विना सुखं नास्ति, अणिमादिविभूतिषु सक्तानां बन्धस्य अवर्जनीयत्वात् । अवगम्यते हि पुराणादौ हिरण्यकशिप्वादयः महत् तपः समास्थायापि वैराग्याभावात् संसारिणः बभूवुरिति । न हि तादृशं तपः अस्थिष्वपि पिपीलिकासञ्चारेऽपि अच्युतत्वं तपसः वश्यात्मत्वं विना सम्भवति । अतः वश्यात्मनोऽपि सुखं वैराग्यं विना न सम्भवतीत्युच्यते । देहादिकम् अवशयतः वैराग्यं नैव सम्भवति इति वश्यात्मन इत्युक्तम् । तथा च हठयोगादिना वश्यात्मनोऽपि सुखस्य जनकं वैराग्यात्परं न पश्यामि । तत् वैराग्यं शुद्धतरः य आत्मबोधः पञ्चकोशविवेकजन्यात्मस्वरूपावगमः तेन सहितं चेत् स्वाराज्यसाम्राज्यधुक्, स्वयमेव राट् स्वराट्, रागसत्तायां हि विषयगमनेन मनसः तदधीनता, वैराग्ये अनन्याधीनः, तस्य भावः स्वाराज्यम् इतरानियम्यत्वं तच्च साम्राज्यं सर्वनियामकत्वं ब्रह्मविदः ईश्वरादप्यधिकत्वात् । ते स्वाराज्यसाम्राज्ये दोग्धीति स्वराज्यसाम्राज्यधुक् । यस्मात् एतत् वैराग्यम् अजस्रमुक्तियुवतेः द्वारम् , तत्तु ‘अत्यन्तवैराग्यवतः समाधिः’ इति पूर्वश्लोके कथितम् ।
अस्माद्धेतोः तं सर्वत्र विषयेषु परमत्यन्तम् अस्पृहया, सदात्मनि सद्रूपे ब्रह्मणि सदा निरन्तरं, श्रेयसे मुक्तये प्रज्ञां तत्त्वप्रबोधहेतुं निर्विकल्पकसमाधिं कुरु इत्यर्थः । ज्ञानस्य वस्तुतन्त्रत्वेन कर्तुमशक्यत्वात् प्रज्ञा समाधिः तद्धेतुः ॥३७७॥
आशां छिन्धि विषोपमेषु विषयेष्वेषैव मृत्योस्सृतिः
त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात् क्रियाः ।
देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि
त्वं द्रष्टास्यमलोऽसि निर्द्वयपरब्रह्मासि यद्वस्तुतः ॥३७८॥
विषोपमेषु विषयेषु आशां छिन्धि, एषैव आशैव मृत्योः स्वरूपात्प्रच्युतिरूपप्रमादस्य सृतिः मार्गः । जातिकुलाश्रमेषु अभिमतिं त्यक्त्वा, क्रियाः जात्यादिनिमित्ताः अतिदूरात् मुञ्च । असति मिथ्याभूते देहादौ आत्मधिषणाम् अहं बुद्धिं त्यज मा कार्षीः । यत् यस्मात्कारणात् त्वं द्रष्टासि देहादेर्दृश्यस्य, अमलोऽसि देहादेः समलत्वात् । वस्तुतः निर्गतं द्वयं यस्मात् निर्द्वयम् अद्वैतं तच्च तत् परब्रह्म असि, तस्मात् आत्मनि ब्रह्मणि प्रज्ञाम् अहं ब्रह्मास्मीति ज्ञानं कुरुष्व निर्विकल्पकसमाधिना सम्पादय ॥३७८॥
लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं
स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् ।
ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्यानिशं
ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भ्रमैः ॥३७९॥
‘प्रारब्धं पुष्यति वपुः’(श्लो. २८०) इति निश्चित्य देहस्थितितत्पोषणादावभिमानम् उपेक्ष्य त्यक्त्वा, निश्चलतनुः ‘स्थिरसुखमासनम्’(२.४६) इति योगसूत्रानुसारेण निश्चला तनुः यस्य, सुखासने उपविश्य बाह्येन्द्रियं ज्ञानकर्मेन्द्रियग्रामं स्वस्थाने स्वस्वगोलके विनिवेश्य −
विविक्तदेशे च सुखासनस्थः शुचिस्समग्रीवशिरश्शरीरः ।
अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ॥
हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् ।
अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ॥
तदादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् ।
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ (४-७)
इति कैवल्यश्रुतेः लक्ष्ये ब्रह्मणि मानसं दृढतरं निश्चलं संस्थाप्य ब्रह्मात्मैक्यमुपेत्य साक्षात्कृत्य अनिशं च अखण्डवृत्त्या तन्मयतया ब्रह्म रूपतया आत्मनि, ब्रह्मानन्दरसं मुदा पिब । शून्यैः फलरहितैः अनर्थदैश्च अन्यैः अनात्मविषयकैः भ्रमैः अयथार्थज्ञानैः किम् ? ॥३७९॥
करुणातिरेकाद् भगवान् आत्मनिष्ठां मुहुरुपदिशति अनात्मेति −
अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् ।
चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ॥३८०॥
कश्मलम् अशुचिविषयकतया अशुचि, अत एव दुःखकारणम् अनात्मचिन्तनं त्यक्त्वा यत् मुक्तिकारणम् आत्यन्तिकदुःखनिवृत्तिहेतुः तम् आनन्दरूपमात्मानं चिन्तय ॥३८०॥
चिन्तनप्रकारमुपदिशति एष इति । ‘धियं यच्छ च बुद्धिसाक्षिणि’(श्लो. ३७०) इत्यस्यार्थमाह −
एषस्वयञ्ज्योतिरशेषसाक्षी
विज्ञानकोशे विलसत्यजस्रम् ।
लक्ष्यं विधायैनमसद्विलक्षणम्
अखण्डवृत्त्यात्मतयानुभावय ॥३८१॥
एष आत्मा स्वयञ्ज्योतिः इतराप्रकाश्यः, अशेषसाक्षी सर्वद्रष्टा, विज्ञानकोशे बुद्धौ विलसति अशेषेण भासते । असद्विलक्षणं सर्वावस्थास्वनुवर्तमानत्वेन स्वयञ्ज्योतिष्ट्वेन सर्वसाक्षितया च जडदृश्यबुदध्यादिविलक्षणम् एनम् अजस्रम् , लक्ष्यं विधाय तत्रैव मनः स्थापयित्वा अखण्डवृत्त्या इतरप्रत्ययामिश्रया धारावाहिक्या आत्मतया स्वस्वरूपतया अनुभवाय साक्षात्कुरु ॥३८१॥
वृत्तावखण्डत्वं स्फुटयति एतमिति −
एतमच्छिन्नया वृत्त्या प्रत्ययान्तरशून्यया ।
उल्लेखयन् विजानीयात्स्वस्वरूपतया स्फुटम् ॥३८२॥
प्रत्ययान्तरशून्यया विजातीयप्रत्ययातिरस्कृतया अविच्छिन्नया निर्मलवर्तितैलदीपज्वालावत् तैलधारावत् धारया वहन्त्या वृत्त्या एतम् आत्मानम् उल्लेखयन् विषयीकुर्वन् स्वस्वरूपतया स्फुटं विजानीयात् ॥३८२॥
अत्रात्मत्वं दृढीकुर्वन् अहमादिषु सन्त्यजन् ।
उदासीनतया तेषु तिष्ठेद् घटपटादिवत् ॥३८३॥
अत्र परमात्मनि आत्मत्वं स्वस्वरूपत्वं दृढीकुर्वन् निश्चिन्वन् अहमादिषु सन्त्यजन् तेषु कदाचित्प्रतीतेष्वपि घटपटादिवत् घटपटादिष्विव तेषु उदासीनतया अहन्ताशून्यतया तिष्ठेत् ॥३८३॥
वाचं नियच्छात्मनि (श्लो. ३७०) इत्यत्रोक्तं ‘तञ्चापि पूर्णात्मनि’ इति स्फुटं प्रतिपादयति विशुद्धमिति −
विशुद्धमन्तःकरणं स्वरूपे
निवेश्य साक्षिण्यवबोधमात्रे ।
शनैश्शनैर्निश्चलतामुपानयन्
पूर्णत्वमेवानुविलोकयेत्ततः ॥३८४॥
विशुद्धं तमोरजोहीनम् अन्तःकरणम् अवबोधमात्रे अनुपहिते साक्षिणि स्वरूपे साक्षित्वोपलक्षिते निवेश्य संस्थाप्य शनैश्शनैः निश्चलतामुपानयन् तत्रैव स्थितौ यत्नं कुर्वन् ततः पूर्णत्वमेवानुविलोकयेत् । दर्पणापनये प्रतिबिम्बं मुखमिव सर्वासु वृत्तिषु निरुद्धासु चिदाभासोऽपि बिम्बभूतं ब्रह्मैव भवतीति भावः ॥३८४॥
एवमखण्डाकारवृत्त्या भञ्जिते सत्यज्ञानावरणे तत्कृतविक्षेपाः दूरनिरस्ता एव भवन्ति इति भावेनाह स्वाज्ञानकॢप्तैरिति −
देहेन्द्रियप्राणमनोऽहमादिभिः
स्वाज्ञानकॢप्तैरखिलैरुपाधिभिः ।
विमुक्तमात्मानमखण्डरूपं
पूर्णं महाकाशमिवावलोकयेत् ॥३८५॥
स्पष्टमन्यत् ॥३८५॥
तत्र चतुर्थपदार्थमुपपादयन् दार्ष्टान्तिकमुपपादयति घटेति −
घटकलशकुसूलसूचिमुख्यै-
र्गगनमुपाधिशतैर्विमुक्तमेकम् ।
भवति न विविधं तथैव शुद्धं
परमहमादिविमुक्तमेकमेव ॥३८६॥
कुसूलः यत्र धान्यराशिः सम्भ्रियते स महापरिमाणः, सूचिः अत्यल्पच्छिद्रा, अल्पैः महद्भिश्च घटकलशकुसूलसूचिमुख्यैः मुख्यपदेन पाशकूपादिपरिग्रहः उपाधिशतैः सूच्याकाशः पाशाकाशः इत्यादि भिन्नभिन्नव्यवहारप्रयोजकैः परस्सहस्रोपाधिभिः विमुक्तं गगनम् एकं भवति महाकाश इति व्यवह्रियते न वस्तुतः विविधम् अनेकप्रकारं भवति । तथैव शुद्धं परं ब्रह्म अहमादिविमुक्तम् एकमेव ॥३८६॥
दार्ष्टान्तिके मृषात्वाच्चोपाधीनां सुलभमेकत्वज्ञानमित्याह ब्रह्मेति −
ब्रह्माद्याः स्तम्बपर्यन्ताः मृषामात्रा उपाधयः ।
ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥३८७॥
ब्रह्मा समष्टिलिङ्गशरीराभिमानी चतुर्दशभुवनाधिपतिः स आद्यः येषामुपाधीनां ते ब्रह्माद्याः, स्तम्बः अणुतमो जन्तुः सः पर्यन्तः अवधिः येषां ते स्तम्बपर्यन्ताः उपाधयः भेदकदेहाः मृषामात्राः सर्वाधिष्ठाने ब्रह्मणि कल्पिताः न वस्तुभूताः बाधयोग्याः इत्यर्थः । ततः विमृश्यमाने तेषामप्रतीयमानत्वात् एकात्मना कल्पार्णववत्स्थितं पूर्णं त्रिविधपरिच्छेदशून्यं स्वमात्मानं स्वमुख्यस्वरूपं ब्रह्म पश्येत् साक्षात्कुर्यात् ॥३८७॥
सोपपत्तिकं ब्रह्मव्यतिरेकेण भेदकत्वेनाभिमतं किमपि नास्तीत्याह यत्रेति −
यत्र भ्रान्त्या कल्पितं यद्विवेके
तत्तन्मात्रं नैव तस्माद्विभिन्नम् ।
भ्रान्तेर्नाशे भ्रान्तिदृष्टाहितत्त्वं
रज्जुस्तस्माद्विश्वमात्मस्वरूपम् ॥३८८॥
यत्राधिष्ठाने भ्रान्त्या यत्कल्पितम् आरोपितं तत् तन्मात्रम् अधिष्ठानमात्रं भवति विवेके । विचारं कृत्वा जातेन नायं सर्प इत्यादिनिषेधेन भ्रान्तेः अयं सर्प इत्याकारिकायाः नाशे सति भ्रान्त्या दृष्टं यदहितत्त्वं सर्पस्वरूपं रज्जुरेव तद्वत् । ‘अथात आदेशो नेति नेति’(बृ.उ. २.३.६) इत्यादि वाक्यैः जनितनिषेधज्ञानेन विश्वं सर्वं जगत् अधिष्ठानभूतात्मस्वरूपं पश्चान्नैव प्रतीयते रज्जुसर्पवदिति भावः ॥३८८॥
स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः ।
स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन ॥३८९॥
‘तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे, अहं मनुरभवं सूर्यश्च’(बृ.उ. १.४.१०) इत्यादिश्रुतेः, ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’(तै.उ. २.८) इति च, एकमेव चैतन्यम् उपाधिभेदात् ब्रह्मा विष्णुः शिव इन्द्रः इत्येवं व्यवह्रियते । एकैव रज्जुः सर्पः दण्डः जलधारा भूतलच्छिद्रम् इति यथा कल्पयते तथा इदं सर्वं विश्वं स्वयं ब्रह्मैव स्वस्मादन्यन्न किञ्चन सामान्ये विशेषाणां कल्पितत्वात् स्वयमहं पश्यामि स्वयं त्वं पश्य स्वयं सोऽद्राक्षीत् इत्यादि व्यवहारेष्वपि अहन्त्व-त्वन्त्व-तत्तादीनां व्यावर्तमानत्वेऽपि स्वयन्त्वस्य सर्वत्रानुवर्तमानत्वेन स्वयम्पदार्थे आत्मनि सर्वे विशेषाः कल्पिताः तदतिरेकेण न सन्तीति भावः ॥३८९॥
‘ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चात् ब्रह्म दक्षिणतश्चोत्तरेण’(मु.उ २.२.१२) , ‘अहमेवाधस्तात् आत्मैवाधस्तात्’(छा.उ. ७.२५.१) इत्यादि मुण्डकछान्दोग्यादि श्रुत्यर्थं ध्यानदार्ढ्याय वृत्त्याखण्ड्याय च उपदिशति अन्तरिति −
अन्तः स्वयं चापि बहिःस्वयं च
स्वयं पुरस्तात् स्वयमेव पश्चात् ।
स्वयं ह्यवाच्यां स्वयमप्युदीच्यां
तथोपरिष्टात् स्वयमप्यधस्तात् ॥३९०॥
तरङ्गफेनभ्रमबुद्बुदादि
सर्वं स्वरूपेण जलं यथा तथा ।
चिदेव देहाद्यहमन्तमेतत्
सर्वं चिदेवैकरसं विशुद्धम् ॥३९१॥
भ्रमः आवर्तः, तरङ्गफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण यथा जलमेव नातिरिक्तिमस्ति तथा देहादि अहमन्तम् अहङ्कारान्तम् एतत् सर्वं विशुद्धम् एकरसं चिदेव । यस्य स्फुरणं विना यन्न स्फुरति न तत्ततोऽतिरिच्यते यथा रज्जुसर्पादि । ‘तमेव भान्तमनुभातिसर्वं तस्य भासा सर्वमिदं विभाति’(क.उ. ५.१५) इति श्रुतेः आत्मभानव्यतिरेकेण भानाभावात् सर्वमात्मैव ॥३९१॥
सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः
सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः ।
पृथक्किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं
वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया ॥३९२॥
सन् घटः सन् पटः सत्कुड्यम् इत्यादिवाचा सामानाधिकरण्यवत्या, भिन्नप्रवृत्तिनिमित्तकयोः शब्दयोः एकस्मिन्नर्थे वृत्तित्वं पदनिष्ठं सामानाधिकरण्यम् ।
एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनाम् ।
सामानाधिकरण्यं भवतीत्येवं वदन्ति लाक्षणिकाः॥ (श्लो. ३०)
इति स्वात्मनिरूपणोक्तेः । मनसा च तादृशवाग्जन्यप्रत्ययेन च इदं सर्वं जगत् सदेवेत्यवगतं वाङ्मनसयोरिति निमित्तसप्तमी वाङ्मनसाभ्यामित्यर्थः । यद्वा वाक् ‘ऐतदात्म्यमिदं सर्वम् , वाचारम्भणं विकारो नामधेयं’(छा.उ. ६.८.७) इत्यादि श्रुतिः, मनः प्रपञ्चप्रविलापनमार्गेण −
जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्चभूतानि ।
परिशिष्टमात्मतत्वं पश्यन्नास्ते मुनिश्शान्तः ॥ (आ.वि.वि. २.११)
इति रीत्या अधिष्ठानमात्रविषयिणी अखण्डाकारवृत्तिः, तयोः वाङ्मनसयोः तस्यां वाचि तस्यां वृत्तौ च ब्रह्मव्यतिरेकेण जगन्नैवावगम्यत इति यश्चोरः स स्थाणुरितिवत् इदं सर्वं जगत् सदेव सद्व्यतिरेकेण नास्ति यश्चोरत्वेन ज्ञातः स स्थाणुः इति चोरत्वे बाधिते तयोः पदयोः सामानाधिकरण्यम् एवं ‘ब्रह्मैवेदं विश्वम्’(मु.उ २.१२) ‘ऐतदात्म्यमिदं सर्वम्’(छा.उ. ८.७) इत्यादिश्रुतिषु सर्वत्वं बाधित्वा यत्सर्वत्वेन ज्ञातं तद्ब्रह्मैवेति बोध्यते । इदमुपपादितमधस्तात् । वाङ्मनसयोरित्युक्तमर्थं विशदयति सत इति । प्रकृतिपरसीम्नि प्रकृतीनाम् उपादानानां परा या सीमा उपादानत्वविश्रान्तिभूमिः सर्वोपादानं ब्रह्मेत्यर्थः । तत्र स्थितवतः, यद्वा प्रकृतेः मूलप्रकृतेः मायायाः परा या सीमा तस्या अपि कल्पनाधिष्ठानं निर्गुणं ब्रह्म तत्र स्थितवतः सतोऽन्यन्नास्त्येव ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुतेः । एतेन सर्वेषां बाध उपादानेन अज्ञानेन सह नाशः उक्तो भवति । तमंशं दृष्टान्तेनाह, पृथगिति घटकलशकुम्भादि पूर्वं पृथक्त्वेनावगतं विचार्यमाणे मृत्स्नायाः मृदः पृथक्किम् ? वाचारम्भणश्रुतेः । अयमंशः विस्तरेण मृत्कार्यभूतोऽपि (श्लो. २३०) इत्यादिना स्वयमाचार्यैः उपपादितः । मायामदिरया भ्रान्तः, त्वम् एषः अविवेकी अहमिति एकमपि वस्तु पृथग्वदति । मायैव मदिरा विपरीतग्राहकत्वात् ॥३९२॥
अतः भ्रान्तिनाशार्थम् अद्वैतवस्तु चिन्तनीयमित्याह श्रुत्यवष्टम्भेन क्रियासमभिहारेणेति −
क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः ।
ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ॥३९३॥
‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.उ. ७.२४.१) इति श्रुतिः क्रियासमभिहारेण पौनःपुन्येन द्वैतराहित्यं द्वयोर्भावः द्विता सैव द्वैतं तस्य भेदस्य राहित्यम् अभावं ब्रवीति । किमर्थमिति चेत् मिथ्याध्यासनिवृत्तये मिथ्याभूतः यः अध्यासः भेदभ्रमः तन्निवृत्तये । यद्वा अध्यासशब्देन प्रपञ्चरूपार्थाध्यासः ग्राह्यः तस्य निवृत्तये तस्य अधिष्ठानावशेषत्वलक्षणनाशाय बाधायेति यावत् ‘अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः’ इत्यभियुक्तोक्तेः रज्जुसर्पादौ दृष्टत्वाच्च । यदि विश्वं सत्यं स्यात् कथं दर्शनश्रवणविज्ञानादिविषयो न स्यात् । अतः ब्रह्मणि वर्तमानस्य पुरुषस्य विश्वभानाभावात् मिथ्येति भावः ॥३९३॥
ब्रह्मस्वरूपं सम्यक् चित्ते आरोहयति ध्यातुम् आकाशेति −
आकाशवन्निर्मलनिर्विकल्प-
निस्सीमनिस्स्पन्दननिर्विकारम् ।
अन्तर्बहिश्शून्यमनन्यदद्वयं
स्वयं परं ब्रह्म किमस्ति बोध्यम् ॥३९४॥
अन्तर्बहिश्शून्यमित्यन्तम् आकाशब्रह्मणोः साधर्म्यम् , अनन्यम् अद्वयमिति ब्रह्मविशेषणम् , आकाशवत् निर्मलं न ह्याकाशं धूल्यादिभिः धूसरितं भवति तथा ब्रह्मापि अज्ञानाद्यस्पृष्टं वस्तुतः निर्विकल्पम् एकरूपम् इत्यर्थः । निस्सीमम् अनवधि, निस्स्पन्दनं निष्क्रियं, निर्विकारम् उत्पत्तिनाशवृद्धिह्रासादिशून्यम् , अन्तर्बहिश्शून्यं परिच्छिन्नस्य हि अन्तर्बहिरिति, पूर्णत्वात् अन्तर्बहिश्शून्यं स्वगतभेदरहितम् , अनन्यत् प्रत्यगभिन्नं न अन्यत् अनन्यत् , अद्वयं न विद्यते द्वयं यस्य अद्वितीयम् इत्यर्थः । विजातीयशून्यं, स्वयं स्वतस्सिद्धं परं ब्रह्म तस्मिन् बुद्धे किम् अस्ति बोध्यम् । एकस्मिन् विदिते सर्वं विदितं भवति इति सर्वात्मके परमात्मनि विदिते न किमपि बोद्धव्यमवशिष्यत इति भावः । यद्वा अनन्यत् सर्वात्मकम् अत एवाद्वयं स्वव्यतिरिक्तद्वितीयशून्यं परं बह्मैव स्वयं जीवः आत्मा अतः अन्यत् बोध्यं किमस्तीत्यर्थः । आकाशवदिति श्रोतृबुद्ध्यारोहाय दृष्टान्तः इषुरिव सविता धावतीतिवत् । नहि ब्रह्मणः सदृशं वस्तु विद्यते ‘न तत्सम’(श्वे.उ. ६.८) इति श्रुतेः । आकाशस्य ‘प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः’(ब्र.सू. २.३.६) इत्युत्पत्तिसाधनात् । लोके तदुत्पत्त्यादेः अदृष्टत्वात् तद्वन्निर्विकारं ब्रह्मेति ‘आकाशवत्सर्वगतश्च नित्यः’(छा.उ. ३.१४.३, गौड.३.३) इत्यादिवद्वक्तुं शक्यत्वात् ॥३९४॥
वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवस्स्वयं
ब्रह्मैतज्जगदापराणु सकलं ब्रह्माद्वितीयं श्रुतेः ।
ब्रह्मैवाहमिति प्रबुद्धमतयः सन्त्यक्तबाह्याः स्फुटं
ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैव ध्रुवम् ॥३९५॥
अत्र ब्रह्मैकत्वविषये बहुधा अनेकप्रकारैः वक्तव्यं किमु विद्यते, सम्यग्बुद्ध्यारोहाय बहुभिः दृष्टान्तैः सर्ववेदान्ततात्पर्यविषयार्थः प्रतिपादितः तं सङ्ग्रहेण कथयति । विस्तरसङ्ग्रहाभ्याम् उक्तोऽर्थः सम्यग्ज्ञातुं शक्यत इति वदन्ति खलु −
श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ॥
इति । ब्रह्मैव जीवस्स्वयं जीवत्वमेवौपाधिकं ब्रह्मत्वं तु ‘जीव इति ज्ञातस्य वास्तविकं स्वरूपं’ रज्जुरिव सर्पस्य । अतः जीवस्स्वयं ब्रह्मैव न व्यतिरिक्तः । आपराणु परमाणुपर्यन्तं सकलमेतत् जगत् वियदादि ब्रह्मैव तज्जत्वात् तल्लत्वात् तदनत्वात् च ‘सर्वं खल्विदं ब्रह्म, तज्जलानिति शान्त उपासीत’(छा.उ. ३.१४.१) इति श्रुतेः तज्जलानमिति भवितव्ये अवयवलोपश्छान्दसः परमे व्योमन् इत्यादिवत् । अनादि अज्ञानादिकमपि तत्राधिष्ठाने कल्पितमिति न ततोऽतिरिच्यते अतः ब्रह्म अद्वितीयं स्वव्यतिरिक्तवस्तुशून्यं ‘तत्त्वमसि’(छा.उ. ६.१६.१३) , ‘अयमात्मा ब्रह्म’(मां.उ. २) ‘इदं सर्वं यदयमात्मा’(बृ.उ. ३.४.६) ‘आत्मैवेदं सर्वं’(छा.उ. ७.२५.२) ‘ब्रह्मैवेदं सर्वम्’(नृ.उ. ७.३) ‘एकमेवाद्वितीयम्’(छा.उ. ६.२.९) इत्यादिश्रुतेः । ब्रह्मैवाहमिति प्रबुद्धमतयः प्रबुद्धा श्रुत्याचार्योपदेशेन ज्ञातज्ञेया मतिः बुद्धिः येषां ते प्रबुद्धमतयः स्फुटं वासनया सह सन्त्यक्तबाह्याः स्वरूपतस्त्यक्ताहमादयः, ब्रह्मीभूय पूर्वमज्ञानात् अब्रह्मत्वं स्वस्य कल्पितं तदभिप्रायेण च्विप्रत्ययः, साक्षात्कृतब्रह्मभावाः सन्ततचिदानन्दात्मनैव वसन्तीति विद्वदनुभवः उक्तः । एतत् ध्रुवं निश्चयः । यद्वा ध्रुवं निश्चलतया वसन्तीति योजना ॥३९५॥
स्फुटं सन्त्यक्तबाह्यत्वात् −
जहि मलमयकोशेऽहन्धियोत्थापिताशां
प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् ।
निगमगदितकीर्तिं नित्यमानन्दमूर्तिं
स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥३९६॥
मलमयकोशे प्राचुर्यार्थे मयट्, स्थूलदेहे अहन्धिया उत्थापिता जनिता या आशा तस्मिन् पोषणार्थेषु च, तां प्रसभं बलात्कारेण जहि नाशय । मलमयेति हेतुगर्भविशेषणम् अहन्धियः हानार्थम् । उक्तं हि ‘पिण्डाण्डं त्यज्यतां मलभाण्डवदिति ।’(श्लो. २९०) पश्चात् स्थूलदेहसम्बन्ध्याशानाशानन्तरम् अनिलकल्पे वायुवददृश्ये लिङ्गदेहेऽपि सप्तदशावयवोपेते सूक्ष्मशरीरे अपि अहन्धिया उत्थापिता या आशा मनोनुकूलविषयेषु, तां जहि प्रथमत एव सूक्ष्मत्यागस्य दुष्करत्वात् दूरदूरस्थूलपदार्थत्यागेन सन्निहितसूक्ष्मत्यागः सुकरः इति स्थूलपदार्थविषयाशाः जहीत्यादावुक्तम् । तत्र हेतुः अहन्धीरिति कथनेन दृष्टबीभत्से अहन्धियोऽभावे आशा नैव जायते निमित्तापायात् इति सूचितम् । श्रुतिश्च अस्माल्लोकात्प्रेत्य, ‘एतमन्नमयमात्मानमुपसङ्क्रामति’(तै.उ. २.१०) इत्यादिना पुत्रमित्रादिषु बाह्येषु अहन्तां त्यक्त्वा देहमात्रमात्मत्वेन मन्वीत, ततः ततोऽन्तरं प्राणमेव इति प्रतिपत्तॄणां सौकर्याय उपदिदेश । तेनैव क्रमेण प्रथमं देहार्थपुत्रादिविषयेषु आशापरित्यागः आशैव त्यक्तव्या इति यदा तदा किं वक्तव्यम् अहन्ताया विषये । ततः स्थूलशरीरे अहन्तायाः आशायाश्च त्यागः, ततः प्राणमयमनोमयविज्ञानमयघटिते सूक्ष्मशरीरे पञ्चकोशविवेकप्रकरणोक्तयुक्तिभिः अहन्धियं तत्प्रयोज्याशां च जहि नाशय, ‘मानभूवं हि भूयासम्’ इति परप्रेम आत्मनि सर्वस्यास्ति । स्थूलादावहन्धियि अयं प्रेमा तत्रैव भवतीति आशा दुर्निरसा । अतः क्रमेण विचारेण जनितदृढविवेकज्ञानेन स्थूलसूक्ष्मशरीरयोः अहन्तायां त्यक्तायां प्रियमोदाद्यवयवोपेतानन्दमयकोशे सावयवत्वाद् औपाधिकत्वाच्च अनित्यत्वनिश्चयेन अहन्ता नैव सम्भवति । एवं पञ्चकोशान् अनात्मत्वेन निश्चित्य, निगमगदितकीर्तिं निगमैः वेदैः गदिता किर्तिः सर्वज्ञत्वसर्वशक्तत्वसर्वप्राणिप्राणयितृत्वसर्वप्रशास्तृत्व − विशिष्टसगुणाधिष्ठानत्वसच्चिदनन्दघनत्ववाङ्मनसागोचरत्व − निराधारत्वनिर्गुणत्वनिष्कलत्वनिर्विकल्पत्वनिरञ्जनत्व − सूक्ष्मतमत्वनित्यशुद्धमुक्तबुद्धसत्यानन्दस्वभावत्वादिरूपा यस्य तम् , नित्यमानन्दमूर्तिम् , एतेन आनन्दमयकोशनिरासः तस्य नित्यत्वाभावात् परमात्मानं स्वयमिति स्वस्वरूपमिति, परिचीय निश्चित्य अनुभूय ब्रह्मरूपेण तिष्ठ कोशानां पञ्चानाम् अनात्मत्वेन निषिद्धत्वात् ब्रह्मैवात्मेत्यनङ्गीकारे नैरात्म्यवादप्रसङ्गात् अत एव श्रुतिः ‘असन्नेव स भवति’(तै.उ. २.६) इत्यादिः ॥३९६॥
शवाकारं यावद्भजति मनुजस्तावदशुचिः
परेभ्यस्स्यात्क्लेशो जननमरणव्याधिनिरयाः ।
यदात्मानं शुद्धं कलयति शिवाकारमचलं
तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥३९७॥
मनुजः यावत्कालं, स्थूलदेहतादात्म्येन चैतन्यहीनतया तस्य शवत्वं, पादाङ्गुष्ठप्रभृतिशिरःपर्यन्तं यच्छशरीरं तदेवाहमिति शवाकारं भजति तावत्कालं तस्य मलमयतया अशुचित्वात् अयमपि स्वतः शुचिरपि अशुचिः । तथा परेभ्यः शत्रुव्याघ्रादिभ्यः क्लेशः स्यात् । जननमरणव्याधिनिरयाः अस्मिन्लोके जननमरणव्याधयः, देहमात्मत्वेन मत्वा स्थितस्य पापवत्त्वात् ‘योऽन्यथा सन्तमात्मानम्’(म.स्मृ. ४.२५५) इति स्मृतेः देहपाते निरयः । एवं सदा दुःखवत्त्वमेव ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’(छा.उ. ८.१२.१) इति श्रुतेः −
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ (क.उ. २.६)
