देवतान्तरध्यानत्यागम् अपिशब्दसूचितं दर्शयति -
अन्याम् इति ।
अन्ये - ब्रह्मनिष्ठा इति यावत् ।
ज्ञानयज्ञमेव विभजते -
तच्चेति ।
उत्तमाधिकारिणाम् उपासनम् उक्त्वा, मध्यमानाम् अधिकारिणाम् उपासनप्रकारम् आह -
केचिच्चेति ।
तेषामेवाहं यज्ञः स्मार्तः किंच स्वधाहं पित्ुभ्यो यद्दीयते तत्स्वधा । तथाहमोउषधं सर्वप्र्राणिभिर्यदद्यते । प्रकारान्तरेण उपासनम् उदीरयति -
केचिदिति ।
बहुप्रकारेण अग्नयादित्यादिरूपेण, इति यावत्
॥ १५ ॥