इति यमवचनरूपश्रुतेश्च । यदा आत्मानं साधनचतुष्टयसम्पन्नः विधिवद् गुरुमुपसद्य तन्मुखारविन्दगलितश्रुत्यन्तवाक्यैः तदनुसारियुक्तिभिश्च शुद्धं देहत्रयातीतं शिवाकारम् आनन्दस्वरूपम् अचलम् अप्रमादं यथा तथा कलयति जानाति तदा तेभ्यः परकृतक्लेशेभ्यः जननमरणव्याधिनिरयेभ्यश्च मुक्तो भवति । हि निश्चयः । तत् श्रुतिरप्याह, तदपि श्रुतिराह इति अपि शब्दः भिन्नक्रमो वा । पूर्वार्धं समुच्चिनोति । यथाश्रुते अपिना अनुभवः समुच्चीयते गुरवश्च । आहापीति वा अन्वयः, ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’(छा.उ. ८.१२.१) , ‘आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन’(तै.उ. २.४) , ‘तरति शोकमात्मवित्’(छा.उ. ७.१.३) , ‘ज्ञात्वा देवं मुच्यते सर्वपाशैः’(श्वे.उ. १.८) , ‘तमेवं विद्वानमृत इह भवति’(तै.आ. ३.१.३) , ‘क्षीणैः क्लेशैः जन्ममृत्यु प्रहाणिः’(श्वे.उ. १.११) , ‘ज्ञात्वा शिवं शान्तिमत्यन्तमेति’(श्वे.उ. ४.१४) इत्यादिः ।
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥
(मु.उ ३.१.२)
इति च । अनेन श्लोकेन पूर्वश्लोकोपदिष्टार्थः फलकथनेन उपपादितः अनात्मज्ञाने दुष्फलम् आत्मयाथात्म्यज्ञाने आत्यन्तिकी दुःखनिवृत्तिरिति ॥३९७॥
शुद्धशिवाकारत्वं कथमात्मन इति चेदाह स्वात्मनीति −
स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः ।
स्वयमेवं परं ब्रह्म पूर्णमद्वयमक्रियम् ॥३९८॥
स्वात्मनि आरोपितानि केवलाज्ञानेन कल्पितानि यानि अशेषाभासवस्तूनि अनात्मतद्धर्मरूपाणि तेषां निरासतः श्रुतियुक्तिभिः निदिध्यासनेन च विनाशनतः स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ।
अन्वेष्टव्यात्मविज्ञानात् प्राक्प्रमातृत्वमात्मनः ।
अन्विष्टस्स्यात् प्रमातैव पाप्मदोषादिवर्जितः ॥
गौणमिथ्यात्मनोऽसत्त्वे पुत्रदेहादिबाधनात् ।
सद्ब्रह्मात्माहमित्येवं बोधे कार्यं कथं भवेत् ॥ (ब्र.सू.भा. १.१.४)
इत्यभियुक्तोक्तेः, ‘अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव’(बृ.उ. ४.४.७) इति श्रुतेश्च ॥३९८॥
आदौ प्रयत्नेन दृश्यं निरुध्य समाधौ क्रियमाणे तत्र निष्ठस्य पूर्वं प्रतीतमपि दृश्यं शशविषाणवद् भवतीत्याह समाहितायामिति −
समाहितायां सति चित्तवृत्तौ
परात्मनि ब्रह्मणि निर्विकल्पे ।
न दृश्यते कश्चिदयं विकल्पः
प्रजल्पमात्रः परिशिष्यते ततः ॥३९९॥
सति अबाध्ये परात्मनि निर्विकल्पे ब्रह्मणि चित्तवृत्तौ समाहितायां निश्चलतया स्थापितायां सत्याम् अयं विकल्पः कश्चिदपि न दृश्यते । ततः प्रजल्पनमात्रः परिशिष्यते ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः’(यो.सू. १.९) इति तल्लक्षणात् । अज्ञानस्य समूलकाषं कषितत्वेन कल्पित तादात्म्यमपि नास्तीति केवलमखण्डं सच्चिदानन्दमात्रमस्तीति भावः । यथा असतः अर्थक्रियाकारित्वं नास्ति गगनकुसुमादेः एवं यत्पूर्वं सुखदुःखरागभयक्रोधादिकमुत्पादयामास तदपि प्रतीतमपि ब्रह्मनिष्ठं प्रति उत्खातदंष्ट्रोरगवत् न स्वकार्यमाधत्त इति भावः ॥३९९॥
अनात्मवासनानां प्रक्षीणत्वात् एवमुपदेशधारया वासिताद्वैतान्तःकरणं शिष्यं प्रति द्वैतस्य अत्यन्तमसत्त्वं सकलवेदान्ततात्पर्यविषयम् अनुभवयुक्तिदृष्टान्तश्रुतिभिःउपदिशति असत्कल्प इत्यादिना −
असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४००॥
विश्वमिति यत् अयं विधेयप्राधान्यात्पुल्लिङ्गम् । विकल्पः विविधं कल्प्यत इति विकल्पः अज्ञानेन कल्पित एव न वस्तुभूत इत्यर्थः । असत्कल्पः ईषदसमाप्तौ कल्पप्प्रत्ययः । निरन्तरं ब्रह्मसमाहितमनसां सप्तमीं भूमिकां गतानां सर्वथा भानाभावात् शशविषाणवदेव । तदितरेषां तु दृष्टनष्टस्वरूपत्वात् शुक्तिरजतादिवत् प्रातिभासिकः इति असन्नेवेत्यनुक्त्वा असत्कल्प इत्युक्तम् । तथा च मिथ्यात्वेन तेन वस्तुनः ब्रह्मणः सद्वितीयत्वाभावेन एकवस्तुनि विकाराकारविशेषशून्ये गुणगुणिभावावयवावयविभावजातिव्यक्तिभावादिशून्ये तादात्म्यस्याप्यभावेन भिदा कुतः ॥४००॥
द्रष्टृदर्शनदृश्यादिभावशून्यैकवस्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०१॥
द्रष्टा प्रमाता, दर्शनं प्रमितिः, दृश्यं प्रमेयम् , आदिपदेन प्रमाणपरिग्रहः । कर्तृकरणकार्याणि वा । एतत्सर्वम् अविद्यावस्थायाम् । वस्तुतः निर्विकल्पे केवलाखण्डचिन्मात्रे ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इत्यादिश्रुत्या ज्ञानावस्थायाम् अज्ञाननाशात् तन्मूलकानां द्रष्टृदर्शनदृश्यादिभावानामभावात् द्रष्टृदर्शनदृश्यादिरूपा ये भावाः तैः शून्यं यदेकं वस्तु तस्मिन् निर्विकारे विकारशून्ये निराकारे अवयवसंस्थानशून्ये भिदा भेदः कुतः नैवास्तीत्यर्थः । प्रकृतिविकारभावाद्यभावात् न भेदप्रसक्तिरपीति भावः ॥४०१॥
कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०२॥
प्रलयकाले चत्वारोऽपि समुद्राः मिलिताः द्वीपादिशून्यतया केवलं जलमयं जगत् कुर्वन्तीति पुराणेष्ववगम्यते । तदा सर्वत्र जलमेव न भूभागः कश्चित् विभाजकाभावात् । चतुर्णामपि समुद्राणां भूभागावस्थायां विभक्तानाम् एकीभूतत्वात् कल्पार्णव इत्येकवचनम् । तदापि आकाशादिकमस्त्येव तथापि सर्वत्र जलं पूर्णं श्रोतृबुद्ध्यारोहाय, इषुरिव सविता धावतीतिवद्दृष्टान्तः । अत एव अत्यन्तपूर्णेत्युक्तम् । ‘ज्यायानाकाशाद्’(छा.उ. ३.१४.३) इत्यादिश्रुत्या ‘पादोऽस्य सर्वा भूतानि, त्रिपादस्यामृतं दिवि’(छा.उ. ३.१२.६) इति श्रुत्या च निरुपमभूमनि परमात्मन्येकवस्तुनि निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०२॥
पूर्वमपि भेदाभावेऽपि भेदभ्रान्तिकारणमज्ञानम् अवर्तिष्ट । तस्य समूलघातं हतत्वात् इदानीं भेदभ्रान्तिरपि नेत्याह तेजसीति −
तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् ।
अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥४०३॥
तमः अज्ञानम् अन्धकारश्च । यत्र परमात्मनि भ्रान्तिकारणं तमः अज्ञानं तेजसि सूर्यादिप्रकाशे तम इव अन्धकार इव विलीनं नष्टं तस्मिन् अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ।
विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदम् असन्तं कः करिष्यति ॥ (वि.पु. ६.७.९४)
इति प्रमाणात् ॥४०३॥
एकात्मके परे तत्त्वे भेदवार्ता कथं भवेत् ।
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥४०४॥
‘यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न तु तद्द्वितीयमस्ति ततोन्यद्विभक्तं यत्पश्येत्’(बृ.उ. ४.३.२३) इति श्रुतेः । सुषुप्तौ प्रपञ्चं न पश्यतीति यत् तत् तार्किकमत इव जडत्वान्न पश्यतीति मा वेदीः यतः सुषुप्तावपि नित्यज्ञानस्वरूपस्य आत्मनः स्वयम्प्रकाशस्य सत्त्वात् । अतः यदि द्वितीयं स्यात् पश्येदेव न तु तद्द्वितीयमस्ति । अज्ञानसत्वेऽपि शक्तिशक्तिमतोरैक्यात् विभक्तत्वाभावात् । अत एव ततोऽन्यद्विभक्तमिति पदद्वयम् । अज्ञानोपहितचैतन्यस्यैव सुषुप्तिसाक्षित्वात् । तस्याज्ञानस्य अधिष्ठाने तत्रैव कल्पितत्वात् कल्पिते अधिष्ठानभेदाभावात् । यद्यपीदं सर्वदा समानं तथापि कार्योपाधीनां लीनत्वात् सुषुप्तौ सुगममिति सुषुप्त्यवस्थामाश्रित्य श्रोतृबुद्ध्यारोहाय निष्प्रपञ्चत्वमात्मनः प्रतिपाद्यते । यदि कश्चित् जाग्रत्पुरुषः सुषुप्तिस्थितं चिन्तयन् मनसा अज्ञानं विविच्यात् तदा अन्तःकरणवृत्तेरेव अज्ञानभञ्जकत्वात् तदीयं मनः निष्प्रपञ्चब्रह्माकारं जातमेवेति तस्या एवावस्थायाः ज्ञानावस्थात्वात् तदा केवलम् अखण्डब्रह्मैव मनसावाप्तमिति सिद्धं समीहितमिति श्रुतेरभिप्रायः । विक्षेपाभावस्य उभयत्र समत्वात् आवरणसत्त्वासत्त्वाभ्यामेव सुषुप्तिसमाध्योर्भेदात् । अत एव ह्युक्तं ‘निद्रा समाधिस्थितिः’(शि.मा.पू.श्लो. ४) इति । इदं वचनं जाग्रता पुरुषेण सुखमयी सुषुप्तिः चिरं चिन्त्यते चेत् तस्य समाधिः भवतीत्यभिप्रायेणैव । तथाच एकात्मके परे तत्त्वे भेदवार्ता इत्यनेन भेदो नैवास्ति तद्वार्तापि कथं भवेत् विकाराकारविशेषाभावात् ‘यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति ।’(तै.उ. २.७) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.उ. ७.२४.१) इति श्रुतेः । यदि भेदः सत्यः स्यात् सुषुप्ताववलोक्येत । यद्यज्ञानं न किञ्चिदवेदिषम् इति सुषुप्तौ भिन्नमित्युच्येत तस्यापि ज्ञानमात्रायां समाध्यवस्थायां दग्धत्वात् न सत्यत्वमिति अज्ञानस्य तत्कार्याणां च अत्यन्तं नष्टत्वात् ‘आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा’(मां.मा.अ.शां. ३१) इत्युक्त्या नास्ति नासीत् न भविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वं सिद्धमिति भावः ॥४०४॥
तदुपपादयति न ह्यस्तीति −
नह्यस्ति विश्वं परतत्त्वबोधात्
सदात्मनि ब्रह्मणि निर्विकल्पे ।
कालत्रये नाप्यहिरीक्षिते गुणे
नह्यम्बुबिन्दुर्मृगतृष्णिकायाम् ॥४०५॥
सम्यग्ज्ञानं हि वस्तुसिद्धिहेतुः । पूर्वं तु अज्ञानात् भ्रान्तिरास मनसः । विचार्यमाणे दीपकलिकायमाने तम इव अज्ञानं नष्टमिति सदात्मनि निर्विकल्पे ब्रह्मणि विश्वं नह्यस्ति नैवास्तीत्यर्थः । तत्र मानं परतत्त्वबोधादिति । परस्य ब्रह्मणः यत्तत्त्वं निष्प्रपञ्चत्वरूपयाथात्म्यं श्रुतिबोधितं तस्य बोधात् अनुभवादित्यर्थः । न हि यथाप्रमाणम् अनुभवानन्तरं संशयविपर्ययादिकम् । अतः विश्वं नैवास्ति । तत्र दृष्टान्तः, हि यतः, कालत्रयेऽपि गुणे रज्ज्वाम् अहिः सर्पः नेक्षितः, मृगतृष्णिकायां मरुमरीचिकासु अम्बुबिन्दुरपि न । तद्वत् पूर्वमज्ञानात् भ्रान्त्या प्रतिपन्नमपि वस्तु न सदिति भावः । ‘नाभावो विद्यते सतः’(भ.गी. २.१६) इति गीतोक्तेः विद्वदनुभवाच्च । शुक्तिका हि रजतवदाभासते एकश्चन्द्रः सद्वितीयवत् इत्यादिलौकिकानुभवात् आरोपितमिथ्यात्वे न विसंवादः । अतः श्रुतिरपि ।
यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति ।
मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥ (बृ.उ. २.४.१४)
इति इवकारानुबन्धेन द्वैतस्य मिथ्यात्वं सूचयति ॥४०५॥
तद्विषये स्फुटार्थां श्रुतिमाह मायेति −
मायामात्रमिदं द्वैतम् अद्वैतं परमार्थतः ।
इति ब्रूते श्रुतिस्साक्षात्सुषुप्तावनुभूयते ॥४०६॥
मायया मीयते प्रतीयत इति मायामात्रम् इदं दृश्यं द्वैतं भेद इत्यर्थः । परमार्थतः सत्यभूतम् अद्वैतं निर्भेदं ब्रह्म इत्यर्थः । इति साक्षात् वाच्यवृत्त्या श्रुतिर्ब्रूते । सर्वैरपि साक्षात्सुषुप्तावनुभूयते अतः नात्र विवादावसर इति भावः । अनुभवस्य अपौरुषेयतया निर्दोषश्रुत्यनुसारित्वात् ॥४०६॥
अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् ।
पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ॥४०७॥
‘सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति’(कै. १.१३) इति कैवल्योपनिषदि तमोभिभूत इतिशब्देन तमसः स्थितिं ब्रूते श्रुतिरिति चेत् तस्य तत्र कल्पितत्वात् समाधावसत्त्वाच्च अवस्तुत्वमित्याह आरोप्यस्य अधिष्ठानादनन्यत्वं व्यतिरेकेणाभावः रज्जुसर्पादौ पण्डितैः निरीक्षितम् । विकल्पः भेदग्रहस्तु भ्रान्तिजीवनः भ्रान्त्या जीवतीति भ्रान्तिजीवनः भ्रान्तिमूलक इत्यर्थः । भ्रान्त्यभावे भेदः नैव प्रतीयते भेदविषयकसम्यग्ज्ञानाभावात् ॥४०७॥
भ्रान्तिनिरासोपायमाह चित्तेति −
चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन ।
अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥४०८॥
अयं विकल्पः चित्तं बहिर्मुखं मनः मूलं यस्य सः चित्तमूलः । चित्ताभावे सुषुप्तौ न कश्चन अतः स्वरूपसती अविद्यापि चित्ताभावे न स्वकार्यसमर्था । सा जाग्रत्स्वप्नयोः चित्तात्मना परिणममाना विश्वं जनयति । अतः चित्तं प्रत्यग्रूपे तव स्वरूपभूते परात्मनि समाधेहि संस्थापय, तेन अविद्यया साकं सर्वेषां विकल्पानां बाध एवेति भावः ॥४०८॥
परमात्मनि मनः समाधापयितुं शब्दैर्विध्यति किमपीत्यादिना त्रिभिः श्लोकैः −
किमपि सततबोधं केवलानन्दरूपं
निरुपममतिवेलं नित्यमुक्तं निरीहम् ।
निरवधि गगनाभं निष्कलं निर्विकल्पं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४०९॥
किमपि वागगोचरम् , सततः नित्यश्चासौ बोधश्च तम् अखण्डज्ञानरूपं, केवलानन्दरूपं दुःखासम्भिन्ननिरुपाधिकसुखरूपं, तेन स्वयम्प्रकाशनित्यसुखरूपतया परमपुरुषार्थत्वमुक्तम् । निरुपमं ‘न तस्य प्रतिमाऽस्ति’(श्वे.उ. ४.१९) इति श्रुतेः । वेलामतीत्य वर्तमानम् अतिवेलं विश्वातीतमित्यर्थः । नित्यमुक्तं कदापि बन्धरहितं निरीहं निष्कामं निष्क्रियं वा । निरवधि कालतः देशतः वस्तुतश्च अन्तशून्यम् । गगनाभम् असङ्गं निर्मलम् । निष्कलं निरवयवम् । निर्विकल्पं विविधकल्पनाशून्यम् । पूर्णं ब्रह्म विद्वान् समाधौ हृदि कलयति । त्वमप्येवं कलयेति भावः ॥४०९॥
प्रकृतिविकृतिशून्यं भावनातीतभावं
समरसमसमानं मानसम्बन्धदूरम् ।
निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४१०॥
नित्यत्वान्निरवयवत्वात् च ‘तदेतद् ब्रह्मापूर्वमनपरं’(बृ.उ. २.५.१९) इत्यादिश्रुत्या प्रकृतिविकृतिशून्यं, भावनां कल्पनाम् अतीतः भावः स्वभावः यस्य तत् उपनिषदं विना केवलतर्केण अधिगन्तुमशक्यम् इत्यर्थः । तत् समरसम् एकरूपम् असमानम् असदृशम् । मानसम्बन्धदूरम् अप्रमेयं श्रुत्यापि लक्षणया बोध्यमानत्वात् ।
प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा ।
यस्य प्रसादात् सिध्यन्ति तत्सिद्धौ किमपेक्षते ॥ (तै.भा.वा.ब्र. ६११)
इति सुरेश्वराचार्यवचनात् , स्वयं सिद्धे प्रत्यग्रूपे तस्मिन् वेद्यवेदितृवेदनादिभेदापनायकश्रुतेरपि ताटस्थ्यात् । यद्वा मानं प्रत्यक्षादिप्रमाणं तत्सम्बन्धदूरं तत्सम्बन्धः मेयत्वं तज्जन्यप्रमाविषयत्वं तद्दूरं तद्रहितमिति यावत् । निगमवचनसिद्धं सदा विद्वदनुभवगोचरम् । हृदीत्यादि पूर्ववत् ॥४१०॥
अजरममरमस्ताभासवस्तुस्वरूपं
स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् ।
शमितगुणविकारं शाश्वतं शान्तमेकं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४११॥
अजरम् अपक्षयशून्यम् अमरं नाशरहितम् अस्ताभासवस्तुस्वरूपम् अस्ताः गताः आभासाः विकल्पाः यस्मिंस्तत् अस्ताभासं तच्च तत् वस्तु च तत्स्वरूपम् । स्तिमितसलिलराशिप्रख्यं निस्तरङ्गजलराशिनिश्चलम् । आख्याविहीनं नामरहितं जात्यादिप्रवृत्तिनिमित्तविरहात् ‘ते यदन्तरा’(छा.उ. ८.१४.१) इति श्रुतेः । शमितगुणविकारं निर्गुणं निर्विकारं शाश्वतम् अनादिसिद्धं शान्तम् अपरिणामि । एकम् अद्वितीयं हृदि कलयति विद्द्वान् समाधौ पूर्णं ब्रह्म ॥४११॥
समाहितान्तःकरणः स्वरूपे
विलोकयात्मानमखण्डवैभवम् ।
विच्छिन्धि बन्धं भवगन्धगन्धिलं
यत्नेन पुंस्त्वं सफलीकुरुष्व ॥४१२॥
स्वरूपे परमात्मनि समाहितान्तःकरणः निश्चलतया स्थापितमनाः सन् अखण्डवैभवम् अखण्डं वैभवं विभुत्वं यस्य तम् आत्मानम् अव्याकृताकाशस्यापि कल्पनाधिष्ठानं विलोकय साक्षात्कुरु । भवगन्धगन्धिलं संसारवासनावासितं बन्धम् अज्ञानं विच्छिन्धि नाशय ‘अविद्यास्तमयो मोक्षस्सा च बन्ध उदाहृतः’(ब्रह्म.सि. २.१०६) इत्युक्तेः । यत्नेन −
यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् ।
यद् बोधान्नापरो बोधस्तद् ब्रह्मेत्यवधारय ॥ इति (आत्म.बो. ५४)
‘आत्मलाभान्न परं किञ्चिदस्ति’(परशुरामकल्पसूत्रम् १.२८, आप.ध.सू. १.२२.२) ‘आत्मानमन्विच्छ गुहां प्रविष्टम्’(पुत्र.गी. ३८) इत्यादिवचनैः ‘एतद् बुध्वा बुद्धिमान्स्यात् कृतकृत्यश्च भारत’(भ.गी. १५.२०) इति गीतोक्तेः, ‘आत्मा वा अरे द्रष्टव्यः एतावदरे खल्वमृतत्वम्’(बृ.उ. २.४.५) इति श्रुत्या च आत्मसाक्षात्कारस्यैव परमफलत्वात् तदर्थं यत्नेन पुंस्त्वं बहुसुकृतलब्धं पुरुषत्वं सफलीकुरुष्व स्वरूपप्राप्त्या सार्थकं कुरु पुनर्मा संसार्षीरिति भावः ॥४१२॥
सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् ।
भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥४१३॥
आत्मानं भावय किंविधम् , सर्वोपाधिविनिर्मुक्तं स्थूलसूक्ष्मकारणरूपभेदहेतुभिः विनिर्मुक्तं विशेषेण नितरां वासनातोऽपि इत्यर्थः । मुक्तम् अस्पृष्टं, सच्चिदानन्दम् अद्वयम् आत्मस्थम् । एतेन न विप्रकृष्टत्वं तस्य ‘अत्र वाव किल तत्सौम्य न निभालयसे’(छा.उ. ६.१४.२) इति श्रुतेः । सूक्ष्मायां बुद्धौ भासमानम् इत्यर्थः । स्वमहिमप्रतिष्ठया तद्भावेन भूयः पुनः अध्वने संसृतये न कल्पसे । ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) , ‘मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते’(भ.गी. ८.१६) इत्यादिश्रुतिस्मृतिभ्यः ॥४१३॥
आवृत्त्यभावमुपपादयति छायेवेति −
छायेव पुंसः परिदृश्यमानम्
आभासरूपेण फलानुभूत्या ।
शरीरमाराच्छववन्निरस्तं
पुनर्न सन्धत्त इदं महात्मा ॥४१४॥
महात्मा ब्रह्मभावं प्राप्तः पुरुषः फलानुभूत्या फलम् अखण्डाकारवृत्त्या अनावृततया अभिव्यक्तस्वरूपचैतन्यं तस्यानुभूत्या अनुभवेन हेतुना आभासरूपेण सर्पत्यक्तनिर्मोक इव सर्परूपेण इतरदृष्ट्या पूर्ववत् पुंसः छायेव आदेहपातं परिदृश्यमानम् आराद्दूरे शववन्निरस्तम् इदं शरीरं पुनर्न सन्धत्ते तत्राहन्तादिकं न करोति प्रतीतावपि घटादाविव उदासीनस्तत्र भवतीति भावः ॥४१४॥
सततविमलबोधानन्दरूपं स्वमेत्य
त्यज जडमलरूपोपाधिमेतं सुदूरे ।
अथ पुनरपि नैव स्मर्यतां वान्तवस्तु
स्मरणविषयभूतं कल्पते कुत्सनाय ॥४१५॥
नित्यनिर्मलप्रकाशानन्दरूपं ब्रह्म स्वमेत्य प्रत्यक्तया प्राप्य, जडमलरूपम् उपाधिम् एतं स्थूलदेहं सुदूरे त्यज । अथ स्वयं निर्मलचिदानन्दरूपं ब्रह्मैवेति ज्ञानानन्तरं पुनरपि नैव स्मर्यतां दूरं मलभाण्डवत् त्यक्तत्वात् । तत्र दृष्टान्तमाह वान्तवस्तु वमनकर्मीभूतं वस्तु स्मरणविषयभूतं स्मृतमित्यर्थः कुत्सनाय स्वस्य जुगुप्सायै परकृते निन्दायै वा कल्पते । नहि मलिनं वस्तु स्मरणीयम् , मनसः विकारापत्तेः । निन्दन्ति च लोके त्यक्तं दुष्टं वस्तु स्मरन्तम् ॥४१५॥
समूलमेतत्परिदह्य वह्नौ
सदात्मनि ब्रह्मणि निर्विकल्पे ।
ततस्स्वयं नित्यविशुद्धबोधा-
नन्दात्मना तिष्ठति विद्वरिष्ठः ॥४१६॥
सदात्मनि कालत्रयाबाध्यस्वरूपे निर्विकल्पे ब्रह्मणि वह्नौ एतत् शरीरं समूलम् अज्ञानेन सह परिदह्य निरवशेषं दग्ध्वा । ततः विद्वरिष्ठः विदन्तीति विदः तेषु वरिष्ठः विद्वरिष्ठः । स्वयं नित्यविशुद्धबोधानन्दात्मना तिष्ठति न कदाचिदपि तस्य आनात्मप्रतिभानमिति भावः ॥४१६॥
प्रारब्धसूत्रग्रथितं शरीरं
प्रयातु वा तिष्ठतु गोरिव स्रक् ।
न तत्पुनः पश्यति तत्त्ववेत्ताऽ-
नन्दात्मना ब्रह्मणि लीनवृत्तिः ॥४१७॥
सूत्रग्रथिता स्रक् माला रज्जुर्वा अलङ्करणाद्यर्थं गलादौ बद्धा, प्रयातु तिष्ठतु वा, यथा गोः तत्र न दृष्टिः तथा प्रारब्धमेव सूत्रं तेन ग्रथितं रचितं विदुषः अभिमानाभावेऽपि तदीयतया इतरैर्ज्ञायमानं तत्त्वसाक्षात्कारात्पूर्वं तदीयसुखदुःखसाक्षात्कारावच्छेदकतया प्रारब्धकर्मणा निर्मितं शरीरं ब्रह्मसाक्षात्कारानन्तरं प्रयातु म्रियतां तिष्ठतु वा प्राणान् धारयतु वा । तत्त्ववेत्ता आत्मयाथात्म्यदर्शी तत् शरीरं पुनः स्वस्य ब्रह्मत्वज्ञानानन्तरं न पश्यति । तत्र हेतुः आनन्दात्मना ब्रह्मणि लीना वृत्तिः यस्य सः लीनवृत्तिः । वृत्तेर्बहिरनागमने हेतुः आनन्दात्मनेति । यदा अनावृतानन्दात्मना मनोवृत्तिर्लीना कथं कुतो वा मनसः बहिर्मुखत्वं स्यात् । सर्वदापि सुखं मे भूयादिति या स्थिता इच्छा तस्याः विषयः प्राप्तः । ततः नित्यनिरतिशयसुखं प्राप्य तदात्मना लीनं मनः न बहिरुदेति । वक्ष्यति −
कस्तां परानन्दरसानुभूतिमुत्सृज्य शून्येषु रमेत विद्वान् ।
चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत् ॥
(श्लो. ५२३)
इति ॥४१७॥
न तत्पुनः पश्यतीत्याद्युत्तरार्धमुपपादयति अखण्डेति −
अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः ।
किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् ॥४१८॥
तत्त्ववित् अखण्डानन्दमात्मानं स्वस्वरूपत्वेन विज्ञाय किमिच्छन् यदि किञ्चिदिच्छति, तस्याप्राप्तस्य प्राप्तये प्रयत्नं कुर्यात् । देहं विना प्रयत्नकरणासम्भवात् देहं पुष्णीयाच्च । अत उक्तं कस्य वा हेतोः कस्मै फलायेत्यर्थः । देहं पुष्णाति । उक्तं हि श्रुत्या −
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।
किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ (बृ.उ. ४.४.१२)
इति ॥ ४१८ ॥
सम्यग्विदिततत्त्वस्य लक्षणमाह संसिद्धस्येति −
३१. जीवन्मुक्तलक्षणम्
संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः ।
बहिरन्तस्सदानन्दरसास्वादनमात्मनि ॥४१९॥
साधनचतुष्टयसम्पत्तिपुरस्सरं गुरुमुपसद्य तन्मुखात् वेदान्तवाक्यार्थं श्रुत्वा मत्वा निदिध्यास्य सम्यगात्मानुभवतः योगिनः परमात्मन्येव स्थापितचित्तस्य जीवन्मुक्तस्य जीवतोऽपि सर्वोपाधिसम्बन्धविनिर्मुक्तस्य तु एतत् फलं यदात्मनि अन्तःकरणे बहिरन्तस्सदानन्दरसास्वादनम् । व्युत्थानेऽपि नानन्दस्य तिरोधानम् अखण्डाकारवृत्त्या आवरणस्य भञ्जितत्वात् तदुक्तं बहिरिति । इतरैरपि तदीयमूर्तिदर्शनेन अयं पूर्णानन्द इति निरन्तरस्मितस्मेरावलोकनादिना ज्ञायते इति तस्य पूर्णानन्दात्मना स्थितिः निरन्तरैव अविद्यानिवृत्तिरूपमोक्षस्यापि दृष्टफलत्वात् ॥४१९॥
तत्र साक्षात्परम्परया वा साधनानां विशिष्य फले विज्ञाते, पूर्णता मुमुक्षुणा प्रयत्नेन तत्राधातुं शक्यते । तदर्थं वैराग्यबोधोपरतीनां क्रमेण फलं दर्शयति वैराग्यस्येति −
वैराग्यस्य फलं बोधः बोधस्योपरतिः फलम् ।
स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ॥४२०॥
विमुक्तिसौधाग्रतलाधिरोहणं
ताभ्यां विना नान्यतरेण सिद्ध्यति ॥ (श्लो. ३७५) इति कथितम् ।
वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः
तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् । (श्लो. ३७७)
इति च । तेन मोक्षे तयोः समतया हेतुत्वमिव प्रतीयते । ‘यद्यपि एतद्द्वारमजस्रमुक्तियुवतेः’ इत्यस्ति तथापि’, ‘सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे’(३७७) इत्युत्तरार्धेऽपि वैराग्यबोधयोः हेतुहेतुमद्भावः स्पष्टं न प्रतीयते । ततः स्फुटयति, यद्यपि विवेकवैराग्यशमादिषट्कमुमुक्षुत्वरूपब्रह्मविचारसाधनमध्ये वैराग्यमुपरतिश्च घटकीकृते अथापि तेषां साधनानाम् अन्तरङ्गत्वात् विचारकाले सामान्यतो वर्तमानानामपि श्रवणमननरूपज्ञानसाधनानुष्ठानेन उत्तमत्वं सम्भवेत् अत एव ‘बाह्यानालम्वनं वृत्तेः एषोपरतिरुत्तमा’(श्लो. २५) इत्युक्तम् । विचारदशायां निदिध्यासनमन्तरा विपरीतभावनायाः अनिवृत्तेः बाह्यानालम्बनत्वं दुर्घटम् । अथापि शब्दादिविषयानालम्बनत्वेन वृत्तिः विचारं साधयतीति वक्तव्यम् । इदानीं तु पञ्चकोशनिषेध − पुरस्सरं निदिध्यासनेन स्वनुभवे सम्पादिते अनात्माविषयकत्वम् असङ्कोचेन वक्तुं शक्यते अतः बोधस्य उपरतिः फलमित्युच्यते । अतः शमादिषट्कमध्ये शमफलदमफलत्वेन कथिताया अप्युपरतेः उत्तमत्वसिध्यनन्तरमेव − ‘स्वलक्ष्ये नियतावस्था मनसश्शम उच्यते’(श्लो. २३) इति लक्षितशमः शान्तिपदेन स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् इत्युक्तम् । पूर्वं प्रयत्नेन आप्तवाक्यादिना सम्पादितानामपि साधनानां विचारेण प्रकृष्यमाणत्वात् असङ्कुचितलक्षणवत्त्वं सम्भवतीति भावः । तथा च −
ब्रह्म सत्यं जगन्मिथ्येत्येवं रूपो विनिश्चयः ।
सोयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥ (श्लो. २०, २१)
इति लक्षितः विवेकः पूर्वं परोक्षज्ञानरूपः विचारात्पश्चात् अपरोक्षत्वं प्राप्नोति । एवं वैराग्यमपि उत्कटविषयेच्छाऽभावरूपं ‘रसोप्यस्य परं दृष्ट्वा निवर्तते’(२.५९) इति गीतावचनात् स्वरूपानन्दसाक्षात्कारे विषयेषु वासनात्मनापि रागो न तिष्ठतीति असङ्कुचितं भवति । तस्मादभ्यासवैरागाभ्यां सम्यङ्मनो निरुध्य विचारे क्रियमाणे बोधः अवश्यम्भावी यदि न जातः वैराग्यरूपसाधनं न पूर्णमस्तीति ज्ञातव्यम् । ततः तद्दार्ढ्याय प्रयत्नः कार्यः । एवं बोधे उपनिषज्जन्ये आत्मसाक्षात्कारे जाते असन्दिग्धाविपर्यस्तात्मपरोक्षज्ञाने वा जाते उपरतिः तस्य बोधस्य फलम् । ज्ञात्वापि बाह्येभ्यः निवृत्त्यभावे मनसः दृढं ज्ञानं न जातमित्येव ज्ञेयम् । तत्र च कारणं वैराग्यापरिपूर्तिरेव । वैराग्यं पूर्णं दृढ आत्मनिश्चयश्च नो चेदविद्यावतां भेदः को वा, विद्यावतामपि कुतः अनुपरमणम् , उपरतौ च मनसः स्वानन्दानुभवाच्छान्तिः निष्क्रियात्मनावस्थानम् एषैव फलमुपरतेः ।
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
नैवास्ति किञ्चित्कर्तव्यम् अस्ति चेन्न स तत्त्ववित् ॥ (जा.द.उ. १.२३)
इत्युक्तेः । ‘यद्युत्तरोत्तराभावः पूर्वपूर्वं तु निष्फलम्’ । एवं तत्तद्दृष्टफलनिष्पत्तिपर्यन्तं तत्तत्साधनं न पूर्णं भवतीति ज्ञाने प्रयत्नः साधकेन सुष्ठु कर्तुं शक्यत इति साधनपूर्णतायै समुपन्यासः ॥४२०॥
ब्रह्मविद्यायाः फलमाह निवृत्तिरिति −
निवृत्तिः परमा तृप्तिः आनन्दोऽनुपमः स्वतः ।
दृष्टदुःखेष्वनुद्वेगः विद्यायाः प्रस्तुतं फलम् ॥४२१॥
निवृत्तिः सर्वेभ्यः कार्येभ्यो निवृत्तिः निर्व्यापारत्वं कर्तव्यानवशेषता । परमा तृप्तिः निरङ्कुशा तृप्तिः कर्तव्यं कृतं प्राप्तव्यं प्राप्तम् इतः परं करणीयं प्राप्तव्यं वा किमपि नास्तीति स्वस्य धन्यधन्यतया सुखविशेषः स्वतः अनुपमः असदृशः आनन्दः विषयनिरपेक्षः नित्यनिरतिशयसुखम् । प्रारब्धकर्मणा दृष्टदुःखेषु अनुद्वेगः, अज्ञानी तु दुःखेषु प्रसक्तेषु अहं पापी धिङ् मां दुरात्मानम् इत्यनुतापवान् भवति । यद्यप्ययं विवेक इव भाति । तथापि पूर्वस्मिन् जन्मनि चेत् पापप्रवृत्तिप्रतिबन्धकत्वात् सप्रयोजनो भवति स्म, इदानीं तु निष्प्रयोजन इति भ्रान्तिः तमोविकारः । दुःखं तु रागादिनिमित्तवशात् रजोगुणविकाररूपा सन्तापात्मिका चित्तवृत्तिः इति दुःखोद्वेगयोर्भेदः । ज्ञानिनः अयमुद्वेगो न भवतीति चत्वारि फलानि निवृत्तिः, निरङ्कुशा तृप्तिः, असदृशानन्दः निर्विषयः, दृष्टदुःखेषु अनुद्वेगश्चेति । विद्यायाः आत्मतत्त्वज्ञानस्य प्रस्तुतं मुख्यं दृष्टं फलम् ॥४२१॥
तत्र निवृत्तिमुपपादयति यदिति −
यत्कृतं भ्रान्तिवेलायां नानाकर्म जुगुप्सितम् ।
पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ॥४२२॥
अविवेकविवेकयोः एतावति वैलक्षण्ये विवेकफलभूतायां विद्यायां परमात्मविषयिण्यां किं वक्तव्यमिति भावेनाह यत्कृतमिति । भ्रान्तिवेलायां जुगुप्सितं नाना कर्म यत्कृतं तत् कर्म विवेकेन पश्चात् कथं कर्तुमर्हतीत्यनेन विवेकिनः यथा जुगुप्सितकर्मभ्यो निवृत्तिः एवं विद्यावतः प्राप्याभावात् ब्रह्मनिष्ठतया च सर्वकर्मनिवृत्तिरिति भावः ॥४२२॥
इदं फलं लोकदृष्टमित्याह विद्येति −
विद्याफलं स्यादसतो निवृत्तिः
प्रवृत्तिरज्ञानफलं यदीक्षितम् ।
तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ
नो चेद् विदो दृष्टफलं किमस्मात् ॥४२३॥
विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तद् ईक्षितं दृष्टं तज्ज्ञाज्ञयोः । यत् यस्मात्कारणात् मृगतृष्णिकादौ आदिपदेन शुक्तिरजतादिकं ग्राह्यम् । मृगतृष्णिकेति ज्ञानवान् न जलार्थं मरुभूमौ प्रवर्तते । मरुभूमौ सूर्यकिरणपाते जलवद् भासते इति ज्ञानशून्यस्तु मरुभूम्यज्ञानेन तत्र जलभ्रान्त्या प्रवर्तते नेष्टं लभते, विफलप्रवृत्तिमान् भवति । तत् तस्मात्कारणात् विद्याफलम् असतो निवृत्तिः अज्ञानफलं प्रवृत्तिः इतीक्षितं नोचेदेवं विदः ज्ञानिनः अस्माद् असन्निवृत्तिरूपात् दृष्टं फलं किम् । प्रकृते ब्रह्मविद्याविषये तु असच्छब्देन अनात्मा गृह्यते ब्रह्मभिन्नं सर्वम् । पूर्वमज्ञानावस्थायां तत्र प्रवृत्तिरासीत् अलब्धस्वरूपानन्दत्वात् । इदानीं तु स्वात्मानं विदितवतः तत्र सर्वत्र मिथ्यात्वज्ञानेन नैव प्रवृत्तिः इति असन्निवृत्तिः विद्याफलम् ॥४२३॥
प्रवृत्तिकारणाभावाच्च निवृत्तिरित्याह अज्ञानेति − अनिच्छोरित्यनेन परमा तृप्तिरप्युक्ता भवति −
अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः ।
अनिच्छोर्विदुषः किं नु प्रवृत्तेः कारणं स्वतः ॥४२४॥
अज्ञानप्रयोज्यः यः हृदयग्रन्थिः बुद्धौ साक्षिणः तादात्म्याध्यासः तस्य अखण्डाकारवृत्त्या मूलभूताज्ञाननाशेन अशेषतः निर्वासनतया यदि विनाशः सकारणं नाशः । तदा इत्यध्याहार्यं यदीति सत्त्वात् । स्वतः अनिच्छोः इच्छारहितस्य विदुषः प्रवृत्तेः कारणं किं नु ? सर्वत्र प्रवृत्तौ इच्छैव कारणम् , तदभावे प्रवृत्यभावात् वदन्ति हि ‘प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्तते’ इति । अत एव साधनचतुष्टये मुमुक्षुत्वमपि घटकीकृतम् । इच्छा च अन्तःकरणधर्मः ‘कामः सङ्कल्पः’(बृ.उ. १.५.३) इत्यादिना ‘इत्येतत्सर्वं मन एव’(बृ.उ. १.५.३) इति श्रुतेः । मनसोपि बहिरिच्छा आनन्दरूपात्मादर्शनात् स्थिता । तत्र दोषदर्शनेन नित्यनिरतिशयानन्दरूपात्मश्रवणमनननिदिध्यासनेषु शास्त्रीयेषु मुमुक्षया प्रावर्तिष्ट । आत्मदर्शनेन तत्रापीच्छा प्राप्तफलत्वान्नास्ति । विचारकाल एव बहिरिच्छा सुतरां नास्ति वैराग्यस्य परमसाधनत्वात् । तथा च तस्य इच्छासत्त्वे तत्तादात्म्याध्यासेन साक्षिणोऽपीच्छा इति वक्तव्यम् । आत्मेच्छापि आत्माज्ञानकालिक्येव । अज्ञाननाशे तत्प्रयोज्यचिज्जडतादात्म्याध्यासनाशेन आत्यन्तिकी निवृत्तिरिच्छाया इति सर्वथापि बहिरन्तर्वा प्रवृत्तिकारणं विषयः कोऽपि नास्तीति निष्क्रियात्मनावस्थानं निवृत्तिशब्दार्थः ब्रह्मविद्यायाः दृष्टं फलम् ॥४२४॥
वैराग्यबोधोपरतयः पूर्णतया कदा ज्ञेया इति प्रश्ने तदवधिं शिष्यानुग्रहाय उपदिशति वासनेति −
वासनानुदयो भोग्ये वैराग्यस्य तदावधिः ।
अहंभावोदयाभावो बोधस्य परमावधिः ।
लीनवृत्तेरनुत्पत्तिर्मर्यादोपरतेस्तु सा ॥४२५॥
भोग्ये वासनाया अनुदयः अनुद्बोधः, अनुभूते विषये पुरस्थितेऽपि तत्संस्कारानुद्बोधः यदा तदा वैराग्यस्य अवधिः । तदीयं मनः विषयेषु नष्टमेव कुतो रागप्रसक्तिः वैराग्यस्य परस्यैषा परा काष्ठा प्रदर्शिता । अहंभावस्य उदयाभावः अनुत्पत्तिः बोधस्य परमावधिः । अहं ब्रह्म इत्यपि बाधायां सामानाधिकरण्यम् । अतः सर्वात्मके अहन्त्वमपि कल्पितमेव । अत एवोक्तम् − ‘वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया’(श्लो. ३९२) इति । यदहन्त्वेन ज्ञातं तद् ब्रह्म इत्येवार्थः अहं ब्रह्मेत्यस्य, यः चोरः स स्थाणुरितिवत् । यद्वा कोशेष्वहम्भावस्य उदयाभावः इत्यर्थः । लीनवृत्तेरनुत्पत्तिः मर्यादोपरतेस्तु सा, आनन्दात्मना लीना या मनोवृत्तिः तस्या अनुत्पत्तिः यथा आज्यं पुनः क्षीरं न भवति तथा स्वतः अनुपमः आनन्दः अतः परमा तृप्तिः ततः सर्वतो निवृत्तिः इति हेतुहेतुमद्भावः ॥४२५॥
इदानीं निरुपममानन्दं ज्ञानिनो दर्शयति ब्रह्माकारतयेत्यादिना −
ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधीः
अन्यावेदितभोग्यभोगकलनो निद्रालुवद् बालवत् ।
स्वप्नालोकितलोकवज्जगदिदं पश्यन्क्वचिल्लब्धधीः
आस्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि ॥४२६॥
धियः निर्मुक्तबाह्यार्थत्वे हेतुः ब्रह्माकारतया सदा स्थिततयेति । सदा प्रत्ययान्तरशून्यत्वेन अच्छिन्नतया ब्रह्माकारतया परमपुरुषार्थभूताखण्डसच्चिदानन्दपरमात्माकारतया स्थिततया निर्मुक्ताः नितरां सवासनमित्यर्थः मुक्ताः नष्टाः बाह्यार्थाः यस्यां सा न तु ययेति स्वयमेव निवृत्तत्वात् विषयाणां प्रयत्नस्य अनपेक्षितत्वात् ‘रसोप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.५९) इति ब्रह्मदर्शने विषयनिवर्तनार्थं प्रयत्नानपेक्षितत्वस्य प्रतीयमानत्वात् । तथाच निर्मुक्ता बाह्यार्थधीः यस्य सः निर्मुक्तबाह्यार्थधीः । कश्चिदित्यस्य विशेषणम् अन्यावेदितभोग्यभोगकलनः अन्यैः आवेदितं यद्भोग्यं शरीरस्थितिनिमित्तम् अन्नपानादिकं तेन भोगस्य कलना सम्पत्तिः घटना यस्य़ सः । आस्यप्राप्तान्नभुगित्यर्थः । यथा निद्रालुरन्यैः भोजितं भुनक्ति बालश्च मात्रा भोज्यते तथा बहिर्मुखत्वाभावेन निरभिमानतया च निद्रालुवत् बालवत् अन्यावेदितभोग्यभोगकलनः, प्रारब्धकर्मायत्तभोगोऽपि परमुखेन शरीरस्थितिहेतुर्भवति इति भावः । क्वचित्परमात्मनि लब्धधीः लब्धा प्रतिष्ठिता धीः यस्य सः लब्धधीः, यद्वा क्वचित् कदाचित् लब्धधीः व्युत्थितमनाः इदं जगत् स्वप्नालोकितलोकवत् मिथ्यात्वेन पश्यन् कश्चित् ब्रह्मविद्वरः अनन्तपुण्यफलभुक् शतकोटिजन्मसु कृतसुकृतफलभूतमोक्षनन्दानुभवी आस्ते स धन्यः भुवि मान्यः सकलपूज्यः । एतेन विषयान्विना स्वतः आनन्दः अनुपमः उक्तः आत्मविद्याफलम् । ‘सोश्नुते सर्वान्कामान् सह’(तै.उ. २.१)
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ (भ.गी. २.४६)
इति श्रुतिस्मृतिभ्यां ‘एतस्यैवानन्दस्य अन्यानि भूतानि मात्रामुपजीवन्ति’(बृ.उ. ४.३.३२) इति श्रुतेश्च । लोके यावन्तः पुरुषाः यावद्भिः पुण्यैः यावन्ति सुखान्यनुभवन्ति अयं परावरैकत्वज्ञानी युगपत् सर्वाणि सुखानि समुद्रस्थानीयब्रह्मानन्दानुभवादनुभवतीति वा अर्थः अनन्तपुण्यफलभुगित्यस्य −
सोश्नुते सकलान् कामान् अक्रमेण सुरर्षभाः ।
विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः ॥
इति तैत्तिरीयकार्थविवरणाद् ब्रह्मगीतासु सर्वेषां सुखानां विषयाभिव्यङ्ग्यानां ब्रह्मानन्दसिन्धुबिन्दुकणिकायमानत्वात् ।
स्नातं तेन समस्ततीर्थसलिले सर्वापि दत्तावनिः
यज्ञानां च सहस्रमिष्टमखिला देवाश्च सन्तर्पिताः ।
संसाराच्च समुद्धृतास्स्वपितरस्त्रैलोक्यपूज्योऽप्यसौ
यस्य ब्रह्मविचारणे क्षणमपि स्थैर्यं मनः प्राप्नुयात् ॥ (सू.सं.)
इत्युक्त्या ब्रह्मनिष्ठा यस्य सर्वदास्य मान्यतायां किमु वक्तव्यम् । उक्तं हि −
कुलं पवित्रं जननी कृतार्था विश्वम्भरा पुण्यवती च तेन ।
अपारसंवित्सुखसागरेऽस्मिन् लीनं परे ब्रह्मणि यस्य चेतः ॥
(सू.सं. २.२०.४५)
इति ‘तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः’(मु.उ ३.१.१०) इति श्रुतेश्च ॥४२६॥
जीवन्मुक्तलक्षणे ज्ञाते साधकैः मुमुक्षुभिः तथा स्थातुं प्रयतितुं शक्यत इति मुमुक्षुजनानुग्रहार्थं तल्लक्षणं वक्तुं प्रक्रमते स्थितप्रज्ञ इति −
स्थितप्रज्ञो यतिरयं यस्सदानन्दमश्नुते ।
ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥४२७॥
ब्रह्मण्येव विलीनात्मा विलीनः आत्मा अन्तःकरणं यस्य अत एव निर्विकारः हर्षविषादाद्यान्तरविकारशून्यः । विनिष्क्रियः बाह्यदेहादि चेष्टाशून्यः, ‘क्रिया स्वाश्रयमविकुर्वती नैवात्मानं लभते’(ब्र.सू.भा. १.१.४) इति समन्वयसूत्रभाष्यात् निर्विकारत्वे हेतुः विनिष्क्रिय इति वा । यः सदानन्दमश्नुते अयं यतिः स्थितप्रज्ञः इति । सूत्रस्थानीयोऽयं श्लोकः ॥४२७॥
तत्र स्थितप्रज्ञत्वं व्याकुरुते ब्रह्मेति −
ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी ।
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।
सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥४२८॥
स्थिता सततं वर्तमाना प्रज्ञा यस्य सः स्थितप्रज्ञ इति विग्रहः । तत्र प्रज्ञाशब्दार्थमाह शोधितयोः महावाक्यार्थकथनावसरे दर्शितदिशा तत्त्वम्पदलक्ष्ययोः उपाधिविनिर्मुक्तयोः, ब्रह्मात्मनोः परमात्मप्रत्यगात्मनोः, एकभावावगाहिनी ऐक्यविषयिणी निर्विकल्पा संसर्गादिमिथ्यापदार्थाविषयिणी चिन्मात्रा अखण्डचिदाकारा वृत्तिः श्रवणमनननिदिध्यासनसंस्कृतमनःपरिणामः प्रज्ञा इति कथ्यते । स्थिताशब्दार्थमाह ‘सा सर्वदा भवेद्यस्येति’, सजीवन्मुक्त इष्यते अतस्मिंस्तद्बुद्धेरेव बन्धत्वात् सर्वदा अखण्डाकारवृत्तौ सत्यां बन्धप्रसक्तेरभावात् ॥४२८॥
यस्य स्थिता भवेत् प्रज्ञा यस्यानन्दो निरन्तरः ।
प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥४२९॥
सूत्रश्लोकस्थस्य ‘यस्सदानन्दमश्नुते ब्रह्मण्येव विलीनात्मा’(श्लो. ४२७) इत्यस्य विवृतिः । अत्र सर्वं तस्य स्वरूपम् अतः विशेषणानां व्यावर्तकत्वशङ्का न कार्या । यद्वा यस्य स्थिता भवेत्प्रज्ञा स जीवन्मुक्तः, एवं यस्यानन्दो निरन्तरः स जीवन्मुक्तः, यस्य प्रपञ्चः विस्मृतप्रायः स जीवन्मुक्तः इति योजना । ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः’(भ.गी. ४.३४) इति स्मृत्या शिष्यबोधनार्थं शिष्यादृष्टेन व्युत्थानदशायां तदुपयोगिप्रमाणवाक्यादिरूपप्रपञ्चः स्मर्यते नान्यत् किञ्चिदिति विस्मृतप्राय इति प्रायःपदम् ॥४२९॥
सुषुप्तेः भेदमाह लीनधीरिति −
लीनधीरपि जागर्ति यो जाग्रद्धर्मवर्जितः ।
बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥४३०॥
सुषुप्तौ मनसः अज्ञाने लयः, इदानीं ब्रह्मणि चिन्मात्रे, ततः तमःप्रसक्तेरेवाभावात् लीनधीरपि जागर्ति नष्टाविद्यानिद्र इत्यर्थः । अनावृतात्मसम्बद्धसकलपदार्थत्वात् स्वाव्यतिरेकेण सर्वमुपलभत इति वा । ‘इन्द्रियैरर्थोपलब्धिर्जागरितमिति’ । (उ.गी.भा. १.७) लक्षणं सुयोजम् । जागरेऽपि न पूर्ववत् स्थूलदेहाद्यभिमान इत्याह, यो जाग्रद्धर्मवर्जितः,
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा स शान्तिमधिगच्छति ॥ (भ.गी. २.६४)
इति स्मृतिरीत्या अध्यास काल एव शान्त्यर्थमेव प्रयत्नस्य कृतत्वात् । यस्य बोधः पदार्थानां बोधोऽपि निर्वासनः सक्तिरहित इत्यर्थः ।
यदृच्छोपनतेष्वक्षिदिग्द्रव्येषु यथा पुनः ।
नीरागमेव पतति तद्वद् भोग्येषु धीरधीः ॥ (यो.वा.जी.वि. ४.२३.४४)
इति वासिष्ठोक्तेः हेयोपादेयबुद्धिरहित इति भावः । यद्वा लीनधीरपि जागर्ति, चक्षुरादीन्द्रियाणां स्वस्वगोलकेष्ववस्थानेन उपरत्यभावाज्जागर्ति । इन्द्रियसत्त्वेपि मनसः ब्रह्मणि लीनत्वात् नेन्द्रियैरर्थानुपलभते यतः ततः जाग्रद्धर्मवर्जितः । कदाचिदुपलब्धावपि दृढतमविवेकप्रकर्षात् रागद्वेषादिशून्यत्वं निर्वासनबोधत्वम् । तेन निर्विकारत्वं सूत्रश्लोकस्थं विवृतम् ॥४३०॥
द्वादशभिः श्लोकैः निर्विकारत्वं मुख्यतया उपपादयति, तस्मिन्सति प्रज्ञाप्रतिष्ठायाः तस्यां च सदानन्दस्य अयत्नसिद्धत्वात् −
शान्तसंसारकलनः कलावानपि निष्कलः ।
यः सचित्तोपि निश्चित्तः स जीवन्मुक्त इष्यते ॥४३१॥
शान्ता संसारकलना यस्य सः शान्तसंसारकलनः, इदं विशेषणं निश्चित्तत्वे हेतुः । कलावानपि सकलविद्याविदपि निष्कलः ब्रह्मवृत्ति व्यतिरिक्तवृत्तिशून्यत्वात् । यद्वा आमोक्षं प्राणश्रद्धादिषोडशकलाविशिष्टोऽपि तत्राभिमानरूपसङ्गाभावात् परकीयप्राणादिभिरिव कलासंसर्गशून्य इत्यर्थः । यस्सचित्तोऽपि स्वात्मना परिणतचित्तविशिष्टोऽपि निश्चित्तः बहिर्वृत्तिशून्यत्वात् मुग्धादिवत् रागादिशून्यत्वाद्वा । स जीवन्मुक्त इष्यते ॥४३१॥
वर्तमानेऽपि देहेऽस्मिंश्छायावदनुवर्तिनि ।
अहन्ताममताऽभावो जीवन्मुक्तस्य लक्षणम् ॥४३२॥
छायावदनुवर्तिनि अस्मिन्स्थूलदेहे वर्तमानेऽपि अहन्ताममतयोरभावः परकीयशरीर इव जीवन्मुक्तस्य लक्षणम् । एतेन सर्वेषां विकाराणां रागद्वेषादीनां जरामरणादीनां वा स्थूलदेहाभिमानमूलकत्वात् मूलाभावे निर्विकारत्वं स्पष्टमुपपादितम् ॥४३२॥
अतीताननुसन्धानं भविष्यदविचारणम् ।
औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥४३३॥
अतीतस्य अननुसन्धानम् अस्मरणं, भविष्यतः आगामिनः अविचारणम् अचिन्तनं, प्राप्तेऽपि वर्तमान इत्यर्थः औदासीन्यं सङ्गशून्यत्वं जीवन्मुक्तस्य लक्षणम् ॥४३३॥
गुणदोषविशिष्टेऽस्मिन् स्वभावेन विलक्षणे ।
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥४३४॥
गुणदोषविशिष्टे अत एव स्वभावेन विलक्षणे अस्मिन् जगति सर्वत्र समदर्शित्वम् ।
न निषेधति दोषधिया गुणबुद्ध्या वा न किञ्चिदादत्ते ।
आविद्यकमखिलमिति ज्ञात्वोदास्ते यतिः कोऽपि ॥ (५०)
इत्यात्मविद्याविलासोक्तरीत्या हानोपादानरहितत्वम् । यद्वा समं ब्रह्म, ‘निर्दोषं हि समं ब्रह्म’(भ.गी. ५.१९) इति स्मृतेः सर्वत्र ब्रह्मदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥४३४॥
इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयाऽऽत्मनि ।
उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥४३५॥
इष्टस्य वा अनिष्टस्य वा अर्थस्य सम्प्राप्तौ समदर्शितया इदमिष्टम् इदमनिष्टम् इति बुद्ध्यभावात् आत्मनि उभयत्राविकारित्वं हर्षोद्वेगशून्यत्वं जीवन्मुक्तस्य लक्षणं लोकदृष्ट्या इष्टानिष्टेति कथनम् ॥४३५॥
ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः ।
अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥४३६॥
ब्रह्मेति । स्पष्टम् ॥४३६॥
देहेन्द्रियादौ कर्तव्ये ममाहम्भाववर्जितः ।
औदासीन्येन यस्तिष्ठेत् स जीवन्मुक्त इष्यते ॥४३७॥
देहेन्द्रियादौ आदिपदेन प्राणमनोबुद्ध्यहङ्कारपरिग्रहः । कर्तव्ये कर्मणि च ममेदं कर्तव्यं मयेदं कृतमिति वा ममभाववर्जितः । देहेन्द्रियादौ अहं मनुष्यः अहं पश्यामि, मम देहः, मम चक्षुरित्याद्यध्यासवर्जितः । य औदासीन्येन आध्यासिकतादाम्यशून्यतया असङ्गतया तिष्ठेत् स जीवन्मुक्त इष्यते ॥४३७॥
विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् ।
भवबन्धविनिर्मुक्तः स जीवन्मुक्त इष्यते ॥४३८॥
श्रूतेर्बलात् तत्त्वमसि (छा.उ. ६.८.७) इत्यादि वेदवाक्यमहिम्ना आत्मनः स्वस्य ब्रह्मभावः ब्रह्मत्वं यस्य विज्ञातः साक्षादकारि । भवबन्धविनिर्मुक्तःसकलविधभ्रान्तिशून्यः मूलाज्ञाननाशात् स जीवन्मुक्त इष्यते ॥४३८॥
भवबन्धविनिर्मुक्तत्वं स्फुटमाह देहेति −
देहेन्द्रियेष्वहम्भावः इदम्भावस्तदन्यके ।
यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥४३९॥
देहे इन्द्रियेषु च अहंभावः, तदन्यके तदन्यस्मिन् घटादौ इदम्भावः यस्य क्वापि कस्मिन्नपि काले न भवतः स जीवन्मुक्त इष्यते । अनात्मत्वस्य समत्वात् देहेन्द्रियाणां घटादेश्च स्वस्मिन्कल्पितत्वस्य च समत्वात् । केवलपूर्ववासनामूलकः अहमिदम्भावः निर्वासनबोधवतः जीवन्मुक्तस्य न सम्भवतीति भावः ॥४३९॥
न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः
प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥४४०॥
विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ (वि.पु. ६.७.९४)
इति प्रमाणात्प्रत्यग्ब्रह्मणोः, जीवब्रह्मणोः, सृज्यत इति सर्गः जगत् ‘ब्रह्मैवेदं विश्वं’(मु.उ २.१२) इत्यादिश्रुत्या रज्जुसर्पवद् ब्रह्मणि कल्पितस्य अधिष्ठानभेदाभावात् । ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इत्यादिश्रुत्या ‘यत्र नान्यत्पश्यति’(छा.उ. ७.२४.१) इत्यादिश्रुत्या च ‘यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति’(तै.उ. २.७) इति श्रुत्या च अभयब्रह्मप्रतिष्ठस्य तस्य किञ्चिदपि भेदज्ञानं नास्तीति भावः । तथा च भेदस्याभावादेव तस्य ज्ञानाभावः, शशविषाणवत् त्रैकालिकनिषेधप्रतियोगित्वात् । वस्तुसतः अज्ञाने किञ्चिज्ज्ञत्वं न त्वसतः । न हि सर्वज्ञानां योगिनां शशविषाणाद्यज्ञानादसर्वज्ञत्वं कश्चिदुपैति । तस्मान्निर्विकल्पया सकलशास्त्रसंस्कारसंस्कृतमनःपरिणामरूपया चिन्मात्रया प्रज्ञया भेदं न विजानाति शास्त्रस्य प्रयोजनवदनधिगताबाधितार्थबोधकत्वेनैव प्रामाण्यात् । लोकाज्ञानसिद्धः निष्प्रयोजनः उपादानेन अज्ञानेन सह निवृत्तः भेदः कथमखण्डाकारवृत्तौ विषयभावं प्राप्तुमर्हः स्यात् ।
प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता ।
तावन्निरन्तरं विद्वन् स्वाध्यासापनयं कुरु ॥ (श्लो. २८६)
इत्युपदेशप्रकारेण अपनीतसकलभ्रमस्य न कदापि भेदज्ञानं भवतीति एवं लक्षणसम्पन्नः यः सः जीवन्मुक्त इष्यते ॥४४०॥
साधुभिः पूज्यमानेऽस्मिन् पीड्यमानेऽपि दुर्जनैः ।
समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥४४१॥
अस्मिन् शरीरे साधुभिः पूज्यमाने दुर्जनैः पीड्यमानेऽपि यस्य समभावः समत्वं हर्षामर्षादिशून्यत्वं स जीवन्मुक्त इष्यते ॥४४१॥
किं बहुना ?
यत्र प्रविष्टा विषयाः परेरिताः
नदीप्रवाहा इव वारिराशौ ।
लिनन्ति सन्मात्रतया न विक्रियां
उत्पादयन्त्येष यतिर्विमुक्तः ॥४४२॥
परेरिताः परैः अन्यैः ईरिताः अनेन स्वतः विषयोन्मुखत्वं नैवास्तीक्षितब्रह्मणः पुंसः इत्युक्तम् । परेरिताः परकृतस्तुति निन्दादयोऽपि परदृष्ट्या साध्वसाधुशब्दाद्यात्मकाः विषयाः यत्र प्रविष्टाः यमुद्दिश्य कृताः वारिराशौ प्रविष्टाः नदीप्रवाहा इव लिनन्ति लीयन्ते न विक्रियाम् उत्पादयन्ति हर्षं वा अमर्षं वा दैन्यं वा । तत्र हेतुः सन्मात्रतयेति अखण्डब्रह्मैवाहमिति निश्चित्य स्थितवतः शरीराद्याश्रितस्तुति निन्दादिना किं भवति । निर्गुणे निर्दोषे च ब्रह्मणि स्थितवतां सकलविधविकारशून्यत्वम् । तत्र परकृतं सर्वमाकाशहननार्थखड्गाद्यायुधप्रयुक्तिवद् व्यर्थमिति भावः । एष यतिः, यत्र प्रविष्टाः विक्रियां नोत्पादयन्ति एष यतिः विमुक्तः क्षीणवासनत्वात् नष्टमनस्त्वाच्च ॥४४२॥
‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये’(छा.उ. ६.१४.२) इति श्रुत्या ‘भोगेन त्वितरे क्षपयित्वा सम्पद्यते’(ब्र.सू. ४.१.१९) इति सूत्रेण च ज्ञानिनामपि प्रारब्धकर्मायत्तः भोगः स्वीकर्तव्यो भवति । तथाच सुखदुःखानुभवरूपत्वात् भोगस्य, कथं निर्विकारत्वम् इति शङ्कायां प्राह विज्ञातेति −
विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः ।
अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥४४३॥
विज्ञातमनुभूतं ब्रह्मतत्त्वं येन सः विज्ञातब्रह्मतत्वः, तस्य मिथ्याज्ञाननाशेन तत्कृताभिमानाभावात् यथापूर्वम् अनुभवात्प्रागिव न संसृतिः सुखदुःखानुभवः स्पृहोद्वेगशून्यत्वात् तदुक्तं गीतासु −
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ (२.५६) इति ।
इतरेषां नैवं विधत्वं, दुःखेषु उद्विजन्ते सुखेभ्यः स्पृहयन्ति च रक्ताः भीताः कोपिनश्च । तदाह, अस्ति चेत् उद्वेगस्पृहादिकं न स विज्ञातब्रह्मभावः बहिर्मुखः कोशेष्वात्माभिमानवान् ॥४४३॥
३२. ज्ञानात्कर्मविलयः
प्राचीनवासनावेगादसौ संसरतीति चेत् ।
न सदेकत्वविज्ञानान्मन्दीभवति वासना ॥४४४॥
ब्रह्मानुभवात्प्राक्कालिकी अनादिभवसञ्चिता या वासना तस्याः वेगात् असौ ब्रह्मवित् संसरति बन्धं भजत इति चेत् न, सदेकत्वविज्ञानात् अद्वितीयाखण्डस्वप्रकाशानन्दब्रह्माभेदसाक्षात्कारात् वासना अल्पजडदुःखात्मकत्वेन निश्चितानात्मस्वात्मत्वभ्रमजनितवासना मन्दीभवति तनूभवति शिथिला भवतीत्यर्थः अरुणोदयकालिकं तम इव ॥४४४॥
तत्र दृष्टान्तमाह अत्यन्तेति −
अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि ।
तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥४४५॥
पूर्णानन्दे अखण्डानन्दरूपे ब्रह्मणि साक्षात्कृते मनीषिणः विवेकिनः इत्यर्थः । जगति वृत्तिः कुण्ठति । वक्ष्यति हि − ‘चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत्’(श्लो. ५२३) इति ॥४४५॥
निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते ।
ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥४४६॥
विपरीतभावनानिवृत्यर्थं निदिध्यासने शीलं निदिध्यासनं वा यस्य तस्य बाह्यप्रत्यय ईक्ष्यते सन्ततमात्मनि बुद्धेः स्थापनार्थं प्रयत्नस्य सत्त्वात् । एतस्य ध्यातुः फलदर्शनात् सुखदुःखानुभवदर्शनात् , श्रुतिः प्रारब्धं ब्रवीति कर्तृत्वस्य दुःखरूपत्वात् देहादिभानस्यापि ध्यानविरमे सम्भवात् पूर्वकर्मायत्तं सुखं दुःखं वा भासेत निदिध्यासनस्य सविकल्पकसमाधिरूपत्वात् । तदुक्तम् −
श्रुतेः शतगुणं विद्यात् मननं मननादपि ।
निदिध्यासं लक्षगुणम् अनन्तं निर्विकल्पकम् ॥
निर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् ।
नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् ॥ (श्लो. ३६५.३६६)
तदुक्तं बाह्यप्रत्यय इक्ष्यत इति । यदा बाह्यप्रत्ययः तदा प्रारब्धायत्तं सुखं वा दुःखं वा भवतीति ‘न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति’(छा.उ. ७.१२.१) इति श्रुतिरुपपद्यते । तदा ब्रह्मसाक्षात्कारस्य अजातत्वात् अध्यासबाधाभावात् शरीरात्मनोः आध्यासिकसम्बन्धस्य सत्त्वात् सशरीरत्वम् । तथा च ‘तस्य तावदेव चिरम्’(छा.उ. ६.१४.२) इत्यादिश्रुतिः भोगेनेत्यादिसूत्रं च तदभिप्रायं प्रारब्धादेः अनात्मधर्मत्वात् निर्गुणब्रह्मविदः तदसम्भवात् ॥४४६॥
श्लोकोक्तमुपपादयति सुखादीति −
सुखाद्यनुभवो यावत् तावत् प्रारब्धमिष्यते ।
फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् ॥४४७॥
आदिपदेन दुःखपरिग्रहः । यावत्कालं सुखाद्यनुभवः तावत्कालं प्रारब्धमिष्यते । तत्र हेतुमाह, हि यस्मात् फलोदयः फलस्य सुखस्य दुःखस्य वा उदयः उद्भवः क्रियापूर्वः क्रिया पूर्वा यस्य सः कर्मजन्य इत्यर्थः । कुत्रचिदपि न निष्क्रियः क्रियां कर्म विना न सम्भवति निर्निमित्तकार्याभावात् । सुखदुःखयोः सदसत्कर्मैकनिमित्तकत्वात् अनात्मतादाम्याध्यासं विना अनात्माश्रितकर्मफलसम्बन्धाभावात् । तथा च बाह्यप्रत्ययवतः ध्यानशीलस्य कर्मायत्तः भोगः सम्भवतीत्युपपादितम् ॥४४७॥
पूर्वोक्तश्रुतिसूत्रयोः मन्दशङ्कासमाधानार्थत्वं विवक्षुः आदौ ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ’(ब्र.सू. ४.१.१३) इति सूत्रानुरोधेन (तदधिगमे ब्रह्माधिगमे उत्तराघस्य अश्लेषः पूर्वाघस्य विनाशः इति सूत्रार्थः) ‘क्षीयन्ते चास्य कर्माणि’(मु.उ २.२.७) इति श्रुत्या च प्रारब्धव्यतिरिक्तकर्माणि गृह्यन्ते इति भावेन ब्रह्मसाक्षात्कारस्य सञ्चितकर्मनाशकत्वमाह अहमिति −
अहं ब्रह्मेतिविज्ञानात् कल्पकोटिशतार्जितम् ।
सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥४४८॥
सञ्चितम् अनारब्धफलकं पूर्वं कर्म कल्पकोटिशतार्जितम् अकर्तृब्रह्माभेदसाक्षात्कारात् प्रबोधात् जागरात् स्वप्नकर्मवत् विलयं विनाशं याति प्राप्नोति ॥४४८॥
दृष्टान्तमुपपादयति यत्कृतमिति −
यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् ।
सुप्तोत्थितस्य किं तत्स्यात् स्वर्गाय नरकाय वा ॥४४९॥
स्पष्टोऽर्थः । एवमविद्यानिद्राकालकर्मभिः आत्मैकत्वदर्शनप्रबोधवतः नष्टाविद्यत्वेन च औपाधिकेनापि कर्तृत्वेन शून्यस्य न फलमारभ्यत इति भावः ॥४४९॥
सञ्चितकर्मणामनात्माध्यासनाशेन नाशमुक्त्वा आगामिनां कर्मणाम् अश्लेषमाह स्वमिति । पूर्वं कर्माश्रयानात्माध्यासात् कर्तृत्वज्ञानं स्वस्मिन्नासीत् । कर्तृत्वज्ञानकाले कृतान्यपि कर्माणि कर्तृत्वज्ञाननाशान्नष्टानि इदानीं तु अकर्तृब्रह्मात्मत्वबोधे आगामिकर्मसम्बन्ध एव नास्तीति तदश्लेष इत्युच्यते −
स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा ।
न श्लिष्यते यतिः किञ्चित्कदाचिद्भाविकर्मभिः ॥४५०॥
स्वं स्वात्मानम् असङ्गम् एकम् उदसीनम् अकर्तारं परिज्ञाय सम्यगनुभूय । यथा नभः गगनं जलानलानिलादभिः न श्लिष्यते तथा आत्मविद्यतिः कदाचिदपि किञ्चिदपि भाविकर्मभिः आत्मानुभवोत्तरकालिकैः कर्मभिः शरीरादौ भवद्भिरपि नश्लिष्यते । तत्र अभिमानरूपसङ्गाभावात् कर्मधर्मितादात्म्याध्यासे कर्माध्यासरूपश्लेषः तस्य मूलाज्ञाननाशेन नष्टत्वात् नानात्मधर्मश्लेषः ॥४५०॥
उक्तमर्थं नभसि दृष्टान्ते उपपादयन् दार्ष्टान्तिके योजयति न नभ इति −
न नभो घटयोगेन सुरागन्धेन लिप्यते ।
तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते ॥४५१॥
जगद्व्याप्य वर्तमानं नभः घटावच्छिन्नतया परिच्छिन्नमिव लक्ष्यमाणमपि निर्मलत्वात् अमूर्तत्वात् अवच्छेदकघटगतसुराया गन्धेन न लिप्यते । एवम् आविदेहकैवल्यम् अनुवर्तमानैरपि उपाधिभिः स्थूलसूक्ष्मशरीररूपैः योगेन मिथ्यासम्बन्धेन तद्धर्मैः स्थूलसूक्ष्मशरीरधर्मैः देवतावन्दनतारजपादिधर्मैः नैव लिप्यते ॥४५१॥
इदानीं ‘भोगेन त्वितरे क्षपयित्वा सम्पद्यते’(ब्र.सू. ४.१.१९) इति सूत्रार्थमाह ज्ञानोदयादिति −
ज्ञानोदयात्पुरारब्धं कर्म ज्ञानान्न नश्यति ।
अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥४५२॥
अहं ब्रह्मास्मीति साक्षात्कारोत्पत्तेः प्राक् आरब्धं फलदानाय प्रवृत्तं कर्म स्वफलं सुखदुःखान्यतररूपम् अदत्त्वा, लक्ष्यमुद्दिश्य उत्सृष्टबाणवत् , इदमुत्तरश्लोके स्फुटीक्रियते, ज्ञानात् अकर्त्रात्मसाक्षात्कारात् न नश्यति सञ्चितवत् ॥४५२॥
लक्ष्यमुद्दिश्येत्यादिदृष्टान्तं स्फुटयति व्याघ्रेति −
व्याघ्रबुध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ ।
न तिष्ठति च्छिनत्येव लक्ष्यं वेगेन निर्भरम् ॥४५३॥
‘दुष्टोऽयं व्याघ्रो हन्तव्यः’ इति बुद्ध्या विनिर्मुक्तः आकर्णान्तमाकृष्य त्यक्तः बाणः पश्चात् बाणत्यागानन्तरं तु गोमतौ पुरोव्यक्तिः गौरिति मतौ जातायामपि न तिष्ठति निवृत्तगतिर्न भवति । वेगेन निर्भरं नियतं सम्यक् लक्ष्यं पुरोवस्तु छिनत्येव हिनस्त्येव । एवं फलदानाय प्रवृत्तत्वात् ब्रह्मसाक्षात्कारोदयेऽपि स्वफलं दत्त्वैव क्षीयते इति । इतरे आरब्धफले पुण्यपापे भोगेन तत्फलानुभवेन क्षपयित्वा सम्पद्यते विदेहमुक्तो भवतीति सूत्रार्थः । एवं तस्य ज्ञानिनः तावदेव चिरं तावानेव विलम्बः यावन्नविमोक्ष्ये प्रारब्धकर्माधीनतया शरीरान्न विमोक्ष्यते, अथ शरीरपातानन्तरं सम्पत्स्ये सम्पत्स्यते विदेहमुक्तो भवति इति श्रुतेरर्थः ॥४५३॥
उक्तश्रुतिसूत्रार्थं सर्वं पूर्वार्धेन सङ्गृह्य परमार्थमाह उत्तरार्धेन प्रारब्धमिति −
प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः
सम्यग्ज्ञानहुताशनेन विलयः प्राक्सञ्चितागामिनां ।
ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः
तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥४५४॥
ज्ञानस्यैकरूपत्वेऽपि समाधिप्रकर्षेण ब्रह्मवित् , ब्रह्मविद्वरः, ब्रह्मविद्वरीयान् , ब्रह्मविद्वरिष्ठः इति सत्त्वापत्त्यसंसक्तिपदार्थाभावनातुर्यगेति भूमिकानुसारेण समुपजातब्रह्मसाक्षात्काराः व्यवह्रियन्ते । तत्र तुर्यगाख्यभूमिकां गतस्य ब्रह्मविद्वरिष्ठस्य केवलनिर्गुणब्रह्मरूपत्वात् परकृतप्रबोधोऽपि नास्तीति त्रिविधमपि कर्म नास्ति । ब्रह्मविद्वरीयसः परकृतप्रबोधे प्रपञ्चभानं तदा प्रारब्धं व्याप्रियेत यथा प्रह्लादस्य महाविष्णुपाञ्चजन्यरवश्रवणेन समाधेर्व्युत्थानम् । ब्रह्मविद्वरस्य स्थितप्रज्ञस्यापि कर्मवशात् स्वयं व्युत्थितस्य सुखदुःखादिभानं गीतासु स्पष्टं प्रतीयते ‘स्थितप्रज्ञस्य का भाषा’(भ.गी. २.५४) इत्यर्जुनप्रश्नस्योत्तरेण । ज्ञानपरिपाकार्थं स्वीकृतसंन्यासाः स्वोपदेशेन जनकादीनाम् उत्पादितब्रह्मसाक्षात्काराः याज्ञवल्क्यादयः ब्रह्मविदः । तादृशानां विदां ज्ञानिनां ज्ञानप्रारब्धयोर्मध्ये प्रारब्धं बलवत्तरम् , खलु प्रसिद्धम् । तस्य प्रारब्धकर्मणः भोगेन क्षयः नाशः । सम्यग्ज्ञानमेव हुताशनः अग्निः तेन प्राक्सञ्चितानां कर्मणां ज्ञानानन्तरकालिकानाम् आगामिनां विलयः क्रमेण विनाशाश्लेषौ । ब्रह्मात्मैक्यमवेक्ष्य साक्षात्कृत्य तन्मयतया स्वार्थे मयट् ब्रह्मरूपतयेत्यर्थः । ये सर्वदा संस्थिताः तुर्यगां भूमिमारूढाः तेषां तत् त्रितयं त्रिविधमपि कर्म नहि क्वचिदपि कदाचिदपीत्यर्थः । ते निर्गुणं ब्रह्मैव । ततः सत्त्वादिगुणकार्याणां नैव प्रसक्तिरिति भावः ॥४५४॥
तत्स्फुटयति उपाधीति −
उपाधितादात्म्यविहीनकेवल-
ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः ।
प्रारब्धसद्भावकथा न युक्ता
स्वप्नार्थसम्बन्धकथेव जाग्रतः ॥४५५॥
अज्ञानदशायामाध्यासिकमुपाधितादात्म्यं जीवस्य आसीत् । इदानीं तु श्रुत्याचार्यप्रसादेन समुपजातपरापरैकत्वविवेकप्रकर्षेण उपाधिभिः अहङ्कारादिभिः यत्तादात्म्यं तद्विहीनं यत् केवलं ब्रह्मत्रिविधपरिच्छेदशून्यं निर्विकल्पं निष्प्रपञ्चं ब्रह्म तत्तादात्म्येनैव आत्मनि तिष्ठतः ‘स भगवः कस्मिन्प्रतिष्ठित इति, स्वे महिम्नि’(छा.उ. ७.२४.१) इति श्रुतेः । पूर्वमुपाधिषु स्थितिरासीत् तदिदानीं नास्तीत्यावेदयितुम् आत्मनि तिष्ठत इति कथितम् । स्वस्थस्य मुनेः प्रारब्धसद्भावकथा न युक्ता तत्र दृष्टान्तः जाग्रतः प्रबुद्धस्य स्वप्नार्थसम्बन्धकथेवेति ॥४५५॥
तत्स्फुटयति नेति −
न हि प्रबुद्धः प्रतिभासदेहे
देहोपयोगिन्यपि च प्रपञ्चे ।
करोत्यहन्तां ममतामिदन्तां
किन्तु स्वयं तिष्ठति जागरेण ॥४५६॥
प्रबुद्धुः स्वप्नादुत्थितः पुरुषः प्रतिभासदेहे स्वप्नकाले भातदेहे, देहोपयोगिनि प्रपञ्चेऽपि क्रमेण अहन्तां ममताम् इदन्तां च न करोति । हि निश्चयः किन्तु स्वयं जागरेण तिष्ठति । न हि स्वप्ने पश्वादिरूपतां स्वस्य दृष्ट्वा जाग्रत् सः तृणादिकं भक्षयति स्वकीयनियमं वा त्यजति ॥४५६॥
न तस्य मिथ्यार्थसमर्थनेच्छा
न सङ्ग्रहस्तज्जगतोऽपि दृष्टः ।
तत्रानुवृत्तिर्यदि चेन्मृषार्थे
न निद्रया मुक्त इतीष्यते ध्रुवम् ॥४५७॥
तस्य मिथ्यार्थसमर्थनेच्छा स्वप्नभातदेहादिपदार्थसमर्थनेच्छा नास्ति । तत्काले भातजगत् तज्जगत् स्वाप्निकं जगदित्यर्थः । तस्य सङ्ग्रहः स्वीकारः न दृष्टः । यदि तत्र मृषार्थे देहजगदादिरूपे अनुवृत्तिः मनसः जाग्रत्कालिकवस्तुनीव, न निद्रया मुक्त इति ध्रुवमिष्यते ॥४५७॥
तद्वत्परे ब्रह्मणि वर्तमानः
सदात्मना तिष्ठति नान्यदीक्षते ।
स्मृतिर्यथा स्वप्नविलोकितार्थे
तथाविदः प्राशनमोचनादौ ॥४५८॥
तद्वत् सुप्तप्रबुद्धवत् परे ब्रह्मणि वर्तमानः संस्थापितमनाः पुमान् सदात्मना अबाध्यासङ्गचिद्रूपेण तिष्ठति । अन्यत् नेक्षते अन्यस्यासत्वात् ‘यत्र नान्यत्पश्यति’(बृ.उ. ७.२४.१) इत्यादिश्रुतेः, यत्र त्वस्य ‘सर्वामात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुतेश्च । ब्रह्मविदोऽपि अन्नादानविसर्गादिकं कुर्वन्तीति मन्दशङ्कायामुत्तरमाह स्मृतिरिति । प्रबुद्धश्च स्वप्नविलोकितार्थे यथा स्मृतिः न तत्र सत्यत्वबुद्धिः तथाविदः ज्ञानिनः प्राशनमोचनादौ, ‘नाप्रतीतिस्तयोर्बाधः किन्तु मिथ्यात्वनिश्चयः’(६.१३) इति पञ्चदश्याम् । स्वप्ने स्वात्मानं व्याघ्रं मन्वानोऽपि प्रबुद्धः न तत्सत्यत्वं मनुते किन्तु स्मृतिः स्यात् तथा पूर्वं प्राशनमोचनादिकर्तृशरीरमहन्तया अमन्यत इदानीं स्ववास्तविकस्वरूपं दृष्टवतः अहन्तां विना प्राशनादिकर्तृशरीरं प्रतीयेत पृथक्तया, व्युत्थानेऽपीति भावः ॥४५८॥
आत्मनः प्रारब्धं कर्म नास्तीत्यंशं युक्त्या समर्थयति कर्मणेति −
कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् ।
नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥४५९॥
अजो नित्य इति ब्रूते श्रुतिरेषा त्वमोघवाक् ।
तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥४६०॥
आत्मनोऽनादित्वे प्रमाणमाह । अजो नित्य इति । ‘अजो नित्यः शाश्वतोयं पुराणो न हन्यते हन्यमाने शरीरे’(२.१८) इत्यादिकठश्रुतिः । अमोघवाक् अमोघा अबाधितार्थका वाक् यस्याः, घटकत्वं षष्ठ्यर्थः । तदात्मना स्ववास्तविकस्वरूपेण तिष्ठतोऽस्य ज्ञानिनः प्रारब्धकल्पना कुतः ? देहात्मना स्थितौ प्रारब्धाश्रयदेहतादात्म्याध्यासेन तद्धर्मप्रारब्धाध्यासोऽपि स्यात् , न ज्ञानिनि सा कथा ॥४६०॥
तत्स्पष्टयति प्रारब्धमिति −
प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः ।
देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ।
शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि ॥४६१॥
यदा देहात्मना स्थितिः तदा देहधर्मप्रारब्धं कल्पनया वा आत्मनः सिद्ध्यति । देहात्मभावः नैवेष्टः अध्यासमूलाज्ञानस्य नष्टत्वात् । अतः प्रारब्धं त्यज्यताम् आत्मनि प्रारब्धप्रसङ्गः न कार्य इति भावः । विचार्यमाणे शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि निश्चयः ॥४६१॥
तदुपपादयति अध्यस्तस्येति −
अध्यस्तस्य कुतस्सत्त्वम् असत्त्वस्य कुतो जनिः ।
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥४६२॥
असत्त्वस्य न विद्यते सत्त्वं यस्य तत् असत्त्वं तस्य असतः इत्यर्थः । जनिः उत्पत्तिः कुतः ? नास्तीत्यर्थः । अजातस्य नाशः कुतः ? सोऽपि न । उत्पत्त्यर्थं प्रारब्धस्वीकारः, नो चेत् लोकसिद्धं देवतिर्यङ्मनुष्यादिवैषम्यं दुरुपपादमिति, ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं यदा अवसितं तदा शुक्तिरजतादिवत् केवलाज्ञानतः प्रतिभासमानस्य न कर्मनिमित्तकत्वम् । ‘स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतं’(क.उ. ५.७) इत्यादिश्रुतिरपि व्यवहारदृष्ट्या वदतीति भावः ॥४६२॥
इदानीं ‘तस्य तावदेव चिरं यावन्नविमोक्ष्ये अथ सम्पत्स्ये’(छा.उ. ६.१४.२) इति श्रुतितात्पर्यमाह ज्ञानेति −
ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ।
तिष्ठत्ययं कथं देह इतिशङ्कावतो जडान् ।
समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ॥४६३॥
अज्ञानकार्यस्य वियदादिप्रपञ्चस्य अहङ्कारादिदेहान्तस्य च बाह्याध्यात्मिकस्य समूलस्य मूलमज्ञानं तेन सहितस्य, ज्ञानेन ब्रह्मसाक्षात्कारेण यदि लयः बाधः, अयं देहः पाञ्चभौतिकः कथं तिष्ठति इति शङ्का एषामस्तीति शङ्कावन्तः तान् शङ्कावतः जडान् प्राकृतान् मन्दान् समाधातुं बाह्यदृष्ट्या व्यवहाररीत्या प्रारब्धं श्रुतिर्वदति ‘यावन्न विमोक्ष्ये’(छा.उ. ६.१४.२) इत्यादिना ॥४६३॥
कर्मजन्यं शरीरादि न शुक्तिरजतादिवत् प्रातीतिकं किन्तु सत्यमिति वक्तुमिति कदापि न भ्रमितव्यमित्याह न त्विति −
न तु देहादिसत्यत्वबोधनाय विपश्चिताम् ।
यतः श्रुतेरभिप्रायः परमार्थैकगोचरः ॥४६४॥
विपश्चितां ज्ञानिनां यद्देहादि तस्य सत्यत्वबोधनाय प्रारब्धं न तु वक्ति । विपश्चितामित्यस्य बोधनायेत्यनेन वा सम्बन्धः । ज्ञानेन तेजसा तिमिरस्येव जगदुपादानभूताज्ञानस्य नाशेऽपि देहः प्रारब्धनाशे नश्यति तावान्विलम्ब इत्युक्त्या तस्य आज्ञानिकत्वं नास्ति । किन्तु कर्मजन्यतया सत्यत्वमिति प्रतीयेत, न त्वेवम् , तार्किकादिमते तन्तूपादानकस्य पटस्य तन्तुनाशक्षणे निरुपादानकतया स्थितिवत् −
उपादाने विनष्टेऽपि क्षणं कार्यं प्रतीक्षते ।
इत्याहुस्तार्किकास्तद्वदस्माकं किं न सम्भवेत् ॥ (पं.द. ६.५४)
तन्तूनां दिनसङ्ख्यानां तैस्तादृक् क्षण ईरितः ।
भ्रमस्यासङ्ख्यकल्पस्य योग्यः क्षण इहेष्यताम् ॥ (पं.द. ६.५५)
इति चित्रदीपोक्तरीत्या अनादिकालप्रवृत्ताज्ञानोपादानकस्यापि देहादेः अज्ञाननाशानन्तरं कञ्चित्कालं स्थितेर्वक्तुं शक्यत्वात् । विजिगीषुकथायामेतदृशसमाधानम् ,
न निरोधो न चोत्पत्तिः न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ (गौ.का.वैतथ्य. ३३)
इति श्रुत्यनुसारेण ब्रह्ममात्रस्य परमार्थत्वात् ।
‘ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि । तिष्ठत्ययं कथं देहः’(श्लो. ४६३) इति जडानां शङ्कासमाधानार्थं श्रुतिः प्रारब्धं वक्तीति वस्तुस्थितिः । यतः श्रुतेरभिप्रायः परमार्थैकगोचरः प्रमाणान्तरानधिगतप्रयोजनवदबाधितार्थविषयक इत्यर्थः । न हि ज्ञानिनाम् अज्ञाननाशानन्तरमपि कर्मसमाप्तिपर्यन्तं शरीरं तिष्ठतीति प्रतिपादनेन किञ्चित्फलमस्तीति तस्य तावदेवेति श्रुतिः मन्दशङ्कासमाधानार्थमेवेति भावः ॥४६४॥
इदानीं श्रुतितात्पर्यविषय़ं परमार्थं सप्तभिः श्लोकैः सङ्गृह्णाति परिपूर्णमित्यादिभिः −
३३. ब्रह्मणि नानात्वनिषेधः
परिपूर्णमनाद्यन्तम् अप्रमेयमविक्रियम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६५॥
परिपूर्णं देशपरिच्छेदशून्यम् , अनाद्यन्तम् उत्पत्तिनाशविधुरम् , अप्रमेयं फलव्याप्तिशून्यम् , अविक्रियम् अपरिणामि, एकं स्वगतभेदरहितम् , एव सजातीयभेदरहितम् , अद्वयं विजातीयभेदरहितम् , इह ब्रह्मणि, किञ्चन किञ्चिदपि, नाना नानात्वं भेद इत्यर्थः नास्तीति श्रुतिःसकलविधभेदशून्यं ब्रह्म ब्रूते ।
मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन ।
मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥ (४.४.१९)
इति बृहदारण्यकश्रुतिः । एकमेवाद्वितीयमिति छान्दोग्यश्रुतिः अर्थत उक्ता एकमेवाद्वयमिति ॥४६५॥
श्रौतशब्दैः श्रुत्यर्थानुसारिस्वशब्दैश्च परमार्थतत्वं ब्रूते −
सद्घनं चिद्घनं नित्यमानन्दघनमक्रियम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६६॥
घनः मूर्तिः, सच्छरीरं, चिच्छरीरं, नित्यम् आनन्दशरीरं, सच्चिदानन्दस्वरूपमित्यर्थः । अक्रियं सृष्ट्यादिक्रियाशून्यम् ॥४६६॥
प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६७॥
सर्वात्मभूतं व्यापि, नाशरहितम् , सर्वात्मभूतत्वादेव सर्वतोमुखं ‘त्वं जातो भवसि विश्वतोमुखः’(श्वे.उ. ४.३) इति श्रुतेः ॥४६७॥
अहेयमनुपादेयम् अनाधेयमनाश्रयम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६८॥
स्वात्मत्वादहेयम् अनुपादेयं च, निष्प्रपञ्चत्वादनाधेयं न विद्यते आधेयं यस्य । अनाश्रयं न आश्रयो यस्य निराधारम् , अहेयं निर्दोषम् अनुपादेयं निर्गुणमिति वा अर्थः ॥४६८॥
निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६९॥
अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४७०॥
यत् मनोवाचामगोचरं, तत् तस्मात् अनिरूप्यस्वरूपं केवलानुभवैकवेद्यमित्यर्थः । ‘वाचा वक्तुमशक्यमेव मनसा मन्तुम्’(श्लो. ४८३) इति वक्ष्यते शिष्योक्तिमुखेन ॥४७०॥
सत्समृद्धं स्वतस्सिद्धं शुद्धं बुद्धमनीदृशम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४७१॥
सत् अबाध्यं, समृद्धम् अखण्डानन्दरूपं, स्वतस्सिद्धं सर्वप्रमाणप्रवृत्तिहेतुत्वात् । शुद्धं दोषास्पृष्टं, बुद्धं ज्ञानरूपम् , अनीदृशम् इदमिव दृश्यत इति ईदृशं न ईदृशं निरुपमं, बुद्धौ धारया सूक्ष्मतमार्थं ग्राहयितुम् एवं श्रौतार्थस्य कथनीयत्वात् ईदृशस्थलेषु पौनरुक्त्याशङ्का नैव कार्या ॥४७१॥
३४. आत्मयोगः कर्तव्यः
निरस्तरागा निरपास्तभोगाः
शान्ताः सुदान्ता यतयो महान्तः ।
विज्ञाय तत्त्वं परमेतदन्ते
प्राप्ताः परां निर्वृतिमात्मयोगात् ॥४७२॥
निरस्तः रागः यैस्ते निरस्तरागाः दूरीकृतविषयेच्छाः, निरपास्तभोगाः अत एव निरपास्तः भोगः यैस्ते नितरां त्यक्तभोगाः । यदृच्छालाभसन्तुष्टाः रागसत्त्वे हि भोगः । उक्तं हि पूर्वम् ‘अन्यावेदितभोग्यभोगकलनो निद्रालुवद् बालवत्’(श्लो. ४२६) इति । यद्वा शीतोष्णादिद्वन्द्वसहिष्णव इति तत्पदस्यार्थः । शान्ताः ब्रह्मणि स्थापितमनसः, सुदान्ताः निगृहीतबहिरिन्द्रियाः, यतयः प्रयत्नशीलाः । महान्तः बहिरिन्द्रियद्वारा निर्गतस्य मनसः परिच्छिन्न विषयाकारेण परिणामे तदुपहितः जीवोऽप्यल्पो भवति न शान्तानां दान्तानां च तथात्वमिति । निरन्तरमन्तर्मुखमनसां महत्त्वं सहजमेव । तादृशाः पुरुषधौरेयाः एतत् ‘परिपूर्णमनाद्यन्तम्’(श्लो. ४६५) इत्यादिना सङ्कीर्तितं परं तत्त्वं सर्वोत्कृष्टं ब्रह्म विज्ञाय, आत्मनि योगः आत्मयोगः निर्विकल्पकसमाधिः तस्माद्धेतोः परां निर्वृतिं नित्यनिरतिशयानन्दरूपां मुक्तिम् अन्ते ज्ञानप्राप्त्यनन्तरं, प्राप्ताः अवापुः । अन्ते प्रारब्धकर्मणो वा अन्ते देहपात इति यावत् । परां निर्वृतिं विदेहकैवल्यं प्राप्ताः, तदा आत्मयोगाद्विज्ञाय इति सम्बन्धः ॥४७२॥
‘माभैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः । येनैव याताः यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि’(श्लो. ४५) इति यदुक्तं तत्समापयति भवानपीत्यादिना −
भवानपीदं परतत्त्वमात्मनः
स्वरूपमानन्दघनं निचाय्य ।
विधूय मोहं स्वमनःप्रकल्पितं
मुक्तः कृतार्थो भवतु प्रबुद्धः ॥४७३॥
भवानपि आत्मनः भवतः स्वरूपम् आनन्दघनम् इदं परतत्त्वं ब्रह्म निचाय्य साक्षात्कृत्य स्वमनःप्रकल्पितं मोहम् अनात्मस्वात्मभ्रमं विधूय समूलं विनाश्य प्रबुद्धः अविद्यानिद्रारहितः मुक्तः अध्यासरूपबन्धान्मुक्तः कृतार्थो भवतु इत्याशीरूपोपदेशः ॥४७३॥
समाधिना साधु सुनिश्चलात्मना
पश्यात्मतत्त्वं स्फुटबोधचक्षुषा ।
निस्संशयं सम्यगवेक्षितश्चेत्
श्रुतः पदार्थो न पुनर्विकल्पते ॥४७४॥
सुष्ठु निश्चलः आत्मा अन्तःकरणं यस्मिन् तेन समाधिना निर्विकल्पकेन स्फुटं यद्बोधरूपं चक्षुः −
निर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् ।
नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् ॥ (श्लो. ३६६)
इत्युक्तम् । तेन बोधचक्षुषा रूपं यथा बाह्यचक्षुषा तथा साधु असन्दिग्धाविपर्यासम् , आत्मतत्त्वं पश्य साक्षात्कुरु । श्रुतः आप्तमुखेन श्रुतः पदार्थः निस्संशयं क्रियाविशेषणं संशयाविषयः सन् सम्यगविपर्यस्तः अवेक्षितश्चेत् अनुभवगोचरतामापादितश्चेत् पुनर्न विकल्पते नान्यथा भातीत्यर्थः ॥४७४॥
स्वस्याविद्याबन्धसम्बन्धमोक्षात्
सत्यज्ञानानन्दरूपात्मलब्धौ ।
शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं
चान्तस्सिद्धा स्वानुभूतिः प्रमाणम् ॥४७५॥
स्वस्य आत्मनः अविद्याबन्धसम्बन्धमोक्षात् अविद्यया ये बन्धाः अहङ्कारादिदेहान्ताः तैः यः सम्बन्धः आध्यासिकतादात्म्यं तस्मान्मोक्षः स्वस्वरूपावबोधेन वियोगः, तस्मात् सत्यज्ञानानन्दरूपात्मलब्धौ सत्यज्ञानानन्दरूपः यः आत्मा स्वस्वरूपं तस्य लब्धौ प्राप्तौ विषये शास्त्रम् ‘अस्य महिमानमिति वीतशोकः’(मु.उ ३.१.२) ‘ब्रह्मविदाप्नोति परं’(तै.उ. २.१) इत्यादि, युक्तिः कण्ठचामीकरन्यायः, देशिकोक्तिः −
तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः ।
ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥ (श्लो. २८४)
इत्यादिः प्रमाणम् अन्तः सिद्धा शास्त्रयुक्तिगुरूक्त्यनुरूपा स्वानुभूतिश्च प्रमाणम् ॥४७५॥
उक्तार्थे दृष्टान्तार्थमनुभवप्रमाणकानन्यानप्याह बन्ध इति −
बन्धो मोक्षश्च तृप्तिश्च चिन्तारोग्यक्षुधादयः ।
स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ॥४७६॥
अविद्या तदस्तमयः अलम्बुद्धिः चिन्ता आरोग्यं क्षुत् , पिपासा रोगः कुक्षिशूलादिः आदिपदार्थः । स्वेनैव वेद्याः साक्षादनुभवगम्याः यत् यस्मात् परेषां ज्ञानम् आनुमानिकं परोक्षं हेतोर्दुष्टत्वे भ्रमात्मकं च स्यादिति भावः ॥४७६॥
तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा ।
प्रज्ञयैव तरेद्विद्वान् ईश्वरानुगृहीतया ॥४७७॥
यथा नद्यां नावि गच्छन्तम् एवमेवं क्षेपणीं क्षिपेति तटस्थितः बोधयति स्वयं क्षेपणाकुशलं तथा गुरवोऽपि तथा श्रुतयः उपनिषदः तटस्थिताः परोक्षज्ञानजनकाः तथा मार्गं दर्शयन्ति । विद्वान् ईश्वरानुगृहीतया प्रज्ञयैव ‘ब्रह्मात्मनोश्शोधितयोः’(श्लो. ४२७) इति लक्षितया चिन्मात्रवृत्त्यैव तरेत् संसारवारिधिमिति शेषः ॥४७७॥
स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् ।
संसिद्धः सुसुखं तिष्ठेत् निर्विकल्पात्मनात्मनि ॥४७८॥
स्वमात्मानमखण्डितं स्वयं स्वानुभूत्या ज्ञात्वा, संसिद्धः आत्मनि निर्विकल्पात्मना सुसुखं तिष्ठेत् इत्यन्वयः । स्पष्टोऽर्थः ॥४७८॥
वेदान्तसिद्धान्तनिरुक्तिरेषा
ब्रह्मैव जीवः सकलं जगच्च ।
अखण्डरूपस्थितिरेव मोक्षः
ब्रह्माद्वितीयं श्रुतयः प्रमाणम् ॥४७९॥
वेदान्तैः सिद्धः यः अन्तः निर्णयः तस्य निरुक्तिः तज्जनकसङ्कुचितशब्दः एषा, जीवः ब्रह्मैव सकलं जगच्च ब्रह्मैव, मोक्षः अखण्डरूपस्थितिरेव ब्रह्मस्वरूपेणावस्थानमित्यर्थः । ब्रह्माद्वितीयं, तत्र प्रमाणं श्रुतयः । श्रुतीनां बहुत्वेऽपि सर्वाभिरपि जनिष्यमाणप्रमायाः एकत्वात् प्रमाणमित्येकवचनम् । वेदान्तानां यः सिद्धान्तः निर्णीतार्थः, सिद्धान्तशब्दस्य तत्तच्छास्त्रसिद्धार्थरूपतया परैर्व्याकृतत्वात् तस्य निरुक्तिः निर्णयजनकसङ्कुचितशब्दः निर्वचनमिति वार्थः । ‘तत्त्वमसि’, (छा.उ. ६.८.७) ‘सर्वं खल्विदं ब्रह्म’, (छा.उ. ३.१४.१) ‘ब्रह्मैवेदं विश्वम्’, (छा.उ. २.२.१२) ‘एकमेवाद्वितीयम्’(छा.उ. ६.२.१) इत्यादिश्रुतयः ॥४७९॥
इति गुरुवचनात् श्रुतिप्रमाणात्
परमवगम्य सतत्त्वमात्मयुक्त्या ।
प्रशमितकरणः समाहितात्मा
क्वचिदचलाकृतिरात्मनिष्ठितोऽभूत् ॥४८०॥
इति पूर्वं विस्तरसङ्ग्रहरूपेण कथितात् गुरुवचनात् श्रुतिप्रमाणात् श्रुतयः प्रमाणानि यस्य गुरुवचनस्य तत् श्रुतिप्रमाणं तस्मात् ।
शास्त्रं युक्तिः देशिकोक्तिः प्रमाणं
चान्तःसिद्धा स्वानुभूतिः प्रमाणम् । (श्लो. ४७५)
इत्यत्र शास्त्रस्य पृथक्कीर्तनात् श्रुतिरूपप्रमाणादिति वा अर्थः । आत्मयुक्त्या श्रुत्याचार्योपदिष्टार्थमननेनेत्यर्थः । परं सतत्त्वं परं ब्रह्म परमार्थतत्त्वम् अवगम्य प्रशमितकरणः प्रकर्षेण शमितानि करणानि चक्षुरादीनि बाह्यानि येन । यद्वा आत्मयुक्त्या, युक्तिः योगः वृत्तिनिरोध आत्मनः मनसः वृत्तिनिरोधेन करणानि बाह्यानि प्रकर्षेण शमितानि इति सुवचम् । सम्यगाहितः ब्रह्मणि स्थापितः आत्मा अन्तःकरणं येन यस्येति वा, मनोवृत्तिनिरोधेन चक्षुराद्युपशमेऽपि नात्मनिष्ठा अत उक्तं समाहितात्मेति । क्वचिदेकान्तप्रदेशे अचलाकृतिः पर्वतवदप्रकम्प्यः, आत्मनिष्ठितः ब्रह्मनिष्ठः अभूत् । आत्मनि स्थितः आत्मनिष्ठितः, जातात्मनिष्ठ इति वा ॥४८०॥